Library·Nyāyasudhā a subcommentary on Mādhva's Anuvyākhāna, a commentary on Bādarāyaṇa's Brahmasūtra, integrated version [BBs]·3·3.2

Nyāyasudhā a subcommentary on Mādhva's Anuvyākhāna, a commentary on Bādarāyaṇa's Brahmasūtra, integrated version [BBs] 3.2

संध्ये सृष्टिराह हि ॥ ॐ सन्ध्ये सृष्टिराह हि ॐ ॥ *९,१७फ़्।* योनेः शरीरमित्येतदवसानैः सूत्रैर्जीवस्य जन्मावगतम् । जातस्य च स्वपनाद्यवस्थासम्बन्धः प्रसिद्धः । तत्र स्वप्नावस्थाप्रवर्तकत्वलक्षणो महिमाभगवतो ऽत्राधिकरणे निर्णीयते । तथाहि । स्वप्नो नामार्थज्ञानात्मकः । तत्र तावत्स्वाप्नार्थानां करितुरगादीनां परमेश्वरायत्तता नोपपद्यते । असत्यत्वात् । न तावदिमे ऽनादिनित्याः । स्वप्नावस्थातः प्रागूर्ध्वं चोपलब्धिप्रसङ्गात् । नहि विद्यमाना अप्युपलब्धिसाधनेषु चक्षुरादिष्वनुपरतेषु नोपलभ्यन्ते, उपलभ्यन्ते चोपपत्तेरिति सम्भवति । नचान्यत्र गताः । अन्यैरप्यनुपलम्भात् । मद्यमपरिमाणश्चैते दृश्यन्ते । नच तथाविधमनादिनित्यं किमपि दृष्टम् । नाप्युत्पत्तिनाशवन्तः । तथात्वे ऽपि प्रागूर्ध्वमुपलम्भप्रसक्तेः । नच वाच्यं विद्युदादिवत्तदैवोत्पत्तिर्विनाशश्चेति । इत्थम्भावे प्रमाणाभावात् । प्राड्मृदादीनामूर्ध्वं कपालादीनां चोपलम्भापत्तेश्च । नचैतेषां (तात्कालिक)तत्कालीनजन्मन्युपादानं निमित्तं च पश्यामः । कर्ता च न तावज्जीवात्मा । द्रष्टुर्निर्व्यापारत्वात् । अपरस्य चादर्शनात् । नापीश्वरः । प्रमाणाभावात् । भ्रान्तित्वं चैतेषाम्,"स्वाप्नमायासरूपःऽ; इति"स्वाप्नमनोरथो यथाऽ; इत्यादिश्रुतिस्मृतिभ्यामावेद्यते । शिष्यमपव्याख्यानानुवादे वक्ष्यामः । तदेवं न स्वाप्नानामर्थानामीश्वराधीनत्वम् । नापि तज्ज्ञानस्य । तस्यापि निमित्ताभावेनापरमार्थत्वात् । नतावच्चक्षुरादीनां त(त्र निमि)न्निमित्तत्वम् । तेषामुपरतत्वात् । नापि मनसः । रूपादिमत्यर्थे सामर्थ्याभावात् (स्वातन्त्र्याभावात्) । अत एव न साक्षिणः । स इन्द्रियाप्रवृत्तौ लिङ्गशब्दयोरपि नावकाशः । अपरोक्षाकारं चेदमवभासते । अतो ऽर्थज्ञानरूपा स्वाप्नावस्था नेश्वराधीनेति प्राप्ते तत्प्रतिविधानायोपोद्घातमाह वासना इति ॥ संध्ये सृष्टिराह हि

saṃdhye sṛṣṭirāha hi // oṃ sandhye sṛṣṭirāha hi oṃ // *9,17f.* yoneḥ śarīramityetadavasānaiḥ sūtrairjīvasya janmāvagatam / jātasya ca svapanādyavasthāsambandhaḥ prasiddhaḥ / tatra svapnāvasthāpravartakatvalakṣaṇo mahimābhagavato 'trādhikaraṇe nirṇīyate / tathāhi / svapno nāmārthajñānātmakaḥ / tatra tāvatsvāpnārthānāṃ karituragādīnāṃ parameśvarāyattatā nopapadyate / asatyatvāt / na tāvadime 'nādinityāḥ / svapnāvasthātaḥ prāgūrdhvaṃ copalabdhiprasaṅgāt / nahi vidyamānā apyupalabdhisādhaneṣu cakṣurādiṣvanuparateṣu nopalabhyante, upalabhyante copapatteriti sambhavati / nacānyatra gatāḥ / anyairapyanupalambhāt / madyamaparimāṇaścaite dṛśyante / naca tathāvidhamanādinityaṃ kimapi dṛṣṭam / nāpyutpattināśavantaḥ / tathātve 'pi prāgūrdhvamupalambhaprasakteḥ / naca vācyaṃ vidyudādivattadaivotpattirvināśaśceti / itthambhāve pramāṇābhāvāt / prāḍmṛdādīnāmūrdhvaṃ kapālādīnāṃ copalambhāpatteśca / nacaiteṣāṃ (tātkālika)tatkālīnajanmanyupādānaṃ nimittaṃ ca paśyāmaḥ / kartā ca na tāvajjīvātmā / draṣṭurnirvyāpāratvāt / aparasya cādarśanāt / nāpīśvaraḥ / pramāṇābhāvāt / bhrāntitvaṃ caiteṣām,"svāpnamāyāsarūpaḥ'; iti"svāpnamanoratho yathā'; ityādiśrutismṛtibhyāmāvedyate / śiṣyamapavyākhyānānuvāde vakṣyāmaḥ / tadevaṃ na svāpnānāmarthānāmīśvarādhīnatvam / nāpi tajjñānasya / tasyāpi nimittābhāvenāparamārthatvāt / natāvaccakṣurādīnāṃ ta(tra nimi)nnimittatvam / teṣāmuparatatvāt / nāpi manasaḥ / rūpādimatyarthe sāmarthyābhāvāt (svātantryābhāvāt) / ata eva na sākṣiṇaḥ / sa indriyāpravṛttau liṅgaśabdayorapi nāvakāśaḥ / aparokṣākāraṃ cedamavabhāsate / ato 'rthajñānarūpā svāpnāvasthā neśvarādhīneti prāpte tatpratividhānāyopodghātamāha vāsanā iti // saṃdhye sṛṣṭirāha hi

Sanskrit only: no published translation is held for this verse.

