वेदस्य पौरुषेयत्वापौरुषेयत्वयोः कारणाभावेन प्रामाण्यमेव दुर्लभम् । स्वतः प्रामाण्याङ्गीकारे तु वेदविरुद्धानामपि शाक्यादिवचसां तथात्वापातेन पुनर्वेदाप्रमाण्यतादवस्थ्यम् । किञ्च शब्दस्यैव प्रामाण्यं दुर्घटमर्थसंस्पर्शशून्यत्वात् । वाक्यार्थप्रत्यायनप्रकारानिरूपणाच्च । कुतस्तद्विशेषस्य वेदस्य । *१,२८२* प्रयोजनाभावान्नजिज्ञासाकर्तव्या प्रयोजनं चेश्वरजिज्ञासया अभ्युदयो वा स्यात् मोक्षो वा । नाद्यः । तस्य धर्मादिलघूपायसाध्यस्य शास्त्रान्तरप्रयोजनत्वात् । न द्वितीयः । तस्याप्यपाम सोममित्याद्यागमेन लघूपायान्तरसाध्यतावगमात् । नचैकस्यैव कर्मणो ऽभ्युदयनिःश्रेयसहेतुत्वं विरुद्धम् । फलाभिसन्ध्यादिभावाभावाभ्यां विशेषोपपत्तेः । जिज्ञासा च मोक्षसाधनं भवन्ती किं साक्षादुत ज्ञानद्वारेण । नाद्यः । दृष्टादृष्टत्यागकल्पनाप्रसङ्गात् । न द्वितीयः । कर्मणा ज्ञानमातनोतीत्यागमेन ज्ञानस्य लघूपायान्तरसाध्यताध्यवसायात् । ज्ञानस्यापि साक्षान्मोक्षहेतुत्वाभ्युपगमे ऽदृष्टकल्पनैव । न चेश्वरप्रसादद्वारा । ज्ञानस्य प्रसादहेतुतायाः क्वाप्यदृष्टत्वात् । "तत्कर्म हरितोषं यत्ऽ; इत्यादिना तत्प्रसादस्य कर्माद्यल्पोपायसाध्यताप्रतीतेश्च । किञ्चायमात्माविद्याकल्पितो बन्धस्तद्विद्ययैव निवृत्तिमर्हति । शुक्तिकाविद्याकल्पितं रजतमिव शुक्तिविद्यया । तत्कुतो बन्धनिवृत्तिलक्षणे मोक्षे परमेश्वरप्रसादस्योपयोगः । कुतस्तरां तज्ज्ञानस्य कुतस्तमां च तज्जिज्ञासायाः । अथ परामार्थ एवायं बन्धस्तर्हि न ज्ञानेन निवर्तेत । नच सत्यस्यानादेरात्मस्वरूपमात्रानुबन्धिनो बन्धस्यात्मस्वरूपस्येव केनापि निवृत्तिर्युक्ता । अपि च मुक्तस्य शरीरेन्द्रियविषयादिसंसर्गे मुक्तत्वव्याघातः । दुःखादिप्रसङ्गश्च । कारणसामग्रीसद्भावात् । तथाचाभ्युदयतुल्यतयोक्तदोषः । शरीराद्यभावे च तत्साध्यसुखाभावेन कस्यापि तत्रार्थितानुपपत्तेरनधिकारिकं शास्त्रमापद्येत । को हि स्वस्थात्मा सहसा सुखतत्साधने हातुमुत्सहते । तदेवं विषयाद्यनुबन्धविधुरत्वान्न जिज्ञासा कर्तव्या । तद्विधयो ऽपि न प्रमाणम् । शास्त्रं चेदमनारम्भणीयमिति प्राप्ते सूत्रयामास भगवानाचार्यः ॐ अथातो ब्रह्मजिज्ञासेति ॥ *१,२८८* ॥ ॐ ॐ अथातो ब्रह्मजिज्ञासा ॐ ॥ अथातो ब्रह्मजिज्ञासा
vedasya pauruṣeyatvāpauruṣeyatvayoḥ kāraṇābhāvena prāmāṇyameva durlabham / svataḥ prāmāṇyāṅgīkāre tu vedaviruddhānāmapi śākyādivacasāṃ tathātvāpātena punarvedāpramāṇyatādavasthyam / kiñca śabdasyaiva prāmāṇyaṃ durghaṭamarthasaṃsparśaśūnyatvāt / vākyārthapratyāyanaprakārānirūpaṇācca / kutastadviśeṣasya vedasya / *1,282* prayojanābhāvānnajijñāsākartavyā prayojanaṃ ceśvarajijñāsayā abhyudayo vā syāt mokṣo vā / nādyaḥ / tasya dharmādilaghūpāyasādhyasya śāstrāntaraprayojanatvāt / na dvitīyaḥ / tasyāpyapāma somamityādyāgamena laghūpāyāntarasādhyatāvagamāt / nacaikasyaiva karmaṇo 'bhyudayaniḥśreyasahetutvaṃ viruddham / phalābhisandhyādibhāvābhāvābhyāṃ viśeṣopapatteḥ / jijñāsā ca mokṣasādhanaṃ bhavantī kiṃ sākṣāduta jñānadvāreṇa / nādyaḥ / dṛṣṭādṛṣṭatyāgakalpanāprasaṅgāt / na dvitīyaḥ / karmaṇā jñānamātanotītyāgamena jñānasya laghūpāyāntarasādhyatādhyavasāyāt / jñānasyāpi sākṣānmokṣahetutvābhyupagame 'dṛṣṭakalpanaiva / na ceśvaraprasādadvārā / jñānasya prasādahetutāyāḥ kvāpyadṛṣṭatvāt / "tatkarma haritoṣaṃ yat'; ityādinā tatprasādasya karmādyalpopāyasādhyatāpratīteśca / kiñcāyamātmāvidyākalpito bandhastadvidyayaiva nivṛttimarhati / śuktikāvidyākalpitaṃ rajatamiva śuktividyayā / tatkuto bandhanivṛttilakṣaṇe mokṣe parameśvaraprasādasyopayogaḥ / kutastarāṃ tajjñānasya kutastamāṃ ca tajjijñāsāyāḥ / atha parāmārtha evāyaṃ bandhastarhi na jñānena nivarteta / naca satyasyānāderātmasvarūpamātrānubandhino bandhasyātmasvarūpasyeva kenāpi nivṛttiryuktā / api ca muktasya śarīrendriyaviṣayādisaṃsarge muktatvavyāghātaḥ / duḥkhādiprasaṅgaśca / kāraṇasāmagrīsadbhāvāt / tathācābhyudayatulyatayoktadoṣaḥ / śarīrādyabhāve ca tatsādhyasukhābhāvena kasyāpi tatrārthitānupapatteranadhikārikaṃ śāstramāpadyeta / ko hi svasthātmā sahasā sukhatatsādhane hātumutsahate / tadevaṃ viṣayādyanubandhavidhuratvānna jijñāsā kartavyā / tadvidhayo 'pi na pramāṇam / śāstraṃ cedamanārambhaṇīyamiti prāpte sūtrayāmāsa bhagavānācāryaḥ oṃ athāto brahmajijñāseti // *1,288* // oṃ oṃ athāto brahmajijñāsā oṃ // athāto brahmajijñāsā
Sanskrit only: no published translation is held for this verse.
*३,९७* ॥ अथ श्रीमन्न्यायसुधायां शास्त्रयोनित्वाधिकरणम् ॥ अथ जगत्कारणत्वस्य पाशुपताद्यगमानुमानावष्टम्भेन अतिव्याप्तिशङ्का शास्त्रयोनित्वात्
*3,97* // atha śrīmannyāyasudhāyāṃ śāstrayonitvādhikaraṇam // atha jagatkāraṇatvasya pāśupatādyagamānumānāvaṣṭambhena ativyāptiśaṅkā śāstrayonitvāt
Sanskrit only: no published translation is held for this verse.
*३,१४२* ॥ अथ श्रीमन्न्यायसुधायां समन्वयाधिकरणम् ॥ पूर्वपक्षरचना ॥ ॐ तत्तु समन्वयात् ॐ ॥ तत् तु समन्वयात्
*3,142* // atha śrīmannyāyasudhāyāṃ samanvayādhikaraṇam // pūrvapakṣaracanā // oṃ tattu samanvayāt oṃ // tat tu samanvayāt
Sanskrit only: no published translation is held for this verse.
*३,१५४* ॥ अथ ईक्षत्यधिकरणम् ॥ ब्रह्मणः सकलशास्त्रवाच्यत्वसमर्थनम् ॥ ॐ ईक्षतेर्नाशब्दम् ॐ ॥ ईक्षतेर् नाशब्दम्
*3,154* // atha īkṣatyadhikaraṇam // brahmaṇaḥ sakalaśāstravācyatvasamarthanam // oṃ īkṣaternāśabdam oṃ // īkṣater nāśabdam
Sanskrit only: no published translation is held for this verse.
तस्य व्याख्यातुर्मार्गमनुवर्तमानानां (च) कथं न जायते लज्जेति वा । तथा सत्यात्मनामिति बहुवचनान्तं पदमध्याहार्यम् । ननु न तावन्मुख्यार्थपरित्यागेनामुख्यार्थस्वीकार एव लज्जाहेतुः । तथा सति"गङ्गायां घोषःऽ"कुण्डपायिनामयने मासमग्निहोत्रं जुहोतिऽ; इत्यादावमुख्यार्थग्रहणाभावप्रसङ्गात् । किं नाम मुख्यार्थे सम्भवत्येवामुख्यार्थस्वीकारो दोषः । मुख्यार्थो हि शक्तिग्रहणवशात्प्रथमं बुद्धयारूढो भवति । विना च प्रथमातिक्रमे कारणं जघन्यप्रतिपत्तिस्वीकारे कथमनौचित्यं न भवेत् । यत्र तु मुख्यार्थे बाधकमस्ति तत्र तदपरित्याग एव लज्जाहेतुः । "गङ्गायां घोषःऽ"सिंहो देवदत्तःऽ; इत्यत्र गङ्गादिशब्दस्य मुख्यार्थाङ्गीकार(स्य) एव दोषः (दुष्टत्वदर्शनात्) । तत्कथमेतत् । सत्यमेवैतत् । प्रकृते ऽपि न मुख्यार्थस्वीकारे बाधकमस्तीत्याचार्यो मन्यते । बाधिकायाः श्रुतेर्निर्गुणत्वोपपत्तेश्च निरस्तत्वादिति । *३,१८१फ़्।* निर्गुणस्य दृश्यत्वेक्षणीयत्वकथनम् अत्राह । द्वे ब्रह्मणी । निर्गुणं सगुणं च । तत्र निर्गुणं नित्यशुद्धबुद्धमुक्तस्वभावं परिपूर्णम् । तदेव मायाशबलितत्वेनैवार्यादिधर्मवत्तया सगुणमुच्यते । मायायाश्चानिर्वाच्यतया तदवच्छिन्नस्य न तथाभावस्तात्त्विक इति न कूटस्थत्वहानिः । तत्र सगुणमेव परात्परं पुरुषमीक्षत इत्यादावीक्षणीयत्वेनोच्यते । ततश्चेक्षणीयत्वं वाच्यत्वेन विना नोपपद्यते चेत्सगुणं वाच्यमस्तु न निर्गुणम् । तस्येक्षणीयत्वे प्रमाणाभावात् । न ह्यन्यगतेन व्याप्येनान्यत्र व्यापकसिद्धिः । अतिप्रसङ्गात् । नच परात्परमित्यादीन्येव निर्गुणविषयाणि ज्ञापकाभावात् । नच वाच्यं मा भूदनुमानेन निर्गुणस्य वाच्यत्वसिद्धिः । पक्षीकृते लिङ्गाभावात् । लिङ्गवति सिद्धसाधन(त्व)आत् । तथापि"सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्तिऽ; इत्यादिश्रुतिबलाद्वाच्यत्वं निर्गुणस्य सेत्स्यतीति । मायाशबले गृहीतसङ्गतयःसर्वे वेदा लक्षणया यत्पदमामनन्तीत्यर्थोपपत्तेः । नचावाच्यस्य लक्षणानुपपत्तिर्देषः प्रसिद्धतामात्रेण लक्षणोपपत्तेः । सगुणप्रतीत्यैव च निर्गुणस्य तत्स्वभावभूतस्य सर्वात्मनः स्वतः सिद्धत्वात् । नच तदेवेक्षणीयत्वं येन वाच्यत्वप्रसक्तिः । किन्तु प्रमेयत्वम् । नच स्वप्रकास्य प्रमेयत्वमिति । तदेतदाशङ्कय परिहरति सूत्रकारः गौणश्चेन्नात्मशब्दादिति ॥ *३,१८२* ॥ ॐ गौणश्चेन्नात्मशब्दात् ॐ ॥ गौणश् चेन् नात्मशब्दात्
tasya vyākhyāturmārgamanuvartamānānāṃ (ca) kathaṃ na jāyate lajjeti vā / tathā satyātmanāmiti bahuvacanāntaṃ padamadhyāhāryam / nanu na tāvanmukhyārthaparityāgenāmukhyārthasvīkāra eva lajjāhetuḥ / tathā sati"gaṅgāyāṃ ghoṣaḥ'"kuṇḍapāyināmayane māsamagnihotraṃ juhoti'; ityādāvamukhyārthagrahaṇābhāvaprasaṅgāt / kiṃ nāma mukhyārthe sambhavatyevāmukhyārthasvīkāro doṣaḥ / mukhyārtho hi śaktigrahaṇavaśātprathamaṃ buddhayārūḍho bhavati / vinā ca prathamātikrame kāraṇaṃ jaghanyapratipattisvīkāre kathamanaucityaṃ na bhavet / yatra tu mukhyārthe bādhakamasti tatra tadaparityāga eva lajjāhetuḥ / "gaṅgāyāṃ ghoṣaḥ'"siṃho devadattaḥ'; ityatra gaṅgādiśabdasya mukhyārthāṅgīkāra(sya) eva doṣaḥ (duṣṭatvadarśanāt) / tatkathametat / satyamevaitat / prakṛte 'pi na mukhyārthasvīkāre bādhakamastītyācāryo manyate / bādhikāyāḥ śruternirguṇatvopapatteśca nirastatvāditi / *3,181f.* nirguṇasya dṛśyatvekṣaṇīyatvakathanam atrāha / dve brahmaṇī / nirguṇaṃ saguṇaṃ ca / tatra nirguṇaṃ nityaśuddhabuddhamuktasvabhāvaṃ paripūrṇam / tadeva māyāśabalitatvenaivāryādidharmavattayā saguṇamucyate / māyāyāścānirvācyatayā tadavacchinnasya na tathābhāvastāttvika iti na kūṭasthatvahāniḥ / tatra saguṇameva parātparaṃ puruṣamīkṣata ityādāvīkṣaṇīyatvenocyate / tataścekṣaṇīyatvaṃ vācyatvena vinā nopapadyate cetsaguṇaṃ vācyamastu na nirguṇam / tasyekṣaṇīyatve pramāṇābhāvāt / na hyanyagatena vyāpyenānyatra vyāpakasiddhiḥ / atiprasaṅgāt / naca parātparamityādīnyeva nirguṇaviṣayāṇi jñāpakābhāvāt / naca vācyaṃ mā bhūdanumānena nirguṇasya vācyatvasiddhiḥ / pakṣīkṛte liṅgābhāvāt / liṅgavati siddhasādhana(tva)āt / tathāpi"sarve vedā yatpadamāmananti tapāṃsi sarvāṇi ca yadvadanti'; ityādiśrutibalādvācyatvaṃ nirguṇasya setsyatīti / māyāśabale gṛhītasaṅgatayaḥsarve vedā lakṣaṇayā yatpadamāmanantītyarthopapatteḥ / nacāvācyasya lakṣaṇānupapattirdeṣaḥ prasiddhatāmātreṇa lakṣaṇopapatteḥ / saguṇapratītyaiva ca nirguṇasya tatsvabhāvabhūtasya sarvātmanaḥ svataḥ siddhatvāt / naca tadevekṣaṇīyatvaṃ yena vācyatvaprasaktiḥ / kintu prameyatvam / naca svaprakāsya prameyatvamiti / tadetadāśaṅkaya pariharati sūtrakāraḥ gauṇaścennātmaśabdāditi // *3,182* // oṃ gauṇaścennātmaśabdāt oṃ // gauṇaś cen nātmaśabdāt
Sanskrit only: no published translation is held for this verse.
