तदनन्यत्वम् आरम्भणशब्दादिभ्यः अभ्युपगम्य चेमं व्यावहारिकं भोक्तृभोग्यलक्षणं विभागं स्याल्लोकवदिति परिहारोषऽभिहितः । नत्वयं विभागः परमार्थतो ऽस्ति यस्मात्तयोः कार्यकारणयोरनन्यत्वमवगम्यते । कार्यमाकाशादिकं बहुप्रपञ्चं जगत्, कारणं परंब्रह्म, तस्मात्कारणात्परमार्थतो ऽनन्यत्वं व्यतिरेकेणाभावः कार्यस्यावगम्यते । कुतः । आरम्भणशब्दादिभ्यः । आरम्भणशब्दस्तावत् । एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय दृष्टान्तापेक्षायामुच्यते- ऽयथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्ऽ (छा। ६।१।१) इति । एतदुक्तं भवति- एकेन मृत्पिण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृन्मयं घटशरावोदञ्चनादिकं मृदात्मकत्वाविशेषाद्विज्ञातं भवेत् । यतो वाचारम्भणं विकारो नामधेयं वाचैव केवलमस्तीत्यारभ्यते । विकारो घटः शराव उदञ्चनं चेति । नतु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति । नामधेयमात्रं ह्येतदनृतं मृत्तिकेत्येव सत्यमिति । एष ब्रह्मणो दृष्टान्तः आम्नातः । तत्र श्रुताद्वाचारम्भणशब्दाद्दार्ष्टान्तिके ऽपि ब्रह्मव्यतिरेकेण कार्यजातस्याभाव इति गम्यते । पुनश्च तेजोबन्नानां ब्रह्मकार्यतामुक्त्वा तेजोबन्नकार्याणां तेजोबन्नव्यतिरेकेणाभावं ब्रवीति- ऽअपागादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम्ऽ (छा। ६।४।१) इत्यादिना । आरम्भणशब्दादिभ्य इत्यादिशब्दात् ऽऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसिऽ (छा। ६।८।७), ऽइदं सर्वं यदयमात्माऽ (बृ। २।४।६), ऽब्रह्मैवेदं सर्वम्ऽ (मु। २।२।११), ऽआत्मैवेदं सर्वम्ऽ (छा। ७।२५।२), ऽनेह नानास्ति किञ्चनऽ (बृ।४।४।१९) इत्येवमाद्यप्यात्मैकत्वप्रतिपादनपरं वचनजातमुदाहर्तव्यम् । नचान्यथैकविज्ञानेन सर्वविज्ञानं संपद्यते । तस्माद्यथा घटकरकाद्याकाशानां महाकाशानन्यत्वं, यथाच मृगतृष्णिकोदकादीनामूषरादिभ्यो ऽनन्यत्वं दृष्टनष्टस्वरूपत्वात्स्वरूपेणानुपाख्यत्वात्, एवमस्य भोग्यभोक्त्रादिप्रपञ्चजातस्य ब्रह्मव्यतिरेकेणाभाव इति द्रष्टव्यम् । नन्वनेकात्मकं ब्रह्म, यथा वृक्षो ऽनेकशाख एवमनेकशक्तिप्रवृत्तियुक्तं ब्रह्म । अत एकत्वं नानात्वं चोभयमपि सत्यमेव । यथा वृक्ष इत्यनेकत्वं शाखा इति नानात्वम् । यथाच समुद्रात्मनैकत्वं फेनतरङ्गाद्यात्मना नानात्वम् । यथाच मृदात्मनैकत्वं घटशरावाद्यात्मना नानात्वम् । तत्रैकत्वांशेन ज्ञानान्मोक्षव्यवहारः सेत्स्यति । नानात्वांशेन तु कर्मकाण्डाश्रयौ लौकिकवैदिकव्यवहारौ सेत्स्यत इति । एवञ्च मृदादिदृष्टान्ता अनुरूपा भविष्यन्तीति । नैवं स्यात् । ऽमृत्तिकेत्येव सत्यम्ऽ इति प्रकृतिमात्रस्य दृष्टान्ते सत्यत्वावधारणात् । वाचारम्भणशब्देन च विकारजातस्यानृतत्वाभिधानात् । दार्ष्टान्तिके ऽपि ऽऐतदात्म्यमिदं सर्वं तत्सत्यम्ऽ इति च परमकारणस्यैवैकस्य सत्यत्वावधारणात् ऽस आत्मा तत्त्वमसि श्वेतकेतोऽ इति च शारीरस्य ब्रह्मभावोपदेशात् । स्वयं प्रसिद्धं ह्येतच्छरीरस्य ब्रह्मात्मत्वमुपदिश्यते न यत्नान्तरप्रसाध्यम् । अतश्चेदं शास्त्रीयं ब्रह्मात्मत्वमवगम्यमानं स्वाभाविकस्य शारीरात्मत्वस्य बाधकं संपद्यते, रज्ज्वादिबुद्धय इव सर्पादिबुद्धीनाम् । बाधिते च शारीरात्मत्वस्य तदाश्रयः समस्तः स्वाभाविको व्यवहारो बाधितो भवति यत्प्रसिद्धये नानात्वांशो ऽपरो ब्रह्मणः कल्प्येत । दर्शयति च- ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृ। ४।