Library·Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya·2·2.1

Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya 2.1

स्मृत्यनवकाशदोषप्रसङ्ग इति चेन् नान्यस्मृत्यनवकाशदोषप्रसङ्गात् यदुक्तं ब्रह्मैव सर्वज्ञं जगतः कारणमिति, तदयुक्तम् । कुतः स्मृत्यनवकाशदोषप्रसङ्गात् । स्मृतिश्च तन्त्राख्या परमर्षिप्रणीता शिष्टपरिगृहीता अन्याश्च तदनुसीरिण्यः स्मृतयः, एवं सत्यनवाकाशाः प्रसज्येरन् । तासु ह्यचेतनं प्रधानं स्वतन्त्रं जगतः कारणमुपनिबध्यते । मन्वादिसमृतयस्तावच्चोदनालक्षणेनाग्निहोत्रादिना धर्मजातेनापेक्षितमर्थं समर्पयन्त्यःसावकाशा भवन्ति । अस्य वर्णस्यास्मिन्काले ऽनेन विधानंनोपनयनं, ईदृशश्चाचारः, इत्थं वेदाध्ययनं, इत्थं सहधर्मचारिणीसंयोग इति । तथा पुरुषार्थाश्च वर्णाश्रमधर्मान्नानाविधान्विदधति । नैवं कपिलादिस्मृतीनामनुष्ठेये विषये ऽवकाशो ऽस्ति । मोक्षसाधनमेव हि सम्यग्दर्शनमधिकृत्य ताः प्रणीताः । यदि तत्राप्यनवकाशाः स्युरानर्थक्यमेवासां प्रसज्येत । तस्मात्तदविरोधेन वेदान्ता व्याख्यातव्याः । कथं पुनरीक्षत्यादिभ्यो हेतुभ्यो ब्रह्मैव सर्वज्ञं जगतः कारणमित्यवधारितः श्रुत्यर्थः स्मृत्यनवकाशदोषप्रसङ्गेन पुनराक्षिप्यते । भवदेयमनाक्षेपः स्वतन्त्रप्रज्ञानाम् । परतन्त्रप्रज्ञास्तु प्रायेण जनाः स्वातन्त्र्येण श्रुत्यर्थमवधारयितुमशक्नुवन्तः प्रख्यातप्रणेतृकासु स्मृतिष्ववलम्बेरन् । तद्बलेन च श्रुत्यर्थं प्रतिपित्सेरन् । अस्मत्कृते च व्याख्याने न विश्वस्युर्बहुमानात्स्मृतीनां प्रणेतृषु । कपिलप्रभृतीनां चार्षं ज्ञानमप्रतिहतं स्मर्यते । श्रुतिश्च भवति- ऽऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत्ऽ (श्वे। ५।२) इति । तस्मान्नैषां मतमयथार्थं शक्यं संभावयितुम् । तर्कावष्टम्भेन चैतेर्ऽथं प्रतिष्ठापयन्ति । तस्मादपि स्मृतिबलेन वेदान्ता व्याख्येया इति पुनराक्षेपः । तस्य समाधिः नान्यस्मृत्यनवकाशदोषप्रसङ्गादिति । यदि स्मृत्यनवकाशदोषप्रसङ्गेनेश्वरकारणवाद आक्षिप्येत, एवमप्यन्या ईश्वरकारणवादिन्यः स्मृतयो ऽनवकाशाः प्रसज्येरन् । ता उदाहरिष्यामः - ऽयत्तत्सूक्ष्ममविज्ञेयम्ऽ इति परं ब्रह्म प्रकृत्य ऽस ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यतेऽ इति चोक्त्वा ऽतस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तमऽ इत्याह । तथान्यत्रापि ऽअव्यक्तं पुरुषे ब्रह्मन्निर्गुणे संप्रलीयतेऽ इत्याह । ऽअतश्च संक्षेपमिमं शृणुध्वं नारायणः सर्वमिदं पुराणः । स सर्गकाले च करोति सर्वं संहारकाले च तदत्ति भूयःऽ इति पुराणे । भगवद्गीतासु च- ऽअहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथाऽ (भगी। ७।६) इति । परमात्मानमेव च प्रकृत्यापस्तमबः पठति- ऽतस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्यः (धसू। १।८।२३।२) इति । एवमनेकशः स्मृतिश्वपीश्वरः कारणत्वेनोपादानत्वेन च प्रकाश्यते । समृतिबलेन प्रत्यवतिष्टमानस्य स्मृतिबलेनैवोत्तरं वक्ष्यामीत्यतो ऽयमन्यस्मृत्यनवकाशदोषोपन्यासः । दर्शितं तु श्रुतीनामीश्वरकारणवादं प्रति तात्पर्यम् । विप्रतिपत्तौ च स्मृतीनामवश्यकर्तव्ये ऽन्यतरपरिग्रहे ऽन्यतरपरित्यागे च श्रुत्यनुसारिण्यः स्मृतयः प्रमाणमनपेक्ष्या इतराः । तदुक्तं प्रमाणलक्षणे- ऽविरोधे त्वनपेक्षं स्यादस्ति ह्यनुमानम्ऽ (जैसू। १।३।३) इति । नचातीन्द्रियानर्थञ्श्रुतिमन्तरेण कश्चिदुपलभत इति शक्यं संभावयितुं निमित्ताभावात् । शक्यं कपिलादीनां सिद्धानामप्रतिहतज्ञानत्वादिति चेत् । न । सिद्धेरपि सापेक्षत्वात् । धर्मानुष्ठानापेक्षा हि सिद्धिः । स च धर्मश्चोदनालक्षणः । ततश्च पूर्वसिद्धायाश्चोदनाया अर्थो न पश्चिमसिद्धपुरुषवचनवशेनातिशङ्कितुं शक्यते । सिद्धव्यपाश्रयकल्पनायामपि बहुत्वात्सिद्धानां प्रद्रशितेन प्रकारेण स्मृतिविप्रतिपत्तौ सत्यां न श्रुतिव्यपाश्रयादन्यन्निर्णयकारणमस्ति । परतन्त्रप्रज्ञस्यापि नाकस्मात्स्मृतिविशेषविषयः पक्षपातो युक्तः । कस्यचित्क्वचित्पक्षपाते सति पुरुषमतिवौश्वरूप्येण तत्त्वाव्यवस्थानप्रसङ्गात् । तस्मात्तस्यापि स्मृतिविप्रतिपत्त्युपन्यासेन स्मृत्यनुसाराविषयविवेचनेन च सन्मार्गे प्रज्ञा संग्रहणीया । या तु श्रुतिः कपिलस्य ज्ञानातिशयं प्रदर्शयन्ती प्रदर्शिता न तया श्रुतिविरुद्धमपि कापिलं मतं श्रद्धातुं शक्यं, कापिलमिति श्रुतिसामान्यमात्रत्वात् । अन्यस्य च कपिलस्य सगरपुत्राणां प्रतप्तुर्वासुदेवनाम्नः स्मरणात् । अन्यार्थदर्शनस्य च प्राप्तिरहितस्यासाधकत्वात् । भवति चान्या मनोर्माहात्म्यं प्रख्यापयन्ती श्रुतिः - ऽयद्वै किञ्च मनुरवदत्तद्भेषजम्ऽ (तैसं २।२।१०।२) इति । मनुना च ऽसर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । संपश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति ॥ ऽ (१२।११) इति सर्वात्मत्वदर्शनं प्रशंसता कापिलं मतं निन्द्यत इति गम्यते । कपिलो हि न सर्वात्मत्वदर्शनमनुमन्यते, आत्मभेदाभ्युपगमात् । महाभारते ऽपि च ऽबहवः पुरुषा ब्रह्मन्नुताहो एक एव तुऽ इति विचार्य ऽबहवः पुरुषा राजन्सांख्ययोगविचारिणाम्ऽ इति परपक्षमुपन्यस्य तद्व्युदासेन- ऽबहूनां पुरुषाणां हि यथैका योनिरुच्यते । तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम् ॥ ऽ इत्युपक्रम्य ऽममान्तरात्मा तव च ये चान्ये देहसंस्थिताः । सर्वेषां साक्षिभूतो ऽसौ न ग्राह्यः केनचित्क्वचित् ॥ विश्वमूर्धा विश्वभुजो विस्वपादाक्षिनासिकः । एकश्चरति भूतेषु स्वैरचारी यथासुखम् ॥ ऽ इति सर्वात्मतैव निर्धारिता । श्रुतिश्च सर्वात्मतायां भवति- ऽयस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोकः एकत्वमनुपश्यतःऽ (ई। ७) इत्येवंविधा । अतश्च सिद्धमात्मभेदकल्पनयापि कपिलस्य तन्त्रं वेदविरुद्धं वेदानुसारिमनुवचनविरुद्धं च, न केवलं स्वतन्त्रप्रकृतिकल्पनयैवेति । वेदस्य हि निरपेक्षं स्वार्थे प्रामाण्यं रवेरिव रूपविषये । पुरुषवचसां तु मूलान्तरापेक्षं वक्तुस्मृतिव्यवहितं चेति विप्रकर्षः । तस्माद्वेदविरुद्धे विषये स्मृत्यनवकाशप्रसङ्गो न दोषः ॥१॥ ---------------------- फ़्न्: ऽद्वितीये स्मृतितर्काभ्यामविरोधो ऽन्यदुष्टता । भूतभोक्तृश्रुतेर्लिङ्गश्रुतेरप्यविरुद्धताऽ इति संग्रहश्लोकः । परमर्षिः कपिलः । अन्या आसुरिपञ्चशिखादिप्रणीताः । उपचरितं श्रुत्यर्थं प्रतिपद्येरन्नित्यर्थः । सूक्ष्मत्वमतीन्द्रियत्वम् । अविज्ञेयत्वं प्रमाणान्तरावगाह्यत्वम् । काया ब्रह्मादयः । शाश्वतिकः कूटस्थः । श्रुतिविरोधे स्मृतिप्रामाण्यं अनपेक्षं हेयम् । हि यतो ऽसति विरोधे श्रुत्यनुमानं भवति । प्रतप्तुर्दाहकस्य । विश्वे मूर्धनो ऽस्यैव सर्वत्र प्रतिबिम्बितत्वात् । एवं विश्वभुजादौ योज्यम् । कुतश्च स्मृत्यनवकाशप्रसङ्गो न दोषः -

smṛtyanavakāśadoṣaprasaṅga iti cen nānyasmṛtyanavakāśadoṣaprasaṅgāt yaduktaṃ brahmaiva sarvajñaṃ jagataḥ kāraṇamiti, tadayuktam / kutaḥ smṛtyanavakāśadoṣaprasaṅgāt / smṛtiśca tantrākhyā paramarṣipraṇītā śiṣṭaparigṛhītā anyāśca tadanusīriṇyaḥ smṛtayaḥ, evaṃ satyanavākāśāḥ prasajyeran / tāsu hyacetanaṃ pradhānaṃ svatantraṃ jagataḥ kāraṇamupanibadhyate / manvādisamṛtayastāvaccodanālakṣaṇenāgnihotrādinā dharmajātenāpekṣitamarthaṃ samarpayantyaḥsāvakāśā bhavanti / asya varṇasyāsminkāle 'nena vidhānaṃnopanayanaṃ, īdṛśaścācāraḥ, itthaṃ vedādhyayanaṃ, itthaṃ sahadharmacāriṇīsaṃyoga iti / tathā puruṣārthāśca varṇāśramadharmānnānāvidhānvidadhati / naivaṃ kapilādismṛtīnāmanuṣṭheye viṣaye 'vakāśo 'sti / mokṣasādhanameva hi samyagdarśanamadhikṛtya tāḥ praṇītāḥ / yadi tatrāpyanavakāśāḥ syurānarthakyamevāsāṃ prasajyeta / tasmāttadavirodhena vedāntā vyākhyātavyāḥ / kathaṃ punarīkṣatyādibhyo hetubhyo brahmaiva sarvajñaṃ jagataḥ kāraṇamityavadhāritaḥ śrutyarthaḥ smṛtyanavakāśadoṣaprasaṅgena punarākṣipyate / bhavadeyamanākṣepaḥ svatantraprajñānām / paratantraprajñāstu prāyeṇa janāḥ svātantryeṇa śrutyarthamavadhārayitumaśaknuvantaḥ prakhyātapraṇetṛkāsu smṛtiṣvavalamberan / tadbalena ca śrutyarthaṃ pratipitseran / asmatkṛte ca vyākhyāne na viśvasyurbahumānātsmṛtīnāṃ praṇetṛṣu / kapilaprabhṛtīnāṃ cārṣaṃ jñānamapratihataṃ smaryate / śrutiśca bhavati- 'ṛṣiṃ prasūtaṃ kapilaṃ yastamagre jñānairbibharti jāyamānaṃ ca paśyet' (śve. 5.2) iti / tasmānnaiṣāṃ matamayathārthaṃ śakyaṃ saṃbhāvayitum / tarkāvaṣṭambhena caiter'thaṃ pratiṣṭhāpayanti / tasmādapi smṛtibalena vedāntā vyākhyeyā iti punarākṣepaḥ / tasya samādhiḥ nānyasmṛtyanavakāśadoṣaprasaṅgāditi / yadi smṛtyanavakāśadoṣaprasaṅgeneśvarakāraṇavāda ākṣipyeta, evamapyanyā īśvarakāraṇavādinyaḥ smṛtayo 'navakāśāḥ prasajyeran / tā udāhariṣyāmaḥ - 'yattatsūkṣmamavijñeyam' iti paraṃ brahma prakṛtya 'sa hyantarātmā bhūtānāṃ kṣetrajñaśceti kathyate' iti coktvā 'tasmādavyaktamutpannaṃ triguṇaṃ dvijasattama' ityāha / tathānyatrāpi 'avyaktaṃ puruṣe brahmannirguṇe saṃpralīyate' ityāha / 'ataśca saṃkṣepamimaṃ śṛṇudhvaṃ nārāyaṇaḥ sarvamidaṃ purāṇaḥ / sa sargakāle ca karoti sarvaṃ saṃhārakāle ca tadatti bhūyaḥ' iti purāṇe / bhagavadgītāsu ca- 'ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā' (bha.gī. 7.6) iti / paramātmānameva ca prakṛtyāpastamabaḥ paṭhati- 'tasmātkāyāḥ prabhavanti sarve sa mūlaṃ śāśvatikaḥ sa nityaḥ (dha.sū. 1.8.23.2) iti / evamanekaśaḥ smṛtiśvapīśvaraḥ kāraṇatvenopādānatvena ca prakāśyate / samṛtibalena pratyavatiṣṭamānasya smṛtibalenaivottaraṃ vakṣyāmītyato 'yamanyasmṛtyanavakāśadoṣopanyāsaḥ / darśitaṃ tu śrutīnāmīśvarakāraṇavādaṃ prati tātparyam / vipratipattau ca smṛtīnāmavaśyakartavye 'nyataraparigrahe 'nyataraparityāge ca śrutyanusāriṇyaḥ smṛtayaḥ pramāṇamanapekṣyā itarāḥ / taduktaṃ pramāṇalakṣaṇe- 'virodhe tvanapekṣaṃ syādasti hyanumānam' (jai.sū. 1.3.3) iti / nacātīndriyānarthañśrutimantareṇa kaścidupalabhata iti śakyaṃ saṃbhāvayituṃ nimittābhāvāt / śakyaṃ kapilādīnāṃ siddhānāmapratihatajñānatvāditi cet / na / siddherapi sāpekṣatvāt / dharmānuṣṭhānāpekṣā hi siddhiḥ / sa ca dharmaścodanālakṣaṇaḥ / tataśca pūrvasiddhāyāścodanāyā artho na paścimasiddhapuruṣavacanavaśenātiśaṅkituṃ śakyate / siddhavyapāśrayakalpanāyāmapi bahutvātsiddhānāṃ pradraśitena prakāreṇa smṛtivipratipattau satyāṃ na śrutivyapāśrayādanyannirṇayakāraṇamasti / paratantraprajñasyāpi nākasmātsmṛtiviśeṣaviṣayaḥ pakṣapāto yuktaḥ / kasyacitkvacitpakṣapāte sati puruṣamativauśvarūpyeṇa tattvāvyavasthānaprasaṅgāt / tasmāttasyāpi smṛtivipratipattyupanyāsena smṛtyanusārāviṣayavivecanena ca sanmārge prajñā saṃgrahaṇīyā / yā tu śrutiḥ kapilasya jñānātiśayaṃ pradarśayantī pradarśitā na tayā śrutiviruddhamapi kāpilaṃ mataṃ śraddhātuṃ śakyaṃ, kāpilamiti śrutisāmānyamātratvāt / anyasya ca kapilasya sagaraputrāṇāṃ pratapturvāsudevanāmnaḥ smaraṇāt / anyārthadarśanasya ca prāptirahitasyāsādhakatvāt / bhavati cānyā manormāhātmyaṃ prakhyāpayantī śrutiḥ - 'yadvai kiñca manuravadattadbheṣajam' (tai.saṃ 2.2.10.2) iti / manunā ca 'sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani / saṃpaśyannātmayājī vai svārājyamadhigacchati // ' (12.11) iti sarvātmatvadarśanaṃ praśaṃsatā kāpilaṃ mataṃ nindyata iti gamyate / kapilo hi na sarvātmatvadarśanamanumanyate, ātmabhedābhyupagamāt / mahābhārate 'pi ca 'bahavaḥ puruṣā brahmannutāho eka eva tu' iti vicārya 'bahavaḥ puruṣā rājansāṃkhyayogavicāriṇām' iti parapakṣamupanyasya tadvyudāsena- 'bahūnāṃ puruṣāṇāṃ hi yathaikā yonirucyate / tathā taṃ puruṣaṃ viśvamākhyāsyāmi guṇādhikam // ' ityupakramya 'mamāntarātmā tava ca ye cānye dehasaṃsthitāḥ / sarveṣāṃ sākṣibhūto 'sau na grāhyaḥ kenacitkvacit // viśvamūrdhā viśvabhujo visvapādākṣināsikaḥ / ekaścarati bhūteṣu svairacārī yathāsukham // ' iti sarvātmataiva nirdhāritā / śrutiśca sarvātmatāyāṃ bhavati- 'yasminsarvāṇi bhūtānyātmaivābhūdvijānataḥ / tatra ko mohaḥ kaḥ śokaḥ ekatvamanupaśyataḥ' (ī. 7) ityevaṃvidhā / ataśca siddhamātmabhedakalpanayāpi kapilasya tantraṃ vedaviruddhaṃ vedānusārimanuvacanaviruddhaṃ ca, na kevalaṃ svatantraprakṛtikalpanayaiveti / vedasya hi nirapekṣaṃ svārthe prāmāṇyaṃ raveriva rūpaviṣaye / puruṣavacasāṃ tu mūlāntarāpekṣaṃ vaktusmṛtivyavahitaṃ ceti viprakarṣaḥ / tasmādvedaviruddhe viṣaye smṛtyanavakāśaprasaṅgo na doṣaḥ //1// ---------------------- FN: 'dvitīye smṛtitarkābhyāmavirodho 'nyaduṣṭatā / bhūtabhoktṛśruterliṅgaśruterapyaviruddhatā' iti saṃgrahaślokaḥ / paramarṣiḥ kapilaḥ / anyā āsuripañcaśikhādipraṇītāḥ / upacaritaṃ śrutyarthaṃ pratipadyerannityarthaḥ / sūkṣmatvamatīndriyatvam / avijñeyatvaṃ pramāṇāntarāvagāhyatvam / kāyā brahmādayaḥ / śāśvatikaḥ kūṭasthaḥ / śrutivirodhe smṛtiprāmāṇyaṃ anapekṣaṃ heyam / hi yato 'sati virodhe śrutyanumānaṃ bhavati / pratapturdāhakasya / viśve mūrdhano 'syaiva sarvatra pratibimbitatvāt / evaṃ viśvabhujādau yojyam / kutaśca smṛtyanavakāśaprasaṅgo na doṣaḥ -

Sanskrit only: no published translation is held for this verse.

इतरेषां चानुपलब्धेः प्रधानादितराणि यानि प्रधानपरिणामत्वं न समृतौ कल्पितानि महदादीनि न तानि वेदे लोके वोपलभ्यन्ते । भूतेन्द्रियाणि तावल्लोकवेदप्रसिद्धत्वाच्छक्यन्ते स्मर्तुम् । अलोकवेदप्रसिद्धत्वात्तु महदादीनां षष्ठस्येवेन्द्रियार्थस्य न स्मृतिरवकल्पते । यदपि क्वचित्तत्परमिव श्रवणमवभासते तदप्यतत्परं व्याख्यातम् ऽआनुमानिकमप्येकेषाम्ऽ (ब्र। १।४।१) इत्यत्र । कार्यस्मृतेरप्रामाण्यात्कारणस्मृतेरप्यप्रामाण्यं युक्तमित्यभिप्रायः । तस्मादपि न स्मृत्यनवकाशप्रसङ्गो दोषः । तर्कावष्टम्भं तु ऽन विलक्षणत्वात्ऽ (ब्र। २।१।४) इत्यारभ्योन्मथिष्यति ॥ २ ॥

itareṣāṃ cānupalabdheḥ pradhānāditarāṇi yāni pradhānapariṇāmatvaṃ na samṛtau kalpitāni mahadādīni na tāni vede loke vopalabhyante / bhūtendriyāṇi tāvallokavedaprasiddhatvācchakyante smartum / alokavedaprasiddhatvāttu mahadādīnāṃ ṣaṣṭhasyevendriyārthasya na smṛtiravakalpate / yadapi kvacittatparamiva śravaṇamavabhāsate tadapyatatparaṃ vyākhyātam 'ānumānikamapyekeṣām' (bra. 1.4.1) ityatra / kāryasmṛteraprāmāṇyātkāraṇasmṛterapyaprāmāṇyaṃ yuktamityabhiprāyaḥ / tasmādapi na smṛtyanavakāśaprasaṅgo doṣaḥ / tarkāvaṣṭambhaṃ tu 'na vilakṣaṇatvāt' (bra. 2.1.4) ityārabhyonmathiṣyati // 2 //

Sanskrit only: no published translation is held for this verse.

एतेन योगः प्रत्युक्तः एतेन सांख्यस्मृतिप्रत्याख्यानेन योगस्मृतिरपि प्रत्याख्याता द्रष्टव्येत्यतिदिशति । तत्रापि श्रुतिविरोधेन प्रधानं स्वतन्त्रमेव कारणं, महदादीनि च कार्याण्यलोकवेदप्रसिद्धानि कल्प्यन्ते । नन्वेवं सति समानन्यायत्वात्पूर्वेणैवैतद्गतं किमर्थं पुनरतिदिश्यते । अस्ति ह्यत्राभ्यधिकाशङ्का । सम्यग्दर्शनाभ्युपायो हि योगो वेदे विहितः ऽश्रोतव्यो मन्तव्यो निदिध्यासितव्यःऽ (बृ। २।४।५) इति । ऽत्र्युन्नतं स्थाप्य समं शरीरम्ऽ (श्वे। २।८) इत्यादिना चासनादिकल्पनापुरःसरं बहुप्रपञ्चं योगविधानं श्वेताश्वतरोपनिषदि दृश्यते । लिङ्गानि च वैदिकानि योगविषयाणि सहस्रश उपलभ्यन्ते ऽतां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्ऽ (का। २।६।१८) इति ऽविद्यामेतां योगविधिं च कृत्स्नम् (का। २।६।१८) इति चैवमादीनि । योगशास्त्रे ऽपि ऽअथ तत्त्वदर्शनोपायो योगःऽ इति सम्यग्दर्शनाभ्युपायत्वेनैव योगोङ्गीक्रियते । अतः संप्रतिपन्नार्थैकदेशत्वादष्टकादिस्मृतिवद्योगस्मृतिरप्यनपवदनीया भविष्यतीति । इयमप्यधिका शङ्कातिदेशेन निवर्त्यते । अर्थैकदेशसंप्रतिपत्तावप्यर्थैकदेशविप्रतिपत्तेः पूर्वोक्ताया दर्शनात् । सतीष्वप्यध्यात्मविषयासु बह्वीषु स्मृतिषु सांख्ययोगस्मृत्योरेव निराकरणे यत्नः कृतः । सांख्ययोगौ हि परमपुरुषार्थसाधनत्वेन लोके प्रख्यातौ, शिष्टैश्च परिगृहीतौ, लिङ्गेन न श्रौतेनोपबृंहितौ । ऽतत्कारणं सांख्ययोगाभिपन्नं ज्ञात्वा देवं मुच्यते सर्वपाशैःऽ (श्वं। ६।१३) इति । निराकरणं तु न सांख्यज्ञानेन वेदनिरपेक्षेण योगमार्गेण वा निःश्रेयसमधिगम्यत इति । श्रुतिर्हि वैदिकादात्मैकत्वविज्ञानादन्यन्निःश्रेयससाधनं वारयति ऽतमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यते ऽयनायऽ (श्वं। ३।८) इति । द्वैतिनो हि ते सांख्या योगाश्च नात्मैकत्वदर्शिनः । यत्तु दर्शनमुक्तं ऽतत्कारणं सांख्ययोगाभिपन्नम्ऽ इति, वैदिकमेव तत्र ज्ञानं ध्यानं च सांख्ययोगशब्दाभ्यामभिलप्यते प्रत्यासत्तेरित्यवगन्तव्यम् । येन त्वंशेन न विरुध्येते तेनेष्टमेव सांख्ययोगस्मृत्योः सावकाशत्वम् । तद्यथा- ऽअसङ्गो ह्ययं पुरुषःऽ (बृ। ४।३।१६) इत्येवमादिश्रुतिप्रसिद्धमेव पुरुषस्य विशुद्धत्वं निर्गुणपुरुषनिरूपणेन सांख्यैरभ्युपगम्यते । तथाच योगैरपि ऽअथ परिव्राड्विवर्णवासा मुण्डो ऽपरिग्रहःऽ (जाबा। ५) इत्येवमादि श्रुतिप्रसिद्धमेव निवृत्तिनिष्ठत्वं प्रव्रज्याद्युपदेशेनानुगम्यते । एतेन सर्वाणि तर्कस्मरणानि प्रतिवक्तव्यानि । तान्यपि तर्कोपपत्तिभ्यां तत्त्वज्ञानायोपकुर्वन्तीति चेदुपकुर्वन्तु नाम । तत्त्वज्ञानं तु वेदान्तवाक्येभ्य एव भवति ऽनावेदविन्मनुते तं बृहन्तम्ऽ (तै। ब्रा। ३।१२।९।७) ऽतं त्वौपनिषदं पुरुषं पृच्छामिऽ (बृ। ३।९।२३) इत्येवमादिश्रुतिभ्यः ॥ ३ ॥ ---------------------- फ़्न्: त्रीणि उरोग्रीवशिरांस्युन्नतानि यस्मिञ्शरीरे तत्त्र्युन्नतम् । तर्को ऽनुमानमनुग्राह्यं मानम् । उपपत्तिरनुग्राहिका युक्तिरिति भेदः । विलक्षणत्वाधिकरणम् । सू। ४-१२

