जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं पशवो ऽस्माकं प्रजा अस्माकं वीरा अस्माकम् । तस्माद् अमुं निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् असौ यः । सो ऽह्नोः संयतोः पाशान् मा मोचि ॥२२॥
jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam | tasmād amuṃ nir bhajāmo 'mum āmuṣyāyaṇam amuṣyāḥ putram asau yaḥ | so 'hnoḥ saṃyatoḥ pāśān mā moci ||22||
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.