५।१५) इत्यादिना ब्रह्मात्मत्वदर्शिनं प्रति समस्तस्य क्रियाकारकफललक्षणस्य व्यवहारस्याभावम् । नचायं व्यवहाराभावोषऽवस्थाविशेषनिबद्धो ऽभिधीयत इति युक्तं वक्तुम्, ऽतत्त्वमसिऽ इति ब्रह्मात्मभावस्यानवस्थाविशेषनिबन्धनत्वात् । तस्करदृष्टान्तेन चानृताभिसंधस्य बन्धनं सत्याभिसंधस्य च मोक्षं दर्शयन्नेकत्वमेवैकं पारमार्थिकं दर्शयति (छा। ६।१६) । मिथ्याज्ञानविजृम्भितं च नानात्वम् । उभयसत्यतायां हि कथं व्यवहारगोचरो ऽपि जन्तुरनृताभिसंध इत्युच्येत । ऽमृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिऽ (बृ। ४।४।१९) इति च भेददृष्टिमपवदन्नेवैतद्दर्शयति । नचास्मिन्दर्शने ज्ञानान्मोक्ष इत्युपपद्यते, सम्यग्ज्ञनापनोद्यस्य कस्यचिन्मिथ्याज्ञानस्य संसारकारणत्वेनानभ्युपगमात् । उभयसत्यतायां हि कथमेकत्वविज्ञानेन नानात्वज्ञानमपनुद्यत इत्युच्यते । नन्वेकत्वैकान्ताभ्युपगमे नानात्वाभावत्प्रत्यक्षादीनि लौकिकानि प्रमाणानि व्याहन्येरन्निर्विषयत्वात्, स्थाण्वादिष्विव पुरुषादिज्ञानानि । तथा विधिप्रतिषेधशास्त्रमपि भेदापेक्षत्वात्तदभावे व्याहन्येत, मोक्षशास्त्रस्यापि शिष्यशासित्रादिभेदापेक्षत्वात्तदभावे व्याघातः स्यात् । कथं चानृतेन मोक्षशास्त्रेण प्रतिपादितस्यात्मैकत्वस्य सत्यत्वमुपपद्येतेति । अत्रोच्यते- नैष दोषः । सर्वव्यवहाराणामेव प्राग्ब्रह्मात्मताविज्ञानात्सत्यत्वोपपत्तेः । स्वप्नव्यवहारस्येव प्राक्प्रबोधात् । यावद्धि न सत्यात्मैकत्वप्रतिपत्तिस्तावत्प्रमाणप्रमेयफललक्षणेषु विकारेष्वनृतत्वबुद्धिर्न कस्यचिदुत्पद्यते । विकारानेव त्वहं ममेत्यविद्यायामात्मीयेन भावेन सर्वो जन्तुः प्रतिपद्यते स्वाभाविकीं ब्रह्मात्मतां हित्वा । तस्मात्प्राग्ब्रह्मात्मताप्रतिबोधादुपपन्नः सर्वो लौकिको वैदिकश्च व्यवहारः । यथा सुप्तस्य प्राकृतस्य जनस्य स्वप्न उच्चावचान्भावान्पश्यतो निश्चितमेव प्रत्यक्षाभिमतं विज्ञानं भवति प्राक्प्रबोधात्, नच प्रत्यक्षाभासाभिप्रायस्तत्काले भवति, तद्वत् । कथं त्वसत्येन वेदान्तवाक्येन सत्यस्य ब्रह्मात्मत्वस्य प्रतिपत्तिरुपपद्येत । नहि रज्जुसर्पेण दृष्टो म्रियते । नापि मृगतृष्णिकाम्भसा पानावगाहनादिप्रयोजनं क्रियत इति । नैष दोषः । शङ्काविषादिनिमित्तमरणादिकार्योपलब्धेः । स्वप्नदर्शनावस्थस्य च सर्पदंशनोदकस्नानादिकार्यदर्शनात् । तत्कार्यमप्यनृतमेवेति चेद्ब्रूयात् । तत्र ब्रूमः- यद्यपि स्वप्नदर्शनावस्थस्य सर्पदंशनोदकस्नानादिकार्यमनृतं तथापि तदवगतिः सत्यमेव फलं, प्रतिबुद्धस्याप्यबाध्यमानत्वात् । नहि स्वप्नादुत्थितः स्वप्नदृष्टं सर्पदंशनोदकस्नानादिकार्यं मिथ्येति मन्यमानस्तदवगतिमपि मिथ्येति मन्यते कश्चित् । एतेन स्वप्नदृशो ऽवगत्यबाधनेन देहमात्रात्मवादो दूषितो वेदितव्यः । तथाच श्रुतिः - ऽयदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शनेऽ (छा। ५।२।