etena yogaḥ pratyuktaḥ etena sāṃkhyasmṛtipratyākhyānena yogasmṛtirapi pratyākhyātā draṣṭavyetyatidiśati / tatrāpi śrutivirodhena pradhānaṃ svatantrameva kāraṇaṃ, mahadādīni ca kāryāṇyalokavedaprasiddhāni kalpyante / nanvevaṃ sati samānanyāyatvātpūrveṇaivaitadgataṃ kimarthaṃ punaratidiśyate / asti hyatrābhyadhikāśaṅkā / samyagdarśanābhyupāyo hi yogo vede vihitaḥ 'śrotavyo mantavyo nididhyāsitavyaḥ' (bṛ. 2.4.5) iti / 'tryunnataṃ sthāpya samaṃ śarīram' (śve. 2.8) ityādinā cāsanādikalpanāpuraḥsaraṃ bahuprapañcaṃ yogavidhānaṃ śvetāśvataropaniṣadi dṛśyate / liṅgāni ca vaidikāni yogaviṣayāṇi sahasraśa upalabhyante 'tāṃ yogamiti manyante sthirāmindriyadhāraṇām' (kā. 2.6.18) iti 'vidyāmetāṃ yogavidhiṃ ca kṛtsnam (kā. 2.6.18) iti caivamādīni / yogaśāstre 'pi 'atha tattvadarśanopāyo yogaḥ' iti samyagdarśanābhyupāyatvenaiva yogoṅgīkriyate / ataḥ saṃpratipannārthaikadeśatvādaṣṭakādismṛtivadyogasmṛtirapyanapavadanīyā bhaviṣyatīti / iyamapyadhikā śaṅkātideśena nivartyate / arthaikadeśasaṃpratipattāvapyarthaikadeśavipratipatteḥ pūrvoktāyā darśanāt / satīṣvapyadhyātmaviṣayāsu bahvīṣu smṛtiṣu sāṃkhyayogasmṛtyoreva nirākaraṇe yatnaḥ kṛtaḥ / sāṃkhyayogau hi paramapuruṣārthasādhanatvena loke prakhyātau, śiṣṭaiśca parigṛhītau, liṅgena na śrautenopabṛṃhitau / 'tatkāraṇaṃ sāṃkhyayogābhipannaṃ jñātvā devaṃ mucyate sarvapāśaiḥ' (śvaṃ. 6.13) iti / nirākaraṇaṃ tu na sāṃkhyajñānena vedanirapekṣeṇa yogamārgeṇa vā niḥśreyasamadhigamyata iti / śrutirhi vaidikādātmaikatvavijñānādanyanniḥśreyasasādhanaṃ vārayati 'tameva viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya' (śvaṃ. 3.8) iti / dvaitino hi te sāṃkhyā yogāśca nātmaikatvadarśinaḥ / yattu darśanamuktaṃ 'tatkāraṇaṃ sāṃkhyayogābhipannam' iti, vaidikameva tatra jñānaṃ dhyānaṃ ca sāṃkhyayogaśabdābhyāmabhilapyate pratyāsatterityavagantavyam / yena tvaṃśena na virudhyete teneṣṭameva sāṃkhyayogasmṛtyoḥ sāvakāśatvam / tadyathā- 'asaṅgo hyayaṃ puruṣaḥ' (bṛ. 4.3.16) ityevamādiśrutiprasiddhameva puruṣasya viśuddhatvaṃ nirguṇapuruṣanirūpaṇena sāṃkhyairabhyupagamyate / tathāca yogairapi 'atha parivrāḍvivarṇavāsā muṇḍo 'parigrahaḥ' (jābā. 5) ityevamādi śrutiprasiddhameva nivṛttiniṣṭhatvaṃ pravrajyādyupadeśenānugamyate / etena sarvāṇi tarkasmaraṇāni prativaktavyāni / tānyapi tarkopapattibhyāṃ tattvajñānāyopakurvantīti cedupakurvantu nāma / tattvajñānaṃ tu vedāntavākyebhya eva bhavati 'nāvedavinmanute taṃ bṛhantam' (tai. brā. 3.12.9.7) 'taṃ tvaupaniṣadaṃ puruṣaṃ pṛcchāmi' (bṛ. 3.9.23) ityevamādiśrutibhyaḥ // 3 // ---------------------- FN: trīṇi urogrīvaśirāṃsyunnatāni yasmiñśarīre tattryunnatam / tarko 'numānamanugrāhyaṃ mānam / upapattiranugrāhikā yuktiriti bhedaḥ / vilakṣaṇatvādhikaraṇam / sū. 4-12

Sanskrit only: no published translation is held for this verse.

न विलक्षणत्वाद् अस्य तथात्वं च शब्दात् ब्रह्मास्य जगतो निमित्तकारणं प्रकृतिश्चेत्यस्य पक्षस्याक्षेपः स्मृतिनिमित्तः परिहृतः । तर्कनिमित्त इदानीमाक्षेपः परिह्रियते । कुतः पुनरस्मिन्नवधारित आगमार्थे तर्कनिमित्तस्याक्षेपस्यावकाशः । ननु धर्म इव ब्रह्मण्यनपेक्ष आगमो भवितुमर्हति । भवेदयमवष्टम्भो यदि प्रमाणान्तरानवगाह्य आगममात्रप्रमेयो ऽयमर्थः स्यादनुष्ठेयरूप इव धर्मः । परिनिष्पन्नरूपं तु ब्रह्मावगम्यते । परिनिष्पन्ने च वस्तुनि प्रमाणान्तराणामस्त्यवकाशो यथा पृथिव्यादिषु । यथाच श्रुतीनां परस्परविरोधे सत्येकवशेनेतरा नीयन्ते, एवं प्रमाणान्तरविरोधे ऽपि तद्वशेनैव श्रुतिर्नीयेत । दृष्टसाम्येन चादृष्टमर्थं समर्थयन्ती युक्तिरनुभवस्य संनिकृष्यते । विप्रकृष्यते तु श्रुतिरैतिह्यमात्रेण स्वार्थाभिधानात् । अनुभवावसानं च ब्रह्मविज्ञानमविद्याया निवर्तकं मोक्षसाधनं च दृष्टफलतयेष्यते । श्रुतिरपि- ऽश्रोतव्यो मन्तव्यःऽ इति श्रवणव्यतिरेकेण मननं विदधती तर्कमप्यत्रादर्तव्यं दर्शयति । अतस्तर्कनिमित्तः पुनराक्षेपः क्रियते ऽन विलक्षणत्वादस्यऽ इति । यदुक्तं चेतनं ब्रह्म जगतः कारणं प्रकृतिरिति । तन्नोपपद्यते । कस्मात् । विलक्षणत्वादस्य विकारस्य प्रकृत्याः । इदं हि ब्रह्मकार्यत्वेनाभिप्रेयमाणं जगत् ब्रह्मविलक्षणमचेतनमशुद्धं च दृश्यते । ब्रह्म च जगद्विलक्षणं चेतनं शुद्धं च श्रूयते । नच विलक्षणत्वं प्रकृतिविकारभावो दृष्टः । नहि रुचकादयो विकारा मृत्प्रकृतिका भवन्ति शरावादयो वा सुवर्णप्रकृतिकाः । मृदैव तु मृदान्विता विकाराः क्रियन्ते सुवर्णेन च सुवर्णान्विताः । तथेदमपि जगदचेतनं सुखदुःखमोहान्वितं सदचेतनस्यैव सुखदुःखमोहात्मकस्य कारणस्य कार्यं भवितुमर्हतीति न विलक्षणस्य ब्रह्मणः । ब्रह्मविलक्षणं चास्य जगतो ऽशुद्ध्यचेतनत्वदर्शनादवगन्तव्यम् । अशुद्धं हि जगत्सुखदुःखमोहात्मकतया प्रीतिपरितापविषादादिहेतुत्वात्स्वर्गनरकाद्युच्चावचप्रपञ्चत्वाच्च । अचेतनं चेदं जगच्चेतनं प्रति कार्यकारणभावेनोपकरणभावोपगमात् । नहि साम्ये सत्युपकार्योपकारकभावो भवति । नहि प्रदीपौ परस्परस्योपकुरुतः । ननु चेतनमपि कार्यकारणं स्वामिभृत्यन्यायेन भोक्तुरुपकरिष्यति । न । स्वामिभृत्ययोरप्यचेतनांशस्यैव चेतनं प्रत्युपकारकत्वात् । यो ह्येकस्य चेतनस्य परिग्रहो बुद्ध्यादिचेतनभागः स एवान्यस्य चेतनस्योपकरोति नतु स्वयमेव चेतनश्चेतनान्तरस्योपकरोत्यपकरोति वा । निरतिशया ह्यकर्तारश्चेतना इति सांख्या मन्यन्ते । तस्मादचेतनं कार्यकारणम् । नच काष्टलोष्टादीनां चेतनत्वे किं चित्प्रमाणमस्ति । प्रसिद्धश्चायं चेतनाचेतनविभागो लोके । तस्माद्ब्रह्मविलक्षणत्वान्नेदं जगत्तत्प्रकृतिकम् । यो ऽपि कश्चिदाचक्षीत श्रुत्वा जगतश्चेतनप्रकृतिकतां तद्बलेनैव समस्तं जगच्चेतनमवगमयिष्यामि । प्रकृतिरूपस्य विकारे ऽन्वयदर्शनात् । अविभावनं तु चैतन्यस्य परिणामविशेषाद्भविष्यति । यथा स्पष्टचैतन्यानामप्यात्मनां स्वापमूर्च्छाद्यवस्थासु चैतन्यं न विभाव्यत एवं काष्ठलोष्टादीनामपि चैतन्यं न विभावयिष्यते । एतस्मादेव च विभाविताविभावितत्वकृताद्विशेषाद्रूपादिभावाभावाभ्यां च कार्यकारणानामात्मनां च चेतनत्वाविशेषे ऽपि गुणप्रधानभावो न विरोत्स्यते । यथा च पार्थिवत्वाविशेषे ऽपि मांससूपौदनादीनां प्रत्यात्मवर्तिनो विशेषात्परस्परोपकारित्वं भवत्येवमिहापि भविष्यति । प्रविभागप्रसिद्धिरप्यत एव न विरोत्स्यत इति । तेनापि कथञ्चिच्चेतनाचेतनत्वलक्षणं विलक्षणत्वं परिह्रियेत । शुद्ध्यशुद्धित्वलक्षणं तु विलक्षणत्वं नैव परिह्रियते । नचेतरदपि विलक्षणत्वं परिहर्तुं शक्यत इत्याह- तथात्वं च शब्दादिति । अनवगम्यमानमेवं हीदं लोके समस्तस्य वस्तुनश्चेतनत्वं चेतनप्रकृतिकत्वश्रवणाच्छब्दशरणतया केवलयोत्प्रेक्षत, तच्च शब्देनैव विरुध्यते । यतः शब्दादपि तथात्वमवगम्यते । तथात्वमिति प्रकृतिविलक्षणत्वं कथयति । शब्द एव ऽविज्ञानं चाविज्ञानं चऽ (ते। २।६) इति कस्यचिद्विभागस्याचेतनतां श्रावयंश्चेतनाद्ब्रह्मणो विलक्षणमचेतनं जगच्छ्रावयति ॥ ४ ॥ ---------------------- फ़्न्: अवष्टम्भो दृष्टान्तः । ऐतिह्यमात्रेण परोक्षतयेति यावत् । सुखदुःखमोहाः सत्त्वरजस्तमांसि । उपजनापायवद्धर्मयोगो ऽतिशयस्तदभावो निरतिशयत्वम् । इतरच्चेतनाचेतनत्वरूपम् । ननु चेतनत्वमपि क्वचिदचेतनत्वाभिमतानां भूतेन्द्रियाणां श्रूयते । यथा ऽमृदब्रवीत्ऽ ऽआपो ऽब्रुवन्ऽ ( शपब्रा। ६।१।३।२।४) इति, ऽतत्तेज ऐक्षतऽ ऽता आप ऐक्षन्तऽ (छा। ६।२।३,४) इति चैवमाद्या भूतविषया चेतनत्वश्रुतिः । इन्द्रियविषयापि ऽते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुःऽ (बृ। ६।१।७) इति, ऽते ह वाचमूचुस्त्वं न उद्गायेतिऽ (बृ। १।३।२) इत्येवमाद्येन्द्रियविषयेति । अत उत्तरं पठति-

na vilakṣaṇatvād asya tathātvaṃ ca śabdāt brahmāsya jagato nimittakāraṇaṃ prakṛtiścetyasya pakṣasyākṣepaḥ smṛtinimittaḥ parihṛtaḥ / tarkanimitta idānīmākṣepaḥ parihriyate / kutaḥ punarasminnavadhārita āgamārthe tarkanimittasyākṣepasyāvakāśaḥ / nanu dharma iva brahmaṇyanapekṣa āgamo bhavitumarhati / bhavedayamavaṣṭambho yadi pramāṇāntarānavagāhya āgamamātraprameyo 'yamarthaḥ syādanuṣṭheyarūpa iva dharmaḥ / pariniṣpannarūpaṃ tu brahmāvagamyate / pariniṣpanne ca vastuni pramāṇāntarāṇāmastyavakāśo yathā pṛthivyādiṣu / yathāca śrutīnāṃ parasparavirodhe satyekavaśenetarā nīyante, evaṃ pramāṇāntaravirodhe 'pi tadvaśenaiva śrutirnīyeta / dṛṣṭasāmyena cādṛṣṭamarthaṃ samarthayantī yuktiranubhavasya saṃnikṛṣyate / viprakṛṣyate tu śrutiraitihyamātreṇa svārthābhidhānāt / anubhavāvasānaṃ ca brahmavijñānamavidyāyā nivartakaṃ mokṣasādhanaṃ ca dṛṣṭaphalatayeṣyate / śrutirapi- 'śrotavyo mantavyaḥ' iti śravaṇavyatirekeṇa mananaṃ vidadhatī tarkamapyatrādartavyaṃ darśayati / atastarkanimittaḥ punarākṣepaḥ kriyate 'na vilakṣaṇatvādasya' iti / yaduktaṃ cetanaṃ brahma jagataḥ kāraṇaṃ prakṛtiriti / tannopapadyate / kasmāt / vilakṣaṇatvādasya vikārasya prakṛtyāḥ / idaṃ hi brahmakāryatvenābhipreyamāṇaṃ jagat brahmavilakṣaṇamacetanamaśuddhaṃ ca dṛśyate / brahma ca jagadvilakṣaṇaṃ cetanaṃ śuddhaṃ ca śrūyate / naca vilakṣaṇatvaṃ prakṛtivikārabhāvo dṛṣṭaḥ / nahi rucakādayo vikārā mṛtprakṛtikā bhavanti śarāvādayo vā suvarṇaprakṛtikāḥ / mṛdaiva tu mṛdānvitā vikārāḥ kriyante suvarṇena ca suvarṇānvitāḥ / tathedamapi jagadacetanaṃ sukhaduḥkhamohānvitaṃ sadacetanasyaiva sukhaduḥkhamohātmakasya kāraṇasya kāryaṃ bhavitumarhatīti na vilakṣaṇasya brahmaṇaḥ / brahmavilakṣaṇaṃ cāsya jagato 'śuddhyacetanatvadarśanādavagantavyam / aśuddhaṃ hi jagatsukhaduḥkhamohātmakatayā prītiparitāpaviṣādādihetutvātsvarganarakādyuccāvacaprapañcatvācca / acetanaṃ cedaṃ jagaccetanaṃ prati kāryakāraṇabhāvenopakaraṇabhāvopagamāt / nahi sāmye satyupakāryopakārakabhāvo bhavati / nahi pradīpau parasparasyopakurutaḥ / nanu cetanamapi kāryakāraṇaṃ svāmibhṛtyanyāyena bhokturupakariṣyati / na / svāmibhṛtyayorapyacetanāṃśasyaiva cetanaṃ pratyupakārakatvāt / yo hyekasya cetanasya parigraho buddhyādicetanabhāgaḥ sa evānyasya cetanasyopakaroti natu svayameva cetanaścetanāntarasyopakarotyapakaroti vā / niratiśayā hyakartāraścetanā iti sāṃkhyā manyante / tasmādacetanaṃ kāryakāraṇam / naca kāṣṭaloṣṭādīnāṃ cetanatve kiṃ citpramāṇamasti / prasiddhaścāyaṃ cetanācetanavibhāgo loke / tasmādbrahmavilakṣaṇatvānnedaṃ jagattatprakṛtikam / yo 'pi kaścidācakṣīta śrutvā jagataścetanaprakṛtikatāṃ tadbalenaiva samastaṃ jagaccetanamavagamayiṣyāmi / prakṛtirūpasya vikāre 'nvayadarśanāt / avibhāvanaṃ tu caitanyasya pariṇāmaviśeṣādbhaviṣyati / yathā spaṣṭacaitanyānāmapyātmanāṃ svāpamūrcchādyavasthāsu caitanyaṃ na vibhāvyata evaṃ kāṣṭhaloṣṭādīnāmapi caitanyaṃ na vibhāvayiṣyate / etasmādeva ca vibhāvitāvibhāvitatvakṛtādviśeṣādrūpādibhāvābhāvābhyāṃ ca kāryakāraṇānāmātmanāṃ ca cetanatvāviśeṣe 'pi guṇapradhānabhāvo na virotsyate / yathā ca pārthivatvāviśeṣe 'pi māṃsasūpaudanādīnāṃ pratyātmavartino viśeṣātparasparopakāritvaṃ bhavatyevamihāpi bhaviṣyati / pravibhāgaprasiddhirapyata eva na virotsyata iti / tenāpi kathañciccetanācetanatvalakṣaṇaṃ vilakṣaṇatvaṃ parihriyeta / śuddhyaśuddhitvalakṣaṇaṃ tu vilakṣaṇatvaṃ naiva parihriyate / nacetaradapi vilakṣaṇatvaṃ parihartuṃ śakyata ityāha- tathātvaṃ ca śabdāditi / anavagamyamānamevaṃ hīdaṃ loke samastasya vastunaścetanatvaṃ cetanaprakṛtikatvaśravaṇācchabdaśaraṇatayā kevalayotprekṣata, tacca śabdenaiva virudhyate / yataḥ śabdādapi tathātvamavagamyate / tathātvamiti prakṛtivilakṣaṇatvaṃ kathayati / śabda eva 'vijñānaṃ cāvijñānaṃ ca' (te. 2.6) iti kasyacidvibhāgasyācetanatāṃ śrāvayaṃścetanādbrahmaṇo vilakṣaṇamacetanaṃ jagacchrāvayati // 4 // ---------------------- FN: avaṣṭambho dṛṣṭāntaḥ / aitihyamātreṇa parokṣatayeti yāvat / sukhaduḥkhamohāḥ sattvarajastamāṃsi / upajanāpāyavaddharmayogo 'tiśayastadabhāvo niratiśayatvam / itaraccetanācetanatvarūpam / nanu cetanatvamapi kvacidacetanatvābhimatānāṃ bhūtendriyāṇāṃ śrūyate / yathā 'mṛdabravīt' 'āpo 'bruvan' ( śa.pa.brā. 6.1.3.2.4) iti, 'tatteja aikṣata' 'tā āpa aikṣanta' (chā. 6.2.3,4) iti caivamādyā bhūtaviṣayā cetanatvaśrutiḥ / indriyaviṣayāpi 'te heme prāṇā ahaṃśreyase vivadamānā brahma jagmuḥ' (bṛ. 6.1.7) iti, 'te ha vācamūcustvaṃ na udgāyeti' (bṛ. 1.3.2) ityevamādyendriyaviṣayeti / ata uttaraṃ paṭhati-

Sanskrit only: no published translation is held for this verse.

अभिमानिव्यपदेशस् तु विशेषानुगतिभ्याम् तुशब्द आशङ्कामपनुदति । न खलु मृदब्रवीदित्येवञ्जातीयकया श्रुत्या भूतेन्द्रियाणां चेतनत्वमाशङ्कनीयम् । यतो ऽभिमानिव्यपदेश एषः । मृदाद्यभिमानिन्यो वागाद्यभिमानिन्यश्च चेतना देवता वदनसंवदनादिषु चेतनोचितेषु व्यवहारेषु व्यपदिश्यन्ते न भूतेन्द्रियमात्रम् । कस्मात् । विशेषानुगतिभ्याम् । विशेषो हि भोक्तृणां भूतेन्द्रियाणां च चेतनाचेतनप्रविभागलक्षणः प्रागभिहितः । सर्वचेतनतायां चासौ नोपपद्येत । अपिच कौषीतकिनः प्राणसंवादे करणमात्राशङ्काविनिवृत्तये ऽधिष्ठातृचेतनपरिग्रहाय देवताशब्देन विशिषन्ति- ऽएता ह वै देवता अहंश्रेयसे विवदमानाःऽ इति । ऽता वा एताः सर्वा देवताः प्राणे निःश्रेयसं विदित्वाऽ (२।१४) इति च । अनुगताश्च सर्वत्राभिमानिन्यश्चेतनादेवता मन्त्रार्थवादेतिहासपुराणादिभ्यो ऽवगम्यन्ते । ऽअग्निर्वाग्भूत्वा मुखं प्राविशत्ऽ (ऐआ। २।४।२।४) इत्येवमादिका च श्रुतिः करणेष्वनुग्राहिकां देवतामनुगतां दर्शयति । प्राणसंवादवाक्यशेषे च ऽते ह प्राणाः प्रजापतिं पितरमेत्योचुःऽ (छा। ५।१।७) इति श्रेष्ठत्वनिर्धारणाय प्रजापतिगमनं, तद्वचनाचैकैकोत्क्रमणेनान्वयव्यतिर्काभ्यां प्राणश्रैष्ठ्यप्रतिपत्तिः । ऽतस्मै बलिहरणम्ऽ (बृ। ६।१।१३) इति चैवञ्जातीयको ऽस्मदादिष्विव व्यवहारो ऽनुगम्यमानो ऽभिमानिव्यपदेशं द्रढयति । ऽतत्तेज ऐक्षतऽ इत्यपि परस्या एव देवताया अधिष्टात्र्याः स्वविकारेष्वनुगताया इयमीक्षा व्यपदिश्यत इति द्रष्टव्यम् । तस्माद्विलक्षणमेवेदं ब्रह्मणो जगत् । विलक्षणत्वाच्च न ब्रह्मप्रकृतिकमित्याक्षिप्ते प्रतिविधत्ते ॥ ५ ॥ ---------------------- फ़्न्: संवदनं विवादः । विशिंषन्ति वागादीन्प्राणादीनिति शेषः । अहंश्रेयसे स्वस्वश्रेष्ठत्वाय । निःश्रेयसं श्रैष्ठ्यम् ।

abhimānivyapadeśas tu viśeṣānugatibhyām tuśabda āśaṅkāmapanudati / na khalu mṛdabravīdityevañjātīyakayā śrutyā bhūtendriyāṇāṃ cetanatvamāśaṅkanīyam / yato 'bhimānivyapadeśa eṣaḥ / mṛdādyabhimāninyo vāgādyabhimāninyaśca cetanā devatā vadanasaṃvadanādiṣu cetanociteṣu vyavahāreṣu vyapadiśyante na bhūtendriyamātram / kasmāt / viśeṣānugatibhyām / viśeṣo hi bhoktṛṇāṃ bhūtendriyāṇāṃ ca cetanācetanapravibhāgalakṣaṇaḥ prāgabhihitaḥ / sarvacetanatāyāṃ cāsau nopapadyeta / apica kauṣītakinaḥ prāṇasaṃvāde karaṇamātrāśaṅkāvinivṛttaye 'dhiṣṭhātṛcetanaparigrahāya devatāśabdena viśiṣanti- 'etā ha vai devatā ahaṃśreyase vivadamānāḥ' iti / 'tā vā etāḥ sarvā devatāḥ prāṇe niḥśreyasaṃ viditvā' (2.14) iti ca / anugatāśca sarvatrābhimāninyaścetanādevatā mantrārthavādetihāsapurāṇādibhyo 'vagamyante / 'agnirvāgbhūtvā mukhaṃ prāviśat' (ai.ā. 2.4.2.4) ityevamādikā ca śrutiḥ karaṇeṣvanugrāhikāṃ devatāmanugatāṃ darśayati / prāṇasaṃvādavākyaśeṣe ca 'te ha prāṇāḥ prajāpatiṃ pitarametyocuḥ' (chā. 5.1.7) iti śreṣṭhatvanirdhāraṇāya prajāpatigamanaṃ, tadvacanācaikaikotkramaṇenānvayavyatirkābhyāṃ prāṇaśraiṣṭhyapratipattiḥ / 'tasmai baliharaṇam' (bṛ. 6.1.13) iti caivañjātīyako 'smadādiṣviva vyavahāro 'nugamyamāno 'bhimānivyapadeśaṃ draḍhayati / 'tatteja aikṣata' ityapi parasyā eva devatāyā adhiṣṭātryāḥ svavikāreṣvanugatāyā iyamīkṣā vyapadiśyata iti draṣṭavyam / tasmādvilakṣaṇamevedaṃ brahmaṇo jagat / vilakṣaṇatvācca na brahmaprakṛtikamityākṣipte pratividhatte // 5 // ---------------------- FN: saṃvadanaṃ vivādaḥ / viśiṃṣanti vāgādīnprāṇādīniti śeṣaḥ / ahaṃśreyase svasvaśreṣṭhatvāya / niḥśreyasaṃ śraiṣṭhyam /

Sanskrit only: no published translation is held for this verse.