निर्मातारं चैके पुत्रादयश् च

nirmātāraṃ caike putrādayaś ca

Sanskrit only: no published translation is held for this verse.

मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात्

māyāmātraṃ tu kārtsnyenānabhivyaktasvarūpatvāt

Sanskrit only: no published translation is held for this verse.

तथाहि । न तावत्स्वप्ने रथादीनामुचितो देशः सम्भवति । नहि संवृते देहदेशे रथादयो ऽवकाशं लभेरन् । नच वाच्यं"बहिः कुलायादमृतश्चरित्वाऽ; इति श्रुतेः स्थितिगतिप्रत्ययभेदाच्च बहिर्देहात्स्वप्नं पश्यतीति । सुप्तस्य जन्तोर्योजनशतान्तरितं देशं क्षणमात्रेण पर्येतुं विपर्येतु च ततः (सर्वतः)सामर्थ्या(भावा)सम्भवात् । क्वचिच्च प्रत्यागमनवर्जितः स्वप्नो भवति । कुरुष्वहमद्य शयानः स्वप्ने पाञ्चालानधिगतश्च प्रतिबुद्धश्चेति । देहाच्चेदपेयात्पाञ्चालेषु प्रतिबुध्येत । कुरुष्वेव तु प्रतिबुध्यते । येन चायं देहेन देशान्तराणि स्वप्ने पश्यति, न तानि तथाभूतान्येव भवन्ति । परिधावंश्चेत्पश्येज्जाग्रद्वद्भूतमर्थमाकलयेत् । दर्शयति च श्रुतिरन्तरेव स्वप्नं"स्वे शरीरे यथाकामं परिवर्ततेऽ; इति । अतश्च श्रुत्युपपत्तिविरेधाद्बहिः श्रुतिरनुपकारित्वसाम्याद्गौणी व्याख्येया । स्थितिगतिप्रत्ययभेदश्च भ्रान्तो ऽभ्युपेयः । *९,३७* कालविसंवादो ऽपि स्वप्ने भवति । रजन्यां सुप्तो हि वासरं भारते वर्षे मन्यन्ते । तथा मुहूर्तमात्रमपि वर्षम् । निमित्तान्यपि (च) स्वप्ने न बुद्धये कर्मणे वोचि(चोचि)तानि विद्यन्ते । बाध्यन्ते चैते रथादयः स्वप्ने दृष्टाः प्रबोधे । स्वप्ने एव चैते सुलभबाधा भवन्ति । आद्यन्तयोर्व्यभिचारदर्शनात् । रथो ऽयमिति हि कदाचित्स्वप्ने निर्धारितः क्षणेन मनुष्यः सम्पद्यते । मनुष्यो ऽयमिति निर्धारितः क्षणेन वृक्षः । स्पष्टं चाभावं रथादीनां स्वप्ने श्रावयति शास्त्रम् । "न तत्र रथा न रथयोगा न पन्थानो भवन्तिऽ; इत्यादि । तस्मान्मायामात्रं स्वपनदर्शनम् । *९,४४* अपर आह कात्स्नर्येनानभिव्यक्तस्वरपूत्वाद् द्रष्टुभिर्न्नत्वादिना निर्वक्तुमशक्यत्वात् । तथाहि । स्वाप्नानां रथादीनां द्रष्टुर्भेदो ऽभेदो भेदाभेदो वा । न तावद्भेदः । पाश्वर्स्थानामपि तदुपलम्भप्रसङ्गात् । आन्तरत्वस्य चानुचितत्वात् । नाप्यभेदः । एकस्याविचित्रस्य विचित्रानेकात्मकताया विना भ्रान्तिमनुपपत्तेः । भेदप्रत्ययविरोधाच्च । नच भेदाभेदौ । व्याघातात् । अतो ऽनिर्वाच्याविद्यालास एवायमिति । सूचकश्च हि श्रुतेर् आचक्षते च तद्विदः

