किन्तु ब्रह्मण एव प्राणशब्दमुख्यवाच्यत्वमिति शेषः । कुतः । ब्रह्मशब्दानुगमात् । पारमेश्वरलिङ्गानुगमाच्चेति भावः । अथवा बाहुल्य इत्यादिकमेव सिद्धान्तवाक्यम् । ब्रह्मविषययोः श्रुतिलिङ्गयोर्बाहुल्ये विद्यमाने यदन्यस्येन्द्रादेः प्राणशब्दमुख्यवाच्यत्वं पूर्ववादिनोक्तम् तन्नेति ॥ ननु च श्रुतिलिङ्गबाहुल्यादेवान्यस्य मुख्यवाच्यत्वमित्युक्तम् । सत्यम् । तथाप्यस्त्यत्र वैषम्यम् । निरवकाशश्रुतिलिङ्गबाहुल्येन हि प्रागत्र च निर्णयः कृतः । एतानि तु सावकाशानीत्याह अत्रगस्येति ॥ इन्द्रादिगतस्य । हिशब्दो हेत्वर्थः । तस्मान्नेति पूर्वेण सम्बन्धः । प्रमाणप्रसिद्धिद्योतको वा । आद्यस्तुशब्दो न्यायविशेषसूचकः । प्राणस्थानि प्राणसम्बन्धितया प्रतीतानि । पुनस्तुशब्दो ऽप्यर्थे । इन्द्रियविषयाण्यपीति श्रुतिरपीति वा । नच मञ्चेषु पुरुषसम्बन्धनिबन्धनं क्रोशनमिवामुख्यानीश्वरे लिङ्गानीति शङ्कनीयम् । अन्तर्गतस्य तस्यैव तत्तत्कर्तृत्वादित्याशयेन मुख्यत इत्युक्तम् । शतं वर्षाणीत्यतो ऽपि परस्तादितिशब्दो योज्यः । प्राणवंशत्वं प्राणांश्चक्षुरादीन्प्रति वंशत्वम् । एतेन न वक्तुरित्यादिसूत्रतात्पर्यमुक्तं भवति । न वक्तुर् आत्मोपदेशाद् इति चेद् अध्यात्मसंबन्धभूमा ह्य् अस्मिन्
kintu brahmaṇa eva prāṇaśabdamukhyavācyatvamiti śeṣaḥ / kutaḥ / brahmaśabdānugamāt / pārameśvaraliṅgānugamācceti bhāvaḥ / athavā bāhulya ityādikameva siddhāntavākyam / brahmaviṣayayoḥ śrutiliṅgayorbāhulye vidyamāne yadanyasyendrādeḥ prāṇaśabdamukhyavācyatvaṃ pūrvavādinoktam tanneti // nanu ca śrutiliṅgabāhulyādevānyasya mukhyavācyatvamityuktam / satyam / tathāpyastyatra vaiṣamyam / niravakāśaśrutiliṅgabāhulyena hi prāgatra ca nirṇayaḥ kṛtaḥ / etāni tu sāvakāśānītyāha atragasyeti // indrādigatasya / hiśabdo hetvarthaḥ / tasmānneti pūrveṇa sambandhaḥ / pramāṇaprasiddhidyotako vā / ādyastuśabdo nyāyaviśeṣasūcakaḥ / prāṇasthāni prāṇasambandhitayā pratītāni / punastuśabdo 'pyarthe / indriyaviṣayāṇyapīti śrutirapīti vā / naca mañceṣu puruṣasambandhanibandhanaṃ krośanamivāmukhyānīśvare liṅgānīti śaṅkanīyam / antargatasya tasyaiva tattatkartṛtvādityāśayena mukhyata ityuktam / śataṃ varṣāṇītyato 'pi parastāditiśabdo yojyaḥ / prāṇavaṃśatvaṃ prāṇāṃścakṣurādīnprati vaṃśatvam / etena na vakturityādisūtratātparyamuktaṃ bhavati / na vaktur ātmopadeśād iti ced adhyātmasaṃbandhabhūmā hy asmin
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.