दृश्यते तु तुशब्दः पक्षं व्यावर्तयति । यदुक्तं विलक्षणत्वान्नेदं जगद्ब्रह्मप्रकृतिकमिति । नायमेकान्तः । दृश्यते हि लोके चेतनत्वेन प्रसिद्धेभ्यः पुरुषादिभ्यो विलक्षणानां केशनखादीनामुत्पत्तिः, अचेतनत्वेन च प्रसिद्धेभ्यो गोमयादिभ्यो वृश्चिकादीनाम् । नन्वचेतनान्येव पुरुषादिशरीराण्यचेतनानां केशनखादीनां कारणानि, अचेतनान्येव च वृश्चिकादिशरीराण्यचेतनानां गोमयादीनां कार्याणीति । उच्यते- एवमपि किञ्चिदचेतनं चेतनस्यायतनभावमुपगच्छति किञ्चिन्नेत्यस्त्येव वैलक्षण्यम् । महांश्चायं पारिणामिकः स्वभावविप्रकर्षः पुरुषादीनां केशनखादीनां च स्वरूपादिभेदात् । तथा गोमयादीनां वृश्चिकादीनां च । अत्यन्तसारूप्ये च प्रकृतिविकारभाव एव प्रलीयेत । अथोच्येतास्ति कश्चित्पार्थिवत्वादिस्वभावः पुरुषादीनां केशनखादिष्वनुवर्तमानो गोमयादीनां वृश्चिकादिष्विति । ब्रह्मणो ऽपि तर्हि सत्तालक्षणः स्वभाव आकाशादिष्वनुवर्तमानोदृश्यते । विलक्षणत्वेन च कारणेन ब्रह्मप्रकृतित्वं जगतो दूषयता किमशेषस्य ब्रह्मस्वभावस्याननुवर्तनं विलक्षणत्वमभिप्रेयत उत यस्य कस्यचिदस्य चैतन्यस्येति वक्तव्यम् । प्रथमे विकल्पे समस्तप्रकृतिविकारोच्छेदप्रसङ्गः । नह्यसत्यतिशये प्रकृतिविकार इति भवति । द्वितीये चासिद्धत्वम् । दृश्यते हि सत्तालक्षणो ब्रह्मस्वभाव आकाशादिष्वनुवर्तमान इत्युक्तम् । तृतीये तु दृष्टान्ताभावः । किं हि यच्चैतन्येनानन्वितं तदब्रह्मप्रकृतिकं दृष्टमिति ब्रह्मवादिनं प्रत्युदाह्रियेत । समस्तस्य वस्तुजायस्य ब्रह्मप्रकृतित्वाभ्युपगमात् । आगमविरोधस्तु प्रसिद्ध एव । चेतनं ब्रह्मजगतः कारणं प्रकृतिश्चेत्यागमतात्पर्यस्य प्रसाधितत्वात् । यत्तूक्तं परिनिष्पन्नत्वाद्ब्रह्मणि प्रमाणान्तराणि संभवेयुरिति । तदपि मनोरथमात्रम् । रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षस्य गोचरः । लिङ्गाद्यभावाच्च नानुमानादीनाम् । आगममात्रसमधिगम्य एव त्वयमर्थो धर्मवत् । तथाच श्रुतिः - ऽनैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठऽ (का। १।२।९) इति । ऽको अद्धा वेद क इह प्रवोचत्ऽ । ऽइयं विसृष्टिर्यत आबभूवऽ (ऋसं १।३०।६) इति चैते ऋचौ सिद्धानामपीश्वराणां दुर्बोधतां जगत्कारणस्य दर्शयतः । स्मृतिरपि भवति- ऽअचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्ऽ इति । ऽअव्यक्तो ऽयमचिन्त्यो ऽयमविकार्योयमुच्यतेऽ (गी। २।२५) इति च । ऽन मे विदुः सुरगणाः प्रभवं न महर्षयः । अहमादिर्हि देवानां महर्षीणां च सर्वशःऽ (गी। १०।२) इति चैवञ्जातीयका । यदपि श्रवणव्यतिरेकेण मननं विदधच्छब्द एव तर्कमप्यादर्तव्यं दर्शयतीत्युक्तम् । नानेन मिषेण शुष्कतर्कस्यात्रात्मलाभः संभवति । श्रुत्यनुगृहीत एव ह्यत्र तर्को ऽनुभवाङ्गत्वेनाश्रीयते । स्वप्नान्तबुद्धान्तयोरुभयोरितरेतरव्यभिचारादात्मनो ऽनन्वागतत्वं, संप्रसादे च प्रपञ्चपरित्यागेन सदात्मना संपत्तेर्निष्प्रपञ्चसदात्मत्वं, प्रपञ्चस्य ब्रह्मप्रभवत्वात्कार्यकारणानन्यत्वन्यायेन ब्रह्माव्यतिरेक इत्येवञ्जातीयकः । ऽतर्काप्रतिष्ठानात्ऽ (ब्र। २।१।११) इति च केवलस्य तर्कस्यविप्रलम्भकत्वं दर्शयिष्यति । यो ऽपि चेतनकारणश्रवणबलेनैव समस्तस्य जगतश्चेतनतामुत्प्रेक्षते तस्यापि विज्ञानं चाविज्ञानं च इति चेतनाचेतनविभागश्रवणं विभावनाविभावनाभ्यां चैतन्यस्य शक्यत एव योजयितुम् । परस्यैव त्विदमपि विभागश्रवणं न युज्यते । कथम् । परमकारणस्य ह्यत्र समस्तजगदात्मना समवस्थानं श्राव्यते ऽविज्ञानं चाविज्ञानं चाभवत्ऽ इति । तत्र यथा चेतनस्याचेतनभावो नोपपद्यते विलक्षणत्वात्, एवमचेतनस्यापि चेतनभावो नोपपद्यते । प्रत्युक्तत्वात्तु विलक्षणत्वस्य यथाश्रुत्यैव कारणं ग्रहीतव्यं भवति ॥ ६ ॥ ---------------------- फ़्न्: पारिणामिकस्तत्तत्केशादिगतपरिणामात्मक इत्यर्थः । एषा वेदान्तशास्त्रजन्या मतिस्तर्केण स्वमत्यूहमात्रेणापनेया बाधार्हा न । यद्वा तर्केण प्राप्तव्या नेत्यर्थः । किन्तु अन्येन निपुणेनाचार्येण प्रोक्तप्रबोधिता सती सुज्ञानाय साक्षात्काराय भवति । हे प्रेष्ठ प्रियतमेति नाचिकेतसंप्रति यमसंबोधनम् । इयं विसृष्टिराकाशादिसृष्टिः कुतः कस्माज्जाता कस्माच्च स्थितिं प्राप्तेत्यद्धा तत्त्वेन को वेद, न को ऽपि । कः प्रवोचत् न को ऽपि प्रवक्ताभूत् । विप्रलम्भकत्वं अर्थविशेषाव्यवस्थापकत्वम् ।

dṛśyate tu tuśabdaḥ pakṣaṃ vyāvartayati / yaduktaṃ vilakṣaṇatvānnedaṃ jagadbrahmaprakṛtikamiti / nāyamekāntaḥ / dṛśyate hi loke cetanatvena prasiddhebhyaḥ puruṣādibhyo vilakṣaṇānāṃ keśanakhādīnāmutpattiḥ, acetanatvena ca prasiddhebhyo gomayādibhyo vṛścikādīnām / nanvacetanānyeva puruṣādiśarīrāṇyacetanānāṃ keśanakhādīnāṃ kāraṇāni, acetanānyeva ca vṛścikādiśarīrāṇyacetanānāṃ gomayādīnāṃ kāryāṇīti / ucyate- evamapi kiñcidacetanaṃ cetanasyāyatanabhāvamupagacchati kiñcinnetyastyeva vailakṣaṇyam / mahāṃścāyaṃ pāriṇāmikaḥ svabhāvaviprakarṣaḥ puruṣādīnāṃ keśanakhādīnāṃ ca svarūpādibhedāt / tathā gomayādīnāṃ vṛścikādīnāṃ ca / atyantasārūpye ca prakṛtivikārabhāva eva pralīyeta / athocyetāsti kaścitpārthivatvādisvabhāvaḥ puruṣādīnāṃ keśanakhādiṣvanuvartamāno gomayādīnāṃ vṛścikādiṣviti / brahmaṇo 'pi tarhi sattālakṣaṇaḥ svabhāva ākāśādiṣvanuvartamānodṛśyate / vilakṣaṇatvena ca kāraṇena brahmaprakṛtitvaṃ jagato dūṣayatā kimaśeṣasya brahmasvabhāvasyānanuvartanaṃ vilakṣaṇatvamabhipreyata uta yasya kasyacidasya caitanyasyeti vaktavyam / prathame vikalpe samastaprakṛtivikārocchedaprasaṅgaḥ / nahyasatyatiśaye prakṛtivikāra iti bhavati / dvitīye cāsiddhatvam / dṛśyate hi sattālakṣaṇo brahmasvabhāva ākāśādiṣvanuvartamāna ityuktam / tṛtīye tu dṛṣṭāntābhāvaḥ / kiṃ hi yaccaitanyenānanvitaṃ tadabrahmaprakṛtikaṃ dṛṣṭamiti brahmavādinaṃ pratyudāhriyeta / samastasya vastujāyasya brahmaprakṛtitvābhyupagamāt / āgamavirodhastu prasiddha eva / cetanaṃ brahmajagataḥ kāraṇaṃ prakṛtiścetyāgamatātparyasya prasādhitatvāt / yattūktaṃ pariniṣpannatvādbrahmaṇi pramāṇāntarāṇi saṃbhaveyuriti / tadapi manorathamātram / rūpādyabhāvāddhi nāyamarthaḥ pratyakṣasya gocaraḥ / liṅgādyabhāvācca nānumānādīnām / āgamamātrasamadhigamya eva tvayamartho dharmavat / tathāca śrutiḥ - 'naiṣā tarkeṇa matirāpaneyā proktānyenaiva sujñānāya preṣṭha' (kā. 1.2.9) iti / 'ko addhā veda ka iha pravocat' / 'iyaṃ visṛṣṭiryata ābabhūva' (ṛ.saṃ 1.30.6) iti caite ṛcau siddhānāmapīśvarāṇāṃ durbodhatāṃ jagatkāraṇasya darśayataḥ / smṛtirapi bhavati- 'acintyāḥ khalu ye bhāvā na tāṃstarkeṇa yojayet' iti / 'avyakto 'yamacintyo 'yamavikāryoyamucyate' (gī. 2.25) iti ca / 'na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ / ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ' (gī. 10.2) iti caivañjātīyakā / yadapi śravaṇavyatirekeṇa mananaṃ vidadhacchabda eva tarkamapyādartavyaṃ darśayatītyuktam / nānena miṣeṇa śuṣkatarkasyātrātmalābhaḥ saṃbhavati / śrutyanugṛhīta eva hyatra tarko 'nubhavāṅgatvenāśrīyate / svapnāntabuddhāntayorubhayoritaretaravyabhicārādātmano 'nanvāgatatvaṃ, saṃprasāde ca prapañcaparityāgena sadātmanā saṃpatterniṣprapañcasadātmatvaṃ, prapañcasya brahmaprabhavatvātkāryakāraṇānanyatvanyāyena brahmāvyatireka ityevañjātīyakaḥ / 'tarkāpratiṣṭhānāt' (bra. 2.1.11) iti ca kevalasya tarkasyavipralambhakatvaṃ darśayiṣyati / yo 'pi cetanakāraṇaśravaṇabalenaiva samastasya jagataścetanatāmutprekṣate tasyāpi vijñānaṃ cāvijñānaṃ ca iti cetanācetanavibhāgaśravaṇaṃ vibhāvanāvibhāvanābhyāṃ caitanyasya śakyata eva yojayitum / parasyaiva tvidamapi vibhāgaśravaṇaṃ na yujyate / katham / paramakāraṇasya hyatra samastajagadātmanā samavasthānaṃ śrāvyate 'vijñānaṃ cāvijñānaṃ cābhavat' iti / tatra yathā cetanasyācetanabhāvo nopapadyate vilakṣaṇatvāt, evamacetanasyāpi cetanabhāvo nopapadyate / pratyuktatvāttu vilakṣaṇatvasya yathāśrutyaiva kāraṇaṃ grahītavyaṃ bhavati // 6 // ---------------------- FN: pāriṇāmikastattatkeśādigatapariṇāmātmaka ityarthaḥ / eṣā vedāntaśāstrajanyā matistarkeṇa svamatyūhamātreṇāpaneyā bādhārhā na / yadvā tarkeṇa prāptavyā netyarthaḥ / kintu anyena nipuṇenācāryeṇa proktaprabodhitā satī sujñānāya sākṣātkārāya bhavati / he preṣṭha priyatameti nāciketasaṃprati yamasaṃbodhanam / iyaṃ visṛṣṭirākāśādisṛṣṭiḥ kutaḥ kasmājjātā kasmācca sthitiṃ prāptetyaddhā tattvena ko veda, na ko 'pi / kaḥ pravocat na ko 'pi pravaktābhūt / vipralambhakatvaṃ arthaviśeṣāvyavasthāpakatvam /

Sanskrit only: no published translation is held for this verse.

असद् इति चेन् न प्रतिषेधमात्रत्वात् यदि चेतनं शुद्धं शब्दविहीनं च ब्रह्म तद्विपरूतस्याचेतनस्याशुद्धस्य शब्दादिमतश्च कार्यस्य कारणमिष्येतासत्तर्हि कार्यं प्रागुत्पत्तेरिति प्रसज्येत । अनिष्टं चैतत्सत्कार्यवादिनस्तवेति चेत् । नैष दोषः । प्रतिषेधमात्रत्वात् । प्रतिषेधमात्रं हीदं नास्य प्रतिषेधस्य प्रतिषेध्यमस्ति । नह्ययं प्रतिषेधः प्रागुत्पत्तेः सत्त्वं कार्यस्य प्रतिषेद्धुं शक्नोति । कथम् । यथैव हीदानामपीदं कार्यं कारणात्मना सदेवं प्रागुत्पत्तेरपीति गम्यते । नहीदानामपीदं कार्यं कारणात्मानमन्तरेण स्वतन्त्रमेवास्ति । ऽसर्वं तं परादाद्यो ऽन्यत्रात्मनः सर्वं वेदऽ (बृ। २।४।६) इत्यादिश्रवणात् । कारणात्मना तु सत्त्वं कार्यस्य प्रागुत्पत्तेरविशिष्टम् । ननु शब्दादिहीनं ब्रह्मजगतः कारणम् । बाढम् । नतु शब्दादिमत्कार्यं कारणात्मना हीनं प्रागुत्पत्तेरिदानीं वास्ति । तेन न शक्यते वक्तुं प्रागुत्पत्तेरसत्कार्यमिति । विस्तरेण चैतत्कार्यकारणानन्यत्ववादे वक्ष्यामः ॥ ७ ॥

asad iti cen na pratiṣedhamātratvāt yadi cetanaṃ śuddhaṃ śabdavihīnaṃ ca brahma tadviparūtasyācetanasyāśuddhasya śabdādimataśca kāryasya kāraṇamiṣyetāsattarhi kāryaṃ prāgutpatteriti prasajyeta / aniṣṭaṃ caitatsatkāryavādinastaveti cet / naiṣa doṣaḥ / pratiṣedhamātratvāt / pratiṣedhamātraṃ hīdaṃ nāsya pratiṣedhasya pratiṣedhyamasti / nahyayaṃ pratiṣedhaḥ prāgutpatteḥ sattvaṃ kāryasya pratiṣeddhuṃ śaknoti / katham / yathaiva hīdānāmapīdaṃ kāryaṃ kāraṇātmanā sadevaṃ prāgutpatterapīti gamyate / nahīdānāmapīdaṃ kāryaṃ kāraṇātmānamantareṇa svatantramevāsti / 'sarvaṃ taṃ parādādyo 'nyatrātmanaḥ sarvaṃ veda' (bṛ. 2.4.6) ityādiśravaṇāt / kāraṇātmanā tu sattvaṃ kāryasya prāgutpatteraviśiṣṭam / nanu śabdādihīnaṃ brahmajagataḥ kāraṇam / bāḍham / natu śabdādimatkāryaṃ kāraṇātmanā hīnaṃ prāgutpatteridānīṃ vāsti / tena na śakyate vaktuṃ prāgutpatterasatkāryamiti / vistareṇa caitatkāryakāraṇānanyatvavāde vakṣyāmaḥ // 7 //

Sanskrit only: no published translation is held for this verse.

अपीतौ तद्वत्प्रसङ्गाद् असमञ्जसम् अत्राह- यदि स्थौल्यसावयवत्वाचेतनत्वपरिच्छिन्नत्वाशुद्ध्यादिधर्मकं कार्यं ब्रह्मकारणमभ्युपगम्येत तदपीतौ प्रलये प्रतिसंसृज्यमानं कार्यं कारणाविभागमापद्यमानं कारणमात्मीयेन धर्मेण दूषयेदित्यपीतौ कारणस्यापि ब्रह्मणः कार्यस्येवाशुद्ध्यादिरूपप्रसङ्गात्सर्वज्ञं ब्रह्म जगत्कारणमित्यसमञ्जसमिदमौपनिषदं दर्शनम् । अपिच समस्तस्य विभागस्याविभागप्राप्तेः पुनरुत्पत्तौ नियमकारणाभावाद्भोक्तृभोग्यादिविभागेनोत्पत्तिर्न प्राप्नोतीत्यसमञ्जसम् । अपिच भोक्तृणां परेण ब्रह्मणाविभागं गतानां कर्मादिनिमित्तप्रलये ऽपि पुनरुत्पत्तावभ्युपगम्यमानायां मुक्तानामपि पुनरुत्तत्तिप्रसङ्गादसमञ्जसम् । अथेदं जगदपीतावपि विभक्तमेव परेण ब्रह्मणावतिष्ठेत, एवमप्यपीतीश्च न संभवति, कारणाव्यतिरिक्तं च कार्यं न संभवतीत्यसमञ्जसमेवेति ॥ ८ ॥ अत्रोच्यते-

apītau tadvatprasaṅgād asamañjasam atrāha- yadi sthaulyasāvayavatvācetanatvaparicchinnatvāśuddhyādidharmakaṃ kāryaṃ brahmakāraṇamabhyupagamyeta tadapītau pralaye pratisaṃsṛjyamānaṃ kāryaṃ kāraṇāvibhāgamāpadyamānaṃ kāraṇamātmīyena dharmeṇa dūṣayedityapītau kāraṇasyāpi brahmaṇaḥ kāryasyevāśuddhyādirūpaprasaṅgātsarvajñaṃ brahma jagatkāraṇamityasamañjasamidamaupaniṣadaṃ darśanam / apica samastasya vibhāgasyāvibhāgaprāpteḥ punarutpattau niyamakāraṇābhāvādbhoktṛbhogyādivibhāgenotpattirna prāpnotītyasamañjasam / apica bhoktṛṇāṃ pareṇa brahmaṇāvibhāgaṃ gatānāṃ karmādinimittapralaye 'pi punarutpattāvabhyupagamyamānāyāṃ muktānāmapi punaruttattiprasaṅgādasamañjasam / athedaṃ jagadapītāvapi vibhaktameva pareṇa brahmaṇāvatiṣṭheta, evamapyapītīśca na saṃbhavati, kāraṇāvyatiriktaṃ ca kāryaṃ na saṃbhavatītyasamañjasameveti // 8 // atrocyate-

Sanskrit only: no published translation is held for this verse.

न तु दृष्टान्तभावात् नैवास्मदीये दर्शने किञ्चिदसामञ्जस्यमस्ति । यत्तावदभिहितं कारणमपिगच्छत्कार्यं कारणमात्मीयेन धर्मेण दूषयेदिति, तददूषणम् । कस्मात् । दृष्टान्ताभावात् । सन्ति हि दृष्टान्ता यथा कारणमपिगच्छत्कार्यं कारणमात्मीयेन धर्मेण न दूषयति । तद्यथा शरावादयो मृत्प्रकृतिका विकारा विभागावस्थायामुच्चावचमध्यमप्रभेदाः सन्तः पुनः प्रकृतिमपिगच्छन्तो न तामात्मीयेन धर्मेण संसृजन्ति । रुचकादयश्च सुवर्णविकारा अपीतौ न सुवर्णमात्मीयेन धर्मेण संसृजन्ति । पृथिवीविकारश्चतुर्विधो भूतग्रामो न पृथिवीमपीतावात्मीयेन धर्मेण संसृजति । त्वत्पक्षस्य तु न कश्चिद्दृष्टान्तो ऽस्ति । अपीतिरेव हि न संभवेद्यदि कारणे कार्यं स्वधर्मेणैवावतिष्ठेत । अनन्यत्वे ऽपि कार्यकारणयोः कार्यस्य कारणात्मत्वं नतु कारणस्य कार्यात्मत्वं ऽआरम्भणशब्दादिभ्यःऽ इति वक्ष्यामः (ब्रसू। २।१।१४) । अत्यल्पं चेदमुच्यते कार्यमपीतावात्मीयेन धर्मेण कारणं संसृजेदिति । स्थितावपि समानो ऽयं प्रसङ्गः, कार्यकारणयोरनन्यत्वाभ्युपगमात् । ऽइदं सर्व यदयमात्माऽ (बृ। २।४।६), ऽआत्मैवेदं सर्वम्ऽ (छा। ७।२५।२), ऽब्रह्मैवेदममृतं पुरस्तात्ऽ (मु। २।२।११), ऽसर्वं खल्विदं ब्रह्मऽ (छा। ३।१४।१) इत्येवमाद्याभिर्हि श्रुतिभिरविशेषेण त्रिष्वपि कालेषु कार्यस्य कारणानन्यत्वं श्राव्यते । तत्र यः परिहारः कार्यस्य तद्धर्माणां चाविद्याध्यारोपितत्वान्न तैः कारणं संसृज्यत इति, अपीतावपि स समानः । अस्ति चायमपरो दृष्टान्तो यथा स्वयं प्रसारितया मायया मायावी त्रिष्वपि कालेषु न संस्पश्यते, अवस्तुत्वात्, एवं परमात्मापि संसारमायया न संस्पृश्यत इति । यथा च स्वप्नदृगेकः स्वप्नदर्शनमायया न संस्पृश्यत इति । प्रबोधसंप्रदायोरनन्वागतत्वात् । एवमवस्थात्रयसाक्ष्येको ऽव्यभिचार्यवस्थात्रयेण व्यभिचारिणा न संस्पृश्यते । मायामात्रं ह्येतद्यत्परमात्मनो ऽवस्थात्रयात्मनावभासनं रज्ज्वा इव सर्पादिभावेनेति । अत्रोक्तं वेदान्तार्थसंप्रदायविद्भिराचार्यैः - ऽअनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदाऽ (गौडपा। कारि। १।१६) इति । तत्र यदुक्तमपीतौ कारणस्यापि कार्यस्येव स्थौल्यादिदोषप्रसङ्ग इत्येतदयुक्तम् । यत्पुनरेतदुक्तं समस्तस्य विभागस्याविभागप्राप्तेः पुनर्विभागेनोत्पत्तौ नियमकारणं नोपपद्यत इति । अयमप्यदोषः । दृष्टान्तभावादेव । यथाहि सुषुप्तिसमाध्यादावपि सत्यां स्वाभाविक्यामविभागप्राप्तौ मिथ्याज्ञानस्यानपोदितत्वात्पूर्ववत्पुनः प्रबोधे विभागो भवत्येवमिहापि भविष्यति । श्रुतिश्चात्र भवति- ऽइमाः सर्वाः प्रजाः सति संपद्य न विदुः सति संपद्यामह इति त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तदा भवन्तिऽ (छा। ६।९।२,३) इति । यथा ह्यविभागे ऽपि परमात्मनि मिथ्याज्ञानप्रतिबद्धो विभागव्यवहारः स्वप्नवदव्याहतः स्थितो दृश्यते, एवमपीतावपि मिथ्याज्ञानप्रतिबद्धैव विभागशक्तिरनुमास्यते । एतेन मुक्तानां पुनरुत्पत्तिप्रसङ्गः प्रत्युक्तः । सम्यग्ज्ञानेन मिथ्याज्ञानस्यापोदितत्वात् । यः पुनरयमन्ते ऽपरो विकल्प उत्प्रेक्षितो ऽथेदं जगदपीतावपि विभक्तमेव परेण ब्रह्मणावतिष्ठेतेति, सो ऽप्यनभ्युपगमादेव प्रतिषिद्धः । तस्मात्समञ्जसमिदमौपनिषदं दर्शनम् ॥ ९ ॥ ---------------------- फ़्न्: अपिगच्छत् लीयमानम् । विभागावस्था स्थितिकालः । सति ब्रह्मणि एकीभूय न विदुरित्यज्ञानोक्तिः । इह सुषुप्तेः प्राक् प्रबोधे येन जात्यादिना विभक्ता भवन्ति तदा पुनरुत्थानकाले तथैव भवन्तीति विभागोक्तिः ।

na tu dṛṣṭāntabhāvāt naivāsmadīye darśane kiñcidasāmañjasyamasti / yattāvadabhihitaṃ kāraṇamapigacchatkāryaṃ kāraṇamātmīyena dharmeṇa dūṣayediti, tadadūṣaṇam / kasmāt / dṛṣṭāntābhāvāt / santi hi dṛṣṭāntā yathā kāraṇamapigacchatkāryaṃ kāraṇamātmīyena dharmeṇa na dūṣayati / tadyathā śarāvādayo mṛtprakṛtikā vikārā vibhāgāvasthāyāmuccāvacamadhyamaprabhedāḥ santaḥ punaḥ prakṛtimapigacchanto na tāmātmīyena dharmeṇa saṃsṛjanti / rucakādayaśca suvarṇavikārā apītau na suvarṇamātmīyena dharmeṇa saṃsṛjanti / pṛthivīvikāraścaturvidho bhūtagrāmo na pṛthivīmapītāvātmīyena dharmeṇa saṃsṛjati / tvatpakṣasya tu na kaściddṛṣṭānto 'sti / apītireva hi na saṃbhavedyadi kāraṇe kāryaṃ svadharmeṇaivāvatiṣṭheta / ananyatve 'pi kāryakāraṇayoḥ kāryasya kāraṇātmatvaṃ natu kāraṇasya kāryātmatvaṃ 'ārambhaṇaśabdādibhyaḥ' iti vakṣyāmaḥ (bra.sū. 2.1.14) / atyalpaṃ cedamucyate kāryamapītāvātmīyena dharmeṇa kāraṇaṃ saṃsṛjediti / sthitāvapi samāno 'yaṃ prasaṅgaḥ, kāryakāraṇayorananyatvābhyupagamāt / 'idaṃ sarva yadayamātmā' (bṛ. 2.4.6), 'ātmaivedaṃ sarvam' (chā. 7.25.2), 'brahmaivedamamṛtaṃ purastāt' (mu. 2.2.11), 'sarvaṃ khalvidaṃ brahma' (chā. 3.14.1) ityevamādyābhirhi śrutibhiraviśeṣeṇa triṣvapi kāleṣu kāryasya kāraṇānanyatvaṃ śrāvyate / tatra yaḥ parihāraḥ kāryasya taddharmāṇāṃ cāvidyādhyāropitatvānna taiḥ kāraṇaṃ saṃsṛjyata iti, apītāvapi sa samānaḥ / asti cāyamaparo dṛṣṭānto yathā svayaṃ prasāritayā māyayā māyāvī triṣvapi kāleṣu na saṃspaśyate, avastutvāt, evaṃ paramātmāpi saṃsāramāyayā na saṃspṛśyata iti / yathā ca svapnadṛgekaḥ svapnadarśanamāyayā na saṃspṛśyata iti / prabodhasaṃpradāyorananvāgatatvāt / evamavasthātrayasākṣyeko 'vyabhicāryavasthātrayeṇa vyabhicāriṇā na saṃspṛśyate / māyāmātraṃ hyetadyatparamātmano 'vasthātrayātmanāvabhāsanaṃ rajjvā iva sarpādibhāveneti / atroktaṃ vedāntārthasaṃpradāyavidbhirācāryaiḥ - 'anādimāyayā supto yadā jīvaḥ prabudhyate / ajamanidramasvapnamadvaitaṃ budhyate tadā' (gauḍapā. kāri. 1.16) iti / tatra yaduktamapītau kāraṇasyāpi kāryasyeva sthaulyādidoṣaprasaṅga ityetadayuktam / yatpunaretaduktaṃ samastasya vibhāgasyāvibhāgaprāpteḥ punarvibhāgenotpattau niyamakāraṇaṃ nopapadyata iti / ayamapyadoṣaḥ / dṛṣṭāntabhāvādeva / yathāhi suṣuptisamādhyādāvapi satyāṃ svābhāvikyāmavibhāgaprāptau mithyājñānasyānapoditatvātpūrvavatpunaḥ prabodhe vibhāgo bhavatyevamihāpi bhaviṣyati / śrutiścātra bhavati- 'imāḥ sarvāḥ prajāḥ sati saṃpadya na viduḥ sati saṃpadyāmaha iti ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yadyadbhavanti tadā bhavanti' (chā. 6.9.2,3) iti / yathā hyavibhāge 'pi paramātmani mithyājñānapratibaddho vibhāgavyavahāraḥ svapnavadavyāhataḥ sthito dṛśyate, evamapītāvapi mithyājñānapratibaddhaiva vibhāgaśaktiranumāsyate / etena muktānāṃ punarutpattiprasaṅgaḥ pratyuktaḥ / samyagjñānena mithyājñānasyāpoditatvāt / yaḥ punarayamante 'paro vikalpa utprekṣito 'thedaṃ jagadapītāvapi vibhaktameva pareṇa brahmaṇāvatiṣṭheteti, so 'pyanabhyupagamādeva pratiṣiddhaḥ / tasmātsamañjasamidamaupaniṣadaṃ darśanam // 9 // ---------------------- FN: apigacchat līyamānam / vibhāgāvasthā sthitikālaḥ / sati brahmaṇi ekībhūya na vidurityajñānoktiḥ / iha suṣupteḥ prāk prabodhe yena jātyādinā vibhaktā bhavanti tadā punarutthānakāle tathaiva bhavantīti vibhāgoktiḥ /

Sanskrit only: no published translation is held for this verse.