tathāhi / na tāvatsvapne rathādīnāmucito deśaḥ sambhavati / nahi saṃvṛte dehadeśe rathādayo 'vakāśaṃ labheran / naca vācyaṃ"bahiḥ kulāyādamṛtaścaritvā'; iti śruteḥ sthitigatipratyayabhedācca bahirdehātsvapnaṃ paśyatīti / suptasya jantoryojanaśatāntaritaṃ deśaṃ kṣaṇamātreṇa paryetuṃ viparyetu ca tataḥ (sarvataḥ)sāmarthyā(bhāvā)sambhavāt / kvacicca pratyāgamanavarjitaḥ svapno bhavati / kuruṣvahamadya śayānaḥ svapne pāñcālānadhigataśca pratibuddhaśceti / dehāccedapeyātpāñcāleṣu pratibudhyeta / kuruṣveva tu pratibudhyate / yena cāyaṃ dehena deśāntarāṇi svapne paśyati, na tāni tathābhūtānyeva bhavanti / paridhāvaṃścetpaśyejjāgradvadbhūtamarthamākalayet / darśayati ca śrutirantareva svapnaṃ"sve śarīre yathākāmaṃ parivartate'; iti / ataśca śrutyupapattiviredhādbahiḥ śrutiranupakāritvasāmyādgauṇī vyākhyeyā / sthitigatipratyayabhedaśca bhrānto 'bhyupeyaḥ / *9,37* kālavisaṃvādo 'pi svapne bhavati / rajanyāṃ supto hi vāsaraṃ bhārate varṣe manyante / tathā muhūrtamātramapi varṣam / nimittānyapi (ca) svapne na buddhaye karmaṇe voci(coci)tāni vidyante / bādhyante caite rathādayaḥ svapne dṛṣṭāḥ prabodhe / svapne eva caite sulabhabādhā bhavanti / ādyantayorvyabhicāradarśanāt / ratho 'yamiti hi kadācitsvapne nirdhāritaḥ kṣaṇena manuṣyaḥ sampadyate / manuṣyo 'yamiti nirdhāritaḥ kṣaṇena vṛkṣaḥ / spaṣṭaṃ cābhāvaṃ rathādīnāṃ svapne śrāvayati śāstram / "na tatra rathā na rathayogā na panthāno bhavanti'; ityādi / tasmānmāyāmātraṃ svapanadarśanam / *9,44* apara āha kātsnaryenānabhivyaktasvarapūtvād draṣṭubhirnnatvādinā nirvaktumaśakyatvāt / tathāhi / svāpnānāṃ rathādīnāṃ draṣṭurbhedo 'bhedo bhedābhedo vā / na tāvadbhedaḥ / pāśvarsthānāmapi tadupalambhaprasaṅgāt / āntaratvasya cānucitatvāt / nāpyabhedaḥ / ekasyāvicitrasya vicitrānekātmakatāyā vinā bhrāntimanupapatteḥ / bhedapratyayavirodhācca / naca bhedābhedau / vyāghātāt / ato 'nirvācyāvidyālāsa evāyamiti / sūcakaśca hi śruter ācakṣate ca tadvidaḥ

Sanskrit only: no published translation is held for this verse.

। अथ श्रीमन्न्यायसुधायां पराभिध्यानाधिकरणम् ॥ पराभिध्यानात् तु तिरोहितं ततो ह्य् अस्य बन्धविपर्ययौ

/ atha śrīmannyāyasudhāyāṃ parābhidhyānādhikaraṇam // parābhidhyānāt tu tirohitaṃ tato hy asya bandhaviparyayau

Sanskrit only: no published translation is held for this verse.

॥ अथ श्रीमन्न्यायसुधायां बोधमोहाधिकरणानि ॥ तदभावो नाडीषु तच्छ्रुतेर् आत्मनि च

// atha śrīmannyāyasudhāyāṃ bodhamohādhikaraṇāni // tadabhāvo nāḍīṣu tacchruter ātmani ca

Sanskrit only: no published translation is held for this verse.

अतः प्रबोधो ऽस्मात्

ataḥ prabodho 'smāt

Sanskrit only: no published translation is held for this verse.

॥ अथ कर्मानुस्मृत्यधिकरणम् ॥ ॥ ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॐ ॥ केचिदेवं व्याचक्षते । सुषुप्तौ ब्रह्मसम्पन्नो य एव जीवषः (किं) स एवोत्तिष्ठत्युतान्यो ऽपीति संशये महाजलनिधौ क्षिप्तस्योदबिन्दोरिव ब्रह्मणैकीभूतस्योद्धरणासम्भवादनियम इति प्राप्ते समाधीयते । स एवोत्तिष्ठति, यः सुप्तः । कुतः । कर्मशेषसमापनात्प्रत्यभिज्ञानाच्छब्देभ्यो विधिभ्यश्च । सुप्तस्य मुक्तत्वापत्त्या विध्यनुपपत्तेरिति । तदेतदपव्याख्यानमिति सूचनायाधिकरणतात्पयर्माह नान्य इति ॥ स एव च कर्मानुस्मृतिशब्दविधिभ्यः

// atha karmānusmṛtyadhikaraṇam // // oṃ sa eva ca karmānusmṛtiśabdavidhibhyaḥ oṃ // kecidevaṃ vyācakṣate / suṣuptau brahmasampanno ya eva jīvaṣaḥ (kiṃ) sa evottiṣṭhatyutānyo 'pīti saṃśaye mahājalanidhau kṣiptasyodabindoriva brahmaṇaikībhūtasyoddharaṇāsambhavādaniyama iti prāpte samādhīyate / sa evottiṣṭhati, yaḥ suptaḥ / kutaḥ / karmaśeṣasamāpanātpratyabhijñānācchabdebhyo vidhibhyaśca / suptasya muktatvāpattyā vidhyanupapatteriti / tadetadapavyākhyānamiti sūcanāyādhikaraṇatātpayarmāha nānya iti // sa eva ca karmānusmṛtiśabdavidhibhyaḥ

Sanskrit only: no published translation is held for this verse.

मुग्धे ऽर्धसंपत्तिः परिशेषात्

mugdhe 'rdhasaṃpattiḥ pariśeṣāt

Sanskrit only: no published translation is held for this verse.