"परात्परम्ऽ; इत्यादिश्रुतिषु गौण एवात्मेक्षणीयत्वेनोच्यते । अतःस एव वाच्यो ऽस्तु न, निर्गुणः । तस्येक्षणीयत्वे प्रमाणाभावात् । परात्परमित्यादिश्रुतीनां च तत्परत्वे ज्ञापकाभावात् । किन्तु लक्ष्य एवासौऽ; इति चेन्न । आत्मशब्दात् । उपलक्षणमेतत् । ईक्षणीये वस्तुन्यात्मब्रह्मपुरुषादिशब्दश्रवणात् । तेषां च पूर्णाभिधायित्वेन निर्गुणज्ञापकत्वादिति । भवेदातमादिशब्दः पूर्णार्थवाची । तथापि यत्र दृश्ये वाच्ये (च) वस्तुनि प्रयुज्यते तत्र सगुणविषय एवेति नियमाङ्गीकारे को दोष इत्याशङ्कापरिहारार्थं (अपरं) सूत्रम् तन्निष्ठस्य मोक्षोपदेशादिति । ॥ ॐ तन्निष्ठस्य मोक्षोपदेशात् ॐ ॥ तन्निष्ठस्य मोक्षोपदेशात्
"parātparam'; ityādiśrutiṣu gauṇa evātmekṣaṇīyatvenocyate / ataḥsa eva vācyo 'stu na, nirguṇaḥ / tasyekṣaṇīyatve pramāṇābhāvāt / parātparamityādiśrutīnāṃ ca tatparatve jñāpakābhāvāt / kintu lakṣya evāsau'; iti cenna / ātmaśabdāt / upalakṣaṇametat / īkṣaṇīye vastunyātmabrahmapuruṣādiśabdaśravaṇāt / teṣāṃ ca pūrṇābhidhāyitvena nirguṇajñāpakatvāditi / bhavedātamādiśabdaḥ pūrṇārthavācī / tathāpi yatra dṛśye vācye (ca) vastuni prayujyate tatra saguṇaviṣaya eveti niyamāṅgīkāre ko doṣa ityāśaṅkāparihārārthaṃ (aparaṃ) sūtram tanniṣṭhasya mokṣopadeśāditi / // oṃ tanniṣṭhasya mokṣopadeśāt oṃ // tanniṣṭhasya mokṣopadeśāt
Sanskrit only: no published translation is held for this verse.
न विद्यन्ते नन्द आनन्दो येषु ते अनन्दाः ते इति प्रसिद्धाः । बोधनाद् भुद्वेदस्तस्मादपि ये ऽविद्वांसो वेदेन मुख्यया वृत्त्या प्रतिपादितमपि परमातमस्वरूपमपलपन्त इत्यर्थः । सुष्ठु रमणविरुद्धत्वादसुरप्राप्यत्वाच्चासुर्याः । आत्महनो वेदवाच्यपरमात्मत्यागिनः । अत्र उक्तार्थे । समन्ततः सर्वास्वपि शाखासु । *३,१९५* दृश्ये वस्तुनि श्रुत आत्मशब्दो गौणपर इति नियमं हेत्वन्तरेणापाकुर्वत्सूत्रं पठित्वा सूत्रे साध्यनिर्देशाभावेन साकाङ्क्षं वाक्यं पूरयति हेयत्वेति ॥ ॥ ॐ हेयत्वावचनाच्च ॐ ॥ हेयत्वावचनाच् च
na vidyante nanda ānando yeṣu te anandāḥ te iti prasiddhāḥ / bodhanād bhudvedastasmādapi ye 'vidvāṃso vedena mukhyayā vṛttyā pratipāditamapi paramātamasvarūpamapalapanta ityarthaḥ / suṣṭhu ramaṇaviruddhatvādasuraprāpyatvāccāsuryāḥ / ātmahano vedavācyaparamātmatyāginaḥ / atra uktārthe / samantataḥ sarvāsvapi śākhāsu / *3,195* dṛśye vastuni śruta ātmaśabdo gauṇapara iti niyamaṃ hetvantareṇāpākurvatsūtraṃ paṭhitvā sūtre sādhyanirdeśābhāvena sākāṅkṣaṃ vākyaṃ pūrayati heyatveti // // oṃ heyatvāvacanācca oṃ // heyatvāvacanāc ca
Sanskrit only: no published translation is held for this verse.
सत्यं विष्णुपरिवारतया ग्राह्या ब्रह्मादयः(द्याः) । तथापि प्रधानत्वेन हेया एव । प्राधान्येन चोपादेयत्वमत्र हेतुत्वेन विवक्षितम् । अमृतस्यैष सेतुरिति वाक्यशेषात् । अतो न व्यभिचार इति । *३,१९८* पूर्णत्वस्वाप्यत्वकथनात् निर्गुणस्यैव वाच्यत्वम् एवमात्मशब्दस्य निर्गुणविषयत्वमुपपाद्य निर्गुणस्यैव वाच्यत्वं समर्थितम् । हेत्वन्तरेणास्यैवार्थस्योपपादकम्"स्वाप्ययात्ऽ; इति सूत्रं व्याचष्टे पूर्णस्येति ॥ *३,१९९* ॥ ॐ स्वाप्ययात् ॐ ॥ स्वाप्ययात्
satyaṃ viṣṇuparivāratayā grāhyā brahmādayaḥ(dyāḥ) / tathāpi pradhānatvena heyā eva / prādhānyena copādeyatvamatra hetutvena vivakṣitam / amṛtasyaiṣa seturiti vākyaśeṣāt / ato na vyabhicāra iti / *3,198* pūrṇatvasvāpyatvakathanāt nirguṇasyaiva vācyatvam evamātmaśabdasya nirguṇaviṣayatvamupapādya nirguṇasyaiva vācyatvaṃ samarthitam / hetvantareṇāsyaivārthasyopapādakam"svāpyayāt'; iti sūtraṃ vyācaṣṭe pūrṇasyeti // *3,199* // oṃ svāpyayāt oṃ // svāpyayāt
Sanskrit only: no published translation is held for this verse.
व्याघातादिति भावः । *३,२०२* गतिसामान्यादिति सूत्रोल्लङ्घने निमित्तकथनम् गतिसामान्यात्
vyāghātāditi bhāvaḥ / *3,202* gatisāmānyāditi sūtrollaṅghane nimittakathanam gatisāmānyāt
Sanskrit only: no published translation is held for this verse.
अत्र गतिसामान्यादिति सूत्रं न तावद्ब्रह्मणो वाच्यत्वसमर्थनार्थम् । किन्तु शास्त्रस्यानन्तत्वान्न सर्वशास्त्रप्रतिपाद्यत्वं ब्रह्मणो निश्चेतुं शक्यमित्याशङ्कितदोषपरिहारार्थमित्यतः प्रकरणशुद्धया व्यभिचरव्यासुस्तदुल्लङ्घितवान् । व्याख्यास्यति चैतदुत्तरत्र । सूत्रकारस्यापि प्रकरणसाङ्कयर्स्यैतदेव प्रयोजनम् यदाक्षेपद्वयसमाधानस्य पूर्वसूत्रस्थसंशब्दार्थसमर्थनमेकमेव प्रयोजनमिति सूचनात् । तेन चावृत्त्या संशब्दस्यानेकार्थताज्ञापनम् । अन्यथैकेनार्थेन चरितार्तस्यार्थान्तरं न ज्ञायेत । तथाच न लक्षणद्वयस्य शास्त्रीयता स्यादिति । *३,२०३फ़्।* श्रुतत्वाच्च निर्गुणस्यवाच्यत्वम् उपपत्त्यन्तरेण निर्गुणस्य ब्रह्मणो वाच्यत्वमुपपादयितुं सूत्रम् श्रुतत्वाच्चेति । ॥ ॐ श्रुतत्वाच्च ॐ ॥ श्रुतत्वाच् च
atra gatisāmānyāditi sūtraṃ na tāvadbrahmaṇo vācyatvasamarthanārtham / kintu śāstrasyānantatvānna sarvaśāstrapratipādyatvaṃ brahmaṇo niścetuṃ śakyamityāśaṅkitadoṣaparihārārthamityataḥ prakaraṇaśuddhayā vyabhicaravyāsustadullaṅghitavān / vyākhyāsyati caitaduttaratra / sūtrakārasyāpi prakaraṇasāṅkayarsyaitadeva prayojanam yadākṣepadvayasamādhānasya pūrvasūtrasthasaṃśabdārthasamarthanamekameva prayojanamiti sūcanāt / tena cāvṛttyā saṃśabdasyānekārthatājñāpanam / anyathaikenārthena caritārtasyārthāntaraṃ na jñāyeta / tathāca na lakṣaṇadvayasya śāstrīyatā syāditi / *3,203f.* śrutatvācca nirguṇasyavācyatvam upapattyantareṇa nirguṇasya brahmaṇo vācyatvamupapādayituṃ sūtram śrutatvācceti / // oṃ śrutatvācca oṃ // śrutatvāc ca
Sanskrit only: no published translation is held for this verse.