९) इत्यसत्येन स्वप्नदर्शनेन सत्यायाः समृद्धेः प्रतिपत्तिं दर्शयति । तथा प्रत्यक्षदर्शनेषु केषुचिदरिष्टेषु जातेषु ऽन चिरमिव जीविष्यतीति विद्यात्ऽ इत्युक्त्वा ऽअथ स्वप्नाः पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्तिऽ इत्यादिना तेन तेनासत्येनैव स्वप्नदर्शनेन सत्यं मरणं सूच्यत इति दर्शयति । प्रसिद्धं चेदं लोके ऽन्वयव्यतिरेककुशलानामीदृशेन स्वप्नदर्शनेन साध्वागमः सूच्यत ईदृशेनासाध्वागम इति । तथाकारादिसत्याक्षरप्रतिपत्तिर्द्दष्टा रेखानृताक्षरप्रतिपत्तेः । अपिचान्त्यमिदं प्रमाणमात्मैकत्वस्य प्रतिपादकं नातः परं किञ्चिदाकाङ्क्ष्यमस्ति । यथाहि लोके यजेतेत्युक्ते किं केन कथमित्याकाङ्क्ष्यते नैवं ऽतत्त्वमसिऽ ऽअहं ब्रह्मास्मिऽ इत्युक्ते किञ्चिदन्यदाकाङ्क्ष्यमस्ति, सर्वात्मैकत्वविषयत्वावगतेः । सति ह्यस्मिन्नवशिष्यमाणेर्ऽथे आकाङ्क्षा स्यात् । नत्वात्मैकत्वव्यतिरेकेणावशिष्यमाणो ऽन्योर्ऽथो ऽस्ति य आकाङ्क्ष्येत । न चेयमवगतिर्नोपपद्यत इति शक्यं वक्तुम्, ऽतद्धास्य विजज्ञौऽ (छा। ६।१६।३) इत्यादिश्रुतिभ्यः । अवगतिसाधनानां च श्रवणादीनां वेदानुवचनादीनां च विधानात् । नचेयमवगतिरनर्थिका भ्रान्तिर्वेति शक्यं वक्तुम् । अविद्यानिवृत्तिफलदर्शनात्, बाधकज्ञानान्तराभावाच्च । प्राक्चात्मैकत्वावगतेरव्याहतः सर्वः सत्यानृतव्यवहारो लौकिको वैदिकश्चेत्यवोचाम । तस्मादन्त्येन प्रमाणेन प्रतिपादित आत्मैकत्वे समस्तस्य प्राचीनस्य भेदव्यवहारस्य बाधितत्वान्नानेकात्मकब्रह्मकल्पनावकाशो ऽस्ति । ननु मृदादिदृष्टान्तप्रणयनात्परिणामवद्ब्रह्म शास्त्रस्याभिमतमिति गम्यते । परिणामिनो हि मृदादयोर्ऽथा लोके समधिगता इति । नेत्युच्यते । ऽस वा एष महाजन आत्माजरो ऽमरो ऽमृतो ऽभयो ब्रह्मऽ (बृ। ४।४।२५) ऽस एष नेति नेत्यात्माऽ (बृ। ३।९।२३), ऽअस्थूलमनणुऽ (बृ। ३।८।८) इत्याद्याभ्यः सर्वविक्रियाप्रतिषेधश्रुतिभ्यो ब्रह्मणः कूटस्थत्वावगमात् । नह्येकस्य ब्रह्मणः परिणामधर्मत्वं तद्रहितत्वं च श्क्यं प्रतिपत्तुम् । स्थितिगतिवत्स्यादिति चेत् । न । कूटस्थस्येति विशेषणात् । नहि कूटस्थस्य ब्रह्मणः स्थितिगतिवदनेकधर्माश्रयत्वं संभवति । कूटस्थं च नित्यं ब्रह्म सर्वविक्रियाप्रतिषेधादित्यवोचाम । नच यथा ब्रह्मण आत्मैकत्वदर्शनं मोक्षसाधनमेवं जगदाकारपरिणामित्वदर्शनमपि स्वतन्त्रमेव कस्मैचित्फलायाभिप्रेयते । प्रमाणाभावात् । कूटस्थब्रह्मात्मविज्ञानादेव हि फलं दर्शयति शास्त्रम्- ऽस एष नेति नेत्यात्माऽ इत्युपक्रम्य ऽअभयं वै जनक प्राप्तो ऽसिऽ (बृ। ४।२।४) इत्येवञ्जातीयकम् । तत्रैतत्सिद्धं भवति- ब्रह्मप्रकरणे सर्वधर्मविशेषरहितब्रह्मदर्शनादेव फलसिद्धौ सत्यां यत्तत्राफलं श्रूयते ब्रह्मणो जगदाकारपरिणामित्वादि तद्ब्रह्मदर्शनोपायत्वेनैव विनियुज्यते, फलवत्संनिधावफलं तदङ्गमितिवत् । नतु स्वतन्त्रं फलाय कल्प्यत इति । नहि परिणामवत्त्वविज्ञानात्परिणामवत्त्वमात्मनः फलं स्यादिति वक्तुं युक्तं, कूटस्थनित्यत्वान्मोक्षस्य । कूटस्थब्रह्मात्मवादिन एकत्वैकान्त्यादीशित्रीशितव्याभाव ईश्वरकारणप्रतिज्ञाविरोध इति चेत् । न । अविद्यात्मकनामरूपबीजव्याकरणापेक्षत्वात्सर्वज्ञत्वस्य । ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै। २।१) इत्यादिवाक्येभ्यो नित्यशुद्धबुद्धमुक्तस्वरूपात्सर्वज्ञात्सर्वशक्तेरीश्वराज्जगज्जनिस्थि तिप्रलया नाचेतनात्प्रधानादन्यस्माद्वेत्येषोर्ऽथः प्रतिज्ञातः ऽजन्माद्यस्य यतःऽ (ब्रसू। १।१।