स्वपक्षदोषाच् च स्वपक्षे चैते प्रतिवादिनः साधारणा दोषाः प्रादुष्युः । कथमित्युच्यते । यत्तावदभिहितं विलक्षणत्वान्नेदं जगद्ब्रह्मप्रकृतिकमिति, प्रधानप्रकृतिकतायामपि समानमेतत्, शब्दादिहीनात्प्रधानाच्छब्दादिमतो जगत उत्पत्त्यभ्युपगमात् । अत एव च विलक्षणकार्योत्पत्त्यभ्युपगमात्समानः प्रागुत्पत्तेरसत्कार्यवादप्रसङ्गः । तथापीतौ कार्यस्य कारणविभागाभ्युपगमात्तद्वत्प्रसङ्गो ऽपि समानः । तथा मृदितसर्वविशेषेषु विकारेष्वपीतावविभागात्मतां गतेष्विदमस्य पुरुषस्योपादानमिदमस्येति प्राक्प्रलयात्प्रतिपुरुषं ये नियता भेदा न ते तथैव पुनरुत्पतौ नियन्तुं शक्यन्ते कारणाभावात् । विनैव कारणेन नियमे ऽभ्युपगम्यमाने कारणाभावसाम्यान्मुक्तानामपि पुनर्बन्धप्रसङ्गः । अथ केचिद्भेदा अपीतावविभागमापद्यन्ते केनचिन्नेति चेत् । ये नापद्यन्ते तेषां प्रधानकार्यत्वं न प्राप्नोतीत्येवमेते दोषाः साधारणत्वान्नान्यतरस्मिन्पक्षे चोदयितव्या भवन्तीत्यदोषतामेवैषां द्रढयति । अवश्याश्रयितव्यत्वात् ॥ १० ॥ ---------------------- फ़्न्: प्रादुष्युः प्रादुर्भवेयुः ।

svapakṣadoṣāc ca svapakṣe caite prativādinaḥ sādhāraṇā doṣāḥ prāduṣyuḥ / kathamityucyate / yattāvadabhihitaṃ vilakṣaṇatvānnedaṃ jagadbrahmaprakṛtikamiti, pradhānaprakṛtikatāyāmapi samānametat, śabdādihīnātpradhānācchabdādimato jagata utpattyabhyupagamāt / ata eva ca vilakṣaṇakāryotpattyabhyupagamātsamānaḥ prāgutpatterasatkāryavādaprasaṅgaḥ / tathāpītau kāryasya kāraṇavibhāgābhyupagamāttadvatprasaṅgo 'pi samānaḥ / tathā mṛditasarvaviśeṣeṣu vikāreṣvapītāvavibhāgātmatāṃ gateṣvidamasya puruṣasyopādānamidamasyeti prākpralayātpratipuruṣaṃ ye niyatā bhedā na te tathaiva punarutpatau niyantuṃ śakyante kāraṇābhāvāt / vinaiva kāraṇena niyame 'bhyupagamyamāne kāraṇābhāvasāmyānmuktānāmapi punarbandhaprasaṅgaḥ / atha kecidbhedā apītāvavibhāgamāpadyante kenacinneti cet / ye nāpadyante teṣāṃ pradhānakāryatvaṃ na prāpnotītyevamete doṣāḥ sādhāraṇatvānnānyatarasminpakṣe codayitavyā bhavantītyadoṣatāmevaiṣāṃ draḍhayati / avaśyāśrayitavyatvāt // 10 // ---------------------- FN: prāduṣyuḥ prādurbhaveyuḥ /

Sanskrit only: no published translation is held for this verse.

तर्काप्रतिष्ठानाद् अप्य् अन्यथानुमेयम् इति चेद् एवम् अप्य् अनिर्मोक्षप्रसङ्गः इतश्च नागमगम्येर्ऽथे केवलेन तर्केण प्रत्यवस्थातव्यम् । यस्मिन्निरागमाः पुरुषोत्प्रेक्षामात्रनिबन्धनास्तर्का अप्रतिष्ठिता भवन्ति । उत्प्रेक्षाया निरङ् कुशत्वात् । तथाहि कैश्चिदभियुक्तैर्यत्नेनोत्प्रेक्षितास्तर्का अभियुक्तरैरन्यैराभास्यमाना दृश्यन्ते । तैरप्युत्प्रेक्षिताः सन्तस्ततो ऽन्यैराभास्यन्त इति न प्रतिष्ठितत्वं तर्काणां शक्यमाश्रयितुं, पुरुषमतिवैरूप्यात् । अथ कस्यचित्प्रसिद्धमाहात्म्यस्य कपिलस्य चान्यस्य वा संमतस्तर्कः प्रतिष्ठित इत्याश्रीयेत । एवमप्यप्रतिष्ठितत्वमेव । प्रसिद्धमाहात्म्यानुमतानामपि तीर्थकराणां कपिलकणभुक्प्रभृतीनां परस्परविप्रतिपत्तिदर्शनात् । अतोच्येतान्यथा वयमनुमास्यामहे यथा नाप्रतिष्ठादोषो भविष्यति । नहि प्रतिष्ठितस्तर्क एव नास्तीति शक्यते वक्तुम् । एतदपि हि तर्काणामप्रतिष्ठितत्वं तर्केणैव प्रतिष्ठाप्यते । केषाञ्चित्तर्काणामप्रतिष्ठितत्वदर्शनेनान्येषामपि तज्जातीयकानां तर्काणामप्रतिष्ठितत्वात् । सर्वतर्काप्रतिष्ठायां च लोकव्यवहारोच्छेदप्रसङ्गः । अतीतवर्तमानाध्वसाम्येन ह्यनागते ऽप्यध्वनि सुखदुःखप्राप्तिपरिहाराय प्रवर्तमानो लोको दृश्यते । श्रुत्यर्थविप्रतिपत्तौ चार्थाभासनिराकरणेन सम्यगर्थनिर्धारणं तर्केणैव वाक्यवृत्तिनिरूपणरूपेण क्रियते । मनुरपि चैवं मन्यते- ऽप्रत्यक्षमनुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सिता ॥ ऽ इति । ऽआर्षं धर्मोपदेशं च वेदशास्त्रविरोधिना । यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः ॥ ऽ (१२।१०५,१०६) इति च ब्रुवन् । अयमेव तर्कस्यालङ्कारो यदप्रतिष्ठितत्वं नाम । एवंहि तावद्यत्तर्कपरित्यागेन निरवद्यस्तर्कः प्रतिपत्तव्यो भवति । नहि पूर्वजो मूढ आसीदित्यात्मनापि मूढेन भवितव्यमिति किञ्चिदस्ति प्रमाणम् । तस्मान्न तर्काप्रतिष्ठानं दोष इति चेत्, एवमप्यविमोक्षप्रसङ्गः । यद्यपि क्वचिद्विषये तर्कस्य प्रतिष्ठितत्वमुपलक्ष्यते तथापि प्रकृते तावद्विषये प्रसज्यत एवाप्रतिष्ठितत्वदोषादनिर्मोक्षस्तर्कस्य । नहीदमतिगम्भीरं भावयाथात्म्यं मुक्तिनिबन्धनमागममन्तरेणोत्प्रेक्षितुमपि शक्यम् । रूपाद्यभावाद्धि नायमर्थः प्रत्यक्षगोचरः, लिङ्गाद्यभावाच्च नानुमानादीनामिति चावोचाम । अपिच सम्यग्ज्ञानान्मोक्ष इति सर्वेषां मोक्षवादिनामभ्युपगमः । तच्च सम्यग्ज्ञानमेकरूपं वस्तुतन्त्रत्वात् । एकरूपेण ह्यवस्थितो योर्ऽथः स परमार्थः । लोके तद्विषयं ज्ञानं सम्यग्ज्ञानमित्युच्यते यथाग्निरुष्णा इति । तत्रैवं सति सम्ग्ज्ञाने पुरुषाणां विप्रतिपत्तिरनुपपन्ना । तर्कज्ञानानां त्वन्योन्यविरोधात्प्रसिद्धा विप्रतिपत्तिः । यद्धि केनचित्तार्किकेणेदमेव सम्यग्ज्ञानमिति प्रतिपादितं तदपरेण व्युत्थाप्यते, तेनापि प्रतिष्ठापितं ततो ऽपरेण व्युत्थाप्यत इति प्रसिद्धं लोके । कथमेकरूपानवस्थितविषयं तर्कप्रभवं सम्यग्ज्ञानं भवेत् । नच प्रधानवादी तर्कविदामुत्तम इति सर्वास्तार्किकैः परिगृहीतो येन तदीयं मतं सम्यग्ज्ञानमिति प्रतिपद्येमहि । नच शक्यन्ते ऽतीतानागतवर्तमानास्तार्किका एकस्मिन्देशे काले च समाहर्तुं येन तन्मतिरेकरूपैकार्थविषया सम्यङ्मतिरिति स्यात । वेदस्य तु नित्यत्वे विज्ञानोत्पत्तिहेतुत्वे च सति व्यवस्थितार्थविषयत्वोपपत्तेस्तज्जनितस्य ज्ञानस्य सम्यक्त्वमतीतानागतवर्तमानैः सर्वैरपि तार्किकैरपह्नोतुमशक्यम् । अतः सिद्धमस्यैवौपनिषदस्य ज्ञानस्य सम्यग्ज्ञानत्वम् । अतो ऽन्यत्र सम्यग्ज्ञानत्वानुपपत्तेः संसाराविमोक्ष एव प्रसज्येत । अत आगमवशेनागमानुसारितर्कवशेन च चेतनं ब्रह्मजगतः कारणं प्रकृतिश्चेति स्थितम् ॥ ११ ॥ ---------------------- फ़्न्: तर्कस्य कैवल्यमनुग्राह्यागमराहित्यम् । धर्मस्य शुद्धिरधर्माद्भेदनिर्णयः । अतिगमभीरत्वमागमातिर्मेकामानायोग्यत्वम् । भावयाथात्म्यं कारणगतमद्वितीयत्वम् । मुक्तिनिबन्धनं परमानन्दसच्चिदेकतानत्वम् । ४ शिष्टपरिग्रहाधिकरणम् । सू। १२

tarkāpratiṣṭhānād apy anyathānumeyam iti ced evam apy anirmokṣaprasaṅgaḥ itaśca nāgamagamyer'the kevalena tarkeṇa pratyavasthātavyam / yasminnirāgamāḥ puruṣotprekṣāmātranibandhanāstarkā apratiṣṭhitā bhavanti / utprekṣāyā niraṅ kuśatvāt / tathāhi kaiścidabhiyuktairyatnenotprekṣitāstarkā abhiyuktarairanyairābhāsyamānā dṛśyante / tairapyutprekṣitāḥ santastato 'nyairābhāsyanta iti na pratiṣṭhitatvaṃ tarkāṇāṃ śakyamāśrayituṃ, puruṣamativairūpyāt / atha kasyacitprasiddhamāhātmyasya kapilasya cānyasya vā saṃmatastarkaḥ pratiṣṭhita ityāśrīyeta / evamapyapratiṣṭhitatvameva / prasiddhamāhātmyānumatānāmapi tīrthakarāṇāṃ kapilakaṇabhukprabhṛtīnāṃ parasparavipratipattidarśanāt / atocyetānyathā vayamanumāsyāmahe yathā nāpratiṣṭhādoṣo bhaviṣyati / nahi pratiṣṭhitastarka eva nāstīti śakyate vaktum / etadapi hi tarkāṇāmapratiṣṭhitatvaṃ tarkeṇaiva pratiṣṭhāpyate / keṣāñcittarkāṇāmapratiṣṭhitatvadarśanenānyeṣāmapi tajjātīyakānāṃ tarkāṇāmapratiṣṭhitatvāt / sarvatarkāpratiṣṭhāyāṃ ca lokavyavahārocchedaprasaṅgaḥ / atītavartamānādhvasāmyena hyanāgate 'pyadhvani sukhaduḥkhaprāptiparihārāya pravartamāno loko dṛśyate / śrutyarthavipratipattau cārthābhāsanirākaraṇena samyagarthanirdhāraṇaṃ tarkeṇaiva vākyavṛttinirūpaṇarūpeṇa kriyate / manurapi caivaṃ manyate- 'pratyakṣamanumānaṃ ca śāstraṃ ca vividhāgamam / trayaṃ suviditaṃ kāryaṃ dharmaśuddhimabhīpsitā // ' iti / 'ārṣaṃ dharmopadeśaṃ ca vedaśāstravirodhinā / yastarkeṇānusaṃdhatte sa dharmaṃ veda netaraḥ // ' (12.105,106) iti ca bruvan / ayameva tarkasyālaṅkāro yadapratiṣṭhitatvaṃ nāma / evaṃhi tāvadyattarkaparityāgena niravadyastarkaḥ pratipattavyo bhavati / nahi pūrvajo mūḍha āsīdityātmanāpi mūḍhena bhavitavyamiti kiñcidasti pramāṇam / tasmānna tarkāpratiṣṭhānaṃ doṣa iti cet, evamapyavimokṣaprasaṅgaḥ / yadyapi kvacidviṣaye tarkasya pratiṣṭhitatvamupalakṣyate tathāpi prakṛte tāvadviṣaye prasajyata evāpratiṣṭhitatvadoṣādanirmokṣastarkasya / nahīdamatigambhīraṃ bhāvayāthātmyaṃ muktinibandhanamāgamamantareṇotprekṣitumapi śakyam / rūpādyabhāvāddhi nāyamarthaḥ pratyakṣagocaraḥ, liṅgādyabhāvācca nānumānādīnāmiti cāvocāma / apica samyagjñānānmokṣa iti sarveṣāṃ mokṣavādināmabhyupagamaḥ / tacca samyagjñānamekarūpaṃ vastutantratvāt / ekarūpeṇa hyavasthito yor'thaḥ sa paramārthaḥ / loke tadviṣayaṃ jñānaṃ samyagjñānamityucyate yathāgniruṣṇā iti / tatraivaṃ sati samgjñāne puruṣāṇāṃ vipratipattiranupapannā / tarkajñānānāṃ tvanyonyavirodhātprasiddhā vipratipattiḥ / yaddhi kenacittārkikeṇedameva samyagjñānamiti pratipāditaṃ tadapareṇa vyutthāpyate, tenāpi pratiṣṭhāpitaṃ tato 'pareṇa vyutthāpyata iti prasiddhaṃ loke / kathamekarūpānavasthitaviṣayaṃ tarkaprabhavaṃ samyagjñānaṃ bhavet / naca pradhānavādī tarkavidāmuttama iti sarvāstārkikaiḥ parigṛhīto yena tadīyaṃ mataṃ samyagjñānamiti pratipadyemahi / naca śakyante 'tītānāgatavartamānāstārkikā ekasmindeśe kāle ca samāhartuṃ yena tanmatirekarūpaikārthaviṣayā samyaṅmatiriti syāta / vedasya tu nityatve vijñānotpattihetutve ca sati vyavasthitārthaviṣayatvopapattestajjanitasya jñānasya samyaktvamatītānāgatavartamānaiḥ sarvairapi tārkikairapahnotumaśakyam / ataḥ siddhamasyaivaupaniṣadasya jñānasya samyagjñānatvam / ato 'nyatra samyagjñānatvānupapatteḥ saṃsārāvimokṣa eva prasajyeta / ata āgamavaśenāgamānusāritarkavaśena ca cetanaṃ brahmajagataḥ kāraṇaṃ prakṛtiśceti sthitam // 11 // ---------------------- FN: tarkasya kaivalyamanugrāhyāgamarāhityam / dharmasya śuddhiradharmādbhedanirṇayaḥ / atigamabhīratvamāgamātirmekāmānāyogyatvam / bhāvayāthātmyaṃ kāraṇagatamadvitīyatvam / muktinibandhanaṃ paramānandasaccidekatānatvam / 4 śiṣṭaparigrahādhikaraṇam / sū. 12

Sanskrit only: no published translation is held for this verse.

एतेन शिष्टापरिग्रहा अपि व्याख्याताः वैदिकस्य दर्शनस्य प्रत्यासन्नत्वाद्गुरुतरतर्कबलोपेतत्वाद्वेदानुसारिभिश्च कैश्चिच्छिष्ठैः केनचिदंशेन परिगृहीतत्वात्प्रधानकारणवादं तावद्व्यपाश्रित्य यस्तर्कनिमित्त आक्षेपो वेदान्तवाक्येषूद्भावितः स परिहृतः । इदानीमण्वादिवादव्यपाश्रयेणापि कैश्चिन्मन्दमतिभिर्वेदान्तवाक्येषु पुनस्तर्कनिमित्त आक्षेप आशङ्क्यत इत्यतः प्रधानमल्लनिबर्हणन्यायेनातिदिशति । परिगृह्यन्त इति परिग्रहाः न परिग्रहा अपरिग्रहाः शिष्टानामपरिग्रहाः । एतेन प्रकृतेन प्रधानकारणवादनिराकरणकारणेन शिष्टैर्मनुव्यासप्रभृतिभिः केनचिदंशंनापरिगृहीता ये ऽण्वादिकारणवादास्ते ऽपि प्रतिषिद्धतया व्याख्याता निराकृता द्रष्टव्याः तुल्यत्वान्निराकरणकारणस्य नात्र पुनराशङ्कितव्यं किञ्चिदस्ति । तुल्यमात्रापि परमगम्भीरस्य जगत्कारणस्य तर्कानवगाह्यत्वं तर्कस्याप्रतिष्ठितत्वमन्यथानुमाने ऽप्यविमोक्ष आगमविरोधश्चेत्येवञ्जातीयकं निराकरणम् ॥ १२ ॥ ५ भोक्त्रापत्त्याधिकरणम् । सू। १३

etena śiṣṭāparigrahā api vyākhyātāḥ vaidikasya darśanasya pratyāsannatvādgurutaratarkabalopetatvādvedānusāribhiśca kaiścicchiṣṭhaiḥ kenacidaṃśena parigṛhītatvātpradhānakāraṇavādaṃ tāvadvyapāśritya yastarkanimitta ākṣepo vedāntavākyeṣūdbhāvitaḥ sa parihṛtaḥ / idānīmaṇvādivādavyapāśrayeṇāpi kaiścinmandamatibhirvedāntavākyeṣu punastarkanimitta ākṣepa āśaṅkyata ityataḥ pradhānamallanibarhaṇanyāyenātidiśati / parigṛhyanta iti parigrahāḥ na parigrahā aparigrahāḥ śiṣṭānāmaparigrahāḥ / etena prakṛtena pradhānakāraṇavādanirākaraṇakāraṇena śiṣṭairmanuvyāsaprabhṛtibhiḥ kenacidaṃśaṃnāparigṛhītā ye 'ṇvādikāraṇavādāste 'pi pratiṣiddhatayā vyākhyātā nirākṛtā draṣṭavyāḥ tulyatvānnirākaraṇakāraṇasya nātra punarāśaṅkitavyaṃ kiñcidasti / tulyamātrāpi paramagambhīrasya jagatkāraṇasya tarkānavagāhyatvaṃ tarkasyāpratiṣṭhitatvamanyathānumāne 'pyavimokṣa āgamavirodhaścetyevañjātīyakaṃ nirākaraṇam // 12 // 5 bhoktrāpattyādhikaraṇam / sū. 13

Sanskrit only: no published translation is held for this verse.

भोक्त्रापत्तेर् अविभागश् चेत् स्याल् लोकवत् अन्यथा पुनर्ब्रह्मकारणवादस्तर्कबलेनैवाक्षिप्यते । यद्यपि श्रुतिः प्रमाणं स्वविषये भवति तथापि प्रमाणान्तरेण विषयापहारे ऽन्यपरा भवितुमर्ति । यथा मन्त्रार्थवादौ । तर्के ऽपि स्वविषयादन्यत्राप्रतिष्ठितः स्यात् यथा धर्माधर्मयोः । किमतो यद्येवम् । अत इदमयुक्तं यत्प्रमाणान्तरप्रसिद्धार्थबाधनं श्रुतेः । कथं पुनः प्रमाणान्तरप्रसिद्धोर्ऽथः श्रुत्या बाध्यत इति । अत्रोच्यते- प्रसिद्धो ह्ययं भोक्तृभोग्यविभागो लोके भोक्ता चेतनः शारीरो भोग्याः शब्दादयो विषया इति । यथा भोक्ता देवदत्तो भोज्य ओदन इति । तस्य च विभागस्याभावः प्रसज्येत यदि भोक्ता भोग्यभावमापद्येत । भोग्यं वा भोक्तृभावमापद्येत । तयोश्चेतरेतरभावापत्तिः परमकारणाद्ब्रह्मणो ऽनन्यत्वात्प्रसज्येत । नचास्य प्रसिद्धस्य विभागस्य बाधनं युक्तम् । यथा त्वद्यत्वे भोक्तृभोग्ययोर्विभागो दृष्टस्तथातीतानागतयोरपि कल्पयितव्यः । तस्मात्प्रसिद्धस्यास्य भोक्तृभोग्यविभागस्याभावप्रसङ्गादयुक्तमिदं ब्रह्मकारणतावधारणमिति चेत्कश्चिच्चोदयेत्तं प्रतिब्रूयात्- स्याल्लोकवदिति । उपपद्यत एवायमस्मत्पक्षे ऽपि विभागः एवं लोके दृष्टत्वात् । तथाहि- समुद्रादुदकात्मनो ऽनन्यत्वे ऽपि तद्विकाराणां फेनवीचीतरङ्गादीनामितरेतरविभाग इतरेतरसंश्लेषादिलक्षणश्च व्यवहार उपलभ्यते । नच समुद्रादुदकात्मनो ऽनन्यत्वे ऽपि तद्विकाराणां फेनतरङ्गादीनामितरेतरभावापत्तिर्भवति । नच तेषामितरेतरभावानापत्तावपि समुद्रात्मनो ऽन्यत्वं भवति । एवमिहापि नच भोक्तृभोग्ययोरितरेतरभावापत्तिः, नच परस्माद्ब्रह्मणो ऽन्यत्वं भविष्यति । यद्यपि भोक्ता न ब्रह्मणो विकारः । ऽतत्सृष्ट्वा तदेवानुप्राविशत्ऽ (तै। २।६) इति स्रष्टुरेवाविकृतस्य कार्यानुप्रवेशेन भोक्तृत्वश्रवणात्, तथापि कार्यमनुप्रविष्टस्यास्त्युपाधिनिमित्तो विभाग आकाशस्येव घटाद्युपाधिनिमित्त इत्यतः परमकारणब्रह्मणो ऽनन्यत्वंऽप्युपपद्यते भोक्तृभोग्यलक्षणो विभागः समुद्रतरङ्गादिन्यायेनेत्युक्तम् ॥ १३ ॥ ---------------------- फ़्न्: अन्यपरत्वं गौणार्थकत्वम् । विभागो जन्म । यद्वा तथापीतिशब्देनैवोक्तः परिहारः । ६ आरम्भणाधिकरणम् । सू। १४-२०

bhoktrāpatter avibhāgaś cet syāl lokavat anyathā punarbrahmakāraṇavādastarkabalenaivākṣipyate / yadyapi śrutiḥ pramāṇaṃ svaviṣaye bhavati tathāpi pramāṇāntareṇa viṣayāpahāre 'nyaparā bhavitumarti / yathā mantrārthavādau / tarke 'pi svaviṣayādanyatrāpratiṣṭhitaḥ syāt yathā dharmādharmayoḥ / kimato yadyevam / ata idamayuktaṃ yatpramāṇāntaraprasiddhārthabādhanaṃ śruteḥ / kathaṃ punaḥ pramāṇāntaraprasiddhor'thaḥ śrutyā bādhyata iti / atrocyate- prasiddho hyayaṃ bhoktṛbhogyavibhāgo loke bhoktā cetanaḥ śārīro bhogyāḥ śabdādayo viṣayā iti / yathā bhoktā devadatto bhojya odana iti / tasya ca vibhāgasyābhāvaḥ prasajyeta yadi bhoktā bhogyabhāvamāpadyeta / bhogyaṃ vā bhoktṛbhāvamāpadyeta / tayoścetaretarabhāvāpattiḥ paramakāraṇādbrahmaṇo 'nanyatvātprasajyeta / nacāsya prasiddhasya vibhāgasya bādhanaṃ yuktam / yathā tvadyatve bhoktṛbhogyayorvibhāgo dṛṣṭastathātītānāgatayorapi kalpayitavyaḥ / tasmātprasiddhasyāsya bhoktṛbhogyavibhāgasyābhāvaprasaṅgādayuktamidaṃ brahmakāraṇatāvadhāraṇamiti cetkaściccodayettaṃ pratibrūyāt- syāllokavaditi / upapadyata evāyamasmatpakṣe 'pi vibhāgaḥ evaṃ loke dṛṣṭatvāt / tathāhi- samudrādudakātmano 'nanyatve 'pi tadvikārāṇāṃ phenavīcītaraṅgādīnāmitaretaravibhāga itaretarasaṃśleṣādilakṣaṇaśca vyavahāra upalabhyate / naca samudrādudakātmano 'nanyatve 'pi tadvikārāṇāṃ phenataraṅgādīnāmitaretarabhāvāpattirbhavati / naca teṣāmitaretarabhāvānāpattāvapi samudrātmano 'nyatvaṃ bhavati / evamihāpi naca bhoktṛbhogyayoritaretarabhāvāpattiḥ, naca parasmādbrahmaṇo 'nyatvaṃ bhaviṣyati / yadyapi bhoktā na brahmaṇo vikāraḥ / 'tatsṛṣṭvā tadevānuprāviśat' (tai. 2.6) iti sraṣṭurevāvikṛtasya kāryānupraveśena bhoktṛtvaśravaṇāt, tathāpi kāryamanupraviṣṭasyāstyupādhinimitto vibhāga ākāśasyeva ghaṭādyupādhinimitta ityataḥ paramakāraṇabrahmaṇo 'nanyatvaṃ'pyupapadyate bhoktṛbhogyalakṣaṇo vibhāgaḥ samudrataraṅgādinyāyenetyuktam // 13 // ---------------------- FN: anyaparatvaṃ gauṇārthakatvam / vibhāgo janma / yadvā tathāpītiśabdenaivoktaḥ parihāraḥ / 6 ārambhaṇādhikaraṇam / sū. 14-20

Sanskrit only: no published translation is held for this verse.