श्रुतिव्याख्यानस्य क्रमानुल्लङ्घने निमित्तकथनम् नन्वेतच्छ्रुतिव्याख्यानं सूत्रव्याख्यानानन्तरमेव कर्तव्यम् । तत्रैव पूर्वपक्षश्रुतेः शङ्कितत्वात् । अत्र व्याख्यानं तु न सङ्गतमिति । मैवम् । सूत्रपूर्वपक्षिणेवापव्याख्यात्रापि लक्षणया ब्रह्मणि समन्वयं समर्थयमानेनैतच्छ्रुतिस्मृत्युपादानस्य कर्तुमुचितत्वात् । तथा चोभौ प्रतिसूत्रव्याख्यापव्याख्याप्रत्याख्यानयोरवसाने श्रुत्यादिव्याख्यानं युक्तमेवेति । *३,२५३* अधिकरणोपसंहारः तदेवं ब्रह्मणो वाच्यत्वाद्गतिसामान्याच्च युक्तं समन्वयसूत्रमिति सिद्धम् । ॥ इति श्रीमन्न्यासुधायां ईक्षत्यधिकरणम् ॥ *३,२५५* ॥ अथ श्रीमन्न्यायसुधायां आनन्दमयाधिकरणम् ॥ अध्यायस्वरूपनिरूपणम् ॥ ॐ आनन्दमयो ऽभ्यासात् ॐ ॥ अथातो ब्रह्मजिज्ञासेति यस्य ब्रह्मणो जिज्ञासा विहिता तत्स्वरूपं जन्माद्यस्य यतः शास्त्रयोनित्वादिति लक्षणप्रमाणाभ्यां स्वेतरसमस्तवस्तुव्यावृत्ततयावधारितम् । प्रमाणस्यान्यपरत्वशङ्कया लक्षणस्यातिव्याप्तिः समन्वयसूत्रेण परिहृता । ब्रह्मणश्च सकलशास्त्रप्रमाणकत्वासम्भावनाशङ्केक्षत्यधिकरणे निराकृता । नहि लक्षणप्रमाणनिरूपणव्यतिरेकेण वस्तुविचारणं नामास्ति । सम्भावनया तु न वरत्ववधारणार्था । अप्रमाणत्वात् । किन्तु यत्रासम्भावनया समीचीनयोरपि लक्षणप्रमाणयेरतथाभावशङ्कया प्रवृत्तिसङ्कोचस्तत्रैव सम्भावनोपयोगः । वस्तुतस्तु लक्षणप्रमाणाभ्यामेव वस्तुव्यवस्थेत्यतो ब्रह्मस्वरूपनिरूपणे ऽवशेषाभावात्किमानन्दमयो ऽभ्यासादित्यादिनाध्यायेनेत्याशङ्कयाध्यायशेषस्य कृत्यमाह एवमिति ॥ आनन्दमयो ऽभ्यासात्
śrutivyākhyānasya kramānullaṅghane nimittakathanam nanvetacchrutivyākhyānaṃ sūtravyākhyānānantarameva kartavyam / tatraiva pūrvapakṣaśruteḥ śaṅkitatvāt / atra vyākhyānaṃ tu na saṅgatamiti / maivam / sūtrapūrvapakṣiṇevāpavyākhyātrāpi lakṣaṇayā brahmaṇi samanvayaṃ samarthayamānenaitacchrutismṛtyupādānasya kartumucitatvāt / tathā cobhau pratisūtravyākhyāpavyākhyāpratyākhyānayoravasāne śrutyādivyākhyānaṃ yuktameveti / *3,253* adhikaraṇopasaṃhāraḥ tadevaṃ brahmaṇo vācyatvādgatisāmānyācca yuktaṃ samanvayasūtramiti siddham / // iti śrīmannyāsudhāyāṃ īkṣatyadhikaraṇam // *3,255* // atha śrīmannyāyasudhāyāṃ ānandamayādhikaraṇam // adhyāyasvarūpanirūpaṇam // oṃ ānandamayo 'bhyāsāt oṃ // athāto brahmajijñāseti yasya brahmaṇo jijñāsā vihitā tatsvarūpaṃ janmādyasya yataḥ śāstrayonitvāditi lakṣaṇapramāṇābhyāṃ svetarasamastavastuvyāvṛttatayāvadhāritam / pramāṇasyānyaparatvaśaṅkayā lakṣaṇasyātivyāptiḥ samanvayasūtreṇa parihṛtā / brahmaṇaśca sakalaśāstrapramāṇakatvāsambhāvanāśaṅkekṣatyadhikaraṇe nirākṛtā / nahi lakṣaṇapramāṇanirūpaṇavyatirekeṇa vastuvicāraṇaṃ nāmāsti / sambhāvanayā tu na varatvavadhāraṇārthā / apramāṇatvāt / kintu yatrāsambhāvanayā samīcīnayorapi lakṣaṇapramāṇayeratathābhāvaśaṅkayā pravṛttisaṅkocastatraiva sambhāvanopayogaḥ / vastutastu lakṣaṇapramāṇābhyāmeva vastuvyavasthetyato brahmasvarūpanirūpaṇe 'vaśeṣābhāvātkimānandamayo 'bhyāsādityādinādhyāyenetyāśaṅkayādhyāyaśeṣasya kṛtyamāha evamiti // ānandamayo 'bhyāsāt
Sanskrit only: no published translation is held for this verse.
मुख्ययोगे ऽप्यमुख्यग्रहणं किं न स्यादिति चेत्(न) । मुख्यासम्भव एवामुख्याङ्गीकार इति व्याप्तेरित्याह असम्भवे हीति ॥ यद्वा कथं तर्हि ब्रह्म वेद ब्रह्मैव भवतीत्यादौ ब्रह्मशब्दस्यामुख्यार्थग्रहणमित्यत आह क्वचिदसम्भवे हीति ॥ *३,३६०* ननु नान्नमयादयः परमात्मा विकारवाचिनो मयट्शब्दस्य श्रवणात् । परमात्मनो ऽन्नादिविकारत्वानुपपत्तेः । नच ब्रह्मशब्दानुपपत्तिः । अमुख्यार्थसम्भवात् । नच प्रस्तावविरोधो मुख्ये ऽर्थे बाधकाभावश्चेत्युक्तमिति वाच्यम् । विकाराथर्स्य मयट्प्रत्ययस्य बाधकत्वात् । तत एव प्रस्तावस्याप्यववादादित्याशङ्कय तत्परिहाराय सूत्रम् ॐ विकारशब्दान्नेति चेन्न प्राचुर्यादिति ॐ ॥ ॥ ॐ विकारशब्दान्नेति चेन्न प्राचुर्यात् ॐ ॥ विकारशब्दान् नेति चेन् न प्राचुर्यात्
mukhyayoge 'pyamukhyagrahaṇaṃ kiṃ na syāditi cet(na) / mukhyāsambhava evāmukhyāṅgīkāra iti vyāpterityāha asambhave hīti // yadvā kathaṃ tarhi brahma veda brahmaiva bhavatītyādau brahmaśabdasyāmukhyārthagrahaṇamityata āha kvacidasambhave hīti // *3,360* nanu nānnamayādayaḥ paramātmā vikāravācino mayaṭśabdasya śravaṇāt / paramātmano 'nnādivikāratvānupapatteḥ / naca brahmaśabdānupapattiḥ / amukhyārthasambhavāt / naca prastāvavirodho mukhye 'rthe bādhakābhāvaścetyuktamiti vācyam / vikārātharsya mayaṭpratyayasya bādhakatvāt / tata eva prastāvasyāpyavavādādityāśaṅkaya tatparihārāya sūtram oṃ vikāraśabdānneti cenna prācuryāditi oṃ // // oṃ vikāraśabdānneti cenna prācuryāt oṃ // vikāraśabdān neti cen na prācuryāt
Sanskrit only: no published translation is held for this verse.
यथा हि ज्योतिष्योमाधिकारे वसन्ते वसन्ते ज्योतिषा यजेतेति कालविशेषविधिपरे वाक्ये ज्योतिःशब्दो ज्योतिष्योमस्याभिधायकः । नहि तत्र शब्दयोः पर्यायत्वम् । राजशब्दस्यापि राजपुरुषशब्दपर्यायत्वप्रसङ्गात् । ज्योतिषां स्तोमो हि ज्योतिष्योमः । अत एव न प्रत्येकं वाचकत्वं किं त्वधिकारबलादेकदेशोत्कीतर्ने समग्रशब्दलक्षणामङ्गीकृत्य निमित्ताभिधेयैक्यमङ्गीकरणीयम् एवमत्राप्यन्नप्राणाद्येकदेशोत्कीर्तनेनान्नमयशब्दादिलक्षणयान्नादिशब्दानामन्नमयादिशब्दानां चैक्यमङ्गीकृत्य तन्निमित्ताभिधेयैक्यमभ्युपेयते । प्राप्यतयोक्तिस्थाने मयट्प्रयोगसामर्थ्यात् । न ह्यन्यविद्ययान्यप्राप्तिर्युक्तेति भावः । अन्नमयेति प्रातिपदिकमात्रग्रहणम् । इतिशब्द आद्यर्थे प्रत्येकं चाभिसम्बद्धयते । तथा चातः प्राप्यत्वेन मयट्प्रोक्तिसामर्थ्यादन्नमित्यादीनां च शब्दानामविशेषेण स्वरूपक्यैन कारणेन तैः शब्दैः प्रचुरान्नादिशब्दैः प्रचुरान्नादिनिमित्तवान्परमात्मैवोच्यते । न पुनरनुवाकद्वये प्रतिपाद्यभेदमङ्गीकृत्येहानुवाके ब्रह्मणो ऽन्यत्किञ्चिच्छरीरादिकोशरूपमुच्यत इति योजना । आद्यो हिशब्दो न ह्यन्यविद्ययान्यप्राप्तिर्युक्तेति न्यायसूचनार्थः । द्वितीयस्तु शब्दैक्ये निमित्ताभिधेयैक्यप्रसिद्धेर्द्येतकः । *३,३९१* एवं सूत्रद्वयेनान्नमयादिशब्दपञ्चकस्येश्वरवाचित्वं मयटश्च सर्वत्र प्राचुर्यार्थत्वमुपपादितम् । इदानीमानन्दमयशब्दस्य विष्णुवाचित्वं तद्गतस्य मयटस्य प्राचुर्यार्थत्वं हेत्वन्तरेणोपपादयत् तद्धेतुव्यपदेशाच्चेति सूत्रं व्याख्याति महानन्दत्व एवेति ॥ ॥ ॐ तद्धेतुव्यपदेशाच्च ॐ ॥ तद्धेतुव्यपदेशाच् च
yathā hi jyotiṣyomādhikāre vasante vasante jyotiṣā yajeteti kālaviśeṣavidhipare vākye jyotiḥśabdo jyotiṣyomasyābhidhāyakaḥ / nahi tatra śabdayoḥ paryāyatvam / rājaśabdasyāpi rājapuruṣaśabdaparyāyatvaprasaṅgāt / jyotiṣāṃ stomo hi jyotiṣyomaḥ / ata eva na pratyekaṃ vācakatvaṃ kiṃ tvadhikārabalādekadeśotkītarne samagraśabdalakṣaṇāmaṅgīkṛtya nimittābhidheyaikyamaṅgīkaraṇīyam evamatrāpyannaprāṇādyekadeśotkīrtanenānnamayaśabdādilakṣaṇayānnādiśabdānāmannamayādiśabdānāṃ caikyamaṅgīkṛtya tannimittābhidheyaikyamabhyupeyate / prāpyatayoktisthāne mayaṭprayogasāmarthyāt / na hyanyavidyayānyaprāptiryukteti bhāvaḥ / annamayeti prātipadikamātragrahaṇam / itiśabda ādyarthe pratyekaṃ cābhisambaddhayate / tathā cātaḥ prāpyatvena mayaṭproktisāmarthyādannamityādīnāṃ ca śabdānāmaviśeṣeṇa svarūpakyaina kāraṇena taiḥ śabdaiḥ pracurānnādiśabdaiḥ pracurānnādinimittavānparamātmaivocyate / na punaranuvākadvaye pratipādyabhedamaṅgīkṛtyehānuvāke brahmaṇo 'nyatkiñciccharīrādikośarūpamucyata iti yojanā / ādyo hiśabdo na hyanyavidyayānyaprāptiryukteti nyāyasūcanārthaḥ / dvitīyastu śabdaikye nimittābhidheyaikyaprasiddherdyetakaḥ / *3,391* evaṃ sūtradvayenānnamayādiśabdapañcakasyeśvaravācitvaṃ mayaṭaśca sarvatra prācuryārthatvamupapāditam / idānīmānandamayaśabdasya viṣṇuvācitvaṃ tadgatasya mayaṭasya prācuryārthatvaṃ hetvantareṇopapādayat taddhetuvyapadeśācceti sūtraṃ vyākhyāti mahānandatva eveti // // oṃ taddhetuvyapadeśācca oṃ // taddhetuvyapadeśāc ca
Sanskrit only: no published translation is held for this verse.
एवं श्रुतेरभिप्रायसिद्धं हेतुं व्याख्याय वाचनिकं विपक्षे बाधकं विवृणोति न चेदिति ॥ एष परमात्मा आसमन्तात्काशनादाकाशः पूर्णानन्दो न चेत्तदा कारणान्तराभावान्न किञ्चित्प्रवर्तयेत् । न चेदेष किञ्चित्प्रवर्तयेत्तदा कः पुमान्प्राण्यादन्याच्च । न को ऽपि लौकिकीं वैदिकीं वा प्रवृत्तिं कुर्यात् । स्वातन्त्र्याभावादिति योज्यम् । *३,३९८* अन्नमयादीनां पञ्चानामपि युक्तयन्तरेण परब्रह्मत्वं प्रतिपादयितुं सूत्रम् । ॐ मान्त्रवर्णिकमेव च गीयत इति । ॥ ॐ मान्त्रवर्णिकमेव च गीयते ॐ ॥ मान्त्रवर्णिकमेव च गीयते
evaṃ śruterabhiprāyasiddhaṃ hetuṃ vyākhyāya vācanikaṃ vipakṣe bādhakaṃ vivṛṇoti na cediti // eṣa paramātmā āsamantātkāśanādākāśaḥ pūrṇānando na cettadā kāraṇāntarābhāvānna kiñcitpravartayet / na cedeṣa kiñcitpravartayettadā kaḥ pumānprāṇyādanyācca / na ko 'pi laukikīṃ vaidikīṃ vā pravṛttiṃ kuryāt / svātantryābhāvāditi yojyam / *3,398* annamayādīnāṃ pañcānāmapi yuktayantareṇa parabrahmatvaṃ pratipādayituṃ sūtram / oṃ māntravarṇikameva ca gīyata iti / // oṃ māntravarṇikameva ca gīyate oṃ // māntravarṇikameva ca gīyate
Sanskrit only: no published translation is held for this verse.
