Library·Atharvavedaparisistas·49·49.4

Atharvavedaparisistas 49.4

तत्र ब्रह्मवेदस्य नव भेदा भवन्ति । तद् यथा । पैप्पलादाः । स्तौदाः । मौदाः । शौनकीयाः । जाजलाः । जलदाः । ब्रह्मवदाः । देवदर्शाः । चारणवैद्याश् चेति ।

tatra brahmavedasya nava bhedā bhavanti | tad yathā | paippalādāḥ | staudāḥ | maudāḥ | śaunakīyāḥ | jājalāḥ | jaladāḥ | brahmavadāḥ | devadarśāḥ | cāraṇavaidyāś ceti |

Sanskrit only: no published translation is held for this verse.

तेषाम् अध्ययनम् । ऋचां द्वादश सहस्राण्य् अशीतिस् त्रिशतानि च । पर्यायिकं द्विसहस्राण्य् अन्यांस् चैवार्चिकान् बहून् इत्य्

teṣām adhyayanam | ṛcāṃ dvādaśa sahasrāṇy aśītis triśatāni ca | paryāyikaṃ dvisahasrāṇy anyāṃs caivārcikān bahūn ity

Sanskrit only: no published translation is held for this verse.

एतद्ग्राम्यारण्यकानि षट् सहस्राणि भवन्ति ॥

etadgrāmyāraṇyakāni ṣaṭ sahasrāṇi bhavanti ||

Sanskrit only: no published translation is held for this verse.

तत्र ब्रह्मवेदस्याष्टाविंशतिर् उपनिषदो भवन्ति । मुण्डका प्रश्नका ब्रह्मविद्या क्षुरिका चूलिका अथर्वशिरो अथर्वशिखा गर्भोपनिषन् महोपनिषद् ब्रह्मोपनिषत् प्राणाग्निहोत्रं माण्डुक्यं नादबिन्दु ब्रह्मबिन्दु अमृतबिन्दु ध्यानबिन्दु तेजोबिन्दु योगशिखा योगतत्त्वं नीलरुद्रः पञ्चतापिनी एकदण्डी संन्यासविधिः अरुणिः हंसः परमहंसः नारायणोपनिषद् वैतथ्यं चेति ॥

tatra brahmavedasyāṣṭāviṃśatir upaniṣado bhavanti | muṇḍakā praśnakā brahmavidyā kṣurikā cūlikā atharvaśiro atharvaśikhā garbhopaniṣan mahopaniṣad brahmopaniṣat prāṇāgnihotraṃ māṇḍukyaṃ nādabindu brahmabindu amṛtabindu dhyānabindu tejobindu yogaśikhā yogatattvaṃ nīlarudraḥ pañcatāpinī ekadaṇḍī saṃnyāsavidhiḥ aruṇiḥ haṃsaḥ paramahaṃsaḥ nārāyaṇopaniṣad vaitathyaṃ ceti ||

Sanskrit only: no published translation is held for this verse.

तत्र गोपथः शतप्रपाठकं ब्राह्मणम् आसीत् तस्यावशिष्टे द्वे ब्राह्मणे पूर्वम् उत्तरं चेति ॥

tatra gopathaḥ śataprapāṭhakaṃ brāhmaṇam āsīt tasyāvaśiṣṭe dve brāhmaṇe pūrvam uttaraṃ ceti ||

Sanskrit only: no published translation is held for this verse.

तत्र षड् अङ्गान्य् अधीत्य षडङ्गविद् भवति षड् अङ्गानि भवन्ति, शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम् इति ॥

tatra ṣaḍ aṅgāny adhītya ṣaḍaṅgavid bhavati ṣaḍ aṅgāni bhavanti, śikṣā kalpo vyākaraṇaṃ niruktaṃ chando jyotiṣam iti ||

Sanskrit only: no published translation is held for this verse.

पक्च कल्पा भवन्ति । नक्षत्रकल्पो वैतानकल्पस् तृतीयः संहिताविधिः । चतुर्थ आङ्गिरसः कल्पः शान्तिकल्पस् तु पञ्चमः ॥

paKca kalpā bhavanti | nakṣatrakalpo vaitānakalpas tṛtīyaḥ saṃhitāvidhiḥ | caturtha āṅgirasaḥ kalpaḥ śāntikalpas tu pañcamaḥ ||

Sanskrit only: no published translation is held for this verse.