तदनन्यत्वम् आरम्भणशब्दादिभ्यः अभ्युपगम्य चेमं व्यावहारिकं भोक्तृभोग्यलक्षणं विभागं स्याल्लोकवदिति परिहारोषऽभिहितः । नत्वयं विभागः परमार्थतो ऽस्ति यस्मात्तयोः कार्यकारणयोरनन्यत्वमवगम्यते । कार्यमाकाशादिकं बहुप्रपञ्चं जगत्, कारणं परंब्रह्म, तस्मात्कारणात्परमार्थतो ऽनन्यत्वं व्यतिरेकेणाभावः कार्यस्यावगम्यते । कुतः । आरम्भणशब्दादिभ्यः । आरम्भणशब्दस्तावत् । एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय दृष्टान्तापेक्षायामुच्यते- ऽयथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्ऽ (छा। ६।१।१) इति । एतदुक्तं भवति- एकेन मृत्पिण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृन्मयं घटशरावोदञ्चनादिकं मृदात्मकत्वाविशेषाद्विज्ञातं भवेत् । यतो वाचारम्भणं विकारो नामधेयं वाचैव केवलमस्तीत्यारभ्यते । विकारो घटः शराव उदञ्चनं चेति । नतु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति । नामधेयमात्रं ह्येतदनृतं मृत्तिकेत्येव सत्यमिति । एष ब्रह्मणो दृष्टान्तः आम्नातः । तत्र श्रुताद्वाचारम्भणशब्दाद्दार्ष्टान्तिके ऽपि ब्रह्मव्यतिरेकेण कार्यजातस्याभाव इति गम्यते । पुनश्च तेजोबन्नानां ब्रह्मकार्यतामुक्त्वा तेजोबन्नकार्याणां तेजोबन्नव्यतिरेकेणाभावं ब्रवीति- ऽअपागादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम्ऽ (छा। ६।४।१) इत्यादिना । आरम्भणशब्दादिभ्य इत्यादिशब्दात् ऽऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसिऽ (छा। ६।८।७), ऽइदं सर्वं यदयमात्माऽ (बृ। २।४।६), ऽब्रह्मैवेदं सर्वम्ऽ (मु। २।२।११), ऽआत्मैवेदं सर्वम्ऽ (छा। ७।२५।२), ऽनेह नानास्ति किञ्चनऽ (बृ।४।४।१९) इत्येवमाद्यप्यात्मैकत्वप्रतिपादनपरं वचनजातमुदाहर्तव्यम् । नचान्यथैकविज्ञानेन सर्वविज्ञानं संपद्यते । तस्माद्यथा घटकरकाद्याकाशानां महाकाशानन्यत्वं, यथाच मृगतृष्णिकोदकादीनामूषरादिभ्यो ऽनन्यत्वं दृष्टनष्टस्वरूपत्वात्स्वरूपेणानुपाख्यत्वात्, एवमस्य भोग्यभोक्त्रादिप्रपञ्चजातस्य ब्रह्मव्यतिरेकेणाभाव इति द्रष्टव्यम् । नन्वनेकात्मकं ब्रह्म, यथा वृक्षो ऽनेकशाख एवमनेकशक्तिप्रवृत्तियुक्तं ब्रह्म । अत एकत्वं नानात्वं चोभयमपि सत्यमेव । यथा वृक्ष इत्यनेकत्वं शाखा इति नानात्वम् । यथाच समुद्रात्मनैकत्वं फेनतरङ्गाद्यात्मना नानात्वम् । यथाच मृदात्मनैकत्वं घटशरावाद्यात्मना नानात्वम् । तत्रैकत्वांशेन ज्ञानान्मोक्षव्यवहारः सेत्स्यति । नानात्वांशेन तु कर्मकाण्डाश्रयौ लौकिकवैदिकव्यवहारौ सेत्स्यत इति । एवञ्च मृदादिदृष्टान्ता अनुरूपा भविष्यन्तीति । नैवं स्यात् । ऽमृत्तिकेत्येव सत्यम्ऽ इति प्रकृतिमात्रस्य दृष्टान्ते सत्यत्वावधारणात् । वाचारम्भणशब्देन च विकारजातस्यानृतत्वाभिधानात् । दार्ष्टान्तिके ऽपि ऽऐतदात्म्यमिदं सर्वं तत्सत्यम्ऽ इति च परमकारणस्यैवैकस्य सत्यत्वावधारणात् ऽस आत्मा तत्त्वमसि श्वेतकेतोऽ इति च शारीरस्य ब्रह्मभावोपदेशात् । स्वयं प्रसिद्धं ह्येतच्छरीरस्य ब्रह्मात्मत्वमुपदिश्यते न यत्नान्तरप्रसाध्यम् । अतश्चेदं शास्त्रीयं ब्रह्मात्मत्वमवगम्यमानं स्वाभाविकस्य शारीरात्मत्वस्य बाधकं संपद्यते, रज्ज्वादिबुद्धय इव सर्पादिबुद्धीनाम् । बाधिते च शारीरात्मत्वस्य तदाश्रयः समस्तः स्वाभाविको व्यवहारो बाधितो भवति यत्प्रसिद्धये नानात्वांशो ऽपरो ब्रह्मणः कल्प्येत । दर्शयति च- ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृ। ४।५।१५) इत्यादिना ब्रह्मात्मत्वदर्शिनं प्रति समस्तस्य क्रियाकारकफललक्षणस्य व्यवहारस्याभावम् । नचायं व्यवहाराभावोषऽवस्थाविशेषनिबद्धो ऽभिधीयत इति युक्तं वक्तुम्, ऽतत्त्वमसिऽ इति ब्रह्मात्मभावस्यानवस्थाविशेषनिबन्धनत्वात् । तस्करदृष्टान्तेन चानृताभिसंधस्य बन्धनं सत्याभिसंधस्य च मोक्षं दर्शयन्नेकत्वमेवैकं पारमार्थिकं दर्शयति (छा। ६।१६) । मिथ्याज्ञानविजृम्भितं च नानात्वम् । उभयसत्यतायां हि कथं व्यवहारगोचरो ऽपि जन्तुरनृताभिसंध इत्युच्येत । ऽमृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिऽ (बृ। ४।४।१९) इति च भेददृष्टिमपवदन्नेवैतद्दर्शयति । नचास्मिन्दर्शने ज्ञानान्मोक्ष इत्युपपद्यते, सम्यग्ज्ञनापनोद्यस्य कस्यचिन्मिथ्याज्ञानस्य संसारकारणत्वेनानभ्युपगमात् । उभयसत्यतायां हि कथमेकत्वविज्ञानेन नानात्वज्ञानमपनुद्यत इत्युच्यते । नन्वेकत्वैकान्ताभ्युपगमे नानात्वाभावत्प्रत्यक्षादीनि लौकिकानि प्रमाणानि व्याहन्येरन्निर्विषयत्वात्, स्थाण्वादिष्विव पुरुषादिज्ञानानि । तथा विधिप्रतिषेधशास्त्रमपि भेदापेक्षत्वात्तदभावे व्याहन्येत, मोक्षशास्त्रस्यापि शिष्यशासित्रादिभेदापेक्षत्वात्तदभावे व्याघातः स्यात् । कथं चानृतेन मोक्षशास्त्रेण प्रतिपादितस्यात्मैकत्वस्य सत्यत्वमुपपद्येतेति । अत्रोच्यते- नैष दोषः । सर्वव्यवहाराणामेव प्राग्ब्रह्मात्मताविज्ञानात्सत्यत्वोपपत्तेः । स्वप्नव्यवहारस्येव प्राक्प्रबोधात् । यावद्धि न सत्यात्मैकत्वप्रतिपत्तिस्तावत्प्रमाणप्रमेयफललक्षणेषु विकारेष्वनृतत्वबुद्धिर्न कस्यचिदुत्पद्यते । विकारानेव त्वहं ममेत्यविद्यायामात्मीयेन भावेन सर्वो जन्तुः प्रतिपद्यते स्वाभाविकीं ब्रह्मात्मतां हित्वा । तस्मात्प्राग्ब्रह्मात्मताप्रतिबोधादुपपन्नः सर्वो लौकिको वैदिकश्च व्यवहारः । यथा सुप्तस्य प्राकृतस्य जनस्य स्वप्न उच्चावचान्भावान्पश्यतो निश्चितमेव प्रत्यक्षाभिमतं विज्ञानं भवति प्राक्प्रबोधात्, नच प्रत्यक्षाभासाभिप्रायस्तत्काले भवति, तद्वत् । कथं त्वसत्येन वेदान्तवाक्येन सत्यस्य ब्रह्मात्मत्वस्य प्रतिपत्तिरुपपद्येत । नहि रज्जुसर्पेण दृष्टो म्रियते । नापि मृगतृष्णिकाम्भसा पानावगाहनादिप्रयोजनं क्रियत इति । नैष दोषः । शङ्काविषादिनिमित्तमरणादिकार्योपलब्धेः । स्वप्नदर्शनावस्थस्य च सर्पदंशनोदकस्नानादिकार्यदर्शनात् । तत्कार्यमप्यनृतमेवेति चेद्ब्रूयात् । तत्र ब्रूमः- यद्यपि स्वप्नदर्शनावस्थस्य सर्पदंशनोदकस्नानादिकार्यमनृतं तथापि तदवगतिः सत्यमेव फलं, प्रतिबुद्धस्याप्यबाध्यमानत्वात् । नहि स्वप्नादुत्थितः स्वप्नदृष्टं सर्पदंशनोदकस्नानादिकार्यं मिथ्येति मन्यमानस्तदवगतिमपि मिथ्येति मन्यते कश्चित् । एतेन स्वप्नदृशो ऽवगत्यबाधनेन देहमात्रात्मवादो दूषितो वेदितव्यः । तथाच श्रुतिः - ऽयदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शनेऽ (छा। ५।२।९) इत्यसत्येन स्वप्नदर्शनेन सत्यायाः समृद्धेः प्रतिपत्तिं दर्शयति । तथा प्रत्यक्षदर्शनेषु केषुचिदरिष्टेषु जातेषु ऽन चिरमिव जीविष्यतीति विद्यात्ऽ इत्युक्त्वा ऽअथ स्वप्नाः पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्तिऽ इत्यादिना तेन तेनासत्येनैव स्वप्नदर्शनेन सत्यं मरणं सूच्यत इति दर्शयति । प्रसिद्धं चेदं लोके ऽन्वयव्यतिरेककुशलानामीदृशेन स्वप्नदर्शनेन साध्वागमः सूच्यत ईदृशेनासाध्वागम इति । तथाकारादिसत्याक्षरप्रतिपत्तिर्द्दष्टा रेखानृताक्षरप्रतिपत्तेः । अपिचान्त्यमिदं प्रमाणमात्मैकत्वस्य प्रतिपादकं नातः परं किञ्चिदाकाङ्क्ष्यमस्ति । यथाहि लोके यजेतेत्युक्ते किं केन कथमित्याकाङ्क्ष्यते नैवं ऽतत्त्वमसिऽ ऽअहं ब्रह्मास्मिऽ इत्युक्ते किञ्चिदन्यदाकाङ्क्ष्यमस्ति, सर्वात्मैकत्वविषयत्वावगतेः । सति ह्यस्मिन्नवशिष्यमाणेर्ऽथे आकाङ्क्षा स्यात् । नत्वात्मैकत्वव्यतिरेकेणावशिष्यमाणो ऽन्योर्ऽथो ऽस्ति य आकाङ्क्ष्येत । न चेयमवगतिर्नोपपद्यत इति शक्यं वक्तुम्, ऽतद्धास्य विजज्ञौऽ (छा। ६।१६।३) इत्यादिश्रुतिभ्यः । अवगतिसाधनानां च श्रवणादीनां वेदानुवचनादीनां च विधानात् । नचेयमवगतिरनर्थिका भ्रान्तिर्वेति शक्यं वक्तुम् । अविद्यानिवृत्तिफलदर्शनात्, बाधकज्ञानान्तराभावाच्च । प्राक्चात्मैकत्वावगतेरव्याहतः सर्वः सत्यानृतव्यवहारो लौकिको वैदिकश्चेत्यवोचाम । तस्मादन्त्येन प्रमाणेन प्रतिपादित आत्मैकत्वे समस्तस्य प्राचीनस्य भेदव्यवहारस्य बाधितत्वान्नानेकात्मकब्रह्मकल्पनावकाशो ऽस्ति । ननु मृदादिदृष्टान्तप्रणयनात्परिणामवद्ब्रह्म शास्त्रस्याभिमतमिति गम्यते । परिणामिनो हि मृदादयोर्ऽथा लोके समधिगता इति । नेत्युच्यते । ऽस वा एष महाजन आत्माजरो ऽमरो ऽमृतो ऽभयो ब्रह्मऽ (बृ। ४।४।२५) ऽस एष नेति नेत्यात्माऽ (बृ। ३।९।२३), ऽअस्थूलमनणुऽ (बृ। ३।८।८) इत्याद्याभ्यः सर्वविक्रियाप्रतिषेधश्रुतिभ्यो ब्रह्मणः कूटस्थत्वावगमात् । नह्येकस्य ब्रह्मणः परिणामधर्मत्वं तद्रहितत्वं च श्क्यं प्रतिपत्तुम् । स्थितिगतिवत्स्यादिति चेत् । न । कूटस्थस्येति विशेषणात् । नहि कूटस्थस्य ब्रह्मणः स्थितिगतिवदनेकधर्माश्रयत्वं संभवति । कूटस्थं च नित्यं ब्रह्म सर्वविक्रियाप्रतिषेधादित्यवोचाम । नच यथा ब्रह्मण आत्मैकत्वदर्शनं मोक्षसाधनमेवं जगदाकारपरिणामित्वदर्शनमपि स्वतन्त्रमेव कस्मैचित्फलायाभिप्रेयते । प्रमाणाभावात् । कूटस्थब्रह्मात्मविज्ञानादेव हि फलं दर्शयति शास्त्रम्- ऽस एष नेति नेत्यात्माऽ इत्युपक्रम्य ऽअभयं वै जनक प्राप्तो ऽसिऽ (बृ। ४।२।४) इत्येवञ्जातीयकम् । तत्रैतत्सिद्धं भवति- ब्रह्मप्रकरणे सर्वधर्मविशेषरहितब्रह्मदर्शनादेव फलसिद्धौ सत्यां यत्तत्राफलं श्रूयते ब्रह्मणो जगदाकारपरिणामित्वादि तद्ब्रह्मदर्शनोपायत्वेनैव विनियुज्यते, फलवत्संनिधावफलं तदङ्गमितिवत् । नतु स्वतन्त्रं फलाय कल्प्यत इति । नहि परिणामवत्त्वविज्ञानात्परिणामवत्त्वमात्मनः फलं स्यादिति वक्तुं युक्तं, कूटस्थनित्यत्वान्मोक्षस्य । कूटस्थब्रह्मात्मवादिन एकत्वैकान्त्यादीशित्रीशितव्याभाव ईश्वरकारणप्रतिज्ञाविरोध इति चेत् । न । अविद्यात्मकनामरूपबीजव्याकरणापेक्षत्वात्सर्वज्ञत्वस्य । ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै। २।१) इत्यादिवाक्येभ्यो नित्यशुद्धबुद्धमुक्तस्वरूपात्सर्वज्ञात्सर्वशक्तेरीश्वराज्जगज्जनिस्थि तिप्रलया नाचेतनात्प्रधानादन्यस्माद्वेत्येषोर्ऽथः प्रतिज्ञातः ऽजन्माद्यस्य यतःऽ (ब्रसू। १।१।४) इति । सा प्रतिज्ञा तदवस्थैव न तद्विरुद्धोर्ऽथः पुनरिहोच्यते । कथं नोच्यते ऽत्यन्तमात्मन एकत्वमद्वितीयत्वं च ब्रुवता । श्रुणु यथा नोच्यते । सर्वज्ञस्येश्वरस्यात्मभूत इवाविद्याकल्पिते नामरूपे तत्त्वान्यत्वाभ्यामनिर्वचनीये संसारप्रपञ्चबीजभूते सर्वज्ञस्येश्वरस्य मायाशक्तिः प्रकृतिरिति च श्रुतिस्मृत्योरभिलप्येते । ताभ्यामन्यः सर्वज्ञ ईश्वरः ऽआकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्मऽ (छा। ८।१४।१) इति श्रुतेः । ऽनामरूपे व्याकरवाणिऽ (छा। ६।३।२), ऽसर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्तेऽ (तै। आ। ३।१२।७), ऽएकं बीजं बहुधा यः करोतिऽ (श्वं। ६।१२) इत्यादिश्रुतिभ्यश्च । एवमविद्याकृतनामरूपोपाध्यनुरोधीश्वरो भवति, व्योमेव घटकरकाद्युपाध्यनुरोधि । स च स्वात्मभूतानेव घटाकाशस्थानीयानविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसंघातानुरोधिनो जीवाख्यान्विज्ञानात्मनः प्रतीष्टे व्यवहारविषये । तदेवमविद्यात्मकोपाधिपरिच्छेदापेक्षमेवेश्वरस्येश्वरत्वं सर्वज्ञत्वं सर्वशक्तित्वं च न परमार्थतो विद्यायापास्तसर्वोपाधिस्वरूप आत्मनीशित्रीशितव्यसर्वज्ञत्वादिव्यवहार उपपद्यते । तथाचोक्तम्- ऽयत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाऽ (छा। ७।२४।१) इति ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन पश्येत्ऽ (बृ। ४।५।१५) इत्यादिना च । एवं परमार्थावस्थायां सर्वव्यवहाराभावं वदन्ति वेदान्ताः सर्वे । तथेश्वरगीतास्वपि- ऽन कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवःऽ (गी। ५।१४।-१५) इति परमार्थावस्थायामीशित्रीशितव्यादिव्यवहाराभावः प्रदर्श्यते । व्यवहारावस्थायां तूक्तः श्रुतावपीश्वरादिव्यवहारः ऽएष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधारण एषां लोकानामसंभेदायऽ (बृ। ४।४।२२) इति । तथाचेश्वरगीतास्वपि- ऽईश्वरः सर्वभूतानां हृद्देशेर्ऽजुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि माययाऽ (गी। १८।६१) इति । सूत्रकारो ऽपि परमार्थाभिप्रायेण तदन्यत्वमित्याह । व्यवहाराभिप्रायेण तु स्याल्लोकवदिति महासमुद्रस्थानीयतां ब्रह्मणः कथयति । अप्रत्याख्यायैव कार्यप्रपञ्चं परिणामप्रक्रियां चाश्रयति सगुणोपासनेषूपयोक्ष्यत इति ॥ १४ ॥ ---------------------- फ़्न्: दृष्टं प्रातीतिकं नष्ठमनित्यं यत्स्वरूपं तद्रूपेणानुपाख्यत्वात्सत्तास्फूर्तिशून्यत्वादनन्यत्वमिति संबन्धः । स्वभावो ऽत्राविद्या तया कृतः स्वाभाविकः । एकत्वस्यैकान्तः कैवल्यम् । व्याहन्येरन्नप्रमाणानि स्युः । सत्यत्वं बाधा भावः । बाधो मित्यात्वनिश्चयः । रेखास्वकारत्वादिभ्रान्त्या सत्या अकारादयो ज्ञायन्त इति प्रसिद्धम् ।