॥ अथ स्थान(तो ऽप्य)भेदाधिकरणम् ॥ ॥ ॐ न स्थानतो ऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ ॥ केचिदिदमित्थं व्याचक्षते । द्विरूपं ब्रह्म श्रूयते सर्वकर्मा सर्वकाम इत्यादौ सविशेषमस्थूलमनण्वित्यादौ निर्विशेषम् । तत्र किमुभयरूपं ब्रह्म प्रतिपत्तव्यमुतान्यतररूपम् । यदाप्यन्यतररूपं तदा(ऽपि) किं सविशेषमुत निर्विशेषमिति संशये द्विविधश्रुत्यनुरोधादुभयरूपमेव ब्रह्मेति प्राप्ते इदमुच्यते । न तावत्स्वत एव परस्य ब्रह्मण उभयरूपत्वं सम्भवति विरोधात् । अस्तु तर्हि स्थानतः पृथिव्याद्युपाधियोगात् । मैवम् । न ह्युपाधिरन्यदन्यथाकरोति किन्त्वविद्योपस्थापिताः पृथिव्याद्युपाधयो भ्रममुपजनयन्ति । अतश्चान्यतरपरिग्रहे ऽपि निरस्तसमस्तविशेषमेव ब्रह्म प्रतिपत्तव्यम् । सर्वत्राशब्दमस्पर्शमित्यादिवाक्येषु तथाभूतमेव हि ब्रह्मोपदिश्यते । न भेदादिति चेन्न प्रत्येकमतद्वचनात् । न निर्विशेषमेव ब्रह्म । चतुष्पाद्ब्रह्म षोडशकलं ब्रह्मेत्यादौ भेदेनोपदेशादिति चेन्न । यश्चायमस्यां पृथिव्यामित्यादिना प्रत्युपाधि भेदाभाववचनात् । अपि चैवमेके । नेह नानास्ति किञ्चनेत्यादौ भेददर्शननिन्दापूर्वकमभेदमेके शाखिनः समामनन्तीति । तदिदं व्याख्यानं सम्यग्व्याख्यानेनैवापहस्तितं भविष्यति किं पुनः प्रयत्नेनेत्याशयवान्व्याख्यानमेवारभते । सर्वशरीरेषु, प्रतिशरीरं च दक्षिणाक्ष्यादिस्थानेषु, स्थितः परमपुरुषः स्वपनाद्यवस्थाः प्रवर्तयतीत्युक्तम् । तत्र सर्वत्र स्थितः किमेक एवोत परस्परं भिन्न इति संशये यद्युगपद्भिन्नस्थानं तद्भिन्नं दृष्टम् । यथा घटादि । भिन्नस्थानश्चायमित्यतो भिन्न एव भवेत् । भिन्नानां च तारतम्यमनुग्राह्यानुग्राहकभावश्चोपलब्ध इति तत्प्रसङ्गो ऽपीति कथं स एव चेत्युक्तमिति प्राप्ते प्रतिविहितं सूत्रकृता न स्थानतो ऽपीति । तद्वयाचष्टे नेति ॥ न स्थानतो ऽपि परस्योभयलिङ्गं सर्वत्र हि

// atha sthāna(to 'pya)bhedādhikaraṇam // // oṃ na sthānato 'pi parasyobhayaliṅgaṃ sarvatra hi oṃ // kecididamitthaṃ vyācakṣate / dvirūpaṃ brahma śrūyate sarvakarmā sarvakāma ityādau saviśeṣamasthūlamanaṇvityādau nirviśeṣam / tatra kimubhayarūpaṃ brahma pratipattavyamutānyatararūpam / yadāpyanyatararūpaṃ tadā('pi) kiṃ saviśeṣamuta nirviśeṣamiti saṃśaye dvividhaśrutyanurodhādubhayarūpameva brahmeti prāpte idamucyate / na tāvatsvata eva parasya brahmaṇa ubhayarūpatvaṃ sambhavati virodhāt / astu tarhi sthānataḥ pṛthivyādyupādhiyogāt / maivam / na hyupādhiranyadanyathākaroti kintvavidyopasthāpitāḥ pṛthivyādyupādhayo bhramamupajanayanti / ataścānyataraparigrahe 'pi nirastasamastaviśeṣameva brahma pratipattavyam / sarvatrāśabdamasparśamityādivākyeṣu tathābhūtameva hi brahmopadiśyate / na bhedāditi cenna pratyekamatadvacanāt / na nirviśeṣameva brahma / catuṣpādbrahma ṣoḍaśakalaṃ brahmetyādau bhedenopadeśāditi cenna / yaścāyamasyāṃ pṛthivyāmityādinā pratyupādhi bhedābhāvavacanāt / api caivameke / neha nānāsti kiñcanetyādau bhedadarśananindāpūrvakamabhedameke śākhinaḥ samāmanantīti / tadidaṃ vyākhyānaṃ samyagvyākhyānenaivāpahastitaṃ bhaviṣyati kiṃ punaḥ prayatnenetyāśayavānvyākhyānamevārabhate / sarvaśarīreṣu, pratiśarīraṃ ca dakṣiṇākṣyādisthāneṣu, sthitaḥ paramapuruṣaḥ svapanādyavasthāḥ pravartayatītyuktam / tatra sarvatra sthitaḥ kimeka evota parasparaṃ bhinna iti saṃśaye yadyugapadbhinnasthānaṃ tadbhinnaṃ dṛṣṭam / yathā ghaṭādi / bhinnasthānaścāyamityato bhinna eva bhavet / bhinnānāṃ ca tāratamyamanugrāhyānugrāhakabhāvaścopalabdha iti tatprasaṅgo 'pīti kathaṃ sa eva cetyuktamiti prāpte prativihitaṃ sūtrakṛtā na sthānato 'pīti / tadvayācaṣṭe neti // na sthānato 'pi parasyobhayaliṅgaṃ sarvatra hi

Sanskrit only: no published translation is held for this verse.

सर्वत्र स्थानेषु निर्भेदश्चेत्यपि द्रष्टव्यम् । अशेषदोषोज्खश्चासौ पूर्णकल्याणचिद्गुणश्चेति विग्रहः । कल्याणा विनाशादिरहिताः । यद्वा गुणशब्दो दुःखादिष्वपीत्यतः कल्याणेत्युक्तम् । चिच्छब्दात्परत आदिपदमध्याहार्यम् । अथवा चिद्रूपा न त्वचेतना इत्यर्थः । "सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षतेऽ; इत्यादौ परमात्मा श्रूयते यत इति शेषः । *९,३६२* ॐ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॐ ॥ उक्तमर्थमाक्षिप्य समाधातुं सूत्रं न भेदादिति । निर्भेदं सर्वत्र सर्वदोषदूरं सकलगुणपरिपूर्णं ब्रह्मेति नोपपद्यते । "कार्यकारणबद्धौ तौऽ; इत्यादिश्रुतिपुराणादिवाक्यैर्भिन्नत्वदोषित्वाल्पगुणत्वादेर्भेदशब्दोपलक्षितस्योक्तत्वादित्याक्षेपार्थः । नेति परिहारांशं व्याचष्टे तद्विरुद्धं त्विति ॥ न भेदाद् इति चेन् न प्रत्येकम् अतद्वचनात्