अत इत्युक्तप्रकारेण । हिशब्दः प्रसिद्धौ तुशब्दो ऽवधारणे । परया मन्त्रवर्णादुत्तरया श्रुत्या । तस्माद्विष्णुरेवान्नमयादिशब्दवाच्य इति पूर्वेण सम्बन्धः । *३,४१२* एवमानन्दमयो ऽभ्यासादित्यादिसूत्रैः स्वपक्षसाधनं विधाय परपक्षप्रतिक्षेपार्थं सूत्रम् नेतरो ऽनुपपत्तिरिति । ॥ ॐ नेतरो ऽनुपपत्तेः ॐ ॥ नेतरो ऽनुपपत्तेः
ata ityuktaprakāreṇa / hiśabdaḥ prasiddhau tuśabdo 'vadhāraṇe / parayā mantravarṇāduttarayā śrutyā / tasmādviṣṇurevānnamayādiśabdavācya iti pūrveṇa sambandhaḥ / *3,412* evamānandamayo 'bhyāsādityādisūtraiḥ svapakṣasādhanaṃ vidhāya parapakṣapratikṣepārthaṃ sūtram netaro 'nupapattiriti / // oṃ netaro 'nupapatteḥ oṃ // netaro 'nupapatteḥ
Sanskrit only: no published translation is held for this verse.
तत्सूत्रसूचितस्याप्यर्थस्य व्यवधाने प्रयोजनसद्भावात् । अन्नमयादीनां पञ्चानामप्यब्रह्मत्वोपपादकोपपत्त्याऽभासास्तत्र निराकृताः । अन्नमयमात्रविषयानुपपत्तिपरिहारस्त्वत्रेत्यनेन ज्ञाप्यते । किञ्च नेतरो ऽनुपपत्तेरिति सूत्रं केचिन्न तावदन्नमयः परमात्मा परामर्शाद्यनुपपत्तेरिति व्याकुर्वते । तदपि निराकर्तुमत्रेदमुदितमिति । *३,४३१* अत्राह । जीव एवान्नमयादिशब्दार्थः । स ह्यन्नविकारशरीरावच्छिन्नत्वाद्भवत्यन्नमयः । प्राणमनोबुद्धयानन्दोपाध्यवच्छिन्नश्च भवति प्राणादिविकारो घटाकाशमिव घटविकारः । तेन प्राणमयत्वाद्युपपत्तिः । तथाच स वा एष पुरुष इति परामर्शस्तदुपाधिविषयतया हि श्लिष्यतरो भवति । रसशब्दश्चान्नस्थस्थविष्ठभागव्यावृत्त्यर्थो भविष्यति । इदमिति निर्देशश्च मुख्यार्थःसम्पद्यते प्राणमयादिषु सर्वत्र शिरःप्रभृत्यवयवानां वक्तव्यत्वेन तत्प्राये सिद्धस्यापि कथनोपपत्तेः । शरीरित्वमवयवित्वं प्रियादियोगो ब्रह्मपुच्छत्वं चेत्येतत्सर्वं समञ्जसं भवति । नच वक्तव्यं शरीरादिकोशा एव कुतस्तर्हि नाङ्गीक्रियन्ते । तथा चान्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुद्धयन्तामिति श्रुत्यन्तरानुगुण्यं च स्यादिति । कोशेषु ब्रह्मशब्दाद्यनुपपत्तेः । अन्यत्वमन्तरत्वं शरीरत्वं चोपाध्यपेक्षया जीवे ऽप्युपपद्यन्ते । *३,४३४* ननु जीवपक्षे ऽप्यनुपपत्तिरस्ति । ब्रह्मशब्दो हि निराधारो न परमात्मना विनोपपद्यते । "अद्यते ऽत्ति चेतिऽ; सर्वाद्यत्वं सर्वात्तृत्वं"प्राणं देवाःऽ; इति सर्वदेवादिचेष्यकत्व यतो वाचःऽ; इति वाङ्मनसागोचरत्वं"विज्ञानं देवाःऽ; इति सर्वदेवोपास्यत्वं ज्येष्ठत्वं"सो ऽकामयतऽ; इति सङ्कल्पपूर्वकं सर्वस्रष्टृत्वं सर्वान्तरत्वमित्यादीनि नाल्पतरज्ञानशक्तयादिसम्पन्ने जीवे सम्भवन्ति । तद्धेतुव्यपदेशश्चासङ्गतः स्यात् । मान्त्रवर्णिकव्याख्यानता च बाध्येत । नच जीवज्ञानान्मोक्षो युज्यत इति । मैवम् । उपनिषदर्थानबोधात् । अत्र हि जीवब्रह्मणोरेकत्वं विवक्षितम् । तत्र यानि वाक्यानि शुद्धविरोधीनि तान्युपहितसंसारिस्वरूपापेक्षाणि । ब्रह्मशब्दादीनि तु तत्स्वभावसिद्धपरमात्मस्वरूपापेक्षाणि । ऐक्यविवक्षा चात्र वाक्यशाबल्यान्यथानुपपत्त्यैव गम्यते । नचैवं विनिगमनायां कारणाभावात्परमात्मैवान्नमयादि(शब्द)वाच्योमहाकाशधर्म एवावच्छिन्नकाशे व्यवह्रियते । "यावान्वायमाकाशस्तावानेषो ऽन्तर्हृदय आकाशःऽ; इति । नतु परिच्छिन्नधर्मो वितस्तिमात्रत्वं महाकाशे । नच ब्रह्म पुच्छं प्रतिष्ठेत्यनुपपन्नम् । अस्य जीवस्य ब्रह्म पुच्छमायतनमधिष्ठानं निजं स्वरूपमित्यर्थोपपत्तेः । तस्मात्"नेतरःऽ; इत्यनुपपन्नमित्याशङ्कां परिहर्तुं भेदव्यपदेशाच्चेति सूत्रम् । *३,४३६* ॥ ॐ भेदव्यपदेशाच्च ॐ ॥ भेदव्यपदेशाच् च
tatsūtrasūcitasyāpyarthasya vyavadhāne prayojanasadbhāvāt / annamayādīnāṃ pañcānāmapyabrahmatvopapādakopapattyā'bhāsāstatra nirākṛtāḥ / annamayamātraviṣayānupapattiparihārastvatretyanena jñāpyate / kiñca netaro 'nupapatteriti sūtraṃ kecinna tāvadannamayaḥ paramātmā parāmarśādyanupapatteriti vyākurvate / tadapi nirākartumatredamuditamiti / *3,431* atrāha / jīva evānnamayādiśabdārthaḥ / sa hyannavikāraśarīrāvacchinnatvādbhavatyannamayaḥ / prāṇamanobuddhayānandopādhyavacchinnaśca bhavati prāṇādivikāro ghaṭākāśamiva ghaṭavikāraḥ / tena prāṇamayatvādyupapattiḥ / tathāca sa vā eṣa puruṣa iti parāmarśastadupādhiviṣayatayā hi śliṣyataro bhavati / rasaśabdaścānnasthasthaviṣṭhabhāgavyāvṛttyartho bhaviṣyati / idamiti nirdeśaśca mukhyārthaḥsampadyate prāṇamayādiṣu sarvatra śiraḥprabhṛtyavayavānāṃ vaktavyatvena tatprāye siddhasyāpi kathanopapatteḥ / śarīritvamavayavitvaṃ priyādiyogo brahmapucchatvaṃ cetyetatsarvaṃ samañjasaṃ bhavati / naca vaktavyaṃ śarīrādikośā eva kutastarhi nāṅgīkriyante / tathā cānnamayaprāṇamayamanomayavijñānamayānandamayā me śuddhayantāmiti śrutyantarānuguṇyaṃ ca syāditi / kośeṣu brahmaśabdādyanupapatteḥ / anyatvamantaratvaṃ śarīratvaṃ copādhyapekṣayā jīve 'pyupapadyante / *3,434* nanu jīvapakṣe 'pyanupapattirasti / brahmaśabdo hi nirādhāro na paramātmanā vinopapadyate / "adyate 'tti ceti'; sarvādyatvaṃ sarvāttṛtvaṃ"prāṇaṃ devāḥ'; iti sarvadevādiceṣyakatva yato vācaḥ'; iti vāṅmanasāgocaratvaṃ"vijñānaṃ devāḥ'; iti sarvadevopāsyatvaṃ jyeṣṭhatvaṃ"so 'kāmayata'; iti saṅkalpapūrvakaṃ sarvasraṣṭṛtvaṃ sarvāntaratvamityādīni nālpatarajñānaśaktayādisampanne jīve sambhavanti / taddhetuvyapadeśaścāsaṅgataḥ syāt / māntravarṇikavyākhyānatā ca bādhyeta / naca jīvajñānānmokṣo yujyata iti / maivam / upaniṣadarthānabodhāt / atra hi jīvabrahmaṇorekatvaṃ vivakṣitam / tatra yāni vākyāni śuddhavirodhīni tānyupahitasaṃsārisvarūpāpekṣāṇi / brahmaśabdādīni tu tatsvabhāvasiddhaparamātmasvarūpāpekṣāṇi / aikyavivakṣā cātra vākyaśābalyānyathānupapattyaiva gamyate / nacaivaṃ vinigamanāyāṃ kāraṇābhāvātparamātmaivānnamayādi(śabda)vācyomahākāśadharma evāvacchinnakāśe vyavahriyate / "yāvānvāyamākāśastāvāneṣo 'ntarhṛdaya ākāśaḥ'; iti / natu paricchinnadharmo vitastimātratvaṃ mahākāśe / naca brahma pucchaṃ pratiṣṭhetyanupapannam / asya jīvasya brahma pucchamāyatanamadhiṣṭhānaṃ nijaṃ svarūpamityarthopapatteḥ / tasmāt"netaraḥ'; ityanupapannamityāśaṅkāṃ parihartuṃ bhedavyapadeśācceti sūtram / *3,436* // oṃ bhedavyapadeśācca oṃ // bhedavyapadeśāc ca
Sanskrit only: no published translation is held for this verse.
॥ ॐ कामाच्च नानुमानापेक्षा ॐ ॥ कामाच् च नानुमानापेक्षा
// oṃ kāmācca nānumānāpekṣā oṃ // kāmāc ca nānumānāpekṣā
Sanskrit only: no published translation is held for this verse.
अत्र शास्त्रे तत्र तत्र प्रकरणे ह्यैक्यविवक्षायां चोदितायां तत्तद्गतभेदवाक्यद्योतनेन सूत्रेषु भेदसमर्थनं क्रियते । अतस्तात्पर्यभेदान्न पुनरुक्तता शङ्कया । तथा हि । जिज्ञासावाक्येष्वभेदशङ्कायां तद्गतब्रह्मशब्देनैव भेदसमर्थनम् । जिज्ञास्यस्य ब्रह्मणो जीवत्वे शङ्किते तत्पूर्ववाक्योक्तलक्षणेन भेदसाधनमित्यादि स्वयमूह्यम् । एवमेव"भेदव्यपदेशाच्चान्यःऽ; इत्यादावपि पुनरुक्तदोषः परिहरणीयः । नन्वेवं सत्यभेदः स्वरूपेण कुत्रापि न निराकृतः स्यादित्यत आह पृथगिति ॥ पूर्णता प्रधानता । भेदसाधनस्य स्वातन्त्र्येण विचारितत्वात् । यद्यपि प्रकरणविशेषविषयतयाभेदे निराकृते ऽपि स्वरूपनिराकरणमर्थात्सिद्धयति । तथापि वस्तुस्थितिकथनमेतदित्यदोषः । अथवा पुनरुक्तिपरिहारस्यैवंजातत्वात्"अत यव चोपमाऽ; इत्यादिसूत्राण्यापातप्रतीतभाष्यदिशा भेदपराणीव प्रतिभान्ति । तन्निरासार्थमिदमुक्तम् । "पृथगुपदेशात्ऽ; इत्यत्रैव भेदसमर्थनस्य पूर्णता पर्यवसानमिति । यद्यप्येतत्करिष्यमाणव्याख्यानादेव ज्ञास्यते । तथापि स्पष्टार्थमुक्तमित्यदोषः । *३,४४५* शरीरादिकोशा एवान्नमयादिशब्दवाच्या इति पक्षो ऽपि नेतरो ऽनुपपत्तेरिति साधारणदोषेण दूषित एव । विशेषदोषेण दूषयितुं सूत्रम् अस्मिन्नस्य च तद्योगं शास्तीति । ॥ ॐ अस्मिन्नस्य च तद्योगं शास्ति ॐ ॥ अस्मिन्न् अस्य च तद्योगं शास्ति
atra śāstre tatra tatra prakaraṇe hyaikyavivakṣāyāṃ coditāyāṃ tattadgatabhedavākyadyotanena sūtreṣu bhedasamarthanaṃ kriyate / atastātparyabhedānna punaruktatā śaṅkayā / tathā hi / jijñāsāvākyeṣvabhedaśaṅkāyāṃ tadgatabrahmaśabdenaiva bhedasamarthanam / jijñāsyasya brahmaṇo jīvatve śaṅkite tatpūrvavākyoktalakṣaṇena bhedasādhanamityādi svayamūhyam / evameva"bhedavyapadeśāccānyaḥ'; ityādāvapi punaruktadoṣaḥ pariharaṇīyaḥ / nanvevaṃ satyabhedaḥ svarūpeṇa kutrāpi na nirākṛtaḥ syādityata āha pṛthagiti // pūrṇatā pradhānatā / bhedasādhanasya svātantryeṇa vicāritatvāt / yadyapi prakaraṇaviśeṣaviṣayatayābhede nirākṛte 'pi svarūpanirākaraṇamarthātsiddhayati / tathāpi vastusthitikathanametadityadoṣaḥ / athavā punaruktiparihārasyaivaṃjātatvāt"ata yava copamā'; ityādisūtrāṇyāpātapratītabhāṣyadiśā bhedaparāṇīva pratibhānti / tannirāsārthamidamuktam / "pṛthagupadeśāt'; ityatraiva bhedasamarthanasya pūrṇatā paryavasānamiti / yadyapyetatkariṣyamāṇavyākhyānādeva jñāsyate / tathāpi spaṣṭārthamuktamityadoṣaḥ / *3,445* śarīrādikośā evānnamayādiśabdavācyā iti pakṣo 'pi netaro 'nupapatteriti sādhāraṇadoṣeṇa dūṣita eva / viśeṣadoṣeṇa dūṣayituṃ sūtram asminnasya ca tadyogaṃ śāstīti / // oṃ asminnasya ca tadyogaṃ śāsti oṃ // asminn asya ca tadyogaṃ śāsti
Sanskrit only: no published translation is held for this verse.