tadananyatvam ārambhaṇaśabdādibhyaḥ abhyupagamya cemaṃ vyāvahārikaṃ bhoktṛbhogyalakṣaṇaṃ vibhāgaṃ syāllokavaditi parihāroṣa'bhihitaḥ / natvayaṃ vibhāgaḥ paramārthato 'sti yasmāttayoḥ kāryakāraṇayorananyatvamavagamyate / kāryamākāśādikaṃ bahuprapañcaṃ jagat, kāraṇaṃ paraṃbrahma, tasmātkāraṇātparamārthato 'nanyatvaṃ vyatirekeṇābhāvaḥ kāryasyāvagamyate / kutaḥ / ārambhaṇaśabdādibhyaḥ / ārambhaṇaśabdastāvat / ekavijñānena sarvavijñānaṃ pratijñāya dṛṣṭāntāpekṣāyāmucyate- 'yathā somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ syādvācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam' (chā. 6.1.1) iti / etaduktaṃ bhavati- ekena mṛtpiṇḍena paramārthato mṛdātmanā vijñātena sarvaṃ mṛnmayaṃ ghaṭaśarāvodañcanādikaṃ mṛdātmakatvāviśeṣādvijñātaṃ bhavet / yato vācārambhaṇaṃ vikāro nāmadheyaṃ vācaiva kevalamastītyārabhyate / vikāro ghaṭaḥ śarāva udañcanaṃ ceti / natu vastuvṛttena vikāro nāma kaścidasti / nāmadheyamātraṃ hyetadanṛtaṃ mṛttiketyeva satyamiti / eṣa brahmaṇo dṛṣṭāntaḥ āmnātaḥ / tatra śrutādvācārambhaṇaśabdāddārṣṭāntike 'pi brahmavyatirekeṇa kāryajātasyābhāva iti gamyate / punaśca tejobannānāṃ brahmakāryatāmuktvā tejobannakāryāṇāṃ tejobannavyatirekeṇābhāvaṃ bravīti- 'apāgādagneragnitvaṃ vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam' (chā. 6.4.1) ityādinā / ārambhaṇaśabdādibhya ityādiśabdāt 'aitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā tattvamasi' (chā. 6.8.7), 'idaṃ sarvaṃ yadayamātmā' (bṛ. 2.4.6), 'brahmaivedaṃ sarvam' (mu. 2.2.11), 'ātmaivedaṃ sarvam' (chā. 7.25.2), 'neha nānāsti kiñcana' (bṛ.4.4.19) ityevamādyapyātmaikatvapratipādanaparaṃ vacanajātamudāhartavyam / nacānyathaikavijñānena sarvavijñānaṃ saṃpadyate / tasmādyathā ghaṭakarakādyākāśānāṃ mahākāśānanyatvaṃ, yathāca mṛgatṛṣṇikodakādīnāmūṣarādibhyo 'nanyatvaṃ dṛṣṭanaṣṭasvarūpatvātsvarūpeṇānupākhyatvāt, evamasya bhogyabhoktrādiprapañcajātasya brahmavyatirekeṇābhāva iti draṣṭavyam / nanvanekātmakaṃ brahma, yathā vṛkṣo 'nekaśākha evamanekaśaktipravṛttiyuktaṃ brahma / ata ekatvaṃ nānātvaṃ cobhayamapi satyameva / yathā vṛkṣa ityanekatvaṃ śākhā iti nānātvam / yathāca samudrātmanaikatvaṃ phenataraṅgādyātmanā nānātvam / yathāca mṛdātmanaikatvaṃ ghaṭaśarāvādyātmanā nānātvam / tatraikatvāṃśena jñānānmokṣavyavahāraḥ setsyati / nānātvāṃśena tu karmakāṇḍāśrayau laukikavaidikavyavahārau setsyata iti / evañca mṛdādidṛṣṭāntā anurūpā bhaviṣyantīti / naivaṃ syāt / 'mṛttiketyeva satyam' iti prakṛtimātrasya dṛṣṭānte satyatvāvadhāraṇāt / vācārambhaṇaśabdena ca vikārajātasyānṛtatvābhidhānāt / dārṣṭāntike 'pi 'aitadātmyamidaṃ sarvaṃ tatsatyam' iti ca paramakāraṇasyaivaikasya satyatvāvadhāraṇāt 'sa ātmā tattvamasi śvetaketo' iti ca śārīrasya brahmabhāvopadeśāt / svayaṃ prasiddhaṃ hyetaccharīrasya brahmātmatvamupadiśyate na yatnāntaraprasādhyam / ataścedaṃ śāstrīyaṃ brahmātmatvamavagamyamānaṃ svābhāvikasya śārīrātmatvasya bādhakaṃ saṃpadyate, rajjvādibuddhaya iva sarpādibuddhīnām / bādhite ca śārīrātmatvasya tadāśrayaḥ samastaḥ svābhāviko vyavahāro bādhito bhavati yatprasiddhaye nānātvāṃśo 'paro brahmaṇaḥ kalpyeta / darśayati ca- 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 4.5.15) ityādinā brahmātmatvadarśinaṃ prati samastasya kriyākārakaphalalakṣaṇasya vyavahārasyābhāvam / nacāyaṃ vyavahārābhāvoṣa'vasthāviśeṣanibaddho 'bhidhīyata iti yuktaṃ vaktum, 'tattvamasi' iti brahmātmabhāvasyānavasthāviśeṣanibandhanatvāt / taskaradṛṣṭāntena cānṛtābhisaṃdhasya bandhanaṃ satyābhisaṃdhasya ca mokṣaṃ darśayannekatvamevaikaṃ pāramārthikaṃ darśayati (chā. 6.16) / mithyājñānavijṛmbhitaṃ ca nānātvam / ubhayasatyatāyāṃ hi kathaṃ vyavahāragocaro 'pi janturanṛtābhisaṃdha ityucyeta / 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' (bṛ. 4.4.19) iti ca bhedadṛṣṭimapavadannevaitaddarśayati / nacāsmindarśane jñānānmokṣa ityupapadyate, samyagjñanāpanodyasya kasyacinmithyājñānasya saṃsārakāraṇatvenānabhyupagamāt / ubhayasatyatāyāṃ hi kathamekatvavijñānena nānātvajñānamapanudyata ityucyate / nanvekatvaikāntābhyupagame nānātvābhāvatpratyakṣādīni laukikāni pramāṇāni vyāhanyerannirviṣayatvāt, sthāṇvādiṣviva puruṣādijñānāni / tathā vidhipratiṣedhaśāstramapi bhedāpekṣatvāttadabhāve vyāhanyeta, mokṣaśāstrasyāpi śiṣyaśāsitrādibhedāpekṣatvāttadabhāve vyāghātaḥ syāt / kathaṃ cānṛtena mokṣaśāstreṇa pratipāditasyātmaikatvasya satyatvamupapadyeteti / atrocyate- naiṣa doṣaḥ / sarvavyavahārāṇāmeva prāgbrahmātmatāvijñānātsatyatvopapatteḥ / svapnavyavahārasyeva prākprabodhāt / yāvaddhi na satyātmaikatvapratipattistāvatpramāṇaprameyaphalalakṣaṇeṣu vikāreṣvanṛtatvabuddhirna kasyacidutpadyate / vikārāneva tvahaṃ mametyavidyāyāmātmīyena bhāvena sarvo jantuḥ pratipadyate svābhāvikīṃ brahmātmatāṃ hitvā / tasmātprāgbrahmātmatāpratibodhādupapannaḥ sarvo laukiko vaidikaśca vyavahāraḥ / yathā suptasya prākṛtasya janasya svapna uccāvacānbhāvānpaśyato niścitameva pratyakṣābhimataṃ vijñānaṃ bhavati prākprabodhāt, naca pratyakṣābhāsābhiprāyastatkāle bhavati, tadvat / kathaṃ tvasatyena vedāntavākyena satyasya brahmātmatvasya pratipattirupapadyeta / nahi rajjusarpeṇa dṛṣṭo mriyate / nāpi mṛgatṛṣṇikāmbhasā pānāvagāhanādiprayojanaṃ kriyata iti / naiṣa doṣaḥ / śaṅkāviṣādinimittamaraṇādikāryopalabdheḥ / svapnadarśanāvasthasya ca sarpadaṃśanodakasnānādikāryadarśanāt / tatkāryamapyanṛtameveti cedbrūyāt / tatra brūmaḥ- yadyapi svapnadarśanāvasthasya sarpadaṃśanodakasnānādikāryamanṛtaṃ tathāpi tadavagatiḥ satyameva phalaṃ, pratibuddhasyāpyabādhyamānatvāt / nahi svapnādutthitaḥ svapnadṛṣṭaṃ sarpadaṃśanodakasnānādikāryaṃ mithyeti manyamānastadavagatimapi mithyeti manyate kaścit / etena svapnadṛśo 'vagatyabādhanena dehamātrātmavādo dūṣito veditavyaḥ / tathāca śrutiḥ - 'yadā karmasu kāmyeṣu striyaṃ svapneṣu paśyati / samṛddhiṃ tatra jānīyāttasminsvapnanidarśane' (chā. 5.2.9) ityasatyena svapnadarśanena satyāyāḥ samṛddheḥ pratipattiṃ darśayati / tathā pratyakṣadarśaneṣu keṣucidariṣṭeṣu jāteṣu 'na ciramiva jīviṣyatīti vidyāt' ityuktvā 'atha svapnāḥ puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti' ityādinā tena tenāsatyenaiva svapnadarśanena satyaṃ maraṇaṃ sūcyata iti darśayati / prasiddhaṃ cedaṃ loke 'nvayavyatirekakuśalānāmīdṛśena svapnadarśanena sādhvāgamaḥ sūcyata īdṛśenāsādhvāgama iti / tathākārādisatyākṣarapratipattirddaṣṭā rekhānṛtākṣarapratipatteḥ / apicāntyamidaṃ pramāṇamātmaikatvasya pratipādakaṃ nātaḥ paraṃ kiñcidākāṅkṣyamasti / yathāhi loke yajetetyukte kiṃ kena kathamityākāṅkṣyate naivaṃ 'tattvamasi' 'ahaṃ brahmāsmi' ityukte kiñcidanyadākāṅkṣyamasti, sarvātmaikatvaviṣayatvāvagateḥ / sati hyasminnavaśiṣyamāṇer'the ākāṅkṣā syāt / natvātmaikatvavyatirekeṇāvaśiṣyamāṇo 'nyor'tho 'sti ya ākāṅkṣyeta / na ceyamavagatirnopapadyata iti śakyaṃ vaktum, 'taddhāsya vijajñau' (chā. 6.16.3) ityādiśrutibhyaḥ / avagatisādhanānāṃ ca śravaṇādīnāṃ vedānuvacanādīnāṃ ca vidhānāt / naceyamavagatiranarthikā bhrāntirveti śakyaṃ vaktum / avidyānivṛttiphaladarśanāt, bādhakajñānāntarābhāvācca / prākcātmaikatvāvagateravyāhataḥ sarvaḥ satyānṛtavyavahāro laukiko vaidikaścetyavocāma / tasmādantyena pramāṇena pratipādita ātmaikatve samastasya prācīnasya bhedavyavahārasya bādhitatvānnānekātmakabrahmakalpanāvakāśo 'sti / nanu mṛdādidṛṣṭāntapraṇayanātpariṇāmavadbrahma śāstrasyābhimatamiti gamyate / pariṇāmino hi mṛdādayor'thā loke samadhigatā iti / netyucyate / 'sa vā eṣa mahājana ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.4.25) 'sa eṣa neti netyātmā' (bṛ. 3.9.23), 'asthūlamanaṇu' (bṛ. 3.8.8) ityādyābhyaḥ sarvavikriyāpratiṣedhaśrutibhyo brahmaṇaḥ kūṭasthatvāvagamāt / nahyekasya brahmaṇaḥ pariṇāmadharmatvaṃ tadrahitatvaṃ ca śkyaṃ pratipattum / sthitigativatsyāditi cet / na / kūṭasthasyeti viśeṣaṇāt / nahi kūṭasthasya brahmaṇaḥ sthitigativadanekadharmāśrayatvaṃ saṃbhavati / kūṭasthaṃ ca nityaṃ brahma sarvavikriyāpratiṣedhādityavocāma / naca yathā brahmaṇa ātmaikatvadarśanaṃ mokṣasādhanamevaṃ jagadākārapariṇāmitvadarśanamapi svatantrameva kasmaicitphalāyābhipreyate / pramāṇābhāvāt / kūṭasthabrahmātmavijñānādeva hi phalaṃ darśayati śāstram- 'sa eṣa neti netyātmā' ityupakramya 'abhayaṃ vai janaka prāpto 'si' (bṛ. 4.2.4) ityevañjātīyakam / tatraitatsiddhaṃ bhavati- brahmaprakaraṇe sarvadharmaviśeṣarahitabrahmadarśanādeva phalasiddhau satyāṃ yattatrāphalaṃ śrūyate brahmaṇo jagadākārapariṇāmitvādi tadbrahmadarśanopāyatvenaiva viniyujyate, phalavatsaṃnidhāvaphalaṃ tadaṅgamitivat / natu svatantraṃ phalāya kalpyata iti / nahi pariṇāmavattvavijñānātpariṇāmavattvamātmanaḥ phalaṃ syāditi vaktuṃ yuktaṃ, kūṭasthanityatvānmokṣasya / kūṭasthabrahmātmavādina ekatvaikāntyādīśitrīśitavyābhāva īśvarakāraṇapratijñāvirodha iti cet / na / avidyātmakanāmarūpabījavyākaraṇāpekṣatvātsarvajñatvasya / 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) ityādivākyebhyo nityaśuddhabuddhamuktasvarūpātsarvajñātsarvaśakterīśvarājjagajjanisthi tipralayā nācetanātpradhānādanyasmādvetyeṣor'thaḥ pratijñātaḥ 'janmādyasya yataḥ' (bra.sū. 1.1.4) iti / sā pratijñā tadavasthaiva na tadviruddhor'thaḥ punarihocyate / kathaṃ nocyate 'tyantamātmana ekatvamadvitīyatvaṃ ca bruvatā / śruṇu yathā nocyate / sarvajñasyeśvarasyātmabhūta ivāvidyākalpite nāmarūpe tattvānyatvābhyāmanirvacanīye saṃsāraprapañcabījabhūte sarvajñasyeśvarasya māyāśaktiḥ prakṛtiriti ca śrutismṛtyorabhilapyete / tābhyāmanyaḥ sarvajña īśvaraḥ 'ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma' (chā. 8.14.1) iti śruteḥ / 'nāmarūpe vyākaravāṇi' (chā. 6.3.2), 'sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste' (tai. ā. 3.12.7), 'ekaṃ bījaṃ bahudhā yaḥ karoti' (śvaṃ. 6.12) ityādiśrutibhyaśca / evamavidyākṛtanāmarūpopādhyanurodhīśvaro bhavati, vyomeva ghaṭakarakādyupādhyanurodhi / sa ca svātmabhūtāneva ghaṭākāśasthānīyānavidyāpratyupasthāpitanāmarūpakṛtakāryakaraṇasaṃghātānurodhino jīvākhyānvijñānātmanaḥ pratīṣṭe vyavahāraviṣaye / tadevamavidyātmakopādhiparicchedāpekṣameveśvarasyeśvaratvaṃ sarvajñatvaṃ sarvaśaktitvaṃ ca na paramārthato vidyāyāpāstasarvopādhisvarūpa ātmanīśitrīśitavyasarvajñatvādivyavahāra upapadyate / tathācoktam- 'yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmā' (chā. 7.24.1) iti 'yatra tvasya sarvamātmaivābhūttatkena paśyet' (bṛ. 4.5.15) ityādinā ca / evaṃ paramārthāvasthāyāṃ sarvavyavahārābhāvaṃ vadanti vedāntāḥ sarve / tatheśvaragītāsvapi- 'na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ / na karmaphalasaṃyogaṃ svabhāvastu pravartate // nādatte kasyacitpāpaṃ na caiva sukṛtaṃ vibhuḥ / ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ' (gī. 5.14.-15) iti paramārthāvasthāyāmīśitrīśitavyādivyavahārābhāvaḥ pradarśyate / vyavahārāvasthāyāṃ tūktaḥ śrutāvapīśvarādivyavahāraḥ 'eṣa sarveśvara eṣa bhūtādhipatireṣa bhūtapāla eṣa seturvidhāraṇa eṣāṃ lokānāmasaṃbhedāya' (bṛ. 4.4.22) iti / tathāceśvaragītāsvapi- 'īśvaraḥ sarvabhūtānāṃ hṛddeśer'juna tiṣṭhati / bhrāmayansarvabhūtāni yantrārūḍhāni māyayā' (gī. 18.61) iti / sūtrakāro 'pi paramārthābhiprāyeṇa tadanyatvamityāha / vyavahārābhiprāyeṇa tu syāllokavaditi mahāsamudrasthānīyatāṃ brahmaṇaḥ kathayati / apratyākhyāyaiva kāryaprapañcaṃ pariṇāmaprakriyāṃ cāśrayati saguṇopāsaneṣūpayokṣyata iti // 14 // ---------------------- FN: dṛṣṭaṃ prātītikaṃ naṣṭhamanityaṃ yatsvarūpaṃ tadrūpeṇānupākhyatvātsattāsphūrtiśūnyatvādananyatvamiti saṃbandhaḥ / svabhāvo 'trāvidyā tayā kṛtaḥ svābhāvikaḥ / ekatvasyaikāntaḥ kaivalyam / vyāhanyerannapramāṇāni syuḥ / satyatvaṃ bādhā bhāvaḥ / bādho mityātvaniścayaḥ / rekhāsvakāratvādibhrāntyā satyā akārādayo jñāyanta iti prasiddham /

Sanskrit only: no published translation is held for this verse.

भावे चोपलब्धेः इतश्च कारणादनन्यत्वं कार्यस्य, यत्कारणं भाव एव कारणस्य कार्यमुपलभ्यते, नाभावे । तद्यथा सत्यां मृदि घट उपलभ्यते सत्सु च तन्तुषु पटः । नच नियमेनान्यभावे ऽन्यस्योपलब्धिर्दृष्टा । नह्यश्वो गोरन्यः सन् गोर्भाव एवोपलभ्यते । नच कुलालभाव एव घट उपलभ्यते । सत्यपि निमित्तनैमित्तिकभावे ऽन्यत्वात् । नन्वन्यस्य भावे ऽप्यन्यस्योपलब्धिर्नियता दृश्यते, यथाग्निभावे धूमस्येति । नेत्युच्यते । उद्धापिते ऽप्यग्नौ गोपालघुटिकादिधारितस्य धूमस्य दृश्यमानत्वात् । अथ धूमं कयाचिदवस्थया विशिंष्यादीदृशो धूमो नासत्याग्नौ भवतीति । नैवमपि कश्चिद्दोषः तद्भावानुरक्तां हि बुद्धिं कार्यकारणयोरनन्यत्वे हेतुं वयं वदामः । नचासावग्निधूमयोर्विद्यते । भावाच्चोपलब्धेरिति वा सूत्रम् । न केवलं शब्दादेव कार्यकारणयोरनन्यत्वं, प्रत्यक्षोपलब्धिभावाच्च तयोरनन्यत्वमित्यर्थः । भवतिहि प्रत्यक्षोपलब्धिः कार्यकारणयोरनन्यत्वे । तद्यथा- तन्तुसंस्थाने पटे तन्तुव्यतिरेकेण पटो नाम कार्यं नैवोपलभ्यते केवलास्तु तन्तव आतानवितानवन्तः प्रत्यक्षमुपलभ्यन्ते, तथा तन्तुष्वंशव्ॐऽशुषु तदवयवाः । अनया प्रत्यक्षोपलब्ध्या लोहितशुक्लकृष्णानि त्रीणि ततो रूपाणि वायुमात्रमाकाशमात्रं चेत्यनुमेयम् । (छा। ६।४) ततः परं ब्रह्मैकमेवाद्वितीयं, तत्र सर्वप्रमाणानां निष्ठामवोचाम ॥ १५ ॥ ---------------------- फ़्न्: कारणस्य भावे सत्त्वे उपलब्धौ च कार्यस्य सत्त्वादुपलब्धेश्चानन्यत्वमिति सूत्रार्थः ।

bhāve copalabdheḥ itaśca kāraṇādananyatvaṃ kāryasya, yatkāraṇaṃ bhāva eva kāraṇasya kāryamupalabhyate, nābhāve / tadyathā satyāṃ mṛdi ghaṭa upalabhyate satsu ca tantuṣu paṭaḥ / naca niyamenānyabhāve 'nyasyopalabdhirdṛṣṭā / nahyaśvo goranyaḥ san gorbhāva evopalabhyate / naca kulālabhāva eva ghaṭa upalabhyate / satyapi nimittanaimittikabhāve 'nyatvāt / nanvanyasya bhāve 'pyanyasyopalabdhirniyatā dṛśyate, yathāgnibhāve dhūmasyeti / netyucyate / uddhāpite 'pyagnau gopālaghuṭikādidhāritasya dhūmasya dṛśyamānatvāt / atha dhūmaṃ kayācidavasthayā viśiṃṣyādīdṛśo dhūmo nāsatyāgnau bhavatīti / naivamapi kaściddoṣaḥ tadbhāvānuraktāṃ hi buddhiṃ kāryakāraṇayorananyatve hetuṃ vayaṃ vadāmaḥ / nacāsāvagnidhūmayorvidyate / bhāvāccopalabdheriti vā sūtram / na kevalaṃ śabdādeva kāryakāraṇayorananyatvaṃ, pratyakṣopalabdhibhāvācca tayorananyatvamityarthaḥ / bhavatihi pratyakṣopalabdhiḥ kāryakāraṇayorananyatve / tadyathā- tantusaṃsthāne paṭe tantuvyatirekeṇa paṭo nāma kāryaṃ naivopalabhyate kevalāstu tantava ātānavitānavantaḥ pratyakṣamupalabhyante, tathā tantuṣvaṃśavoṃ'śuṣu tadavayavāḥ / anayā pratyakṣopalabdhyā lohitaśuklakṛṣṇāni trīṇi tato rūpāṇi vāyumātramākāśamātraṃ cetyanumeyam / (chā. 6.4) tataḥ paraṃ brahmaikamevādvitīyaṃ, tatra sarvapramāṇānāṃ niṣṭhāmavocāma // 15 // ---------------------- FN: kāraṇasya bhāve sattve upalabdhau ca kāryasya sattvādupalabdheścānanyatvamiti sūtrārthaḥ /

Sanskrit only: no published translation is held for this verse.

सत्वाच् चापरस्य इतश्च कारणात्कार्यस्यानन्यत्वं, यत्कारणं प्रागुत्पत्तेः कारणात्मनैव कारणे सत्त्वमवरकालीनस्य कार्यस्य श्रूयते । ऽसदेव सोम्येदमग्र आसीत्ऽ (छा। ६।२।१), ऽआत्मा वा इदमेक एवाग्र आसीत्ऽ (ऐआ। २।४।१।१) इत्यादाविदंशब्दगृहीतस्य कार्यस्य कारणेन सामानाधिकरण्यात् । यच्च यदात्मना यत्र न वर्तते न तत्तत उत्पद्यते, यथा सिकताभ्यस्तैलम् । तस्मात्प्रागुत्पत्तेरनन्यत्वादुत्पन्नमप्यनन्यदेव कारणात्कार्यमित्यवगम्यते । यथाच कारणं ब्रह्म त्रिषु कालेषु सत्त्वं न व्यभिचरत्येवं कार्यमपि जगत्त्रिषु कालेषु सत्त्वं न व्यभिचरति । एकं च पुनः सत्त्वमतो ऽप्यनन्यत्वं कारणात्कार्यस्य ॥ १६ ॥

satvāc cāparasya itaśca kāraṇātkāryasyānanyatvaṃ, yatkāraṇaṃ prāgutpatteḥ kāraṇātmanaiva kāraṇe sattvamavarakālīnasya kāryasya śrūyate / 'sadeva somyedamagra āsīt' (chā. 6.2.1), 'ātmā vā idameka evāgra āsīt' (ai.ā. 2.4.1.1) ityādāvidaṃśabdagṛhītasya kāryasya kāraṇena sāmānādhikaraṇyāt / yacca yadātmanā yatra na vartate na tattata utpadyate, yathā sikatābhyastailam / tasmātprāgutpatterananyatvādutpannamapyananyadeva kāraṇātkāryamityavagamyate / yathāca kāraṇaṃ brahma triṣu kāleṣu sattvaṃ na vyabhicaratyevaṃ kāryamapi jagattriṣu kāleṣu sattvaṃ na vyabhicarati / ekaṃ ca punaḥ sattvamato 'pyananyatvaṃ kāraṇātkāryasya // 16 //

Sanskrit only: no published translation is held for this verse.

असद्व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्यशेषात् ननु क्वचिदसत्त्वमपि प्रागुत्पत्तेः कार्यस्य व्यपदिशति श्रुतिः - ऽअसदेवेदमग्र आसीत् (छा। ३।१९।१) इति, ऽअसद्वा इदमग्र आसीत्ऽ (तै। २।७।१) इति च । तस्मादसद्व्यपदेशान्न प्रागुत्पत्तेः कार्यस्य सत्त्वमिति चेत् । नेति ब्रूमः । नह्ययमत्यन्तासत्वाभिप्रायेण प्रागुत्पत्तेः कार्यस्यासद्व्यपदेशः,किं तर्हि व्याकृतनामरूपत्वाद्धर्मादव्याकृतनामरूपत्वं धर्मान्तरं तेन धर्मान्तरेणायमसद्व्यपदेशः प्रागुत्पत्तेः सत एव कार्यस्य कारणरूपेणानन्यस्य । कथमेतदवगम्यते । वाक्यशेषात् । यदुपक्रमे संदिग्धार्थं वाक्यं तच्छेषान्निश्चीयते । इह च तावत् ऽअसदेवेदमग्र आसीत्ऽ इत्यसच्छब्देनोपक्रमे निर्दिष्टं यत्तदेव पुनस्तच्छब्देन परामृश्य सदिति विशिनष्टि ऽतत्सदासीत्ऽ इति । असतश्च पूर्वापरकालासंबन्धादासीच्छब्दानुपपत्तेश्च । ऽअसद्वा इदमग्र आसीत्ऽ इत्यत्रापि ऽतदात्मानं स्वयमकुरुतऽ इति वाक्यशेषे विशेषणान्नात्यन्तासत्त्वम् । तस्माद्धर्मान्तरेणैवायमसद्व्यपदेशः प्रागुत्पत्तेः कार्यस्य । नामरूपव्याकृतं हि वस्तु सच्छब्दार्हं लोके प्रसिद्धम् । अतः प्राङ्नामरूपव्याकरणादसदिवासीदिवासीदित्युपचर्यते ॥ १७ ॥ ---------------------- फ़्न्: अग्रे शून्यमासीच्छून्यादेव जगतभूदिति पूर्वः पक्षः । राद्धान्ते तु इदं जगदग्रे सृष्टेः प्रागसदव्याकृतनामरूपत्वादसत्तुल्यमतिसूक्ष्मं ब्रह्मैवासीत् । ततो ब्रह्मणः सत् व्याकृतनामरूपं जगदजायतेति ।

asadvyapadeśān neti cen na dharmāntareṇa vākyaśeṣāt nanu kvacidasattvamapi prāgutpatteḥ kāryasya vyapadiśati śrutiḥ - 'asadevedamagra āsīt (chā. 3.19.1) iti, 'asadvā idamagra āsīt' (tai. 2.7.1) iti ca / tasmādasadvyapadeśānna prāgutpatteḥ kāryasya sattvamiti cet / neti brūmaḥ / nahyayamatyantāsatvābhiprāyeṇa prāgutpatteḥ kāryasyāsadvyapadeśaḥ,kiṃ tarhi vyākṛtanāmarūpatvāddharmādavyākṛtanāmarūpatvaṃ dharmāntaraṃ tena dharmāntareṇāyamasadvyapadeśaḥ prāgutpatteḥ sata eva kāryasya kāraṇarūpeṇānanyasya / kathametadavagamyate / vākyaśeṣāt / yadupakrame saṃdigdhārthaṃ vākyaṃ taccheṣānniścīyate / iha ca tāvat 'asadevedamagra āsīt' ityasacchabdenopakrame nirdiṣṭaṃ yattadeva punastacchabdena parāmṛśya saditi viśinaṣṭi 'tatsadāsīt' iti / asataśca pūrvāparakālāsaṃbandhādāsīcchabdānupapatteśca / 'asadvā idamagra āsīt' ityatrāpi 'tadātmānaṃ svayamakuruta' iti vākyaśeṣe viśeṣaṇānnātyantāsattvam / tasmāddharmāntareṇaivāyamasadvyapadeśaḥ prāgutpatteḥ kāryasya / nāmarūpavyākṛtaṃ hi vastu sacchabdārhaṃ loke prasiddham / ataḥ prāṅnāmarūpavyākaraṇādasadivāsīdivāsīdityupacaryate // 17 // ---------------------- FN: agre śūnyamāsīcchūnyādeva jagatabhūditi pūrvaḥ pakṣaḥ / rāddhānte tu idaṃ jagadagre sṛṣṭeḥ prāgasadavyākṛtanāmarūpatvādasattulyamatisūkṣmaṃ brahmaivāsīt / tato brahmaṇaḥ sat vyākṛtanāmarūpaṃ jagadajāyateti /

Sanskrit only: no published translation is held for this verse.