sarvatra sthāneṣu nirbhedaścetyapi draṣṭavyam / aśeṣadoṣojkhaścāsau pūrṇakalyāṇacidguṇaśceti vigrahaḥ / kalyāṇā vināśādirahitāḥ / yadvā guṇaśabdo duḥkhādiṣvapītyataḥ kalyāṇetyuktam / cicchabdātparata ādipadamadhyāhāryam / athavā cidrūpā na tvacetanā ityarthaḥ / "sarveṣu bhūteṣvetameva brahmetyācakṣate'; ityādau paramātmā śrūyate yata iti śeṣaḥ / *9,362* oṃ na bhedāditi cenna pratyekamatadvacanāt oṃ // uktamarthamākṣipya samādhātuṃ sūtraṃ na bhedāditi / nirbhedaṃ sarvatra sarvadoṣadūraṃ sakalaguṇaparipūrṇaṃ brahmeti nopapadyate / "kāryakāraṇabaddhau tau'; ityādiśrutipurāṇādivākyairbhinnatvadoṣitvālpaguṇatvāderbhedaśabdopalakṣitasyoktatvādityākṣepārthaḥ / neti parihārāṃśaṃ vyācaṣṭe tadviruddhaṃ tviti // na bhedād iti cen na pratyekam atadvacanāt

Sanskrit only: no published translation is held for this verse.

॥ अथ श्रीमन्न्यायसुधायां अरूपाधिकरणम् ॥ ॥ ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ ॥ अत्राधिकरणे प्रथमसूत्रेण ब्रह्मणो रूपराहित्यमुपपाद्य प्रकाशवच्चावैयर्थ्यमिति (द्वितीय)सूत्रेण रूपवत्त्वविषयाणां श्रुतीनां वैयर्थ्यमाशङ्कय विलक्षणरूपवत्त्वाङ्गीकारेण परिहृतम् । विलक्षणरूपवत्त्वं च,"आह च तन्मात्रम्ऽ"दर्शयति चाथो ऽपि स्मर्यतेऽ; इति सूत्रद्वयेन समर्थितमिति भाष्येण प्रतीयते । तदनुपपन्नम् । अन्ततो रूपवत्त्वाङ्गीकारे ऽरूपवदेव हि तदित्यस्यावक्तव्यत्वापातात् । प्रयोजनाभावाच्चास्य विचारस्येत्यतश्चतुःसूत्र्यास्तात्पर्यमाह स चेति ॥ अरूपवद् एव हि तत्प्रधानत्वात्

// atha śrīmannyāyasudhāyāṃ arūpādhikaraṇam // // oṃ arūpavadeva hi tatpradhānatvāt oṃ // atrādhikaraṇe prathamasūtreṇa brahmaṇo rūparāhityamupapādya prakāśavaccāvaiyarthyamiti (dvitīya)sūtreṇa rūpavattvaviṣayāṇāṃ śrutīnāṃ vaiyarthyamāśaṅkaya vilakṣaṇarūpavattvāṅgīkāreṇa parihṛtam / vilakṣaṇarūpavattvaṃ ca,"āha ca tanmātram'"darśayati cātho 'pi smaryate'; iti sūtradvayena samarthitamiti bhāṣyeṇa pratīyate / tadanupapannam / antato rūpavattvāṅgīkāre 'rūpavadeva hi tadityasyāvaktavyatvāpātāt / prayojanābhāvāccāsya vicārasyetyataścatuḥsūtryāstātparyamāha sa ceti // arūpavad eva hi tatpradhānatvāt

Sanskrit only: no published translation is held for this verse.

॥ अथ उपमाधिकरणम् ॥ ॥ ॐ अत एव चोपमा सूर्यकादिवत् ॐ ॥ इह परमेश्वरे जीवस्यात्यन्तिकभक्तिसिद्धये भेदाभेदमतं निराक्रियते । तथाहि । जीवब्रह्मणोर्भेदस्तावत्सिद्धान्तिनाङ्गीक्रियत एव । अभेदस्त्वनुमानतः सिद्धः । जीवो ब्रह्माभिन्नश्चेतनत्वाद्ब्रह्मवतः, ब्रह्मांशत्वात् । यो यदंशः स तदभिन्नो यथेश्वरांशा मत्स्यादिस्तदभिन्न इति । अतो भिन्नाभिन्ना ब्रह्मणा जीव इत्येवं प्राप्ते प्रतिविहितं सूत्रकृता सूर्यकादिवदिति सूत्रखण्डेन । तदेतद्दृष्टान्तवचनमात्रं न कस्यचिदर्थस्य साधकं बाधकं वेत्यतः पूवर्पक्षनिषेधपूर्वकं प्रतिज्ञाहेतू दर्शयति नचेति ॥ अत एव चोपमा सूर्यकादिवत्

// atha upamādhikaraṇam // // oṃ ata eva copamā sūryakādivat oṃ // iha parameśvare jīvasyātyantikabhaktisiddhaye bhedābhedamataṃ nirākriyate / tathāhi / jīvabrahmaṇorbhedastāvatsiddhāntināṅgīkriyata eva / abhedastvanumānataḥ siddhaḥ / jīvo brahmābhinnaścetanatvādbrahmavataḥ, brahmāṃśatvāt / yo yadaṃśaḥ sa tadabhinno yatheśvarāṃśā matsyādistadabhinna iti / ato bhinnābhinnā brahmaṇā jīva ityevaṃ prāpte prativihitaṃ sūtrakṛtā sūryakādivaditi sūtrakhaṇḍena / tadetaddṛṣṭāntavacanamātraṃ na kasyacidarthasya sādhakaṃ bādhakaṃ vetyataḥ pūvarpakṣaniṣedhapūrvakaṃ pratijñāhetū darśayati naceti // ata eva copamā sūryakādivat

Sanskrit only: no published translation is held for this verse.