॥ अथ अन्तःस्थत्वाधिकरणम् ॥ ॥ ॐ अन्तस्तद्धर्मोपदेशात् ॐ ॥ *३,५०२* अन्तस् तद्धर्मोपदेशात्
// atha antaḥsthatvādhikaraṇam // // oṃ antastaddharmopadeśāt oṃ // *3,502* antas taddharmopadeśāt
Sanskrit only: no published translation is held for this verse.
स्वयं सूत्रकारो ऽन्तस्तद्धर्मोपदेशादिति सूत्रेणान्तःप्रविष्यो विष्णुरेव । समुद्रे ऽन्तः कवयः । यस्याण्डकोशं शुष्ममाहुः । ब्रह्मा तपसान्वविन्ददिति समुद्रान्तःस्थितत्वब्रह्माण्डवीर्यत्वब्रह्मतापोलभ्यत्वादिधर्मोपदेशात् । तेषां च विष्णुधर्मत्वेन श्रुतिस्मृतिसिद्धत्वात् । न चेन्द्रादिश्रुतिलिङ्गविरोधः । निरवकाशलिङ्गबलेन तद्बाधोपपत्तेः । नच तेषामपि निरवकाशत्वम् । इन्द्रं मित्रं वरुणमग्निमाहुरित्यादिना तेषां भगवति विद्वद्रूढिसद्भावस्य सिद्धत्वात् । महायोगस्य च सुप्रसिद्धत्वात् । इन्द्रादिगतस्य परमैश्वर्यादेरल्पता परमेश्वराधीनता च श्रुतिपुराणादिप्रसिद्धा । शक्तेरप्यस्मदाद्यपेक्षयाऽधिक्यमात्रमेव नतु निरर्गलत्वमपि । अन्यथानेकेश्वरविरोधश्च । विद्वद्रूढिरपीश्वरसन्निधाननिमित्तैव । इत्येवं समुद्रान्तःस्थितत्वाद्यैर्विष्णुधर्मैरन्तःप्रविष्टत्वस्य विष्णुनिष्ठतां तथा तच्छब्दानामिन्द्रादिशब्दानामपि विष्णुरूढताम् । उपलक्षणमेतत् । तत्र यौगिकत्वं च साधयित्वा । भेदव्यपदेशाच् चान्यः
svayaṃ sūtrakāro 'ntastaddharmopadeśāditi sūtreṇāntaḥpraviṣyo viṣṇureva / samudre 'ntaḥ kavayaḥ / yasyāṇḍakośaṃ śuṣmamāhuḥ / brahmā tapasānvavindaditi samudrāntaḥsthitatvabrahmāṇḍavīryatvabrahmatāpolabhyatvādidharmopadeśāt / teṣāṃ ca viṣṇudharmatvena śrutismṛtisiddhatvāt / na cendrādiśrutiliṅgavirodhaḥ / niravakāśaliṅgabalena tadbādhopapatteḥ / naca teṣāmapi niravakāśatvam / indraṃ mitraṃ varuṇamagnimāhurityādinā teṣāṃ bhagavati vidvadrūḍhisadbhāvasya siddhatvāt / mahāyogasya ca suprasiddhatvāt / indrādigatasya paramaiśvaryāderalpatā parameśvarādhīnatā ca śrutipurāṇādiprasiddhā / śakterapyasmadādyapekṣayā'dhikyamātrameva natu nirargalatvamapi / anyathānekeśvaravirodhaśca / vidvadrūḍhirapīśvarasannidhānanimittaiva / ityevaṃ samudrāntaḥsthitatvādyairviṣṇudharmairantaḥpraviṣṭatvasya viṣṇuniṣṭhatāṃ tathā tacchabdānāmindrādiśabdānāmapi viṣṇurūḍhatām / upalakṣaṇametat / tatra yaugikatvaṃ ca sādhayitvā / bhedavyapadeśāc cānyaḥ
Sanskrit only: no published translation is held for this verse.
*३,५२१* ॥ अथ श्रीमन्न्यासुधायां आकाशाधिकरणम् ॥ एवमधिदैवविषयशब्दसमन्वयमभिधायाधुना अधिभूतविषयशब्दसमन्वयं प्रतिपिपादयिषुराकाशस्य भूतेषु प्राधान्यात्तच्छब्दसमन्वयं हरावाह सूत्रकारः आकाशस्तल्लिङ्गादिति ॥ आकाशस् तल्लिङ्गात्
*3,521* // atha śrīmannyāsudhāyāṃ ākāśādhikaraṇam // evamadhidaivaviṣayaśabdasamanvayamabhidhāyādhunā adhibhūtaviṣayaśabdasamanvayaṃ pratipipādayiṣurākāśasya bhūteṣu prādhānyāttacchabdasamanvayaṃ harāvāha sūtrakāraḥ ākāśastalliṅgāditi // ākāśas talliṅgāt
Sanskrit only: no published translation is held for this verse.
*३,५३५* ॥ अथ प्राणाधिकरणम् ॥ इदानीमाध्यात्मिकशब्दसमन्वयं सिषाधयिषुः प्रधानत्वात्प्राणशब्दसमन्वयार्थं सूत्रयामास अत एव प्राण इति ॥ ॥ ॐ अत एव प्राणः ॐ ॥ अत एव प्राणः
*3,535* // atha prāṇādhikaraṇam // idānīmādhyātmikaśabdasamanvayaṃ siṣādhayiṣuḥ pradhānatvātprāṇaśabdasamanvayārthaṃ sūtrayāmāsa ata eva prāṇa iti // // oṃ ata eva prāṇaḥ oṃ // ata eva prāṇaḥ
Sanskrit only: no published translation is held for this verse.
*३,५५८* ज्योतिश् चरणाभिधानात्
*3,558* jyotiś caraṇābhidhānāt
Sanskrit only: no published translation is held for this verse.
*३,५५९* ॥ अथ श्रीमन्न्यायसुधायां गायतृयधिकरणम् ॥ तेन वक्तव्याभावादुत्तरं गायतृयधिकरणमेव विव्रियते । अधिवेदगताशेषनाम्नामुपलक्षणस्य वेदमातुस्त्रैवर्णिकद्वितीयजन्मनि जनन्या गायतृयाः प्राधान्येन तन्नाम्नः समन्वयं प्रतिपादयितुं सूत्रम् छन्दोभिधानश्चेति चेन्न तथा चेतोर्पणनिगदात्तथा हि दशर्नमिति ॥ ॥ ॐ छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथा हि दर्शनात् ॐ ॥ छन्दो ऽभिधानान् नेति चेन् न तथा चेतोऽर्पणनिगदात् तथा हि दर्शनम्
*3,559* // atha śrīmannyāyasudhāyāṃ gāyatṛyadhikaraṇam // tena vaktavyābhāvāduttaraṃ gāyatṛyadhikaraṇameva vivriyate / adhivedagatāśeṣanāmnāmupalakṣaṇasya vedamātustraivarṇikadvitīyajanmani jananyā gāyatṛyāḥ prādhānyena tannāmnaḥ samanvayaṃ pratipādayituṃ sūtram chandobhidhānaśceti cenna tathā cetorpaṇanigadāttathā hi daśarnamiti // // oṃ chandobhidhānānneti cenna tathā cetorpaṇanigadāttathā hi darśanāt oṃ // chando 'bhidhānān neti cen na tathā ceto'rpaṇanigadāt tathā hi darśanam
Sanskrit only: no published translation is held for this verse.
पूर्वेण सम्बन्धः । हेतुसमुच्चये चशब्दः । तादृशी खल्वीश्वरशक्तिः । यन्नित्यानित्यस्वभावास्वभावसर्वविषया । अन्यथा सर्वेश्वरत्वहानेः । अथ तस्याः शक्तेः किं शक्यमिति चेत् । तत्स्वरूपसत्तैव । अनादिसिद्धा सेति चेत् । सत्यम् । अनादीश्वरशक्तयैवेति वदामः । उक्तं चात्र प्रमाणमिति । *३,५७३* अपरे तु ज्योतिश्चरणाभिधानादित्याद्येकमेवाधिकरणं व्याचक्षते । तदयुक्तम् । अथ यदतः परो दिवो ज्योतिरिति वाक्ये चरणाभिधानाभावात् । चरणाभिधानादित्यस्य पादाभिधानादित्यर्थ इति चेत् । भूतादिपादव्यपदेशोपपत्तेश् चैवम्
pūrveṇa sambandhaḥ / hetusamuccaye caśabdaḥ / tādṛśī khalvīśvaraśaktiḥ / yannityānityasvabhāvāsvabhāvasarvaviṣayā / anyathā sarveśvaratvahāneḥ / atha tasyāḥ śakteḥ kiṃ śakyamiti cet / tatsvarūpasattaiva / anādisiddhā seti cet / satyam / anādīśvaraśaktayaiveti vadāmaḥ / uktaṃ cātra pramāṇamiti / *3,573* apare tu jyotiścaraṇābhidhānādityādyekamevādhikaraṇaṃ vyācakṣate / tadayuktam / atha yadataḥ paro divo jyotiriti vākye caraṇābhidhānābhāvāt / caraṇābhidhānādityasya pādābhidhānādityartha iti cet / bhūtādipādavyapadeśopapatteś caivam
Sanskrit only: no published translation is held for this verse.
उपदेशभेदान् नेति चेन् नोभयस्मिन्न् अप्य् अविरोधात्
upadeśabhedān neti cen nobhayasminn apy avirodhāt
Sanskrit only: no published translation is held for this verse.
*३,५७८* सिद्धान्तयत्सूत्रं व्याख्याति तन्नेति ॥ ॥ ॐ प्राणस्तथानुगमात् ॐ ॥ प्राणस् तथानुगमात्
*3,578* siddhāntayatsūtraṃ vyākhyāti tanneti // // oṃ prāṇastathānugamāt oṃ // prāṇas tathānugamāt
Sanskrit only: no published translation is held for this verse.
किन्तु ब्रह्मण एव प्राणशब्दमुख्यवाच्यत्वमिति शेषः । कुतः । ब्रह्मशब्दानुगमात् । पारमेश्वरलिङ्गानुगमाच्चेति भावः । अथवा बाहुल्य इत्यादिकमेव सिद्धान्तवाक्यम् । ब्रह्मविषययोः श्रुतिलिङ्गयोर्बाहुल्ये विद्यमाने यदन्यस्येन्द्रादेः प्राणशब्दमुख्यवाच्यत्वं पूर्ववादिनोक्तम् तन्नेति ॥ ननु च श्रुतिलिङ्गबाहुल्यादेवान्यस्य मुख्यवाच्यत्वमित्युक्तम् । सत्यम् । तथाप्यस्त्यत्र वैषम्यम् । निरवकाशश्रुतिलिङ्गबाहुल्येन हि प्रागत्र च निर्णयः कृतः । एतानि तु सावकाशानीत्याह अत्रगस्येति ॥ इन्द्रादिगतस्य । हिशब्दो हेत्वर्थः । तस्मान्नेति पूर्वेण सम्बन्धः । प्रमाणप्रसिद्धिद्योतको वा । आद्यस्तुशब्दो न्यायविशेषसूचकः । प्राणस्थानि प्राणसम्बन्धितया प्रतीतानि । पुनस्तुशब्दो ऽप्यर्थे । इन्द्रियविषयाण्यपीति श्रुतिरपीति वा । नच मञ्चेषु पुरुषसम्बन्धनिबन्धनं क्रोशनमिवामुख्यानीश्वरे लिङ्गानीति शङ्कनीयम् । अन्तर्गतस्य तस्यैव तत्तत्कर्तृत्वादित्याशयेन मुख्यत इत्युक्तम् । शतं वर्षाणीत्यतो ऽपि परस्तादितिशब्दो योज्यः । प्राणवंशत्वं प्राणांश्चक्षुरादीन्प्रति वंशत्वम् । एतेन न वक्तुरित्यादिसूत्रतात्पर्यमुक्तं भवति । न वक्तुर् आत्मोपदेशाद् इति चेद् अध्यात्मसंबन्धभूमा ह्य् अस्मिन्
kintu brahmaṇa eva prāṇaśabdamukhyavācyatvamiti śeṣaḥ / kutaḥ / brahmaśabdānugamāt / pārameśvaraliṅgānugamācceti bhāvaḥ / athavā bāhulya ityādikameva siddhāntavākyam / brahmaviṣayayoḥ śrutiliṅgayorbāhulye vidyamāne yadanyasyendrādeḥ prāṇaśabdamukhyavācyatvaṃ pūrvavādinoktam tanneti // nanu ca śrutiliṅgabāhulyādevānyasya mukhyavācyatvamityuktam / satyam / tathāpyastyatra vaiṣamyam / niravakāśaśrutiliṅgabāhulyena hi prāgatra ca nirṇayaḥ kṛtaḥ / etāni tu sāvakāśānītyāha atragasyeti // indrādigatasya / hiśabdo hetvarthaḥ / tasmānneti pūrveṇa sambandhaḥ / pramāṇaprasiddhidyotako vā / ādyastuśabdo nyāyaviśeṣasūcakaḥ / prāṇasthāni prāṇasambandhitayā pratītāni / punastuśabdo 'pyarthe / indriyaviṣayāṇyapīti śrutirapīti vā / naca mañceṣu puruṣasambandhanibandhanaṃ krośanamivāmukhyānīśvare liṅgānīti śaṅkanīyam / antargatasya tasyaiva tattatkartṛtvādityāśayena mukhyata ityuktam / śataṃ varṣāṇītyato 'pi parastāditiśabdo yojyaḥ / prāṇavaṃśatvaṃ prāṇāṃścakṣurādīnprati vaṃśatvam / etena na vakturityādisūtratātparyamuktaṃ bhavati / na vaktur ātmopadeśād iti ced adhyātmasaṃbandhabhūmā hy asmin
Sanskrit only: no published translation is held for this verse.