युक्तेः शब्दान्तराच् च युक्तेश्च प्रागुत्पत्तेः कार्यस्य सत्त्वमनन्यत्वं च कारणादवगम्यते, शब्दान्तराच्च । युक्तिस्तावद्वर्ण्यते- दधिघटरुचकाद्यर्थिभिः प्रतिनियतानि कारणानि क्षीरमृत्तिकासुवर्णादीन्युपादीयमानानि लोके दृश्यन्ते । नहि दध्यर्थिभिर्मृत्तिकोपादीयते न घटार्थिभिः क्षीरं तदसत्कार्यवादे नोपपद्येत । अविशिष्टे हि प्रागुत्पत्तेः सर्वस्य सर्वत्रासत्वे कस्मात्क्षीरादेव दध्युत्पद्यते न मृत्तिकायाः मृत्तिकाया एव च घट उत्पद्यते न क्षीरात् । अथाविशिष्टे ऽपि प्रागसत्त्वे क्षीर एव दध्नः कश्चिदतिशयो न मृत्तिकायां, मृत्तिकायामेव च घटस्य कश्चिदतिशयो न क्षीर इत्युच्येत, तर्ह्यतिशयवत्त्वात्प्रागवस्थाया असत्कार्यवादहानिः सत्कार्यवादसिद्धिश्च । शक्तिश्च कारणस्य कार्यनियमार्था कल्पमाना नान्यासती वा कार्यं नियच्छेत् । असत्त्वाविशेषादन्यत्वाविशेषाच्च । तस्मात्कारणस्यात्मभूता शक्तिः शक्तेश्चात्मभूतं कार्यम् । अपिच कार्यकारणयोर्द्रव्यगुणादीनां चाश्वमहिषवद्भेदबुद्ध्यभावात्तादात्म्यमभ्युपगन्तव्यम् । समवायकल्पनायामपि समवायस्य समवायिभिः संबन्धे ऽभ्युपगम्यमाने तस्य तस्यान्योन्यः संबन्धः कल्पयितव्य इत्यनवस्थाप्रसङ्गः । अनभ्युपगम्यमाने च विच्छेदप्रसङ्गः । अथ समवायः स्वयं संबन्धरूपत्वादनपेक्ष्यैवापरं संबन्धं संबध्यते, संयोगो ऽपि तर्हि स्वयं संबन्धरूपत्वादनपेक्ष्यैव समवायं संबध्येत । तादात्म्यप्रतीतेश्च द्रव्यगुणादीनां समवायकल्पनानर्थक्यम् । कथं च कार्यमवयविद्रव्यं कारणेष्ववयवद्रव्येषु वर्तमानं वर्तते । किं समस्तेष्ववयवेषु वर्तेतोत प्रत्यवयवम् । यदि तावत्समस्तेषु वर्तेत ततो ऽवयव्यनुपलब्धिः प्रसज्येत, समस्तावयवसमनिकर्षस्याशक्यत्वात् । नहि बहुत्वं समस्तेष्वाश्रयेषु वर्तमानं व्यस्ताश्रयग्रहणेन गृह्यते । अथावयवशः समस्तेषु वर्तेत तदाप्यरम्भकावयवव्यतिरेकेणावयविनो ऽवयवाः कल्प्येरन् यैरारम्भकेष्ववयवेष्ववयवशो ऽवयवी वर्तेत कोशावयवव्यतिरिक्तैर्ह्यवयवैरसिः कोशं व्याप्नोति । अनवस्था चैवं प्रसज्येत । तेषु तेष्वयवयवेषु वर्तयितुमन्येषामवयवानां कल्पनीयत्वात् । अथ प्रत्यवयवं वर्तेत तदैकत्र व्यापारे।ऽन्यत्राव्यापारः स्यात् । नहि देवदत्तः स्नुघ्ने संनिधीयमानस्तदहरेव पाटलिपुत्रे ऽपि संनिधीयेत । युगपदनेकत्र वृत्तावनेकत्वप्रसङ्गः स्यात् । देवदत्तयज्ञदत्तयोरिव स्रुघ्नापाटलिपुत्रनिवासिनोः । गोत्वादिवत्प्रत्येकं परिसमाप्तेर्न दोष इति चेत् । न । तथा प्रतीत्यभावात् । यदि गोत्वादिवत्प्रत्येकं परिसमाप्तो ऽवयवी स्याद्यथा गोत्वं प्रतिव्यक्ति प्रत्यक्षं गृह्यत एवमवयव्यपि प्रत्यवयवं प्रत्यक्षं गृह्येत । नचैवं नियतं गृह्यते । प्रत्येकपरिसमाप्तौ चावयविनः कार्येणाधिकारात्तस्य चैकत्वाच्छृङ्गेणापि स्तनकार्यं कुर्यादुरसा च पृष्ठकार्यम् । नचैवं दृश्यते । प्रागुत्पत्तेश्च कार्यस्यासत्त्व उत्पत्तिरकर्तृका निरात्मिका च स्यात् । उत्पचत्तिश्च नाम क्रिया, सा सकर्तृकैव भवितुमर्हति गत्यादिवत् । क्रिया च नाम स्यादकर्तृका चेति विप्रतिषिध्येत । घटस्य चेत्पत्तिरुच्यमाना न घटकर्तृका किं तरिह्यन्यकर्तृकेति कल्प्या स्यात् । तथा कपालादीनामप्युत्पत्तिरुच्यमानान्यकर्तृकैव कल्प्येत । तथाच सति घट उत्पद्यत इत्युक्ते कुलालादीनामप्युत्पद्यमानता प्रतीयते । उत्पन्नताप्रतीतेश्च । अथ स्वकारणसत्तासंबन्ध एवोत्पत्तिरात्मलाभश्च कार्यस्येति चेत्, कथमलब्धात्मकं संबध्येतेति वक्तव्यम् । सतोर्हि द्वयोः संबन्धः संभवति न सदसतोरसतोर्वा । अभावस्य च निरुपाख्यत्वात्प्रागुत्पत्तेरिति मर्यादाकरणमनुपपन्नम् । सतां हि लोके क्षेत्रगृहादीनां मर्यादा दृष्टा नाभावस्य । नहि वन्ध्यापुत्रो राजा बभूव प्राक्पूर्णवर्मणो ऽभिषेकादित्येवञ्जातीयकेन मर्यादाकारणेन निरुपाख्यो वन्ध्यापुत्रो राजा बभूव प्राक्पूर्णवर्मणो ऽभिषेकादित्येवञ्जातीयकेन मर्यादाकरणेन निरुपाख्यो वन्ध्यपुत्रो राजा बभूव भवति भविष्यतीति वा विशेष्यते । यदि च वन्द्यापुत्रो ऽपि कारकव्यापारादूर्ध्वमभविष्यत्तत इदमप्युपात्स्यत कार्याभावो ऽपि कारकव्यापारादूर्ध्वं भविष्यतीति । वयं तु पश्यामो वन्द्यापुत्रस्य कार्याभावस्य चाभावत्वाविशेषाद्यथा वन्ध्यापुत्रः कारकव्यापारादूर्ध्वं न भविष्यत्येवं कार्याभावो ऽपि कारकव्यापारादूर्ध्वं न भविष्यतीति । नन्वेवं सति कारकव्यापारो ऽनर्थकः प्रसज्येत । यथैव हि प्राक्सिद्धत्वात्कारणस्वरूपसिद्धये न कश्चिद्व्याप्रियते । एवं प्राक्सिद्धत्वात्तदनन्यत्वाच्च कार्यस्य स्वरूपसिद्धये ऽपि न कश्चिद्व्याप्रियेत । व्याप्रियते च । अतः कारकव्यापारार्थवत्त्वाय मन्यामहे प्रागुत्पत्तेरभाव । कार्यस्येति । नैष दोषः । यतः कार्याकारेण कारणं व्यवस्तापयतः कारकव्यापारस्यार्थवत्त्वमपपद्यते । कार्याकारो ऽपि कारणस्यात्मभूत एवानात्मभूतस्यानारभ्यत्वादित्यभाणि । नच विशेषदर्शनमात्रेण वस्त्वन्यत्वं भवति । नहि देवदत्तः संकोचितहस्तपादः प्रसारितहस्तपादश्च विशेषण दृश्यमानो ऽपि वस्त्वन्यत्वं गच्छति, स एवेति प्रत्यभिज्ञानात् । तथा प्रतिदिनमनेकसंस्थानानामपि पित्रादीनां न वस्त्वन्यत्वं भवति, मम पिता मम भ्राता मम पुत्र इति प्रत्यभिज्ञानात् । जन्मोच्छेदानन्तरितत्वात्तत्र युक्तं नान्यत्रेति चेत् । न । क्षीरादीनामपि दध्याद्याकारसंस्थानस्य प्रत्यक्षत्वात् । अदृश्यमानानामपि वटधानादीनां समानजातीयावयवान्तरोपचितानामङ् कुरादिभावेन दर्शनगोचरतापत्तौ जन्मसंज्ञा । तेषामेवायवानामपचयवशाददर्शनापत्तावुच्छेदसंज्ञा । तत्रेदृग्जन्मोच्छेदान्तरितत्वाच्चेदसतः सत्त्वपत्तिस्तथा सति गर्भवासिन उत्तानशायिनश्च भेदप्रसङ्गः । तथाच बाल्ययौवनस्थाविरेष्वपि भेदप्रसङ्गः, पित्रादिव्यवहारलोपप्रसङ्गश्च । एतेन क्षणभङ्गवादः प्रतिवदितव्यः । यस्यपुनः प्रागुत्पत्तेरसत्कार्यं तस्य निर्विषयः कारकव्यापारः स्यात् । अभावस्य विषयत्वानुपपत्तेराकाशहननप्रयोजनखड्गाद्यनेकायुधप्रयुक्तिवत् । समवायिकारणविषयः कारकव्यापारः स्यादिति चेत् । न । अन्यविषयेण कारकव्यापारेणान्यनिष्पत्तेरतिप्रसङ्गात् । समवायिकारणस्यैवात्मातिशयः कार्यमिति चेत् । न । सत्कार्यतापत्तेः । तस्मात्क्षीरादीन्येव द्रव्याणि दध्यादिभावेनावतिष्ठमानानि कार्याख्यां लभन्त इति न कारणादन्यत्कार्यं वर्षशतेनापि शक्यं निश्चेतुम् । तथा मूलकारणमेवान्त्यात्कार्यात्तेन तेन कार्याकारेण नटवत्सर्वव्यवहारास्पदत्वं प्रतिपद्यते । एवं युक्तेः कार्यस्य प्रागुत्पत्तेः सत्त्वमनन्यत्वं च कारणादवगम्यते । शब्दान्तराच्चैतदवगम्यते । पूर्वसूत्रे ऽसद्व्यपदेशिनः शब्दस्योदाहृतत्वात्ततो ऽन्यः सद्व्यपदेशी शब्दः शब्दान्तरम्- ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ इत्यादि । ऽतद्धैक आहुरसदेवेदमग्र आसीत्ऽ इति चासत्पक्षमुपक्षिप्य ऽकथमसतः सज्जायेतऽ इत्याक्षिप्य ऽसदेव सोम्येदमग्र आसीत्ऽ (छा। ६।२।१) इत्यवधारयति । तत्रेदंशब्दवाच्यस्य कार्यस्य प्रागुत्पत्तेः सच्छब्दवाच्येन कारणेन सामानाधिकरण्यस्य श्रूयमाणत्वात्सत्त्वानन्यत्वे प्रसिद्ध्यतः । यदि तु प्रागुत्पत्तेरसत्कार्यं स्यात्पश्चाच्चोत्पद्यमानं कारणे समवेयात्तदान्यकारणात्स्यात् । तत्र ऽयेनाश्रुतं श्रुतं भवतिऽ (छा। ६।१।३) इतीयं प्रतिज्ञा पीड्येत । सत्त्वानन्यत्वावगतेस्त्वियं प्रतिज्ञा समर्थ्यते ॥ १८ ॥ ---------------------- फ़्न्: अतिशयः कार्यधर्मः कारणधर्मो वा । कार्याभावो ऽसत्कार्यमित्यर्थः उपापत्स्यत उपपन्नमभविष्यदित्यन्वयः । वस्त्वन्तरत्वं परमार्थतो भिन्नत्वम् । एतेन कारणस्य सर्वकार्येष्वन्वयकथनेन । विवर्तवादं व्यक्तीकर्तुं नटवदित्युदाहरणम् ।

yukteḥ śabdāntarāc ca yukteśca prāgutpatteḥ kāryasya sattvamananyatvaṃ ca kāraṇādavagamyate, śabdāntarācca / yuktistāvadvarṇyate- dadhighaṭarucakādyarthibhiḥ pratiniyatāni kāraṇāni kṣīramṛttikāsuvarṇādīnyupādīyamānāni loke dṛśyante / nahi dadhyarthibhirmṛttikopādīyate na ghaṭārthibhiḥ kṣīraṃ tadasatkāryavāde nopapadyeta / aviśiṣṭe hi prāgutpatteḥ sarvasya sarvatrāsatve kasmātkṣīrādeva dadhyutpadyate na mṛttikāyāḥ mṛttikāyā eva ca ghaṭa utpadyate na kṣīrāt / athāviśiṣṭe 'pi prāgasattve kṣīra eva dadhnaḥ kaścidatiśayo na mṛttikāyāṃ, mṛttikāyāmeva ca ghaṭasya kaścidatiśayo na kṣīra ityucyeta, tarhyatiśayavattvātprāgavasthāyā asatkāryavādahāniḥ satkāryavādasiddhiśca / śaktiśca kāraṇasya kāryaniyamārthā kalpamānā nānyāsatī vā kāryaṃ niyacchet / asattvāviśeṣādanyatvāviśeṣācca / tasmātkāraṇasyātmabhūtā śaktiḥ śakteścātmabhūtaṃ kāryam / apica kāryakāraṇayordravyaguṇādīnāṃ cāśvamahiṣavadbhedabuddhyabhāvāttādātmyamabhyupagantavyam / samavāyakalpanāyāmapi samavāyasya samavāyibhiḥ saṃbandhe 'bhyupagamyamāne tasya tasyānyonyaḥ saṃbandhaḥ kalpayitavya ityanavasthāprasaṅgaḥ / anabhyupagamyamāne ca vicchedaprasaṅgaḥ / atha samavāyaḥ svayaṃ saṃbandharūpatvādanapekṣyaivāparaṃ saṃbandhaṃ saṃbadhyate, saṃyogo 'pi tarhi svayaṃ saṃbandharūpatvādanapekṣyaiva samavāyaṃ saṃbadhyeta / tādātmyapratīteśca dravyaguṇādīnāṃ samavāyakalpanānarthakyam / kathaṃ ca kāryamavayavidravyaṃ kāraṇeṣvavayavadravyeṣu vartamānaṃ vartate / kiṃ samasteṣvavayaveṣu vartetota pratyavayavam / yadi tāvatsamasteṣu varteta tato 'vayavyanupalabdhiḥ prasajyeta, samastāvayavasamanikarṣasyāśakyatvāt / nahi bahutvaṃ samasteṣvāśrayeṣu vartamānaṃ vyastāśrayagrahaṇena gṛhyate / athāvayavaśaḥ samasteṣu varteta tadāpyarambhakāvayavavyatirekeṇāvayavino 'vayavāḥ kalpyeran yairārambhakeṣvavayaveṣvavayavaśo 'vayavī varteta kośāvayavavyatiriktairhyavayavairasiḥ kośaṃ vyāpnoti / anavasthā caivaṃ prasajyeta / teṣu teṣvayavayaveṣu vartayitumanyeṣāmavayavānāṃ kalpanīyatvāt / atha pratyavayavaṃ varteta tadaikatra vyāpāre.'nyatrāvyāpāraḥ syāt / nahi devadattaḥ snughne saṃnidhīyamānastadahareva pāṭaliputre 'pi saṃnidhīyeta / yugapadanekatra vṛttāvanekatvaprasaṅgaḥ syāt / devadattayajñadattayoriva srughnāpāṭaliputranivāsinoḥ / gotvādivatpratyekaṃ parisamāpterna doṣa iti cet / na / tathā pratītyabhāvāt / yadi gotvādivatpratyekaṃ parisamāpto 'vayavī syādyathā gotvaṃ prativyakti pratyakṣaṃ gṛhyata evamavayavyapi pratyavayavaṃ pratyakṣaṃ gṛhyeta / nacaivaṃ niyataṃ gṛhyate / pratyekaparisamāptau cāvayavinaḥ kāryeṇādhikārāttasya caikatvācchṛṅgeṇāpi stanakāryaṃ kuryādurasā ca pṛṣṭhakāryam / nacaivaṃ dṛśyate / prāgutpatteśca kāryasyāsattva utpattirakartṛkā nirātmikā ca syāt / utpacattiśca nāma kriyā, sā sakartṛkaiva bhavitumarhati gatyādivat / kriyā ca nāma syādakartṛkā ceti vipratiṣidhyeta / ghaṭasya cetpattirucyamānā na ghaṭakartṛkā kiṃ tarihyanyakartṛketi kalpyā syāt / tathā kapālādīnāmapyutpattirucyamānānyakartṛkaiva kalpyeta / tathāca sati ghaṭa utpadyata ityukte kulālādīnāmapyutpadyamānatā pratīyate / utpannatāpratīteśca / atha svakāraṇasattāsaṃbandha evotpattirātmalābhaśca kāryasyeti cet, kathamalabdhātmakaṃ saṃbadhyeteti vaktavyam / satorhi dvayoḥ saṃbandhaḥ saṃbhavati na sadasatorasatorvā / abhāvasya ca nirupākhyatvātprāgutpatteriti maryādākaraṇamanupapannam / satāṃ hi loke kṣetragṛhādīnāṃ maryādā dṛṣṭā nābhāvasya / nahi vandhyāputro rājā babhūva prākpūrṇavarmaṇo 'bhiṣekādityevañjātīyakena maryādākāraṇena nirupākhyo vandhyāputro rājā babhūva prākpūrṇavarmaṇo 'bhiṣekādityevañjātīyakena maryādākaraṇena nirupākhyo vandhyaputro rājā babhūva bhavati bhaviṣyatīti vā viśeṣyate / yadi ca vandyāputro 'pi kārakavyāpārādūrdhvamabhaviṣyattata idamapyupātsyata kāryābhāvo 'pi kārakavyāpārādūrdhvaṃ bhaviṣyatīti / vayaṃ tu paśyāmo vandyāputrasya kāryābhāvasya cābhāvatvāviśeṣādyathā vandhyāputraḥ kārakavyāpārādūrdhvaṃ na bhaviṣyatyevaṃ kāryābhāvo 'pi kārakavyāpārādūrdhvaṃ na bhaviṣyatīti / nanvevaṃ sati kārakavyāpāro 'narthakaḥ prasajyeta / yathaiva hi prāksiddhatvātkāraṇasvarūpasiddhaye na kaścidvyāpriyate / evaṃ prāksiddhatvāttadananyatvācca kāryasya svarūpasiddhaye 'pi na kaścidvyāpriyeta / vyāpriyate ca / ataḥ kārakavyāpārārthavattvāya manyāmahe prāgutpatterabhāva / kāryasyeti / naiṣa doṣaḥ / yataḥ kāryākāreṇa kāraṇaṃ vyavastāpayataḥ kārakavyāpārasyārthavattvamapapadyate / kāryākāro 'pi kāraṇasyātmabhūta evānātmabhūtasyānārabhyatvādityabhāṇi / naca viśeṣadarśanamātreṇa vastvanyatvaṃ bhavati / nahi devadattaḥ saṃkocitahastapādaḥ prasāritahastapādaśca viśeṣaṇa dṛśyamāno 'pi vastvanyatvaṃ gacchati, sa eveti pratyabhijñānāt / tathā pratidinamanekasaṃsthānānāmapi pitrādīnāṃ na vastvanyatvaṃ bhavati, mama pitā mama bhrātā mama putra iti pratyabhijñānāt / janmocchedānantaritatvāttatra yuktaṃ nānyatreti cet / na / kṣīrādīnāmapi dadhyādyākārasaṃsthānasya pratyakṣatvāt / adṛśyamānānāmapi vaṭadhānādīnāṃ samānajātīyāvayavāntaropacitānāmaṅ kurādibhāvena darśanagocaratāpattau janmasaṃjñā / teṣāmevāyavānāmapacayavaśādadarśanāpattāvucchedasaṃjñā / tatredṛgjanmocchedāntaritatvāccedasataḥ sattvapattistathā sati garbhavāsina uttānaśāyinaśca bhedaprasaṅgaḥ / tathāca bālyayauvanasthāvireṣvapi bhedaprasaṅgaḥ, pitrādivyavahāralopaprasaṅgaśca / etena kṣaṇabhaṅgavādaḥ prativaditavyaḥ / yasyapunaḥ prāgutpatterasatkāryaṃ tasya nirviṣayaḥ kārakavyāpāraḥ syāt / abhāvasya viṣayatvānupapatterākāśahananaprayojanakhaḍgādyanekāyudhaprayuktivat / samavāyikāraṇaviṣayaḥ kārakavyāpāraḥ syāditi cet / na / anyaviṣayeṇa kārakavyāpāreṇānyaniṣpatteratiprasaṅgāt / samavāyikāraṇasyaivātmātiśayaḥ kāryamiti cet / na / satkāryatāpatteḥ / tasmātkṣīrādīnyeva dravyāṇi dadhyādibhāvenāvatiṣṭhamānāni kāryākhyāṃ labhanta iti na kāraṇādanyatkāryaṃ varṣaśatenāpi śakyaṃ niścetum / tathā mūlakāraṇamevāntyātkāryāttena tena kāryākāreṇa naṭavatsarvavyavahārāspadatvaṃ pratipadyate / evaṃ yukteḥ kāryasya prāgutpatteḥ sattvamananyatvaṃ ca kāraṇādavagamyate / śabdāntarāccaitadavagamyate / pūrvasūtre 'sadvyapadeśinaḥ śabdasyodāhṛtatvāttato 'nyaḥ sadvyapadeśī śabdaḥ śabdāntaram- 'sadeva somyedamagra āsīdekamevādvitīyam' ityādi / 'taddhaika āhurasadevedamagra āsīt' iti cāsatpakṣamupakṣipya 'kathamasataḥ sajjāyeta' ityākṣipya 'sadeva somyedamagra āsīt' (chā. 6.2.1) ityavadhārayati / tatredaṃśabdavācyasya kāryasya prāgutpatteḥ sacchabdavācyena kāraṇena sāmānādhikaraṇyasya śrūyamāṇatvātsattvānanyatve prasiddhyataḥ / yadi tu prāgutpatterasatkāryaṃ syātpaścāccotpadyamānaṃ kāraṇe samaveyāttadānyakāraṇātsyāt / tatra 'yenāśrutaṃ śrutaṃ bhavati' (chā. 6.1.3) itīyaṃ pratijñā pīḍyeta / sattvānanyatvāvagatestviyaṃ pratijñā samarthyate // 18 // ---------------------- FN: atiśayaḥ kāryadharmaḥ kāraṇadharmo vā / kāryābhāvo 'satkāryamityarthaḥ upāpatsyata upapannamabhaviṣyadityanvayaḥ / vastvantaratvaṃ paramārthato bhinnatvam / etena kāraṇasya sarvakāryeṣvanvayakathanena / vivartavādaṃ vyaktīkartuṃ naṭavadityudāharaṇam /

Sanskrit only: no published translation is held for this verse.

पटवच् च यथा च संवेष्टितः पटो न व्यक्तं गृह्यते किमयं पटः किं वान्यद्द्रव्यमिति । स एव प्रसारितो यत्संवेष्टितं द्रव्यं तत्पट एवेति प्रसारणेनाभिव्यक्तो गृह्यते । यथाच संवेष्टनसमये पट इति गृह्यमाणे ऽपि न विशिष्टायामविस्तारो गृह्यते स एव प्रसारणसमये विशिष्टायामविस्तारो गृह्यते न संवेष्टितरूपादन्यो ऽयं भिन्नः पट इति । एवं तन्त्वादिकारणावस्थं पटादिकार्यमस्पष्टं सत् तुरीवेमकुविन्दादिकारकव्यापारदिभिर्व्यक्तं स्पष्टं गृह्यते । अतः संवेष्टितप्रसीरितपटन्यायेनैवानन्यत्कारणात्कार्यमित्यर्थः ॥ १९ ॥ ---------------------- फ़्न्: आयामो दैर्घ्यम् ।

paṭavac ca yathā ca saṃveṣṭitaḥ paṭo na vyaktaṃ gṛhyate kimayaṃ paṭaḥ kiṃ vānyaddravyamiti / sa eva prasārito yatsaṃveṣṭitaṃ dravyaṃ tatpaṭa eveti prasāraṇenābhivyakto gṛhyate / yathāca saṃveṣṭanasamaye paṭa iti gṛhyamāṇe 'pi na viśiṣṭāyāmavistāro gṛhyate sa eva prasāraṇasamaye viśiṣṭāyāmavistāro gṛhyate na saṃveṣṭitarūpādanyo 'yaṃ bhinnaḥ paṭa iti / evaṃ tantvādikāraṇāvasthaṃ paṭādikāryamaspaṣṭaṃ sat turīvemakuvindādikārakavyāpāradibhirvyaktaṃ spaṣṭaṃ gṛhyate / ataḥ saṃveṣṭitaprasīritapaṭanyāyenaivānanyatkāraṇātkāryamityarthaḥ // 19 // ---------------------- FN: āyāmo dairghyam /

Sanskrit only: no published translation is held for this verse.

यथा च प्राणादिः यथा च लोके प्राणापानादिषु प्राणभेदेषु प्राणायामेन निरुद्धेषु कारणमात्रेण रूपेण वर्तमानेषु जीवनमात्रं कार्यं निवर्त्यते नाकुञ्चनप्रसारणादिकं कार्यान्तरम् । तेष्वेव प्राणभेदेषु पुनः प्रवृत्तेषु जीवनादधिकमाकुञ्चनप्रासारणादिकमपि कार्यान्तरं निर्वर्त्यते । नच प्राणभेदानां प्रभेदवतः प्राणादन्यत्वं, समीरणस्वभावाविशेषात् । एवं कार्यस्य कारणादनन्यत्वम् । अतश्च कृत्स्नस्य जगतो ब्रह्मकार्यत्वात्तदनन्यत्वाच्च सिद्धैषा श्रौती प्रतिज्ञा ऽयेनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्ऽ (छा। ६।१।१) इति ॥ २० ॥ ७ इतरव्यपदेशाधिकरणम् । सू। २१-२३

yathā ca prāṇādiḥ yathā ca loke prāṇāpānādiṣu prāṇabhedeṣu prāṇāyāmena niruddheṣu kāraṇamātreṇa rūpeṇa vartamāneṣu jīvanamātraṃ kāryaṃ nivartyate nākuñcanaprasāraṇādikaṃ kāryāntaram / teṣveva prāṇabhedeṣu punaḥ pravṛtteṣu jīvanādadhikamākuñcanaprāsāraṇādikamapi kāryāntaraṃ nirvartyate / naca prāṇabhedānāṃ prabhedavataḥ prāṇādanyatvaṃ, samīraṇasvabhāvāviśeṣāt / evaṃ kāryasya kāraṇādananyatvam / ataśca kṛtsnasya jagato brahmakāryatvāttadananyatvācca siddhaiṣā śrautī pratijñā 'yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātam' (chā. 6.1.1) iti // 20 // 7 itaravyapadeśādhikaraṇam / sū. 21-23

Sanskrit only: no published translation is held for this verse.

इतरव्यपदेशाद् धिताकरणादिदोषप्रसक्तिः अन्यथा पुनश्चेतनकारणवाद आक्षिप्यते । चेतनाद्धि जगत्प्रक्रियायामाश्रीयमाणायां हिताकरणादयो दोषाः प्रसज्यन्ते । कुतः । इतरव्यपदेशात् । इतरस्य शारीरस्य ब्रह्मात्मत्वं व्यपदिशति श्रुतिः - ऽस आत्मा तत्त्वमसि श्वेतकेतोऽ (छा। ६।८।७) इति प्रबोधनात् । यद्वा । इतरस्य च ब्रह्मणः शारीरात्मत्वं व्यपदिशति ऽतत्सृष्ट्वा तदेवानुप्राविशत्ऽ (तै। २।६) इति स्रष्टुरेवाविकृतस्य ब्रह्मणः कार्यानुप्रवेशेन शारीरात्मत्वप्रदर्शनात् । ऽअनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणिऽ (छा। ६।३।२) इति च परा देवता जीवमात्मशब्देन व्यपदिशन्ती न ब्रह्मणो भिन्नः शारीर इति दर्शयति । तस्माद्यद्ब्रह्मणः स्रष्टृत्वं तच्छरीरस्यैवेति । अतः स स्वतन्त्रः कर्ता सन् हितमेवात्मनः सौमनस्यकरं कुर्यान्नाहितं जन्ममरणजरारोगाद्यनेकानर्थजालम् । नहि कश्चिदपरतन्त्रो बन्धनागारमात्मनः कृत्वानुप्रविशति । नच स्वयमत्यन्तनिर्मलः सन्नत्यन्तमलिनं देहमात्मत्वेनोपेयात् । कृतमपि कथञ्चिद्यद्दुःखकरं तदिच्छया जह्यात् । सुखकरं चोपाददीत । स्मरेच्च मयेदं जगद्बिम्बं विचित्रं विरचितमिति । सर्वो हि लोकः स्पष्टं कार्यं कृत्वा स्मरति मयेदं कृतमिति । यथाच मायावी स्वयं प्रसारितां मायामिच्छयानायासेनैवोपसंहरति, एवं शारीरो ऽपीमां सृष्टिमुपसंहरेत् । स्वमपि तावच्छरीरं शारीरो न शक्नोत्यनायासेनोपसंहर्तुम् । एवं हितक्रियाद्यदर्शनादन्याय्या चेतमाज्जगत्प्रक्रियेति गम्यते ॥ २१ ॥

itaravyapadeśād dhitākaraṇādidoṣaprasaktiḥ anyathā punaścetanakāraṇavāda ākṣipyate / cetanāddhi jagatprakriyāyāmāśrīyamāṇāyāṃ hitākaraṇādayo doṣāḥ prasajyante / kutaḥ / itaravyapadeśāt / itarasya śārīrasya brahmātmatvaṃ vyapadiśati śrutiḥ - 'sa ātmā tattvamasi śvetaketo' (chā. 6.8.7) iti prabodhanāt / yadvā / itarasya ca brahmaṇaḥ śārīrātmatvaṃ vyapadiśati 'tatsṛṣṭvā tadevānuprāviśat' (tai. 2.6) iti sraṣṭurevāvikṛtasya brahmaṇaḥ kāryānupraveśena śārīrātmatvapradarśanāt / 'anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi' (chā. 6.3.2) iti ca parā devatā jīvamātmaśabdena vyapadiśantī na brahmaṇo bhinnaḥ śārīra iti darśayati / tasmādyadbrahmaṇaḥ sraṣṭṛtvaṃ taccharīrasyaiveti / ataḥ sa svatantraḥ kartā san hitamevātmanaḥ saumanasyakaraṃ kuryānnāhitaṃ janmamaraṇajarārogādyanekānarthajālam / nahi kaścidaparatantro bandhanāgāramātmanaḥ kṛtvānupraviśati / naca svayamatyantanirmalaḥ sannatyantamalinaṃ dehamātmatvenopeyāt / kṛtamapi kathañcidyadduḥkhakaraṃ tadicchayā jahyāt / sukhakaraṃ copādadīta / smarecca mayedaṃ jagadbimbaṃ vicitraṃ viracitamiti / sarvo hi lokaḥ spaṣṭaṃ kāryaṃ kṛtvā smarati mayedaṃ kṛtamiti / yathāca māyāvī svayaṃ prasāritāṃ māyāmicchayānāyāsenaivopasaṃharati, evaṃ śārīro 'pīmāṃ sṛṣṭimupasaṃharet / svamapi tāvaccharīraṃ śārīro na śaknotyanāyāsenopasaṃhartum / evaṃ hitakriyādyadarśanādanyāyyā cetamājjagatprakriyeti gamyate // 21 //

Sanskrit only: no published translation is held for this verse.

