संध्ये सृष्टिराह हि ॥ ॐ सन्ध्ये सृष्टिराह हि ॐ ॥ *९,१७फ़्।* योनेः शरीरमित्येतदवसानैः सूत्रैर्जीवस्य जन्मावगतम् । जातस्य च स्वपनाद्यवस्थासम्बन्धः प्रसिद्धः । तत्र स्वप्नावस्थाप्रवर्तकत्वलक्षणो महिमाभगवतो ऽत्राधिकरणे निर्णीयते । तथाहि । स्वप्नो नामार्थज्ञानात्मकः । तत्र तावत्स्वाप्नार्थानां करितुरगादीनां परमेश्वरायत्तता नोपपद्यते । असत्यत्वात् । न तावदिमे ऽनादिनित्याः । स्वप्नावस्थातः प्रागूर्ध्वं चोपलब्धिप्रसङ्गात् । नहि विद्यमाना अप्युपलब्धिसाधनेषु चक्षुरादिष्वनुपरतेषु नोपलभ्यन्ते, उपलभ्यन्ते चोपपत्तेरिति सम्भवति । नचान्यत्र गताः । अन्यैरप्यनुपलम्भात् । मद्यमपरिमाणश्चैते दृश्यन्ते । नच तथाविधमनादिनित्यं किमपि दृष्टम् । नाप्युत्पत्तिनाशवन्तः । तथात्वे ऽपि प्रागूर्ध्वमुपलम्भप्रसक्तेः । नच वाच्यं विद्युदादिवत्तदैवोत्पत्तिर्विनाशश्चेति । इत्थम्भावे प्रमाणाभावात् । प्राड्मृदादीनामूर्ध्वं कपालादीनां चोपलम्भापत्तेश्च । नचैतेषां (तात्कालिक)तत्कालीनजन्मन्युपादानं निमित्तं च पश्यामः । कर्ता च न तावज्जीवात्मा । द्रष्टुर्निर्व्यापारत्वात् । अपरस्य चादर्शनात् । नापीश्वरः । प्रमाणाभावात् । भ्रान्तित्वं चैतेषाम्,"स्वाप्नमायासरूपःऽ; इति"स्वाप्नमनोरथो यथाऽ; इत्यादिश्रुतिस्मृतिभ्यामावेद्यते । शिष्यमपव्याख्यानानुवादे वक्ष्यामः । तदेवं न स्वाप्नानामर्थानामीश्वराधीनत्वम् । नापि तज्ज्ञानस्य । तस्यापि निमित्ताभावेनापरमार्थत्वात् । नतावच्चक्षुरादीनां त(त्र निमि)न्निमित्तत्वम् । तेषामुपरतत्वात् । नापि मनसः । रूपादिमत्यर्थे सामर्थ्याभावात् (स्वातन्त्र्याभावात्) । अत एव न साक्षिणः । स इन्द्रियाप्रवृत्तौ लिङ्गशब्दयोरपि नावकाशः । अपरोक्षाकारं चेदमवभासते । अतो ऽर्थज्ञानरूपा स्वाप्नावस्था नेश्वराधीनेति प्राप्ते तत्प्रतिविधानायोपोद्घातमाह वासना इति ॥ संध्ये सृष्टिराह हि
saṃdhye sṛṣṭirāha hi // oṃ sandhye sṛṣṭirāha hi oṃ // *9,17f.* yoneḥ śarīramityetadavasānaiḥ sūtrairjīvasya janmāvagatam / jātasya ca svapanādyavasthāsambandhaḥ prasiddhaḥ / tatra svapnāvasthāpravartakatvalakṣaṇo mahimābhagavato 'trādhikaraṇe nirṇīyate / tathāhi / svapno nāmārthajñānātmakaḥ / tatra tāvatsvāpnārthānāṃ karituragādīnāṃ parameśvarāyattatā nopapadyate / asatyatvāt / na tāvadime 'nādinityāḥ / svapnāvasthātaḥ prāgūrdhvaṃ copalabdhiprasaṅgāt / nahi vidyamānā apyupalabdhisādhaneṣu cakṣurādiṣvanuparateṣu nopalabhyante, upalabhyante copapatteriti sambhavati / nacānyatra gatāḥ / anyairapyanupalambhāt / madyamaparimāṇaścaite dṛśyante / naca tathāvidhamanādinityaṃ kimapi dṛṣṭam / nāpyutpattināśavantaḥ / tathātve 'pi prāgūrdhvamupalambhaprasakteḥ / naca vācyaṃ vidyudādivattadaivotpattirvināśaśceti / itthambhāve pramāṇābhāvāt / prāḍmṛdādīnāmūrdhvaṃ kapālādīnāṃ copalambhāpatteśca / nacaiteṣāṃ (tātkālika)tatkālīnajanmanyupādānaṃ nimittaṃ ca paśyāmaḥ / kartā ca na tāvajjīvātmā / draṣṭurnirvyāpāratvāt / aparasya cādarśanāt / nāpīśvaraḥ / pramāṇābhāvāt / bhrāntitvaṃ caiteṣām,"svāpnamāyāsarūpaḥ'; iti"svāpnamanoratho yathā'; ityādiśrutismṛtibhyāmāvedyate / śiṣyamapavyākhyānānuvāde vakṣyāmaḥ / tadevaṃ na svāpnānāmarthānāmīśvarādhīnatvam / nāpi tajjñānasya / tasyāpi nimittābhāvenāparamārthatvāt / natāvaccakṣurādīnāṃ ta(tra nimi)nnimittatvam / teṣāmuparatatvāt / nāpi manasaḥ / rūpādimatyarthe sāmarthyābhāvāt (svātantryābhāvāt) / ata eva na sākṣiṇaḥ / sa indriyāpravṛttau liṅgaśabdayorapi nāvakāśaḥ / aparokṣākāraṃ cedamavabhāsate / ato 'rthajñānarūpā svāpnāvasthā neśvarādhīneti prāpte tatpratividhānāyopodghātamāha vāsanā iti // saṃdhye sṛṣṭirāha hi
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.