॥ अथ फलदानाधिकरणम् ॥ ॥ ॐ फलमत उपपत्तेः ॐ ॥ अत्रादौ तावत्स्वर्गनरकादिकं फलं प्राणिनामीश्वरादेव भवतीति श्रुत्युपपत्तिभ्यामुपपादितम् । तदाक्षेपार्थं सूत्रं"धर्मं जैमिनिरत एवऽ; इति । तस्यार्थः । ईश्वरः फलकारणं चेद्धर्माधर्मावपेक्षते न वा । नेति पक्षे वैषम्याद्यापत्तिर्वेदाप्रामाण्यप्रसक्तिश्च । आद्ये किमीश्वरेण तदपेक्षणीयेनैव कर्मणा फलसिद्धेः । अन्यथा गौरवापत्तेः । न चाचेतनत्वोपपत्तिविरोधः । नहि राजादिरिव कर्म फलं ददातीति ब्रूमो येनाचेतनत्वं बाधेत । किन्तु कारणमात्रम् । नच श्रुतिविरोधः । फलकारणयोर्धर्माधर्मयोरीश्वरकारितत्वेन तत्स्तुतये तस्य फलकारणत्वोपचारादिति । समाधानार्थं सूत्रम् । ॐ पूर्वं तु बादरायणो हेतुव्यपदेशात् ॐ ॥ तेनेदमुक्तम् । अपेक्षत एवेश्वरो धर्माधर्मौ । नच तावता तयोरेवास्तु फलहेतुतेति युक्तम् । धर्मादेरिवेश्वरस्यापि फलहेतुतया श्रुतिसिद्धत्वेन त्यागायोगात् । बाधकाभावेन श्रुतेरुपचरितार्थताकल्पनानुपपत्तेः । गौरवस्याप्रामाणिकविषयत्वात् । परस्य ब्रह्मणः कर्मणश्चोभयोर्हेतुत्वे साम्यापत्तिरित्यपि न वाच्यम् । *९,५३३* यतः फलदाने परमेश्वरः कर्तृत्वेन कर्म तु कारणत्वेन पुण्येन पुण्यमित्यादौ व्यपदिश्यते । करणं च कर्तृप्रयोज्यमिति प्रसिद्धमेवेति । तत्रेदमाशङ्कयते । तथापि कर्मापेक्षस्येश्वरस्य फलदाने ऽनुपचरितं स्वातन्त्र्यं न सिद्धयति । ततश्च न तस्मिन्बहुमानातिशय इति । एतत्परिहारत्वेन पूर्वपदं व्याख्याति स एवेति ॥ पूर्वं तु बादरायणो हेतुव्यपदेशात्
// atha phaladānādhikaraṇam // // oṃ phalamata upapatteḥ oṃ // atrādau tāvatsvarganarakādikaṃ phalaṃ prāṇināmīśvarādeva bhavatīti śrutyupapattibhyāmupapāditam / tadākṣepārthaṃ sūtraṃ"dharmaṃ jaiminirata eva'; iti / tasyārthaḥ / īśvaraḥ phalakāraṇaṃ ceddharmādharmāvapekṣate na vā / neti pakṣe vaiṣamyādyāpattirvedāprāmāṇyaprasaktiśca / ādye kimīśvareṇa tadapekṣaṇīyenaiva karmaṇā phalasiddheḥ / anyathā gauravāpatteḥ / na cācetanatvopapattivirodhaḥ / nahi rājādiriva karma phalaṃ dadātīti brūmo yenācetanatvaṃ bādheta / kintu kāraṇamātram / naca śrutivirodhaḥ / phalakāraṇayordharmādharmayorīśvarakāritatvena tatstutaye tasya phalakāraṇatvopacārāditi / samādhānārthaṃ sūtram / oṃ pūrvaṃ tu bādarāyaṇo hetuvyapadeśāt oṃ // tenedamuktam / apekṣata eveśvaro dharmādharmau / naca tāvatā tayorevāstu phalahetuteti yuktam / dharmāderiveśvarasyāpi phalahetutayā śrutisiddhatvena tyāgāyogāt / bādhakābhāvena śruterupacaritārthatākalpanānupapatteḥ / gauravasyāprāmāṇikaviṣayatvāt / parasya brahmaṇaḥ karmaṇaścobhayorhetutve sāmyāpattirityapi na vācyam / *9,533* yataḥ phaladāne parameśvaraḥ kartṛtvena karma tu kāraṇatvena puṇyena puṇyamityādau vyapadiśyate / karaṇaṃ ca kartṛprayojyamiti prasiddhameveti / tatredamāśaṅkayate / tathāpi karmāpekṣasyeśvarasya phaladāne 'nupacaritaṃ svātantryaṃ na siddhayati / tataśca na tasminbahumānātiśaya iti / etatparihāratvena pūrvapadaṃ vyākhyāti sa eveti // pūrvaṃ tu bādarāyaṇo hetuvyapadeśāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.