॥ अथ वृद्धिह्रासाधिकरणम् ॥ ॥ ॐ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॐ ॥ यदर्थं भगवन्महिमात्रोच्यते सा भक्तिः पुरुषेषु तारतम्येन तिष्ठतीत्येतदिहोपपाद्यते । तथाहि । अस्ति भक्तेर्वृद्धिह्रासभाक्त्व(मिति)म् । कुतः । ब्रह्मादीनामस्मदादीनां च भक्तत्वेऽन्तर्भावात् । एवं भक्तितारतम्येऽङ्गीकृते एवेश्वरस्योभयान्प्रति सामञ्जस्यसम्भवादिति । तदेतदसङ्गतम् । युक्तेः प्रतिज्ञातार्थेन सह स्म्बन्धाप्रतीतेरि(त्यत)ति तत्र आह तद्भक्तीति । *९,४४५* वृद्धिह्रासभाक्त्वम् अन्तर्भावाद् उभयसामञ्जस्याद् एवम्

// atha vṛddhihrāsādhikaraṇam // // oṃ vṛddhihrāsabhāktvamantarbhāvādubhayasāmañjasyādevam oṃ // yadarthaṃ bhagavanmahimātrocyate sā bhaktiḥ puruṣeṣu tāratamyena tiṣṭhatītyetadihopapādyate / tathāhi / asti bhaktervṛddhihrāsabhāktva(miti)m / kutaḥ / brahmādīnāmasmadādīnāṃ ca bhaktatve'ntarbhāvāt / evaṃ bhaktitāratamye'ṅgīkṛte eveśvarasyobhayānprati sāmañjasyasambhavāditi / tadetadasaṅgatam / yukteḥ pratijñātārthena saha smbandhāpratīteri(tyata)ti tatra āha tadbhaktīti / *9,445* vṛddhihrāsabhāktvam antarbhāvād ubhayasāmañjasyād evam

Sanskrit only: no published translation is held for this verse.

॥ अथ अव्यक्ताधिकरणम् ॥ ॥ ॐ तदव्यक्तमाह हि ॐ ॥ अत्र परमात्मनो ऽव्यक्तत्वमादौ विस्तरेण समर्थितम् । ततस्तर्हि भक्त्यादिसाधनवैयर्थ्यमित्याशङ्कय"प्रकाशश्च कर्मण्यभासात्ऽ; इति दृश्यत्वं चोक्तम् । तदेतदुभयं विरुद्धमित्याशङ्कय अतो ऽनन्तेन तथा हि लिङ्गमिति सूत्रितम् । अत्र विरोधशान्तिर्न स्फुटा प्रतीयत इत्यतस्तस्य तात्पर्यमाह अव्यक्तो ऽपीति ॥ तदव्यक्तमाह हि

// atha avyaktādhikaraṇam // // oṃ tadavyaktamāha hi oṃ // atra paramātmano 'vyaktatvamādau vistareṇa samarthitam / tatastarhi bhaktyādisādhanavaiyarthyamityāśaṅkaya"prakāśaśca karmaṇyabhāsāt'; iti dṛśyatvaṃ coktam / tadetadubhayaṃ viruddhamityāśaṅkaya ato 'nantena tathā hi liṅgamiti sūtritam / atra virodhaśāntirna sphuṭā pratīyata ityatastasya tātparyamāha avyakto 'pīti // tadavyaktamāha hi

Sanskrit only: no published translation is held for this verse.

॥ अथ उभयव्यपदेशाधिकरणम् ॥ ॥ ॐ उभयव्यपदेशात्त्वहिकुण्डलवत् ॐ ॥ यदीश्वरस्य गुणक्रियादयो धर्मास्ततो भिन्नास्तदा समवायस्य निराकृतत्वात्तद्वत्त्वमनुपपन्नम् । यदि चाभिन्नास्तदा ज्ञानादिमत्त्वमानन्दादिभोक्तृत्वमित्याद्ययुक्तमित्युभयथा तत्र भक्त्यनुपपत्तिरिति पूर्वपक्षप्राप्ताविदमारभ्यते । तत्र हेतुदृष्टान्तावेव सूचितौ । नतु पक्षपरिग्रहरूपा प्रतिज्ञा । अध्याहारो ऽपि हेतुदृष्टान्तबलेन भेदाभेदपक्षपरिग्रहस्येति प्रतिभाति । अतः प्रतिज्ञां दर्शयति तदभिन्ना इति ॥ उभयव्यपदेशात्त्वहिकुण्डलवत्

// atha ubhayavyapadeśādhikaraṇam // // oṃ ubhayavyapadeśāttvahikuṇḍalavat oṃ // yadīśvarasya guṇakriyādayo dharmāstato bhinnāstadā samavāyasya nirākṛtatvāttadvattvamanupapannam / yadi cābhinnāstadā jñānādimattvamānandādibhoktṛtvamityādyayuktamityubhayathā tatra bhaktyanupapattiriti pūrvapakṣaprāptāvidamārabhyate / tatra hetudṛṣṭāntāveva sūcitau / natu pakṣaparigraharūpā pratijñā / adhyāhāro 'pi hetudṛṣṭāntabalena bhedābhedapakṣaparigrahasyeti pratibhāti / ataḥ pratijñāṃ darśayati tadabhinnā iti // ubhayavyapadeśāttvahikuṇḍalavat

Sanskrit only: no published translation is held for this verse.