लिङ्गं धर्मः स आत्मेवात्मा प्रवृत्तिनिमित्तं येषां ते लिङ्गात्मकाः । स्वरूपार्थो वाऽत्मशब्दः । निमित्तनिमित्तिनोरभेदोपचारात् । सकलवेदगतानामन्यत्रप्रसिद्धानामिति शेषः । *३,५९२* नन्वतीतपादे समन्विता अपि लिङ्गात्मका एव । यौगिकत्वात् । अन्यथा गुणपूर्त्यलाभेन समन्वयसमर्थनवैयर्थ्यात् । नच प्रकरणगतगुणलाभेन सार्थक्यात् । वचनवृत्त्यङ्गीकारवैफल्यात् । उक्तं च यच्छब्दा योगवृत्तय इति । तत्कथमयं विभागः । सत्यम् । तथाप्यन्यत्रप्रसिद्धत्वादिवदापातप्रतीत्यनुरोधेनेयमुक्तिरित्यदोषः । वृत्तिर्लक्षणादिरपि भवतीत्यतः परे मुख्यार्थ इत्युक्तम् । तथाच मुख्यवृत्तिरिति लभ्यते । चिन्त्यते समर्थ्यते ऽस्मिन्पाद इति शेषः । *३,५९४* ॥ ॐ सर्वत्रप्रसिद्धोपदेशात् ॐ ॥ केचिन्मनोमयः प्राणशरीरो भारूप इत्युक्तं मनोमयत्वादिनोपास्यत्वं परमात्मनः प्रतिपादयितुमिदमधिकरणमिति व्याचक्षते । तदसदित्याशयवानाह सर्वगत्वमिति ॥ सर्वत्र प्रसिद्धोपदेशात्
liṅgaṃ dharmaḥ sa ātmevātmā pravṛttinimittaṃ yeṣāṃ te liṅgātmakāḥ / svarūpārtho vā'tmaśabdaḥ / nimittanimittinorabhedopacārāt / sakalavedagatānāmanyatraprasiddhānāmiti śeṣaḥ / *3,592* nanvatītapāde samanvitā api liṅgātmakā eva / yaugikatvāt / anyathā guṇapūrtyalābhena samanvayasamarthanavaiyarthyāt / naca prakaraṇagataguṇalābhena sārthakyāt / vacanavṛttyaṅgīkāravaiphalyāt / uktaṃ ca yacchabdā yogavṛttaya iti / tatkathamayaṃ vibhāgaḥ / satyam / tathāpyanyatraprasiddhatvādivadāpātapratītyanurodheneyamuktirityadoṣaḥ / vṛttirlakṣaṇādirapi bhavatītyataḥ pare mukhyārtha ityuktam / tathāca mukhyavṛttiriti labhyate / cintyate samarthyate 'sminpāda iti śeṣaḥ / *3,594* // oṃ sarvatraprasiddhopadeśāt oṃ // kecinmanomayaḥ prāṇaśarīro bhārūpa ityuktaṃ manomayatvādinopāsyatvaṃ paramātmanaḥ pratipādayitumidamadhikaraṇamiti vyācakṣate / tadasadityāśayavānāha sarvagatvamiti // sarvatra prasiddhopadeśāt
Sanskrit only: no published translation is held for this verse.
स्वकर्मकप्रकाशत्वमिति चेत् । तर्हि वृश्चिकभिया पलायमानस्याशीविषमुखे निपातः । यत्स्वलक्षरमात्राधीनविरोधं कर्मकर्तृभावं परिहर्तुं सर्वलोकावसितविरोधं क्रियाकमर्भावमभ्युपैति । क्रिया हि कर्मकारकजन्येष्यते । नच जन्यजनकयोरेकतोचिता । अन्तर्भावितपूर्वापरभावित्वात्तस्याः । नच तदेव स्वात्मानं प्रति पूर्वमपरं चेति युज्यते । प्रकाशान्तरानपेक्षसिद्ध(द्धि)त्वं स्वप्रकाशत्वमिति चेन्न । घटादेरपि स्वप्रकाशतापातात् । नहि घटादयः स्वसिद्धौ प्रकाशान्तरमपेक्षन्ते, किं नाम प्रकाशमेव । स्वातिरिक्तप्रकाशानपेक्षसिद्ध(द्धि)त्वमिति चेन्न । स्वापेक्षाभावेन स्वातिरिक्तविशेषणवैयर्थ्यात् । प्रकाशानपेक्षसिद्धत्वमिति चेन्न । व्व्याघातात् । शशविषाणादेरपि (एवं) सिद्धिप्रसङ्गाच्च । स्वव्यवहारहेतुप्रकाशत्वमिति चेन्न । स्वविषय एव व्यवहारहेतुत्वदर्शनेनास्वविषयस्य स्वव्यवहारहेतुतानुपपत्तेः । तद्गुणसंविज्ञानबहुव्रीह्यादिकं तु नोदाहरण(णीय)म् । गुणस्यापि समासविषयताङ्गीकारात् । *३,६१६फ़्।* किञ्चात्मा न चाक्षुषज्ञाने ऽवभासते । अरूपिद्रव्यत्वादाकाशवत् । अन्यथा रूपित्वप्रसङ्गः । कमर्तया प्रकाशे रूपोपयोग इति चेन्न । प्रकाशमानं कर्मतयैव प्रकाशत इति वदन्तं प्रति विशेषणवैयर्थ्यात् । एतेनानुमाने ऽपि प्रयोजकान्तराशङ्का निरस्ता । किं चात्मा यदि तदविषयो ऽपि तत्र प्रकाशते । हन्त तर्हि रूपज्ञाने रसो ऽपि कस्मान्न प्रकाशते । अनाश्रयत्वादिति चेत् । तत् किं यावज्ज्ञानसम्बन्धि ज्ञाने प्रकाशते, किंवाऽश्रय एव । आद्ये चक्षुरादावतिप्रसङ्गः । द्वितीये ऽपि नियामकं वाच्यम् । नहि घटो ऽयमित्यात्मावभासते । घटमहं जानामीतिप्रत्ययस्तु घटज्ञानविशिष्टात्मकर्मको ऽन्य एव । आत्मसिद्धिस्तु कर्मतयापि भविष्यतीति । एतेन स्वप्रकाशतयाऽत्मसिद्धिरपि परास्ता । स्वकमर्कप्रकाशवत्त्वतद्रूपत्वातिरिक्तयास्तस्या निरूपयितुमशक्यत्वात् । तदेवं कर्तृकर्मभावो न भेदव्याप्त इति सिद्धम् । *३,६२०* कर्मकर्तृव्यपदेशाच् च
svakarmakaprakāśatvamiti cet / tarhi vṛścikabhiyā palāyamānasyāśīviṣamukhe nipātaḥ / yatsvalakṣaramātrādhīnavirodhaṃ karmakartṛbhāvaṃ parihartuṃ sarvalokāvasitavirodhaṃ kriyākamarbhāvamabhyupaiti / kriyā hi karmakārakajanyeṣyate / naca janyajanakayorekatocitā / antarbhāvitapūrvāparabhāvitvāttasyāḥ / naca tadeva svātmānaṃ prati pūrvamaparaṃ ceti yujyate / prakāśāntarānapekṣasiddha(ddhi)tvaṃ svaprakāśatvamiti cenna / ghaṭāderapi svaprakāśatāpātāt / nahi ghaṭādayaḥ svasiddhau prakāśāntaramapekṣante, kiṃ nāma prakāśameva / svātiriktaprakāśānapekṣasiddha(ddhi)tvamiti cenna / svāpekṣābhāvena svātiriktaviśeṣaṇavaiyarthyāt / prakāśānapekṣasiddhatvamiti cenna / vvyāghātāt / śaśaviṣāṇāderapi (evaṃ) siddhiprasaṅgācca / svavyavahārahetuprakāśatvamiti cenna / svaviṣaya eva vyavahārahetutvadarśanenāsvaviṣayasya svavyavahārahetutānupapatteḥ / tadguṇasaṃvijñānabahuvrīhyādikaṃ tu nodāharaṇa(ṇīya)m / guṇasyāpi samāsaviṣayatāṅgīkārāt / *3,616f.* kiñcātmā na cākṣuṣajñāne 'vabhāsate / arūpidravyatvādākāśavat / anyathā rūpitvaprasaṅgaḥ / kamartayā prakāśe rūpopayoga iti cenna / prakāśamānaṃ karmatayaiva prakāśata iti vadantaṃ prati viśeṣaṇavaiyarthyāt / etenānumāne 'pi prayojakāntarāśaṅkā nirastā / kiṃ cātmā yadi tadaviṣayo 'pi tatra prakāśate / hanta tarhi rūpajñāne raso 'pi kasmānna prakāśate / anāśrayatvāditi cet / tat kiṃ yāvajjñānasambandhi jñāne prakāśate, kiṃvā'śraya eva / ādye cakṣurādāvatiprasaṅgaḥ / dvitīye 'pi niyāmakaṃ vācyam / nahi ghaṭo 'yamityātmāvabhāsate / ghaṭamahaṃ jānāmītipratyayastu ghaṭajñānaviśiṣṭātmakarmako 'nya eva / ātmasiddhistu karmatayāpi bhaviṣyatīti / etena svaprakāśatayā'tmasiddhirapi parāstā / svakamarkaprakāśavattvatadrūpatvātiriktayāstasyā nirūpayitumaśakyatvāt / tadevaṃ kartṛkarmabhāvo na bhedavyāpta iti siddham / *3,620* karmakartṛvyapadeśāc ca
Sanskrit only: no published translation is held for this verse.
*३,६२८* ॥ अथ अत्तृत्वाधिकरणम् ॥ ॥ ॐ अत्ता चराचरग्रहणात् ॐ ॥ अत्ता चराचरग्रहणात्
*3,628* // atha attṛtvādhikaraṇam // // oṃ attā carācaragrahaṇāt oṃ // attā carācaragrahaṇāt
Sanskrit only: no published translation is held for this verse.
*३,६७२* ॥ अथ श्रीमन्न्यायसुधायां गुहाधिकरणम् ॥ ॥ ॐ गुहां प्रविष्यावात्मानौ हि तद्दर्शनात् ॐ ॥ गुहां प्रविष्टाव् आत्मानौ हि तद्दर्शनात्
*3,672* // atha śrīmannyāyasudhāyāṃ guhādhikaraṇam // // oṃ guhāṃ praviṣyāvātmānau hi taddarśanāt oṃ // guhāṃ praviṣṭāv ātmānau hi taddarśanāt
Sanskrit only: no published translation is held for this verse.
एतदुक्तं भवति । परमेश्वरमात्रग्रहणे द्विवचनानुपपत्तिं वदन्पृष्टव्यः । कथमनुपपत्तिरिति । द्विवचनं भेदाभिधायि । नच परमात्मनि स्वगतभेदो युज्यत इति चेन्न, द्विवचनस्य भेदाभिधायित्वे ऽनुशासनाभावात् । अथ द्वित्वसङ्खया द्विवचनाभिधेया, सा च परमात्मन्यभेदेन एकत्वसङ्खयया च विरुद्धयत इति चेत्, न । अभेदेनैकत्ववत्येव घटे द्रव्यान्तरसहिते द्वित्वदर्शनात् । अथ द्वित्वं द्रव्यान्तरविधुरस्य न युज्यते विरोधादिति मतम् । तत्रेदमुपतिष्ठते । न केवलं संसारधर्महीनस्यर् कमफलभोगो युज्यते । किन्तु द्वित्वं चैकस्य निर्भेदस्य एकत्वाधारमात्रस्य च युज्यते । *३,६७४* कथमित्यपेक्षायां तत्प्रदशर्नाय विशेषणाच्चेति सूत्रं प्रकारान्तरेण व्याचष्टे यः सेतुरिति ॥ विशेषणाच् च
etaduktaṃ bhavati / parameśvaramātragrahaṇe dvivacanānupapattiṃ vadanpṛṣṭavyaḥ / kathamanupapattiriti / dvivacanaṃ bhedābhidhāyi / naca paramātmani svagatabhedo yujyata iti cenna, dvivacanasya bhedābhidhāyitve 'nuśāsanābhāvāt / atha dvitvasaṅkhayā dvivacanābhidheyā, sā ca paramātmanyabhedena ekatvasaṅkhayayā ca viruddhayata iti cet, na / abhedenaikatvavatyeva ghaṭe dravyāntarasahite dvitvadarśanāt / atha dvitvaṃ dravyāntaravidhurasya na yujyate virodhāditi matam / tatredamupatiṣṭhate / na kevalaṃ saṃsāradharmahīnasyar kamaphalabhogo yujyate / kintu dvitvaṃ caikasya nirbhedasya ekatvādhāramātrasya ca yujyate / *3,674* kathamityapekṣāyāṃ tatpradaśarnāya viśeṣaṇācceti sūtraṃ prakārāntareṇa vyācaṣṭe yaḥ seturiti // viśeṣaṇāc ca
Sanskrit only: no published translation is held for this verse.
