अथ निन्दितदुग्धम् । अनिष्टगन्धम् अम्लं च विवर्णं विरसं च यत् । वर्जं (र्ज्यं) सलवणं क्षीरं यच् च विग्रथितं भवेत् । क्षीरं न भुञ्जीन (दिवा) यदि भुञ्जीत न स्वपेत् । यदि स्वपेत् क्षयं चायुस् तस्मात् क्षीरं दिवामृतम्
atha ninditadugdham / aniṣṭagandham amlaṃ ca vivarṇaṃ virasaṃ ca yat / varjaṃ (rjyaṃ) salavaṇaṃ kṣīraṃ yac ca vigrathitaṃ bhavet / kṣīraṃ na bhuñjīna (divā) yadi bhuñjīta na svapet / yadi svapet kṣayaṃ cāyus tasmāt kṣīraṃ divāmṛtam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.