॥ अथ श्रीमन्न्यायसुधायां परानन्दा(परमता)धिकरणम् ॥ ॥ ॐ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॐ ॥ परमेश्वरस्यानन्दादयो गुणाः किं लौकिकानन्दादिसलक्षणाः किं वा तद्विलक्षणाः । आद्ये न तत्र बहुमानः सम्भवति । न द्वितीयः । *९,५२६* प्रकारप्रमाणाभावात् । विमता लौकिकसलक्षणा आनन्दादिशब्दवाच्यत्वादिति बाधकसद्भावाच्च । अन्यथा तत्रानन्दादिशब्दप्रवृत्तिर्न स्यात् । व्युत्पत्त्यभावात् । अतीन्द्रियत्वेन तत्रोपदेशा(द्युपायाद्य)भावे सादृश्यानुमानस्यैवानुसरणीयत्वात् । तस्य चासिद्धत्वात् । ततश्च वेदवेद्यत्वं न स्यादित्यस्य समाधानार्थमिदमारभ्यते । तत्राशङ्कितसकलदोषपरिहारो न स्फुटः प्रतीयत इत्यतो व्याचष्टे ते चेति ॥ परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः

// atha śrīmannyāyasudhāyāṃ parānandā(paramatā)dhikaraṇam // // oṃ paramataḥ setūnmānasambandhabhedavyapadeśebhyaḥ oṃ // parameśvarasyānandādayo guṇāḥ kiṃ laukikānandādisalakṣaṇāḥ kiṃ vā tadvilakṣaṇāḥ / ādye na tatra bahumānaḥ sambhavati / na dvitīyaḥ / *9,526* prakārapramāṇābhāvāt / vimatā laukikasalakṣaṇā ānandādiśabdavācyatvāditi bādhakasadbhāvācca / anyathā tatrānandādiśabdapravṛttirna syāt / vyutpattyabhāvāt / atīndriyatvena tatropadeśā(dyupāyādya)bhāve sādṛśyānumānasyaivānusaraṇīyatvāt / tasya cāsiddhatvāt / tataśca vedavedyatvaṃ na syādityasya samādhānārthamidamārabhyate / tatrāśaṅkitasakaladoṣaparihāro na sphuṭaḥ pratīyata ityato vyācaṣṭe te ceti // paramataḥ setūnmānasaṃbandhabhedavyapadeśebhyaḥ

Sanskrit only: no published translation is held for this verse.

परस्पराभेदे ऽपि । ततो नोक्तदोष इति (शेषः) भावः । अनेन वैलक्षण्यप्रकारो दर्शितः । प्रमाणं च वक्ष्यते । तथाचाद्यं सूत्रद्वयं व्याख्यातं भवति । *९,५२८* बाधकपरिहारार्थं सूत्रम् ॐ बुद्धयर्थः पादवत् ॐ इति । तद्वयाचष्टे विद्वदिति ॥ बुद्ध्यर्थः पादवत्

parasparābhede 'pi / tato noktadoṣa iti (śeṣaḥ) bhāvaḥ / anena vailakṣaṇyaprakāro darśitaḥ / pramāṇaṃ ca vakṣyate / tathācādyaṃ sūtradvayaṃ vyākhyātaṃ bhavati / *9,528* bādhakaparihārārthaṃ sūtram oṃ buddhayarthaḥ pādavat oṃ iti / tadvayācaṣṭe vidvaditi // buddhyarthaḥ pādavat

Sanskrit only: no published translation is held for this verse.

यद्यप्येतदधिकरणं परमत इत्यतो ऽनन्तरम् । तथापि तेनेवानेनापि सङ्गतिरस्य । अनेन विषयोपक्षेपात्तेन पूर्वपक्षोपपत्तिदर्शनात् । यद्वानेन पूर्वपक्षयुक्त्युत्थानात्तेन विषयोपक्षेपात् । तथाहि । न ब्रह्मादीनामानन्दस्य तारतम्यमुपपद्यते । भगवदानन्दप्रतिबिम्बत्वाभ्युपगमात् । बिम्बे च तारतम्याभावस्य न स्थानतो ऽपीत्युक्तत्वात् । अन्यथाऽकस्मिकत्वप्रसङ्गादिति । यद्वा न ब्रह्मा(द्या)दीनामानन्दो भगवदानन्दप्रतिबिम्बः । परस्परं विभिन्न(चित्र)त्वात् । बिम्बाभिमते च वैचित्र्याभावादिति । अतो ऽत्रेदं विशदयति प्रतिबिम्बवदिति ॥ स्थानविशेषात्प्रकाशादिवत्

yadyapyetadadhikaraṇaṃ paramata ityato 'nantaram / tathāpi tenevānenāpi saṅgatirasya / anena viṣayopakṣepāttena pūrvapakṣopapattidarśanāt / yadvānena pūrvapakṣayuktyutthānāttena viṣayopakṣepāt / tathāhi / na brahmādīnāmānandasya tāratamyamupapadyate / bhagavadānandapratibimbatvābhyupagamāt / bimbe ca tāratamyābhāvasya na sthānato 'pītyuktatvāt / anyathā'kasmikatvaprasaṅgāditi / yadvā na brahmā(dyā)dīnāmānando bhagavadānandapratibimbaḥ / parasparaṃ vibhinna(citra)tvāt / bimbābhimate ca vaicitryābhāvāditi / ato 'tredaṃ viśadayati pratibimbavaditi // sthānaviśeṣātprakāśādivat

Sanskrit only: no published translation is held for this verse.

यद्येप्येषां ब्रह्मादीनामानन्दः प्रतिबिम्बवत् । प्रसिद्धप्रतिबिम्बैस्तुल्यं वर्तते । भगवदानन्दप्रतिबिम्बो भवतीति यावत् । तथापि परस्परं विचित्रो भवतीति शेषः । कथम् । अन्येषां साधनभूतानामुपाधिगुणानां भक्त्यादीनां वैचित्र्यानतिक्रमेण । तत्र दृष्टान्तः प्रतिबिम्बवदिति । यथा सूर्यादिप्रतिबिम्बानां सूर्यकान्तजलादिगतायां सूर्यादिबिम्बवैचित्र्याभावे ऽपि सूर्यकान्तादिस्थानगुणवैचित्र्याद्वैचित्र्यं तथेत्यर्थः । *९,४४८* वैचित्र्ये हेत्वन्तरमाह नारायणेति ॥ उपपत्तेश् च

yadyepyeṣāṃ brahmādīnāmānandaḥ pratibimbavat / prasiddhapratibimbaistulyaṃ vartate / bhagavadānandapratibimbo bhavatīti yāvat / tathāpi parasparaṃ vicitro bhavatīti śeṣaḥ / katham / anyeṣāṃ sādhanabhūtānāmupādhiguṇānāṃ bhaktyādīnāṃ vaicitryānatikrameṇa / tatra dṛṣṭāntaḥ pratibimbavaditi / yathā sūryādipratibimbānāṃ sūryakāntajalādigatāyāṃ sūryādibimbavaicitryābhāve 'pi sūryakāntādisthānaguṇavaicitryādvaicitryaṃ tathetyarthaḥ / *9,448* vaicitrye hetvantaramāha nārāyaṇeti // upapatteś ca

Sanskrit only: no published translation is held for this verse.