४) इति । सा प्रतिज्ञा तदवस्थैव न तद्विरुद्धोर्ऽथः पुनरिहोच्यते । कथं नोच्यते ऽत्यन्तमात्मन एकत्वमद्वितीयत्वं च ब्रुवता । श्रुणु यथा नोच्यते । सर्वज्ञस्येश्वरस्यात्मभूत इवाविद्याकल्पिते नामरूपे तत्त्वान्यत्वाभ्यामनिर्वचनीये संसारप्रपञ्चबीजभूते सर्वज्ञस्येश्वरस्य मायाशक्तिः प्रकृतिरिति च श्रुतिस्मृत्योरभिलप्येते । ताभ्यामन्यः सर्वज्ञ ईश्वरः ऽआकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्मऽ (छा। ८।१४।१) इति श्रुतेः । ऽनामरूपे व्याकरवाणिऽ (छा। ६।३।२), ऽसर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्तेऽ (तै। आ। ३।१२।७), ऽएकं बीजं बहुधा यः करोतिऽ (श्वं। ६।१२) इत्यादिश्रुतिभ्यश्च । एवमविद्याकृतनामरूपोपाध्यनुरोधीश्वरो भवति, व्योमेव घटकरकाद्युपाध्यनुरोधि । स च स्वात्मभूतानेव घटाकाशस्थानीयानविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसंघातानुरोधिनो जीवाख्यान्विज्ञानात्मनः प्रतीष्टे व्यवहारविषये । तदेवमविद्यात्मकोपाधिपरिच्छेदापेक्षमेवेश्वरस्येश्वरत्वं सर्वज्ञत्वं सर्वशक्तित्वं च न परमार्थतो विद्यायापास्तसर्वोपाधिस्वरूप आत्मनीशित्रीशितव्यसर्वज्ञत्वादिव्यवहार उपपद्यते । तथाचोक्तम्- ऽयत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाऽ (छा। ७।२४।१) इति ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन पश्येत्ऽ (बृ। ४।५।१५) इत्यादिना च । एवं परमार्थावस्थायां सर्वव्यवहाराभावं वदन्ति वेदान्ताः सर्वे । तथेश्वरगीतास्वपि- ऽन कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवःऽ (गी। ५।१४।-१५) इति परमार्थावस्थायामीशित्रीशितव्यादिव्यवहाराभावः प्रदर्श्यते । व्यवहारावस्थायां तूक्तः श्रुतावपीश्वरादिव्यवहारः ऽएष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधारण एषां लोकानामसंभेदायऽ (बृ। ४।४।२२) इति । तथाचेश्वरगीतास्वपि- ऽईश्वरः सर्वभूतानां हृद्देशेर्ऽजुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि माययाऽ (गी। १८।६१) इति । सूत्रकारो ऽपि परमार्थाभिप्रायेण तदन्यत्वमित्याह । व्यवहाराभिप्रायेण तु स्याल्लोकवदिति महासमुद्रस्थानीयतां ब्रह्मणः कथयति । अप्रत्याख्यायैव कार्यप्रपञ्चं परिणामप्रक्रियां चाश्रयति सगुणोपासनेषूपयोक्ष्यत इति ॥ १४ ॥ ---------------------- फ़्न्: दृष्टं प्रातीतिकं नष्ठमनित्यं यत्स्वरूपं तद्रूपेणानुपाख्यत्वात्सत्तास्फूर्तिशून्यत्वादनन्यत्वमिति संबन्धः । स्वभावो ऽत्राविद्या तया कृतः स्वाभाविकः । एकत्वस्यैकान्तः कैवल्यम् । व्याहन्येरन्नप्रमाणानि स्युः । सत्यत्वं बाधा भावः । बाधो मित्यात्वनिश्चयः । रेखास्वकारत्वादिभ्रान्त्या सत्या अकारादयो ज्ञायन्त इति प्रसिद्धम् ।
tadananyatvam ārambhaṇaśabdādibhyaḥ abhyupagamya cemaṃ vyāvahārikaṃ bhoktṛbhogyalakṣaṇaṃ vibhāgaṃ syāllokavaditi parihāroṣa'bhihitaḥ / natvayaṃ vibhāgaḥ paramārthato 'sti yasmāttayoḥ kāryakāraṇayorananyatvamavagamyate / kāryamākāśādikaṃ bahuprapañcaṃ jagat, kāraṇaṃ paraṃbrahma, tasmātkāraṇātparamārthato 'nanyatvaṃ vyatirekeṇābhāvaḥ kāryasyāvagamyate / kutaḥ / ārambhaṇaśabdādibhyaḥ / ārambhaṇaśabdastāvat / ekavijñānena sarvavijñānaṃ pratijñāya dṛṣṭāntāpekṣāyāmucyate- 'yathā somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ syādvācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam' (chā. 6.1.1) iti / etaduktaṃ bhavati- ekena mṛtpiṇḍena paramārthato mṛdātmanā vijñātena sarvaṃ mṛnmayaṃ ghaṭaśarāvodañcanādikaṃ mṛdātmakatvāviśeṣādvijñātaṃ bhavet / yato vācārambhaṇaṃ vikāro nāmadheyaṃ vācaiva kevalamastītyārabhyate / vikāro ghaṭaḥ śarāva udañcanaṃ ceti / natu vastuvṛttena vikāro nāma kaścidasti / nāmadheyamātraṃ hyetadanṛtaṃ mṛttiketyeva satyamiti / eṣa brahmaṇo dṛṣṭāntaḥ āmnātaḥ / tatra śrutādvācārambhaṇaśabdāddārṣṭāntike 'pi brahmavyatirekeṇa kāryajātasyābhāva iti gamyate / punaśca tejobannānāṃ brahmakāryatāmuktvā tejobannakāryāṇāṃ tejobannavyatirekeṇābhāvaṃ bravīti- 'apāgādagneragnitvaṃ vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam' (chā. 6.4.1) ityādinā / ārambhaṇaśabdādibhya ityādiśabdāt 'aitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā tattvamasi' (chā. 6.8.7), 'idaṃ sarvaṃ yadayamātmā' (bṛ. 2.4.6), 'brahmaivedaṃ sarvam' (mu. 2.2.11), 'ātmaivedaṃ sarvam' (chā. 7.25.2), 'neha nānāsti kiñcana' (bṛ.4.4.19) ityevamādyapyātmaikatvapratipādanaparaṃ vacanajātamudāhartavyam / nacānyathaikavijñānena sarvavijñānaṃ saṃpadyate / tasmādyathā ghaṭakarakādyākāśānāṃ mahākāśānanyatvaṃ, yathāca mṛgatṛṣṇikodakādīnāmūṣarādibhyo 'nanyatvaṃ dṛṣṭanaṣṭasvarūpatvātsvarūpeṇānupākhyatvāt, evamasya bhogyabhoktrādiprapañcajātasya brahmavyatirekeṇābhāva iti draṣṭavyam / nanvanekātmakaṃ brahma, yathā vṛkṣo 'nekaśākha evamanekaśaktipravṛttiyuktaṃ brahma / ata ekatvaṃ nānātvaṃ cobhayamapi satyameva / yathā vṛkṣa ityanekatvaṃ śākhā iti nānātvam / yathāca samudrātmanaikatvaṃ phenataraṅgādyātmanā nānātvam / yathāca mṛdātmanaikatvaṃ ghaṭaśarāvādyātmanā nānātvam / tatraikatvāṃśena jñānānmokṣavyavahāraḥ setsyati / nānātvāṃśena tu karmakāṇḍāśrayau laukikavaidikavyavahārau setsyata iti / evañca mṛdādidṛṣṭāntā anurūpā bhaviṣyantīti / naivaṃ syāt / 'mṛttiketyeva satyam' iti prakṛtimātrasya dṛṣṭānte satyatvāvadhāraṇāt / vācārambhaṇaśabdena ca vikārajātasyānṛtatvābhidhānāt / dārṣṭāntike 'pi 'aitadātmyamidaṃ sarvaṃ tatsatyam' iti ca paramakāraṇasyaivaikasya satyatvāvadhāraṇāt 'sa ātmā tattvamasi śvetaketo' iti ca śārīrasya brahmabhāvopadeśāt / svayaṃ prasiddhaṃ hyetaccharīrasya brahmātmatvamupadiśyate na yatnāntaraprasādhyam / ataścedaṃ śāstrīyaṃ brahmātmatvamavagamyamānaṃ svābhāvikasya śārīrātmatvasya bādhakaṃ saṃpadyate, rajjvādibuddhaya iva sarpādibuddhīnām / bādhite ca śārīrātmatvasya tadāśrayaḥ samastaḥ svābhāviko vyavahāro bādhito bhavati yatprasiddhaye nānātvāṃśo 'paro brahmaṇaḥ kalpyeta / darśayati ca- 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 4.5.15) ityādinā brahmātmatvadarśinaṃ prati samastasya kriyākārakaphalalakṣaṇasya vyavahārasyābhāvam / nacāyaṃ vyavahārābhāvoṣa'vasthāviśeṣanibaddho 'bhidhīyata iti yuktaṃ vaktum, 'tattvamasi' iti brahmātmabhāvasyānavasthāviśeṣanibandhanatvāt / taskaradṛṣṭāntena cānṛtābhisaṃdhasya bandhanaṃ satyābhisaṃdhasya ca mokṣaṃ darśayannekatvamevaikaṃ pāramārthikaṃ darśayati (chā. 6.16) / mithyājñānavijṛmbhitaṃ ca nānātvam / ubhayasatyatāyāṃ hi kathaṃ vyavahāragocaro 'pi janturanṛtābhisaṃdha ityucyeta / 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' (bṛ. 4.4.19) iti ca bhedadṛṣṭimapavadannevaitaddarśayati / nacāsmindarśane jñānānmokṣa ityupapadyate, samyagjñanāpanodyasya kasyacinmithyājñānasya saṃsārakāraṇatvenānabhyupagamāt / ubhayasatyatāyāṃ hi kathamekatvavijñānena nānātvajñānamapanudyata ityucyate / nanvekatvaikāntābhyupagame nānātvābhāvatpratyakṣādīni laukikāni pramāṇāni vyāhanyerannirviṣayatvāt, sthāṇvādiṣviva puruṣādijñānāni / tathā vidhipratiṣedhaśāstramapi bhedāpekṣatvāttadabhāve vyāhanyeta, mokṣaśāstrasyāpi śiṣyaśāsitrādibhedāpekṣatvāttadabhāve vyāghātaḥ syāt / kathaṃ cānṛtena mokṣaśāstreṇa pratipāditasyātmaikatvasya satyatvamupapadyeteti / atrocyate- naiṣa doṣaḥ / sarvavyavahārāṇāmeva prāgbrahmātmatāvijñānātsatyatvopapatteḥ / svapnavyavahārasyeva prākprabodhāt / yāvaddhi na satyātmaikatvapratipattistāvatpramāṇaprameyaphalalakṣaṇeṣu vikāreṣvanṛtatvabuddhirna kasyacidutpadyate / vikārāneva tvahaṃ mametyavidyāyāmātmīyena bhāvena sarvo jantuḥ pratipadyate svābhāvikīṃ brahmātmatāṃ hitvā / tasmātprāgbrahmātmatāpratibodhādupapannaḥ sarvo laukiko vaidikaśca vyavahāraḥ / yathā suptasya prākṛtasya janasya svapna uccāvacānbhāvānpaśyato niścitameva pratyakṣābhimataṃ vijñānaṃ bhavati prākprabodhāt, naca pratyakṣābhāsābhiprāyastatkāle bhavati, tadvat / kathaṃ tvasatyena vedāntavākyena satyasya brahmātmatvasya pratipattirupapadyeta / nahi rajjusarpeṇa dṛṣṭo mriyate / nāpi mṛgatṛṣṇikāmbhasā pānāvagāhanādiprayojanaṃ kriyata iti / naiṣa doṣaḥ / śaṅkāviṣādinimittamaraṇādikāryopalabdheḥ / svapnadarśanāvasthasya ca sarpadaṃśanodakasnānādikāryadarśanāt / tatkāryamapyanṛtameveti cedbrūyāt / tatra brūmaḥ- yadyapi svapnadarśanāvasthasya sarpadaṃśanodakasnānādikāryamanṛtaṃ tathāpi tadavagatiḥ satyameva phalaṃ, pratibuddhasyāpyabādhyamānatvāt / nahi svapnādutthitaḥ svapnadṛṣṭaṃ sarpadaṃśanodakasnānādikāryaṃ mithyeti manyamānastadavagatimapi mithyeti manyate kaścit / etena svapnadṛśo 'vagatyabādhanena dehamātrātmavādo dūṣito veditavyaḥ / tathāca śrutiḥ - 'yadā karmasu kāmyeṣu striyaṃ svapneṣu paśyati / samṛddhiṃ tatra jānīyāttasminsvapnanidarśane' (chā. 5.2.9) ityasatyena svapnadarśanena satyāyāḥ samṛddheḥ pratipattiṃ darśayati / tathā pratyakṣadarśaneṣu keṣucidariṣṭeṣu jāteṣu 'na ciramiva jīviṣyatīti vidyāt' ityuktvā 'atha svapnāḥ puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti' ityādinā