*३,६७७* ॥ अथ श्रीमन्न्यायसुधायां अन्तराधिकरणम् ॥ ॥ ॐ अन्तर उपपत्तेः ॐ ॥ अन्तर उपपत्तेः
*3,677* // atha śrīmannyāyasudhāyāṃ antarādhikaraṇam // // oṃ antara upapatteḥ oṃ // antara upapatteḥ
Sanskrit only: no published translation is held for this verse.
अन्तःशब्दोपपदाद्रमतेर्ञमन्ताड्ड इति डः । उणादयो बहुलमित्युपपदलोपः । विवक्षितं चैतत्सूत्रकारस्य । अन्यथा"अन्तस्तद्धर्मोपदेशात्ऽ; इतिवत् अन्तरुपपत्तेरित्यवक्ष्यत् । लघु चैवं सति सूत्रं स्यात् । अन्तर इति कुर्वन्निममेवार्थं प्रतिजानीत इति । ननु च"य एषो ऽन्तरि()क्षणि पुरुषो दृश्यते, एष आत्मेति होवाचऽ; इत्येतदत्रोदाहरणवाक्यम् । अत्र चाक्षिस्थ एव प्रतीयते । न तस्य रमणकर्तृत्वम् । श्रुत्युक्तमेव सूत्रैः प्रतिज्ञातव्यम् । तत्कथं श्रुतावनुक्तं रमणकर्तृत्वं सूत्रकृता प्रतिज्ञायत इत्यत आह रमणं चेति ॥ न केवलमक्षिस्थत्वम् । किन्तु रमणं रमणकर्तृत्वं चेति आद्यश्चशब्दः । न केवलं सूत्रे ऽपि तु श्रुतौ चेति द्वितीयः । आत्मशब्देन एष आत्मेत्यनेन । आदेयम् उपादेयं सुखं सुखसाधनं च माति अनुभवतीति निर्वचनेनेत्यर्थः । आङ्पूर्वकाद्ददातेर्मन्यतेश्च क्विप् । *३,६८०* सुखविशिष्टाभिधानाद् एव च
antaḥśabdopapadādramaterñamantāḍḍa iti ḍaḥ / uṇādayo bahulamityupapadalopaḥ / vivakṣitaṃ caitatsūtrakārasya / anyathā"antastaddharmopadeśāt'; itivat antarupapatterityavakṣyat / laghu caivaṃ sati sūtraṃ syāt / antara iti kurvannimamevārthaṃ pratijānīta iti / nanu ca"ya eṣo 'ntari()kṣaṇi puruṣo dṛśyate, eṣa ātmeti hovāca'; ityetadatrodāharaṇavākyam / atra cākṣistha eva pratīyate / na tasya ramaṇakartṛtvam / śrutyuktameva sūtraiḥ pratijñātavyam / tatkathaṃ śrutāvanuktaṃ ramaṇakartṛtvaṃ sūtrakṛtā pratijñāyata ityata āha ramaṇaṃ ceti // na kevalamakṣisthatvam / kintu ramaṇaṃ ramaṇakartṛtvaṃ ceti ādyaścaśabdaḥ / na kevalaṃ sūtre 'pi tu śrutau ceti dvitīyaḥ / ātmaśabdena eṣa ātmetyanena / ādeyam upādeyaṃ sukhaṃ sukhasādhanaṃ ca māti anubhavatīti nirvacanenetyarthaḥ / āṅpūrvakāddadātermanyateśca kvip / *3,680* sukhaviśiṣṭābhidhānād eva ca
Sanskrit only: no published translation is held for this verse.
सुखविशेषणं विशिष्टता च ब्रह्मत्वं ब्रह्मशब्दार्थः । "कं ब्रह्मेतिऽ; ब्रह्मशब्देनोक्तेति यावत् । ब्रह्मशब्दो हि पूर्णतामाह । तद्विशेष्याकाङ्क्षायां सन्निहितपरित्यागे कारणाभावात्सुखमेव सम्बद्धयत इति । *३,६८२* अनवस्थितेर् असंभवाच् च नेतरः
sukhaviśeṣaṇaṃ viśiṣṭatā ca brahmatvaṃ brahmaśabdārthaḥ / "kaṃ brahmeti'; brahmaśabdenokteti yāvat / brahmaśabdo hi pūrṇatāmāha / tadviśeṣyākāṅkṣāyāṃ sannihitaparityāge kāraṇābhāvātsukhameva sambaddhayata iti / *3,682* anavasthiter asaṃbhavāc ca netaraḥ
Sanskrit only: no published translation is held for this verse.
*३,६८९* ॥ ॐ अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॐ ॥ अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात्
*3,689* // oṃ antaryāmyadhidaivādiṣu taddharmavyapadeśāt oṃ // antaryāmyadhidaivādhilokādiṣu taddharmavyapadeśāt
Sanskrit only: no published translation is held for this verse.
*३,६९२* ॥ अथ श्रीमन्न्यायसुधायां अदृश्यत्वाधिकरणम् ॥ ॥ ॐ अदृश्यत्वादिगुणको धर्मोक्तेः ॐ ॥ अदृश्यत्वादिगुणको धर्मोक्तेः
*3,692* // atha śrīmannyāyasudhāyāṃ adṛśyatvādhikaraṇam // // oṃ adṛśyatvādiguṇako dharmokteḥ oṃ // adṛśyatvādiguṇako dharmokteḥ
Sanskrit only: no published translation is held for this verse.
*३,७३५* ॥ ॐ वैश्वानरः साधारणशब्दविशेषात् ॐ ॥ वैश्वानरः साधारणशब्दविशेषात्
*3,735* // oṃ vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt oṃ // vaiśvānaraḥ sādhāraṇaśabdaviśeṣāt
Sanskrit only: no published translation is held for this verse.
हरिः सूत्रकारः अत्र पादे लिङ्गानां नाम्नां च स्वस्मिन्वृत्तिं वक्ति । ननु पूर्वेण पादद्वयेनोक्ता सेत्यत उक्तम् पुनरिति ॥ ननु तर्हि वैयर्थ्यमित्यत उक्तं तत्र हरौ, अन्यत्र च तस्मात्, प्रसिद्धानामिति । पूर्वत्र त्वन्यत्र प्रसिद्धानामित्युक्तमेव । परमेश्वरे प्रसिद्धानि चेल्लिङ्गनामानि किं समन्वयप्रतिपादनेन । सिद्धत्वादित्यत उक्तम् स्वस्मिन्नेवेति ॥ अन्ययोगव्यवच्छेदः, प्रयोजनमिति भावः । तत्किमन्यत्र शब्दवृत्तिरेव नास्ति । न नास्ति । किन्तु मुख्यतः परमेश्वरे अन्यत्र त्वमुख्येत्युक्तम् मुख्यत इति ॥ एवं सत्यन्यत्र लक्षणादिकमेव प्राप्तमित्यत उक्तम् विशेषादिति ॥ परममुख्या वृत्तिरीश्वरे अन्यत्र मुख्यादीति । एतदुक्तं भवति । ये शब्दाः लोकदृष्टया अन्यत्र शक्तिमन्तः तेषां वेदवाक्येष्वन्यपरत्वे प्राप्ते शक्तितात्पर्याभ्यां भगवदेकनिष्ठत्वं पादद्वयेन प्रतिपादितम् । अत्र तूभयत्र शक्तिमत्तया लोकप्रसिद्धानामन्यत्र तात्पर्ये प्राप्ते, भगवत्येव शक्तितात्पर्ये प्रतिपाद्येते इति । यद्यपि प्राधान्यक्रमानुरोधेन नामलिङ्गानामिति वक्तव्यम् । तथाप्युत्तरप्रतिपादनानुसारेण लिङ्गनाम्नामित्यभिहितम् । *४,५* ॥ ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ ॥ द्युभ्वाद्यायतनं स्वशब्दात्
hariḥ sūtrakāraḥ atra pāde liṅgānāṃ nāmnāṃ ca svasminvṛttiṃ vakti / nanu pūrveṇa pādadvayenoktā setyata uktam punariti // nanu tarhi vaiyarthyamityata uktaṃ tatra harau, anyatra ca tasmāt, prasiddhānāmiti / pūrvatra tvanyatra prasiddhānāmityuktameva / parameśvare prasiddhāni celliṅganāmāni kiṃ samanvayapratipādanena / siddhatvādityata uktam svasminneveti // anyayogavyavacchedaḥ, prayojanamiti bhāvaḥ / tatkimanyatra śabdavṛttireva nāsti / na nāsti / kintu mukhyataḥ parameśvare anyatra tvamukhyetyuktam mukhyata iti // evaṃ satyanyatra lakṣaṇādikameva prāptamityata uktam viśeṣāditi // paramamukhyā vṛttirīśvare anyatra mukhyādīti / etaduktaṃ bhavati / ye śabdāḥ lokadṛṣṭayā anyatra śaktimantaḥ teṣāṃ vedavākyeṣvanyaparatve prāpte śaktitātparyābhyāṃ bhagavadekaniṣṭhatvaṃ pādadvayena pratipāditam / atra tūbhayatra śaktimattayā lokaprasiddhānāmanyatra tātparye prāpte, bhagavatyeva śaktitātparye pratipādyete iti / yadyapi prādhānyakramānurodhena nāmaliṅgānāmiti vaktavyam / tathāpyuttarapratipādanānusāreṇa liṅganāmnāmityabhihitam / *4,5* // oṃ dyubhvādyāyatanaṃ svaśabdāt oṃ // dyubhvādyāyatanaṃ svaśabdāt
Sanskrit only: no published translation is held for this verse.
अत्र"यस्मिन् द्यौःऽ; इत्यदिवाक्यप्रतिपाद्यं द्युभ्वाद्यायतनं विष्णुरेवेति प्रतिपाद्य, पूर्वपक्षिणा शङ्कितानां रुद्रादीनां निराकरणार्थं सूत्रितम् ॐ नानुमानमतच्छब्दात् ॐ । ॥ ॐ प्राणभृच्चेति ॐ ॥ तत्रातच्छब्दादिति तच्छब्दाभावादिति व्याख्यातं भाष्ये । तदयुक्तमिवाभाति । असामर्थ्येन समासानुपपत्तेः । तत्र"छन्दोवत्सूत्राणि भवन्तिऽ; इति वा । "अकर्तरि च कारकेऽ; इति ज्ञापकादसामर्थ्ये ऽपि क्वचित्समासो भवतीति वाऽ"अर्थाभावे यदव्ययम्ऽ; इत्यव्ययीभावो वेति समाधानमवधातव्यम् । अथवा तेभ्यः शिवादिभ्यो ऽन्यत् अतद् ब्रह्म तस्य, शब्दो ऽतच्छब्दस्तस्मादिति व्याख्यानमित्याशयवानाह विष्णावेवेति ॥ नानुमानम् अतच्छब्दात्
atra"yasmin dyauḥ'; ityadivākyapratipādyaṃ dyubhvādyāyatanaṃ viṣṇureveti pratipādya, pūrvapakṣiṇā śaṅkitānāṃ rudrādīnāṃ nirākaraṇārthaṃ sūtritam oṃ nānumānamatacchabdāt oṃ / // oṃ prāṇabhṛcceti oṃ // tatrātacchabdāditi tacchabdābhāvāditi vyākhyātaṃ bhāṣye / tadayuktamivābhāti / asāmarthyena samāsānupapatteḥ / tatra"chandovatsūtrāṇi bhavanti'; iti vā / "akartari ca kārake'; iti jñāpakādasāmarthye 'pi kvacitsamāso bhavatīti vā'"arthābhāve yadavyayam'; ityavyayībhāvo veti samādhānamavadhātavyam / athavā tebhyaḥ śivādibhyo 'nyat atad brahma tasya, śabdo 'tacchabdastasmāditi vyākhyānamityāśayavānāha viṣṇāveveti // nānumānam atacchabdāt
Sanskrit only: no published translation is held for this verse.