फलमत उपपत्तेः

phalamata upapatteḥ

Sanskrit only: no published translation is held for this verse.

॥ अथ फलदानाधिकरणम् ॥ ॥ ॐ फलमत उपपत्तेः ॐ ॥ अत्रादौ तावत्स्वर्गनरकादिकं फलं प्राणिनामीश्वरादेव भवतीति श्रुत्युपपत्तिभ्यामुपपादितम् । तदाक्षेपार्थं सूत्रं"धर्मं जैमिनिरत एवऽ; इति । तस्यार्थः । ईश्वरः फलकारणं चेद्धर्माधर्मावपेक्षते न वा । नेति पक्षे वैषम्याद्यापत्तिर्वेदाप्रामाण्यप्रसक्तिश्च । आद्ये किमीश्वरेण तदपेक्षणीयेनैव कर्मणा फलसिद्धेः । अन्यथा गौरवापत्तेः । न चाचेतनत्वोपपत्तिविरोधः । नहि राजादिरिव कर्म फलं ददातीति ब्रूमो येनाचेतनत्वं बाधेत । किन्तु कारणमात्रम् । नच श्रुतिविरोधः । फलकारणयोर्धर्माधर्मयोरीश्वरकारितत्वेन तत्स्तुतये तस्य फलकारणत्वोपचारादिति । समाधानार्थं सूत्रम् । ॐ पूर्वं तु बादरायणो हेतुव्यपदेशात् ॐ ॥ तेनेदमुक्तम् । अपेक्षत एवेश्वरो धर्माधर्मौ । नच तावता तयोरेवास्तु फलहेतुतेति युक्तम् । धर्मादेरिवेश्वरस्यापि फलहेतुतया श्रुतिसिद्धत्वेन त्यागायोगात् । बाधकाभावेन श्रुतेरुपचरितार्थताकल्पनानुपपत्तेः । गौरवस्याप्रामाणिकविषयत्वात् । परस्य ब्रह्मणः कर्मणश्चोभयोर्हेतुत्वे साम्यापत्तिरित्यपि न वाच्यम् । *९,५३३* यतः फलदाने परमेश्वरः कर्तृत्वेन कर्म तु कारणत्वेन पुण्येन पुण्यमित्यादौ व्यपदिश्यते । करणं च कर्तृप्रयोज्यमिति प्रसिद्धमेवेति । तत्रेदमाशङ्कयते । तथापि कर्मापेक्षस्येश्वरस्य फलदाने ऽनुपचरितं स्वातन्त्र्यं न सिद्धयति । ततश्च न तस्मिन्बहुमानातिशय इति । एतत्परिहारत्वेन पूर्वपदं व्याख्याति स एवेति ॥ पूर्वं तु बादरायणो हेतुव्यपदेशात्

// atha phaladānādhikaraṇam // // oṃ phalamata upapatteḥ oṃ // atrādau tāvatsvarganarakādikaṃ phalaṃ prāṇināmīśvarādeva bhavatīti śrutyupapattibhyāmupapāditam / tadākṣepārthaṃ sūtraṃ"dharmaṃ jaiminirata eva'; iti / tasyārthaḥ / īśvaraḥ phalakāraṇaṃ ceddharmādharmāvapekṣate na vā / neti pakṣe vaiṣamyādyāpattirvedāprāmāṇyaprasaktiśca / ādye kimīśvareṇa tadapekṣaṇīyenaiva karmaṇā phalasiddheḥ / anyathā gauravāpatteḥ / na cācetanatvopapattivirodhaḥ / nahi rājādiriva karma phalaṃ dadātīti brūmo yenācetanatvaṃ bādheta / kintu kāraṇamātram / naca śrutivirodhaḥ / phalakāraṇayordharmādharmayorīśvarakāritatvena tatstutaye tasya phalakāraṇatvopacārāditi / samādhānārthaṃ sūtram / oṃ pūrvaṃ tu bādarāyaṇo hetuvyapadeśāt oṃ // tenedamuktam / apekṣata eveśvaro dharmādharmau / naca tāvatā tayorevāstu phalahetuteti yuktam / dharmāderiveśvarasyāpi phalahetutayā śrutisiddhatvena tyāgāyogāt / bādhakābhāvena śruterupacaritārthatākalpanānupapatteḥ / gauravasyāprāmāṇikaviṣayatvāt / parasya brahmaṇaḥ karmaṇaścobhayorhetutve sāmyāpattirityapi na vācyam / *9,533* yataḥ phaladāne parameśvaraḥ kartṛtvena karma tu kāraṇatvena puṇyena puṇyamityādau vyapadiśyate / karaṇaṃ ca kartṛprayojyamiti prasiddhameveti / tatredamāśaṅkayate / tathāpi karmāpekṣasyeśvarasya phaladāne 'nupacaritaṃ svātantryaṃ na siddhayati / tataśca na tasminbahumānātiśaya iti / etatparihāratvena pūrvapadaṃ vyākhyāti sa eveti // pūrvaṃ tu bādarāyaṇo hetuvyapadeśāt

Sanskrit only: no published translation is held for this verse.