tena tenāsatyenaiva svapnadarśanena satyaṃ maraṇaṃ sūcyata iti darśayati / prasiddhaṃ cedaṃ loke 'nvayavyatirekakuśalānāmīdṛśena svapnadarśanena sādhvāgamaḥ sūcyata īdṛśenāsādhvāgama iti / tathākārādisatyākṣarapratipattirddaṣṭā rekhānṛtākṣarapratipatteḥ / apicāntyamidaṃ pramāṇamātmaikatvasya pratipādakaṃ nātaḥ paraṃ kiñcidākāṅkṣyamasti / yathāhi loke yajetetyukte kiṃ kena kathamityākāṅkṣyate naivaṃ 'tattvamasi' 'ahaṃ brahmāsmi' ityukte kiñcidanyadākāṅkṣyamasti, sarvātmaikatvaviṣayatvāvagateḥ / sati hyasminnavaśiṣyamāṇer'the ākāṅkṣā syāt / natvātmaikatvavyatirekeṇāvaśiṣyamāṇo 'nyor'tho 'sti ya ākāṅkṣyeta / na ceyamavagatirnopapadyata iti śakyaṃ vaktum, 'taddhāsya vijajñau' (chā. 6.16.3) ityādiśrutibhyaḥ / avagatisādhanānāṃ ca śravaṇādīnāṃ vedānuvacanādīnāṃ ca vidhānāt / naceyamavagatiranarthikā bhrāntirveti śakyaṃ vaktum / avidyānivṛttiphaladarśanāt, bādhakajñānāntarābhāvācca / prākcātmaikatvāvagateravyāhataḥ sarvaḥ satyānṛtavyavahāro laukiko vaidikaścetyavocāma / tasmādantyena pramāṇena pratipādita ātmaikatve samastasya prācīnasya bhedavyavahārasya bādhitatvānnānekātmakabrahmakalpanāvakāśo 'sti / nanu mṛdādidṛṣṭāntapraṇayanātpariṇāmavadbrahma śāstrasyābhimatamiti gamyate / pariṇāmino hi mṛdādayor'thā loke samadhigatā iti / netyucyate / 'sa vā eṣa mahājana ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.4.25) 'sa eṣa neti netyātmā' (bṛ. 3.9.23), 'asthūlamanaṇu' (bṛ. 3.8.8) ityādyābhyaḥ sarvavikriyāpratiṣedhaśrutibhyo brahmaṇaḥ kūṭasthatvāvagamāt / nahyekasya brahmaṇaḥ pariṇāmadharmatvaṃ tadrahitatvaṃ ca śkyaṃ pratipattum / sthitigativatsyāditi cet / na / kūṭasthasyeti viśeṣaṇāt / nahi kūṭasthasya brahmaṇaḥ sthitigativadanekadharmāśrayatvaṃ saṃbhavati / kūṭasthaṃ ca nityaṃ brahma sarvavikriyāpratiṣedhādityavocāma / naca yathā brahmaṇa ātmaikatvadarśanaṃ mokṣasādhanamevaṃ jagadākārapariṇāmitvadarśanamapi svatantrameva kasmaicitphalāyābhipreyate / pramāṇābhāvāt / kūṭasthabrahmātmavijñānādeva hi phalaṃ darśayati śāstram- 'sa eṣa neti netyātmā' ityupakramya 'abhayaṃ vai janaka prāpto 'si' (bṛ. 4.2.4) ityevañjātīyakam / tatraitatsiddhaṃ bhavati- brahmaprakaraṇe sarvadharmaviśeṣarahitabrahmadarśanādeva phalasiddhau satyāṃ yattatrāphalaṃ śrūyate brahmaṇo jagadākārapariṇāmitvādi tadbrahmadarśanopāyatvenaiva viniyujyate, phalavatsaṃnidhāvaphalaṃ tadaṅgamitivat / natu svatantraṃ phalāya kalpyata iti / nahi pariṇāmavattvavijñānātpariṇāmavattvamātmanaḥ phalaṃ syāditi vaktuṃ yuktaṃ, kūṭasthanityatvānmokṣasya / kūṭasthabrahmātmavādina ekatvaikāntyādīśitrīśitavyābhāva īśvarakāraṇapratijñāvirodha iti cet / na / avidyātmakanāmarūpabījavyākaraṇāpekṣatvātsarvajñatvasya / 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) ityādivākyebhyo