॥ ॐ भूमासम्प्रसादादभ्युपदेशात् ॐ ॥ इदं कश्चिद्वयाख्याति । भूमा परमात्मा । कुतः । सम्प्रसीदत्यत्रेति सम्प्रसादः सुप्तिः । तत्र जाग्रत्प्राणः सम्प्रसादशब्देन लक्ष्यते । तस्मादूर्ध्वमुपदेशादिति । अपर आह"सम्प्रसादो जीवात्मा । तस्मादूर्ध्वमुपदेशादिति । तदुभयमप्यसत् । प्रसिद्धप्राणादिपदपरित्यागेनाप्रसिद्धसम्प्रसादपदोपादाने कारणाभावात् । अतो ऽध्युपदेशादित्येव हेतुः । ननु कथं तस्य परमात्मत्वसाधकता । अन्यत्रापि सम्भवादित्यतो व्याख्याति अखिलेशत्वादिति ॥ *४,१५* भूमा संप्रसादाद् अध्युपदेशात्
// oṃ bhūmāsamprasādādabhyupadeśāt oṃ // idaṃ kaścidvayākhyāti / bhūmā paramātmā / kutaḥ / samprasīdatyatreti samprasādaḥ suptiḥ / tatra jāgratprāṇaḥ samprasādaśabdena lakṣyate / tasmādūrdhvamupadeśāditi / apara āha"samprasādo jīvātmā / tasmādūrdhvamupadeśāditi / tadubhayamapyasat / prasiddhaprāṇādipadaparityāgenāprasiddhasamprasādapadopādāne kāraṇābhāvāt / ato 'dhyupadeśādityeva hetuḥ / nanu kathaṃ tasya paramātmatvasādhakatā / anyatrāpi sambhavādityato vyākhyāti akhileśatvāditi // *4,15* bhūmā saṃprasādād adhyupadeśāt
Sanskrit only: no published translation is held for this verse.
॥ ॐ अक्षरमम्बरान्तधृतेः ॐ ॥ अक्षरम् अम्बरान्तधृतेः
// oṃ akṣaramambarāntadhṛteḥ oṃ // akṣaram ambarāntadhṛteḥ
Sanskrit only: no published translation is held for this verse.
"एतद्वै तदक्षरं गार्गीऽ; इत्यत्रोक्तमक्षरं ब्रह्मैवेत्युक्तम् । अत्र सूत्रम् ॥ ॐ अन्यभावव्यावृत्तेश्चेति ॐ ॥ तदिदमक्षरस्य ब्रह्मत्वोपपादनाय हेत्वन्तराभिधायकतया व्याख्यातं भाष्ये । आक्षेपनिवर्तकतयाप्यतो विरुद्धवदित्यादिना व्याख्यायते । तथाहि । नेदमक्षरं ब्रह्म । "अस्थूलमनण्वह्रस्वमदीर्घमलोहितमच्छायमतमो ऽवाय्वनाकाशमसङ्गमरसमवागमनो ऽचक्षुष्कमप्राणमसुखम(गोत्र)मात्रमनन्तरमबाह्यं न तदश्नाति किञ्चनऽ; इत्यक्षरस्यास्थूलत्वादिश्रवणात् । नचैतद्ब्रह्मणः सम्भवति । अस्थूलत्वादिपदैर्हि स्थूलत्वादिविपरीतम् अणुत्वाद्यभिधानं वा स्यात् । स्थूलत्वादिनिवृत्तिमात्रपर्यवसानं वा । आद्ये परस्परविरोधः । अस्थूलमित्यनेन ह्यणुपरिमाणं वक्तव्यम् । अनण्वित्यनेन च महत्त्वम् । नचोभयमेकत्र युज्यते । परस्परपरिहारेणैव वृत्तिदर्शनात् । एवमह्रस्वमदीर्घमित्यत्रापि विरोधो द्रष्टव्यः । नचैकपरिमाणोपेतमेवोत्कृष्टापेक्षयाणु महद्दीर्घं ह्रस्वं चेत्युच्यत इत्याश्रयणेन विरोधपरिहारः । घटादितुल्यत्वेनावक्तव्यत्वात् । उत्कृष्टापकृष्टपरिमाणद्रव्यान्तराभावाच्च । द्वितीये तु निःस्वभावं ब्रह्मेत्यापन्नम् । तथाच"सर्वत्र प्रसिद्धोपदेशात् । अत्ता चराचरग्रहणात् । रूपोपन्यासाच्चऽ; इत्युक्तविरोधः स्यादिति । तत्र तावत्प्रथमपक्षमभ्युपेत्य चशब्दसूचितं परिहारमाह अत इति ॥ अन्यभावव्यावृत्तेश् च
"etadvai tadakṣaraṃ gārgī'; ityatroktamakṣaraṃ brahmaivetyuktam / atra sūtram // oṃ anyabhāvavyāvṛtteśceti oṃ // tadidamakṣarasya brahmatvopapādanāya hetvantarābhidhāyakatayā vyākhyātaṃ bhāṣye / ākṣepanivartakatayāpyato viruddhavadityādinā vyākhyāyate / tathāhi / nedamakṣaraṃ brahma / "asthūlamanaṇvahrasvamadīrghamalohitamacchāyamatamo 'vāyvanākāśamasaṅgamarasamavāgamano 'cakṣuṣkamaprāṇamasukhama(gotra)mātramanantaramabāhyaṃ na tadaśnāti kiñcana'; ityakṣarasyāsthūlatvādiśravaṇāt / nacaitadbrahmaṇaḥ sambhavati / asthūlatvādipadairhi sthūlatvādiviparītam aṇutvādyabhidhānaṃ vā syāt / sthūlatvādinivṛttimātraparyavasānaṃ vā / ādye parasparavirodhaḥ / asthūlamityanena hyaṇuparimāṇaṃ vaktavyam / anaṇvityanena ca mahattvam / nacobhayamekatra yujyate / parasparaparihāreṇaiva vṛttidarśanāt / evamahrasvamadīrghamityatrāpi virodho draṣṭavyaḥ / nacaikaparimāṇopetamevotkṛṣṭāpekṣayāṇu mahaddīrghaṃ hrasvaṃ cetyucyata ityāśrayaṇena virodhaparihāraḥ / ghaṭāditulyatvenāvaktavyatvāt / utkṛṣṭāpakṛṣṭaparimāṇadravyāntarābhāvācca / dvitīye tu niḥsvabhāvaṃ brahmetyāpannam / tathāca"sarvatra prasiddhopadeśāt / attā carācaragrahaṇāt / rūpopanyāsācca'; ityuktavirodhaḥ syāditi / tatra tāvatprathamapakṣamabhyupetya caśabdasūcitaṃ parihāramāha ata iti // anyabhāvavyāvṛtteś ca
Sanskrit only: no published translation is held for this verse.
*४,६७* ॥ अथ श्रीमन्न्यायसुधायां आनुमानिकाधिकरणम् ॥ अन्यत्रैव प्रसिद्धशब्दसमन्वयप्रतिपादनं पादार्थ इति भाष्यात्परिशेषाद्वा सिद्धम् । अन्यत्र प्रसिद्धेभ्यो ऽन्यत्रैव प्रसिद्धानां विवेकश्च भाष्य एवोपपादित इति नेहोच्यते । ॐ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ॐ ॥ आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीर-रूपक-विन्यस्त-गृहीतेर् दर्शयति च
*4,67* // atha śrīmannyāyasudhāyāṃ ānumānikādhikaraṇam // anyatraiva prasiddhaśabdasamanvayapratipādanaṃ pādārtha iti bhāṣyātpariśeṣādvā siddham / anyatra prasiddhebhyo 'nyatraiva prasiddhānāṃ vivekaśca bhāṣya evopapādita iti nehocyate / oṃ ānumānikamapyekeṣāmiti cenna śarīrarūpakavinyastagṛhīterdarśayati ca oṃ // ānumānikam apy ekeṣām iti cen na śarīra-rūpaka-vinyasta-gṛhīter darśayati ca
Sanskrit only: no published translation is held for this verse.
अत्र"महतः परमव्यक्तमव्यक्तात्पुरुषः परःऽ; इति वाक्यमुदाहृत्य, अव्यक्तशब्दं परं ब्रह्मैवेत्युपपादितम् । तत्र यदुक्तं पूर्वपक्षिणा"अव्यक्तं चेत्परं ब्रह्म तदा तस्य पुरुषादवरत्वं प्राप्नोति । नच तद्युक्तम् । सकलश्रुत्यादिविरोधात्ऽ; इति । तत्परिहारार्थं सूत्रम् तदधीनत्वादर्थवदिति । तदधीनत्वाद् अर्थवत्
atra"mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ'; iti vākyamudāhṛtya, avyaktaśabdaṃ paraṃ brahmaivetyupapāditam / tatra yaduktaṃ pūrvapakṣiṇā"avyaktaṃ cetparaṃ brahma tadā tasya puruṣādavaratvaṃ prāpnoti / naca tadyuktam / sakalaśrutyādivirodhāt'; iti / tatparihārārthaṃ sūtram tadadhīnatvādarthavaditi / tadadhīnatvād arthavat
Sanskrit only: no published translation is held for this verse.
॥ अथ श्रीमन्न्यायसुधायां ज्योतिरुपक्रमाधिकरणम् ॥ ॥ ॐ ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके ॐ ॥ ज्योतिरुपक्रमा तु तथा ह्य् अधीयत एके
// atha śrīmannyāyasudhāyāṃ jyotirupakramādhikaraṇam // // oṃ jyotirupakramāttu tathā hyadhīyata eke oṃ // jyotirupakramā tu tathā hy adhīyata eke
Sanskrit only: no published translation is held for this verse.
जैमिन्यादीनामिति शेषः । नात्र जैमिन्यादिग्रहणेन तदीयमेवैतन्मतमित्युच्यते । किन्तु मदीयमेव मतमेकदेशतो जैमिन्यादिभिर्विज्ञातमिति । एतच्च तेषां ख्यात्यर्थम् । गुरुणा श्लाघिता हि शिष्या लोके ख्यातिं लभन्ते । ननु वाक्यान्वयस्य प्रकारत्रयं परस्परविरुद्धं कथं सूत्रकाराभिमतं स्यादित्यत आह तारतम्यमिति ॥ नृणामल्पाधिकारिणामवस्थातारतम्यं वदन्नित्यनेनावस्थातारतम्यव्यवस्थया मतभेदो न विरोधेनेत्युक्तं भवति । एतेनाङ्गीकृते ऽपीत्याद्युक्तं विवृतं वेदितव्यम् । *४,१४७* ज्योतिरधिकरणे योगवृत्त्या परमेश्वरे ऽखिल(पदानां)शब्दसमन्वयो ऽभिहितः । नासौ युज्यते । प्रकृत्यादेरन्यपरत्वाभावे निर्वचनानुपपत्तेः । नहि जातादिपदानामन्यपरत्वानङ्गीकारे जातमोतं यस्मिन्निति व्युत्पत्तिः सम्भवति । प्रकृत्यादेरन्यपरत्वे तु सर्वशब्दानां भगवद्वाचित्वमिति गतः पक्षः । किञ्च वसन्त इत्यादीनां भगवत्परत्वे कर्मानुष्ठानलोपो लोकव्यवहारविलोपश्च प्रसज्येतेत्युक्तमित्यत आह तेष्विति ॥ कल्पनोपदेशाच् च मध्वादिवदविरोधः
jaiminyādīnāmiti śeṣaḥ / nātra jaiminyādigrahaṇena tadīyamevaitanmatamityucyate / kintu madīyameva matamekadeśato jaiminyādibhirvijñātamiti / etacca teṣāṃ khyātyartham / guruṇā ślāghitā hi śiṣyā loke khyātiṃ labhante / nanu vākyānvayasya prakāratrayaṃ parasparaviruddhaṃ kathaṃ sūtrakārābhimataṃ syādityata āha tāratamyamiti // nṛṇāmalpādhikāriṇāmavasthātāratamyaṃ vadannityanenāvasthātāratamyavyavasthayā matabhedo na virodhenetyuktaṃ bhavati / etenāṅgīkṛte 'pītyādyuktaṃ vivṛtaṃ veditavyam / *4,147* jyotiradhikaraṇe yogavṛttyā parameśvare 'khila(padānāṃ)śabdasamanvayo 'bhihitaḥ / nāsau yujyate / prakṛtyāderanyaparatvābhāve nirvacanānupapatteḥ / nahi jātādipadānāmanyaparatvānaṅgīkāre jātamotaṃ yasminniti vyutpattiḥ sambhavati / prakṛtyāderanyaparatve tu sarvaśabdānāṃ bhagavadvācitvamiti gataḥ pakṣaḥ / kiñca vasanta ityādīnāṃ bhagavatparatve karmānuṣṭhānalopo lokavyavahāravilopaśca prasajyetetyuktamityata āha teṣviti // kalpanopadeśāc ca madhvādivadavirodhaḥ
Sanskrit only: no published translation is held for this verse.
॥ अथ श्रीमन्न्यायसुधायां प्रकृत्यधिकरणम् ॥ इदानीं"प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्ऽ"एतेन सर्वे व्याख्याता व्याख्याताःऽ; इत्यधिकरणद्वयस्य सङ्क्षेपतस्तात्पर्यमाह स्त्रीशब्दाश्चेति ॥ प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधात्
// atha śrīmannyāyasudhāyāṃ prakṛtyadhikaraṇam // idānīṃ"prakṛtiśca pratijñādṛṣṭāntānuparodhāt'"etena sarve vyākhyātā vyākhyātāḥ'; ityadhikaraṇadvayasya saṅkṣepatastātparyamāha strīśabdāśceti // prakṛtiś ca pratijñādṛṣṭāntānuparodhāt
Sanskrit only: no published translation is held for this verse.
एतेन सर्वे व्याख्याता व्याख्याताः
etena sarve vyākhyātā vyākhyātāḥ
Sanskrit only: no published translation is held for this verse.
A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.