लक्षणग्रन्था भवन्ति । चतुराध्यायिका प्रातिशाख्यं पञ्चपटलिका दन्त्योष्ठविधिर् बृहत्सर्वानुक्रमणी चेति ॥

lakṣaṇagranthā bhavanti | caturādhyāyikā prātiśākhyaṃ pañcapaṭalikā dantyoṣṭhavidhir bṛhatsarvānukramaṇī ceti ||

Sanskrit only: no published translation is held for this verse.

तत्र द्वासप्ततिः परिशिष्टानि भवन्ति कौशिकोक्तानि । कृत्तिकारोहिणी । राष्ट्रसंवर्गः । राजप्रथमाभिषेकः । पुरोहितकर्माणि । पुष्याभिषेकः । पिष्टरात्र्याः कल्पः । आरात्रिकम् । घृतावेक्षणम् । तिलधेनुः । भूमिदानम् । तुलापुरुषः । आदित्यमण्डकः । हिरण्यगर्भः । हस्तिरथः । अश्वरथः । गोसहस्रदानम् । हस्तिदीक्षा । अश्वदीक्षा । वृषोत्सर्गः । इन्द्रोत्सवः । ब्रह्मयागः । स्कन्दयागाः । संभारलक्षणम् । अरणिलक्षणम् । यज्ञपात्रलक्षणम् । वेदिलक्षणम् । कुण्डलक्षणम् । समिल्लक्षणम् । स्रुवलक्षणम् । हस्तलक्षणम् । ज्वालालक्षणम् । लक्षहोमः । काङ्कायनोक्तो बृहल्लक्षहोमः । कोटिहोमः । गणमाला । घृतकम्बलम् । अनुलोमकल्पः । आसुरीकल्पः । उच्छुष्मकल्पः । समुच्चयप्रायश्चित्तानि । ब्रह्मकूर्चविधिः । पैठीनसितडागविधिः । पाशुपतव्रतविधिः । संध्योपासनविधिः । स्नानविधिः । तर्पणविधिः । श्राद्धविधिः । अग्निहोत्रविधिः । उत्तमपटलम् । वर्णपटलम् । निघण्तुः । चरणव्यूहः । चन्द्रप्रातिपदिकम् । ग्रहयुद्धम् । ग्रहसंग्रहः । राहुचारः । केतुचारः । ऋतुकेतुलक्षणम् । कूर्मविभागः । मण्डलानि । दिग्दाहलक्षणम् । उल्कालक्षणम् । विद्युल्लक्षणम् । निर्घातलक्षणम् । परिवेषलक्षणम् । भूमिकम्पलक्षणम् । नक्षत्रग्रहोत्पातलक्षणम् । उत्पातलक्षणम् । सद्योवृष्टिलक्षणम् । गोशान्तिः । अद्भुतशान्तिः । स्वप्नाध्यायः । अथर्वहृदयम् । भार्गवीयगार्ग्यबार्हस्पत्योशनसाद्भुतानि । महाद्भुतानि बृहत्सर्वानुक्रमणी चेति ॥