nityaśuddhabuddhamuktasvarūpātsarvajñātsarvaśakterīśvarājjagajjanisthi tipralayā nācetanātpradhānādanyasmādvetyeṣor'thaḥ pratijñātaḥ 'janmādyasya yataḥ' (bra.sū. 1.1.4) iti / sā pratijñā tadavasthaiva na tadviruddhor'thaḥ punarihocyate / kathaṃ nocyate 'tyantamātmana ekatvamadvitīyatvaṃ ca bruvatā / śruṇu yathā nocyate / sarvajñasyeśvarasyātmabhūta ivāvidyākalpite nāmarūpe tattvānyatvābhyāmanirvacanīye saṃsāraprapañcabījabhūte sarvajñasyeśvarasya māyāśaktiḥ prakṛtiriti ca śrutismṛtyorabhilapyete / tābhyāmanyaḥ sarvajña īśvaraḥ 'ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma' (chā. 8.14.1) iti śruteḥ / 'nāmarūpe vyākaravāṇi' (chā. 6.3.2), 'sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste' (tai. ā. 3.12.7), 'ekaṃ bījaṃ bahudhā yaḥ karoti' (śvaṃ. 6.12) ityādiśrutibhyaśca / evamavidyākṛtanāmarūpopādhyanurodhīśvaro bhavati, vyomeva ghaṭakarakādyupādhyanurodhi / sa ca svātmabhūtāneva ghaṭākāśasthānīyānavidyāpratyupasthāpitanāmarūpakṛtakāryakaraṇasaṃghātānurodhino jīvākhyānvijñānātmanaḥ pratīṣṭe vyavahāraviṣaye / tadevamavidyātmakopādhiparicchedāpekṣameveśvarasyeśvaratvaṃ sarvajñatvaṃ sarvaśaktitvaṃ ca na paramārthato vidyāyāpāstasarvopādhisvarūpa ātmanīśitrīśitavyasarvajñatvādivyavahāra upapadyate / tathācoktam- 'yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmā' (chā. 7.24.1) iti 'yatra tvasya sarvamātmaivābhūttatkena paśyet' (bṛ. 4.5.15) ityādinā ca / evaṃ paramārthāvasthāyāṃ sarvavyavahārābhāvaṃ vadanti vedāntāḥ sarve / tatheśvaragītāsvapi- 'na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ / na karmaphalasaṃyogaṃ svabhāvastu pravartate // nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ / ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ' (gī. 5.14.-15) iti paramārthāvasthāyāmīśitrīśitavyādivyavahārābhāvaḥ pradarśyate / vyavahārāvasthāyāṃ tūktaḥ śrutāvapīśvarādivyavahāraḥ 'eṣa sarveśvara eṣa bhūtādhipatireṣa bhūtapāla eṣa seturvidhāraṇa eṣāṃ lokānāmasaṃbhedāya' (bṛ. 4.4.22) iti / tathāceśvaragītāsvapi- 'īśvaraḥ sarvabhūtānāṃ hṛddeśer'juna tiṣṭhati / bhrāmayansarvabhūtāni yantrārūḍhāni māyayā' (gī. 18.61) iti / sūtrakāro 'pi paramārthābhiprāyeṇa tadanyatvamityāha / vyavahārābhiprāyeṇa tu syāllokavaditi mahāsamudrasthānīyatāṃ brahmaṇaḥ kathayati / apratyākhyāyaiva kāryaprapañcaṃ pariṇāmaprakriyāṃ cāśrayati saguṇopāsaneṣūpayokṣyata iti // 14 // ---------------------- FN: dṛṣṭaṃ prātītikaṃ naṣṭhamanityaṃ yatsvarūpaṃ tadrūpeṇānupākhyatvātsattāsphūrtiśūnyatvādananyatvamiti saṃbandhaḥ / svabhāvo 'trāvidyā tayā kṛtaḥ svābhāvikaḥ / ekatvasyaikāntaḥ kaivalyam / vyāhanyerannapramāṇāni syuḥ / satyatvaṃ bādhā bhāvaḥ / bādho mityātvaniścayaḥ / rekhāsvakāratvādibhrāntyā satyā akārādayo jñāyanta iti prasiddham /
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.