तत्र द्वासप्ततिः परिशिष्टानि भवन्ति कौशिकोक्तानि । कृत्तिकारोहिणी । राष्ट्रसंवर्गः । राजप्रथमाभिषेकः । पुरोहितकर्माणि । पुष्याभिषेकः । पिष्टरात्र्याः कल्पः । आरात्रिकम् । घृतावेक्षणम् । तिलधेनुः । भूमिदानम् । तुलापुरुषः । आदित्यमण्डकः । हिरण्यगर्भः । हस्तिरथः । अश्वरथः । गोसहस्रदानम् । हस्तिदीक्षा । अश्वदीक्षा । वृषोत्सर्गः । इन्द्रोत्सवः । ब्रह्मयागः । स्कन्दयागाः । संभारलक्षणम् । अरणिलक्षणम् । यज्ञपात्रलक्षणम् । वेदिलक्षणम् । कुण्डलक्षणम् । समिल्लक्षणम् । स्रुवलक्षणम् । हस्तलक्षणम् । ज्वालालक्षणम् । लक्षहोमः । काङ्कायनोक्तो बृहल्लक्षहोमः । कोटिहोमः । गणमाला । घृतकम्बलम् । अनुलोमकल्पः । आसुरीकल्पः । उच्छुष्मकल्पः । समुच्चयप्रायश्चित्तानि । ब्रह्मकूर्चविधिः । पैठीनसितडागविधिः । पाशुपतव्रतविधिः । संध्योपासनविधिः । स्नानविधिः । तर्पणविधिः । श्राद्धविधिः । अग्निहोत्रविधिः । उत्तमपटलम् । वर्णपटलम् । निघण्तुः । चरणव्यूहः । चन्द्रप्रातिपदिकम् । ग्रहयुद्धम् । ग्रहसंग्रहः । राहुचारः । केतुचारः । ऋतुकेतुलक्षणम् । कूर्मविभागः । मण्डलानि । दिग्दाहलक्षणम् । उल्कालक्षणम् । विद्युल्लक्षणम् । निर्घातलक्षणम् । परिवेषलक्षणम् । भूमिकम्पलक्षणम् । नक्षत्रग्रहोत्पातलक्षणम् । उत्पातलक्षणम् । सद्योवृष्टिलक्षणम् । गोशान्तिः । अद्भुतशान्तिः । स्वप्नाध्यायः । अथर्वहृदयम् । भार्गवीयगार्ग्यबार्हस्पत्योशनसाद्भुतानि । महाद्भुतानि बृहत्सर्वानुक्रमणी चेति ॥
tatra dvāsaptatiḥ pariśiṣṭāni bhavanti kauśikoktāni | kṛttikārohiṇī | rāṣṭrasaṃvargaḥ | rājaprathamābhiṣekaḥ | purohitakarmāṇi | puṣyābhiṣekaḥ | piṣṭarātryāḥ kalpaḥ | ārātrikam | ghṛtāvekṣaṇam | tiladhenuḥ | bhūmidānam | tulāpuruṣaḥ | ādityamaṇḍakaḥ | hiraṇyagarbhaḥ | hastirathaḥ | aśvarathaḥ | gosahasradānam | hastidīkṣā | aśvadīkṣā | vṛṣotsargaḥ | indrotsavaḥ | brahmayāgaḥ | skandayāgāḥ | saṃbhāralakṣaṇam | araṇilakṣaṇam | yajñapātralakṣaṇam | vedilakṣaṇam | kuṇḍalakṣaṇam | samillakṣaṇam | sruvalakṣaṇam | hastalakṣaṇam | jvālālakṣaṇam | lakṣahomaḥ | kāṅkāyanokto bṛhallakṣahomaḥ | koṭihomaḥ | gaṇamālā | ghṛtakambalam | anulomakalpaḥ | āsurīkalpaḥ | ucchuṣmakalpaḥ | samuccayaprāyaścittāni | brahmakūrcavidhiḥ | paiṭhīnasitaḍāgavidhiḥ | pāśupatavratavidhiḥ | saṃdhyopāsanavidhiḥ | snānavidhiḥ | tarpaṇavidhiḥ | śrāddhavidhiḥ | agnihotravidhiḥ | uttamapaṭalam | varṇapaṭalam | nighaṇtuḥ | caraṇavyūhaḥ | candraprātipadikam | grahayuddham | grahasaṃgrahaḥ | rāhucāraḥ | ketucāraḥ | ṛtuketulakṣaṇam | kūrmavibhāgaḥ | maṇḍalāni | digdāhalakṣaṇam | ulkālakṣaṇam | vidyullakṣaṇam | nirghātalakṣaṇam | pariveṣalakṣaṇam | bhūmikampalakṣaṇam | nakṣatragrahotpātalakṣaṇam | utpātalakṣaṇam | sadyovṛṣṭilakṣaṇam | gośāntiḥ | adbhutaśāntiḥ | svapnādhyāyaḥ | atharvahṛdayam | bhārgavīyagārgyabārhaspatyośanasādbhutāni | mahādbhutāni bṛhatsarvānukramaṇī ceti ||
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.