tatra dvāsaptatiḥ pariśiṣṭāni bhavanti kauśikoktāni | kṛttikārohiṇī | rāṣṭrasaṃvargaḥ | rājaprathamābhiṣekaḥ | purohitakarmāṇi | puṣyābhiṣekaḥ | piṣṭarātryāḥ kalpaḥ | ārātrikam | ghṛtāvekṣaṇam | tiladhenuḥ | bhūmidānam | tulāpuruṣaḥ | ādityamaṇḍakaḥ | hiraṇyagarbhaḥ | hastirathaḥ | aśvarathaḥ | gosahasradānam | hastidīkṣā | aśvadīkṣā | vṛṣotsargaḥ | indrotsavaḥ | brahmayāgaḥ | skandayāgāḥ | saṃbhāralakṣaṇam | araṇilakṣaṇam | yajñapātralakṣaṇam | vedilakṣaṇam | kuṇḍalakṣaṇam | samillakṣaṇam | sruvalakṣaṇam | hastalakṣaṇam | jvālālakṣaṇam | lakṣahomaḥ | kāṅkāyanokto bṛhallakṣahomaḥ | koṭihomaḥ | gaṇamālā | ghṛtakambalam | anulomakalpaḥ | āsurīkalpaḥ | ucchuṣmakalpaḥ | samuccayaprāyaścittāni | brahmakūrcavidhiḥ | paiṭhīnasitaḍāgavidhiḥ | pāśupatavratavidhiḥ | saṃdhyopāsanavidhiḥ | snānavidhiḥ | tarpaṇavidhiḥ | śrāddhavidhiḥ | agnihotravidhiḥ | uttamapaṭalam | varṇapaṭalam | nighaṇtuḥ | caraṇavyūhaḥ | candraprātipadikam | grahayuddham | grahasaṃgrahaḥ | rāhucāraḥ | ketucāraḥ | ṛtuketulakṣaṇam | kūrmavibhāgaḥ | maṇḍalāni | digdāhalakṣaṇam | ulkālakṣaṇam | vidyullakṣaṇam | nirghātalakṣaṇam | pariveṣalakṣaṇam | bhūmikampalakṣaṇam | nakṣatragrahotpātalakṣaṇam | utpātalakṣaṇam | sadyovṛṣṭilakṣaṇam | gośāntiḥ | adbhutaśāntiḥ | svapnādhyāyaḥ | atharvahṛdayam | bhārgavīyagārgyabārhaspatyośanasādbhutāni | mahādbhutāni bṛhatsarvānukramaṇī ceti ||

Sanskrit only: no published translation is held for this verse.

तत्र पञ्चदशोपनिषदो भवन्ति । मुण्डका । प्रश्नका । ब्रह्मविद्या । क्षुरिका । चूलिका । अथर्वशिरः । अथर्वशिखा । गर्भोपनिषत् । महोपनिषत् । ब्रह्मोपनिषत् । प्राणाग्निहोत्रम् । माण्डूक्यम् । वैतथ्यम् । अद्वैतम् । अलातशान्तिश् चेति ॥

tatra pañcadaśopaniṣado bhavanti | muṇḍakā | praśnakā | brahmavidyā | kṣurikā | cūlikā | atharvaśiraḥ | atharvaśikhā | garbhopaniṣat | mahopaniṣat | brahmopaniṣat | prāṇāgnihotram | māṇḍūkyam | vaitathyam | advaitam | alātaśāntiś ceti ||

Sanskrit only: no published translation is held for this verse.

तत्र ब्रह्मवेदे ऽष्टादश व्रतानि चरिष्यन् सावित्रीव्रतम् । वेदव्रतम् । वेदोत्तरव्रतम् । मैलव्रतम् । मैलोत्तरव्रतम् । मृगारव्रतम् । रोहितव्रतम् । विषासहिव्रतम् । यमव्रतम् । शान्तिव्रतम् । शिखिव्रतम् । गणव्रतम् । शिरोव्रतम् । शिखाव्रतम् । मरुद्व्रतम् । अधिव्रतम् । अङ्गिरोव्रतम् । पाशुपतव्रतं चरेत् ॥

tatra brahmavede 'ṣṭādaśa vratāni cariṣyan sāvitrīvratam | vedavratam | vedottaravratam | mailavratam | mailottaravratam | mṛgāravratam | rohitavratam | viṣāsahivratam | yamavratam | śāntivratam | śikhivratam | gaṇavratam | śirovratam | śikhāvratam | marudvratam | adhivratam | aṅgirovratam | pāśupatavrataṃ caret ||

Sanskrit only: no published translation is held for this verse.

कृच्छ्रम् । तप्तकृच्छ्रम् । अतिकृच्छ्रम् । सर्वकृच्छ्रम् । मौन्दभायः । तुलापुरुषः । सांतपनम् । महासांतपनं चेति ॥

kṛcchram | taptakṛcchram | atikṛcchram | sarvakṛcchram | maundabhāyaḥ | tulāpuruṣaḥ | sāṃtapanam | mahāsāṃtapanaṃ ceti ||

Sanskrit only: no published translation is held for this verse.