अधिकं तु भेदनिर्देशात् तुशब्दः पक्षं व्यावर्तयति । यत्सर्वज्ञं सर्वशक्ति ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं शारीरादधिकमन्यत्, तद्वयं जगतः स्रष्टृ ब्रूमः । न तस्मिन्हिताकरणादयो दोषाः प्रसज्यन्ते । नहि तस्य हितं किञ्चित्कर्तव्यमस्त्यहितं वा परिहर्तव्यं, नित्यमुक्तस्वभावात् । नच तस्य ज्ञानप्रतिबन्धः शक्तिप्रतिबन्धो वा क्वचिदप्यस्ति, सर्वज्ञत्वात्सर्वशक्तित्वाच्च । शारीरस्त्वनेवंविधस्तस्मिन्प्रसज्यन्ते हिताकरणादयो दोषाः । नतु तं वयं जगतः स्रष्टारं ब्रूमः । कुत एतत् । भेदनिर्देशात् । ऽआत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यःऽऽ (बृ। २।४।५), ऽसो ऽन्वेष्टव्यः स विजिज्ञासितव्यःऽ (छा। ८।७।१), ऽसता सोम्य तदा संपन्नो भवतिऽ (छा। ६।८।१) ऽशारीर आत्मा प्राज्ञेनात्मनान्वारूढःऽ (बृ। ४।३।३५) इत्येवञ्जातीयकः कर्तृकर्मादिभेदनिर्देशो जीवादधिकं ब्रह्म दर्शयति । नन्वभेदनिर्देशो ऽपि दर्शितः ऽतत्त्वमसिऽ इत्येवञ्जातीयकः । कथं भेदाभेदौ विरुद्धौ संभवेयाताम् । नैष दोषः । आकाशघटाकाशन्यायेनोभयसंभवस्य तत्र तत्र प्रतिष्ठपितत्वात् । अपिच यदा तत्त्वमसीत्येवञ्जातीयकेनाभेदनिर्देशेनाभेदः प्रतिबोधितो भवत्यपगतं भवति तदा जीवस्य संसारित्वं ब्रह्मणश्च स्रष्टृत्वं, समस्तस्य मिथ्याज्ञानविजृम्भितस्य भेदव्यवहारस्य सम्यग्ज्ञानेन बाधितत्वात् । तत्र कुत एव सृष्टिः कुतो वा हिताकरणादयो दोषाः । अविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसंघातोपाध्यविवेककृता हि भ्रान्तिर्हिताकरणादिलक्षणः संसारो नतु परमार्थतो ऽस्तीत्यसकृदवोचाम । जन्ममरणच्छेदनभेदनाद्यभिमानवत् । अबाधिते तु भेदव्यवहारे ऽसे ऽन्वेष्टव्यः स विजिज्ञासितव्यःऽ इत्येवञ्जातीयकेन भेदनिर्देशेनावगम्यमानं ब्रह्मणो ऽधिकत्वं हिताकरणादिदोषप्रसक्तिं निरुणद्धि ॥ २२ ॥

adhikaṃ tu bhedanirdeśāt tuśabdaḥ pakṣaṃ vyāvartayati / yatsarvajñaṃ sarvaśakti brahma nityaśuddhabuddhamuktasvabhāvaṃ śārīrādadhikamanyat, tadvayaṃ jagataḥ sraṣṭṛ brūmaḥ / na tasminhitākaraṇādayo doṣāḥ prasajyante / nahi tasya hitaṃ kiñcitkartavyamastyahitaṃ vā parihartavyaṃ, nityamuktasvabhāvāt / naca tasya jñānapratibandhaḥ śaktipratibandho vā kvacidapyasti, sarvajñatvātsarvaśaktitvācca / śārīrastvanevaṃvidhastasminprasajyante hitākaraṇādayo doṣāḥ / natu taṃ vayaṃ jagataḥ sraṣṭāraṃ brūmaḥ / kuta etat / bhedanirdeśāt / 'ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ'' (bṛ. 2.4.5), 'so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ' (chā. 8.7.1), 'satā somya tadā saṃpanno bhavati' (chā. 6.8.1) 'śārīra ātmā prājñenātmanānvārūḍhaḥ' (bṛ. 4.3.35) ityevañjātīyakaḥ kartṛkarmādibhedanirdeśo jīvādadhikaṃ brahma darśayati / nanvabhedanirdeśo 'pi darśitaḥ 'tattvamasi' ityevañjātīyakaḥ / kathaṃ bhedābhedau viruddhau saṃbhaveyātām / naiṣa doṣaḥ / ākāśaghaṭākāśanyāyenobhayasaṃbhavasya tatra tatra pratiṣṭhapitatvāt / apica yadā tattvamasītyevañjātīyakenābhedanirdeśenābhedaḥ pratibodhito bhavatyapagataṃ bhavati tadā jīvasya saṃsāritvaṃ brahmaṇaśca sraṣṭṛtvaṃ, samastasya mithyājñānavijṛmbhitasya bhedavyavahārasya samyagjñānena bādhitatvāt / tatra kuta eva sṛṣṭiḥ kuto vā hitākaraṇādayo doṣāḥ / avidyāpratyupasthāpitanāmarūpakṛtakāryakaraṇasaṃghātopādhyavivekakṛtā hi bhrāntirhitākaraṇādilakṣaṇaḥ saṃsāro natu paramārthato 'stītyasakṛdavocāma / janmamaraṇacchedanabhedanādyabhimānavat / abādhite tu bhedavyavahāre 'se 'nveṣṭavyaḥ sa vijijñāsitavyaḥ' ityevañjātīyakena bhedanirdeśenāvagamyamānaṃ brahmaṇo 'dhikatvaṃ hitākaraṇādidoṣaprasaktiṃ niruṇaddhi // 22 //

Sanskrit only: no published translation is held for this verse.

अश्मादिवच् च तदनुपपत्तिः यथा च लोके पृथिवीत्वसामान्यान्वितानामप्यश्मनां केचिन्महार्हा मणयो वज्रवैडूर्यादयो ऽन्ये मध्यमवीर्याः सूर्यकान्तादयो ऽन्ये प्रहीणाः श्ववायसप्रक्षेपणार्हाः पाषाणा इत्यनेकविधं वैचित्र्यं दृश्यते । यथा चैकपृथिवीव्यपाश्रयाणामपि बीजानां बहुविधं पत्रपुष्पफलगन्धरसादिवैचित्र्यं चन्दनकिंपाकादिषूपलक्ष्यते । यथा चैकस्याप्यन्नरसस्य लोहितादीनि केशलोमादीनि च विचित्राणि कार्याणि भवन्ति । एवमेकस्यापि ब्रह्मणो जीवप्राज्ञपृथक्त्वं कार्यवैचित्र्यं चोपपद्यत इत्यस्तदनुपपत्तिः । परपरिकल्पितदोषानुपपत्तिर्त्यर्थः । श्रुतेश्च प्रामाण्याद्विकारस्य च वाचारम्भणमात्रत्वात्स्वप्नदृश्यभाववैचित्र्यवच्चेत्यभ्युच्चयः ॥ २३ ॥ ---------------------- फ़्न्: किंपाको महातालफलम् । ८ उपसंहारदर्शनाधिकरणम्। सू। २४-२५

aśmādivac ca tadanupapattiḥ yathā ca loke pṛthivītvasāmānyānvitānāmapyaśmanāṃ kecinmahārhā maṇayo vajravaiḍūryādayo 'nye madhyamavīryāḥ sūryakāntādayo 'nye prahīṇāḥ śvavāyasaprakṣepaṇārhāḥ pāṣāṇā ityanekavidhaṃ vaicitryaṃ dṛśyate / yathā caikapṛthivīvyapāśrayāṇāmapi bījānāṃ bahuvidhaṃ patrapuṣpaphalagandharasādivaicitryaṃ candanakiṃpākādiṣūpalakṣyate / yathā caikasyāpyannarasasya lohitādīni keśalomādīni ca vicitrāṇi kāryāṇi bhavanti / evamekasyāpi brahmaṇo jīvaprājñapṛthaktvaṃ kāryavaicitryaṃ copapadyata ityastadanupapattiḥ / paraparikalpitadoṣānupapattirtyarthaḥ / śruteśca prāmāṇyādvikārasya ca vācārambhaṇamātratvātsvapnadṛśyabhāvavaicitryavaccetyabhyuccayaḥ // 23 // ---------------------- FN: kiṃpāko mahātālaphalam / 8 upasaṃhāradarśanādhikaraṇam. sū. 24-25

Sanskrit only: no published translation is held for this verse.

उपसंहारदर्शनान् नेति चेन् न क्षीरवद् धि चेतनं ब्रह्मैकमद्वितीयं जगतः कारणमिति यदुक्तं तन्नोपपद्यते । कस्मात् । उपसंहारदर्शनात् । इह हि लोके कुलालादयो घटपटादीनां कर्तारो मृद्दण्डचक्रसूत्राद्यनेककारकोपसंहारेण संगृहीतसाधनाः सन्तस्तत्तत्कार्यं कुर्वाणा दृश्यन्ते । ब्रह्म चासहायं तवाभिप्रेतं तस्य साधनान्तरानुपसंग्रहे सति कथं स्रष्टृत्वमुपपद्येत । तस्मान्न ब्रह्म जगत्कारणमिति चेत् । नैष दोषः । यतः क्षीरवद्द्रव्यस्वभावविशेषादुपपद्यते । यथा हि लोके क्षीरं जलं वा स्वयमेव दधिहिमभावेन परिणमते ऽनपेक्ष्य बाह्यं साधनं तथेहापि भविष्यति । ननु क्षीराद्यपि दध्यादिभावेन परिणाममानपेक्षत एव बाह्यं साधनमौष्ण्यादिकं कथमुच्यते क्षीरवद्धीति । नैष दोषः । स्वयमपि हि क्षीरं यां च यावतीं च परिणाममात्रमनुभवति तावत्येव त्वार्यते त्वौष्ण्यादिना दधिभावाय । यदि च स्वयं दधिभावशीलता न स्यान्नैवौष्ण्यादिनापि बलाद्दधिभावमापद्येत । नहि वायुराकाशो वौष्ण्यदिना बलाद्दधिभावमापद्यते । सादनसामग्र्या च तस्य पूर्णता संपाद्यते । परिपूर्णशक्तिकं तु ब्रह्म । न तस्यान्येन केनचित्पूर्णता संपादयितव्या । श्रुतिश्च भवति- ऽन तस्य कार्यं कारणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥ ऽ (श्वे। ६।२) इति । तस्मादेकस्यापि ब्रह्मणो विचित्रशक्तियोगात्क्षीरादिवद्विचित्रपरिणाम उपपद्यते ॥ २४ ॥ ---------------------- फ़्न्: कारकाणामुपसंहारो मेलनम् । त्वार्यते शैघ्र्यं कार्यते क्षीरं दधिभावमौष्ण्यादिना ।

upasaṃhāradarśanān neti cen na kṣīravad dhi cetanaṃ brahmaikamadvitīyaṃ jagataḥ kāraṇamiti yaduktaṃ tannopapadyate / kasmāt / upasaṃhāradarśanāt / iha hi loke kulālādayo ghaṭapaṭādīnāṃ kartāro mṛddaṇḍacakrasūtrādyanekakārakopasaṃhāreṇa saṃgṛhītasādhanāḥ santastattatkāryaṃ kurvāṇā dṛśyante / brahma cāsahāyaṃ tavābhipretaṃ tasya sādhanāntarānupasaṃgrahe sati kathaṃ sraṣṭṛtvamupapadyeta / tasmānna brahma jagatkāraṇamiti cet / naiṣa doṣaḥ / yataḥ kṣīravaddravyasvabhāvaviśeṣādupapadyate / yathā hi loke kṣīraṃ jalaṃ vā svayameva dadhihimabhāvena pariṇamate 'napekṣya bāhyaṃ sādhanaṃ tathehāpi bhaviṣyati / nanu kṣīrādyapi dadhyādibhāvena pariṇāmamānapekṣata eva bāhyaṃ sādhanamauṣṇyādikaṃ kathamucyate kṣīravaddhīti / naiṣa doṣaḥ / svayamapi hi kṣīraṃ yāṃ ca yāvatīṃ ca pariṇāmamātramanubhavati tāvatyeva tvāryate tvauṣṇyādinā dadhibhāvāya / yadi ca svayaṃ dadhibhāvaśīlatā na syānnaivauṣṇyādināpi balāddadhibhāvamāpadyeta / nahi vāyurākāśo vauṣṇyadinā balāddadhibhāvamāpadyate / sādanasāmagryā ca tasya pūrṇatā saṃpādyate / paripūrṇaśaktikaṃ tu brahma / na tasyānyena kenacitpūrṇatā saṃpādayitavyā / śrutiśca bhavati- 'na tasya kāryaṃ kāraṇaṃ ca vidyate na tatsamaścābhyadhikaśca dṛśyate / parāsya śaktirvividhaiva śrūyate svābhāvikī jñānabalakriyā ca // ' (śve. 6.2) iti / tasmādekasyāpi brahmaṇo vicitraśaktiyogātkṣīrādivadvicitrapariṇāma upapadyate // 24 // ---------------------- FN: kārakāṇāmupasaṃhāro melanam / tvāryate śaighryaṃ kāryate kṣīraṃ dadhibhāvamauṣṇyādinā /

Sanskrit only: no published translation is held for this verse.

देवादिवद् अपि लोके स्यादेतत् । उपपद्यते क्षीरादीनामचेतनानामनपेक्ष्यापि बाह्यं साधनं दध्यादिभावः, दृष्टत्वात् । चेतनाः पुनः कुलालादयः साधनसामग्रीमपेक्ष्यैव तस्मै कार्याय प्रवर्तमाना दृश्यन्ते । कथं ब्रह्म चेतनं सदसहायं प्रवर्तेतेति । देवादिवदिति ब्रूमः । यथा लोके देवाः पितर ऋषय इत्येवमादयो महाप्रभावाश्चेतना अपि सन्तो ऽनपेक्ष्यैव किञ्चिद्बाह्यं साधनमैश्वर्यविशेषयोगादभिध्यानमात्रेण स्वत एव बहूनि नानासंस्थानि शरीरीणि प्रासादादीनि च रथादीनि च निर्मिमाणा उपलभ्यन्ते मन्त्रार्थवादेतिहासपुराणप्रामाण्यात् । तन्तुनाभश्च स्वत एव तन्तून्सृजति । बलाका चान्तरेणैव शुक्रं गर्भं धत्ते । पद्मिनी चानपेक्ष्य किञ्चित्प्रस्तानसाधनं सरोन्तरात्सरोन्तरं प्रतिष्ठते । एवं चेतनमपि ब्रह्मानपेक्ष्य बाह्यं साधनं स्वत एव जगत्स्रक्ष्यति । स यदि ब्रूयाद्य एते देवादयो ब्रह्मणो दृष्टान्ता उपात्तास्ते दार्ष्ट्रान्तिकेन ब्रह्मणा न समाना भवन्ति । शरीरमेव ह्यचेतनं देवादीनां शरीरान्तरादिविभूत्युत्पादन उपादानं नतु चेतन आत्मा । तन्तुनाभ्या च क्षुद्रतरजन्तुभक्षणाल्लाला कठिनतामापद्यमाना तन्तुर्भवति । बलाका च स्तनयित्नुरवश्रवणाद्गर्भं धत्ते । पद्मिनी च चेतनप्रयुक्ता सत्यचेतनेवैव शरीरेण सरोन्तरोपसर्पणे व्याप्रियते । तस्मानैते ब्रह्मणो दृष्टान्ता इति । तं प्रति ब्रूयान्नायं दोषः । कुलालादिदृष्टान्तवैलक्षण्यमात्रस्य विवक्षितत्वादिति । यथा हि कुलालादीनां देवादीनां च समाने चेतनत्वे कुलालादयः कार्यारम्भे बाह्यं साधनमपेक्षन्ते न देवादयः, तथा ब्रह्म चेतनमपि न बाह्यं साधनमपेक्षिष्यत इत्येतद्वाक्यं देवाद्युदाहरणेन विवक्ष्यामः । तस्माद्यथैकस्य सामर्थ्यं दृष्टं तथा सर्वेषामेव भवितुमर्हतीति नास्त्येकान्त इत्यभिप्रायः ॥ २५ ॥ ---------------------- फ़्न्: लोक्यते ज्ञायतेर्ऽथोनेनेति लोको मन्त्रार्थवादादिशास्त्रं वृद्धव्यवहारश्च । अभिध्यानं संकल्पः । यथा भारते श्रीकृष्णस्य संकल्पमात्रेण द्रौपद्याः पटपरम्परोत्पत्तिः तथा असहायस्यापि ब्रह्मणः कारणत्वम् ।

devādivad api loke syādetat / upapadyate kṣīrādīnāmacetanānāmanapekṣyāpi bāhyaṃ sādhanaṃ dadhyādibhāvaḥ, dṛṣṭatvāt / cetanāḥ punaḥ kulālādayaḥ sādhanasāmagrīmapekṣyaiva tasmai kāryāya pravartamānā dṛśyante / kathaṃ brahma cetanaṃ sadasahāyaṃ pravarteteti / devādivaditi brūmaḥ / yathā loke devāḥ pitara ṛṣaya ityevamādayo mahāprabhāvāścetanā api santo 'napekṣyaiva kiñcidbāhyaṃ sādhanamaiśvaryaviśeṣayogādabhidhyānamātreṇa svata eva bahūni nānāsaṃsthāni śarīrīṇi prāsādādīni ca rathādīni ca nirmimāṇā upalabhyante mantrārthavādetihāsapurāṇaprāmāṇyāt / tantunābhaśca svata eva tantūnsṛjati / balākā cāntareṇaiva śukraṃ garbhaṃ dhatte / padminī cānapekṣya kiñcitprastānasādhanaṃ sarontarātsarontaraṃ pratiṣṭhate / evaṃ cetanamapi brahmānapekṣya bāhyaṃ sādhanaṃ svata eva jagatsrakṣyati / sa yadi brūyādya ete devādayo brahmaṇo dṛṣṭāntā upāttāste dārṣṭrāntikena brahmaṇā na samānā bhavanti / śarīrameva hyacetanaṃ devādīnāṃ śarīrāntarādivibhūtyutpādana upādānaṃ natu cetana ātmā / tantunābhyā ca kṣudratarajantubhakṣaṇāllālā kaṭhinatāmāpadyamānā tanturbhavati / balākā ca stanayitnuravaśravaṇādgarbhaṃ dhatte / padminī ca cetanaprayuktā satyacetanevaiva śarīreṇa sarontaropasarpaṇe vyāpriyate / tasmānaite brahmaṇo dṛṣṭāntā iti / taṃ prati brūyānnāyaṃ doṣaḥ / kulālādidṛṣṭāntavailakṣaṇyamātrasya vivakṣitatvāditi / yathā hi kulālādīnāṃ devādīnāṃ ca samāne cetanatve kulālādayaḥ kāryārambhe bāhyaṃ sādhanamapekṣante na devādayaḥ, tathā brahma cetanamapi na bāhyaṃ sādhanamapekṣiṣyata ityetadvākyaṃ devādyudāharaṇena vivakṣyāmaḥ / tasmādyathaikasya sāmarthyaṃ dṛṣṭaṃ tathā sarveṣāmeva bhavitumarhatīti nāstyekānta ityabhiprāyaḥ // 25 // ---------------------- FN: lokyate jñāyater'thoneneti loko mantrārthavādādiśāstraṃ vṛddhavyavahāraśca / abhidhyānaṃ saṃkalpaḥ / yathā bhārate śrīkṛṣṇasya saṃkalpamātreṇa draupadyāḥ paṭaparamparotpattiḥ tathā asahāyasyāpi brahmaṇaḥ kāraṇatvam /

Sanskrit only: no published translation is held for this verse.

कृत्स्नप्रसक्तिर् निरवयवत्वशब्दकोपो वा चेतनमेकमद्वितीयं ब्रह्म क्षीरादिवद्देवादिवच्चानपेक्ष्य बाह्यसाधनं स्वयं परिणममानं जगतः कारणमिति स्थितम् । शास्त्रार्थपरिशुद्धये तु पुनराक्षिपति । कृत्स्नप्रसक्तिः कृत्स्नस्य ब्रह्मणः कार्यरूपेण परिणामः प्राप्नोति, निरवयवत्वात् । यदि ब्रह्म पथिव्यादिवत्सावयवमभविष्यत्ततो ऽस्यैकदेशः पर्यणंस्यदेकदेशश्चावास्थास्यत् । निरवयवं तु ब्रह्म श्रुतिभ्यो ऽवगम्यते- ऽनिष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्ऽ (श्वे। ६।१९), ऽदिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरोह्यजःऽ (मु। २।१।२), ऽइदं महद्भूतमनन्तमपारं विज्ञानघन एवऽ (बृ। २।४।१२), ऽस एष नेति नेत्यात्माऽ (बृ। ३।९।२६), ऽअस्थूलमनणुऽ (बृ। ३।८।८) इत्याद्याभ्यः सर्वविशेषप्रतिषेधिनीभ्यः । ततश्चैकदेशपरिणामसंभवात्कृत्स्नपरिणामप्रसक्तौ सत्यां मूलोच्छेदः प्रसज्येत । द्रष्टव्यतोपदेशानर्थक्यं चापन्नमयत्नद्रष्टत्वात्कार्यस्य, तद्व्यतिरिक्तस्य च ब्रह्मणो ऽसंभवात् अजत्वादिशब्दकोपश्च । अथैतद्दोषपरिजिहीर्षया सावयवमेव ब्रह्माभ्युपगम्येत तथापि ये निरवयवत्वस्य प्रतिपादकाः शब्दा उदाहृतास्ते प्रकुष्येयुः । सावयवत्वे चानित्यत्वप्रसङ्ग इति । सर्वथायं पक्षो न घटयितुं शक्यत इत्याक्षिपति ॥ २६ ॥ ---------------------- फ़्न्: पर्यणंस्यत् परिणतो ऽभविष्यत् । एकदेशश्चावस्थास्यदपरिणतो ऽभविष्यत् ।

kṛtsnaprasaktir niravayavatvaśabdakopo vā cetanamekamadvitīyaṃ brahma kṣīrādivaddevādivaccānapekṣya bāhyasādhanaṃ svayaṃ pariṇamamānaṃ jagataḥ kāraṇamiti sthitam / śāstrārthapariśuddhaye tu punarākṣipati / kṛtsnaprasaktiḥ kṛtsnasya brahmaṇaḥ kāryarūpeṇa pariṇāmaḥ prāpnoti, niravayavatvāt / yadi brahma pathivyādivatsāvayavamabhaviṣyattato 'syaikadeśaḥ paryaṇaṃsyadekadeśaścāvāsthāsyat / niravayavaṃ tu brahma śrutibhyo 'vagamyate- 'niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam' (śve. 6.19), 'divyo hyamūrtaḥ puruṣaḥ sabāhyābhyantarohyajaḥ' (mu. 2.1.2), 'idaṃ mahadbhūtamanantamapāraṃ vijñānaghana eva' (bṛ. 2.4.12), 'sa eṣa neti netyātmā' (bṛ. 3.9.26), 'asthūlamanaṇu' (bṛ. 3.8.8) ityādyābhyaḥ sarvaviśeṣapratiṣedhinībhyaḥ / tataścaikadeśapariṇāmasaṃbhavātkṛtsnapariṇāmaprasaktau satyāṃ mūlocchedaḥ prasajyeta / draṣṭavyatopadeśānarthakyaṃ cāpannamayatnadraṣṭatvātkāryasya, tadvyatiriktasya ca brahmaṇo 'saṃbhavāt ajatvādiśabdakopaśca / athaitaddoṣaparijihīrṣayā sāvayavameva brahmābhyupagamyeta tathāpi ye niravayavatvasya pratipādakāḥ śabdā udāhṛtāste prakuṣyeyuḥ / sāvayavatve cānityatvaprasaṅga iti / sarvathāyaṃ pakṣo na ghaṭayituṃ śakyata ityākṣipati // 26 // ---------------------- FN: paryaṇaṃsyat pariṇato 'bhaviṣyat / ekadeśaścāvasthāsyadapariṇato 'bhaviṣyat /

Sanskrit only: no published translation is held for this verse.

श्रुतेस् तु शब्दमूलत्वात् तुशब्देनाक्षेपं परिहरति । न खल्वस्मत्पक्षे कश्चिदपि दोषो ऽस्ति । न तावत्कृत्स्नप्रसक्तिरस्ति । कुतः । श्रुतेः । यथैव हि ब्रह्मणो जगदुत्पत्तिः श्रूयत एवं विकारव्यतिरेकेणापि ब्रह्मणो ऽवस्तानं श्रूयते, प्रकृतिविकारयोर्भेदेन व्यपदेशात् ऽसेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणिऽ (छा। ६।३।२) इति, ऽतावानस्य महिमा ततो ज्यायांश्च पुरुषः । पादो ऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिविऽ (छा। ३।१२।६) इति चैवञ्जातीयकात् । तथा हृदयायतनत्ववचनात्सत्संपत्तिवचनाच्च । यदि च कृत्स्नं ब्रह्म कार्याभावेनोपयुक्तं स्यात् ऽसता सोम्य तदा संपन्नो भवतिऽ (छा। ६।८१) इति सुषुप्तिगतं विशेषणमनुपपन्नं स्यात् । विकृतेन ब्रह्मणा नित्यसंपन्नत्वादिविकृतस्य च ब्रह्मणो ऽभावात् । तथेन्द्रियगोचरत्वप्रतिषेधाद्ब्रह्मणो विकारस्य चेन्द्रियगोचरत्वोपपत्तेः । तस्मादस्त्यविकृतं ब्रह्म । नच निरवयवत्वशब्दकोपो ऽस्ति, श्रूयमाणत्वादेव निरवयवत्वस्याप्यभ्युपगम्यमानत्वात् । शब्दमूलं च ब्रह्म शब्दप्रमाणकं नेन्द्रियादिप्रमाणकं तद्यथाशब्दमभ्युपगन्तव्यम् । शब्दश्चोभयमपि ब्रह्मणः प्रतिपादयत्यकृत्स्नप्रसक्तिं निरवयवत्वं च । लौकिकानामपि मणिमन्त्रौषधिप्रभृतीनां देशकालनिमित्तवैचित्र्यवशाच्छक्तयो विरुद्धानेककार्यविषया दृश्यन्ते । ता अपि तावन्नोपदेशमन्तरेण केवलेन तर्केणावगन्तुं शक्यन्ते ऽस्य वस्तुन एतावत्य एतत्सहाय एतद्विषया एतत्प्रयोजनाश्च शक्तय इति । किमुताचिन्त्यस्वभावस्य ब्रह्मणो रूपं विना शब्देन न निरूप्येत । तथाचाहुः पौराणिकाः - ऽअचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत् । प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम् ॥ ऽ इति तस्माच्छब्दमूल एवातीन्द्रियार्थयाथात्म्याधिगमः । ननु शब्देनापि न शक्यते विरुद्धोर्ऽथः प्रत्याययितुं निरवयवं च ब्रह्म परिणमते नच कृत्स्नमिति । यदि निरवयवं ब्रह्म स्यान्नैव परिणमेत । कृत्स्नमेव वा परिणमेत । अथ केनचिद्रूपेण परिणमेत केनचिच्चावतिष्ठेतेति रूपभेदकल्पनात्सावयवमेव प्रसज्येत । क्रियाविषये हि ऽअतिरात्रे षोडशिनं गृह्णातिऽ ऽनातिरात्रे षोडशिनं गृह्णातिऽ इत्येवञ्जातीयकायां विरोधप्रतीतावपि विकल्पाश्रयणं विरोधपरिहारकारणं भवति पुरुषतन्त्रत्वाच्चानुष्ठानस्य । इह तु विकल्पाश्रयणेनापि न विरोधपरिहारः संभवत्यपुरुषतन्त्रत्वाद्वस्तुनः तस्माद्दुर्घटमेतदिति । नैष दोषः । अविद्याकल्पितरूपभेदाभ्युपगमात् । नह्यविद्याकल्पितेन रूपभेदेन सावयवं वस्तु संपद्यते । नहि तिमिरोपहतनयनेनानेक इव चन्द्रमा दृश्यमानो ऽनेक एव भवति । अविद्याकल्पितेन च नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मकेन तत्त्वान्यत्वाभ्यामनिर्वचनीयेन ब्रह्म परिणामादिसर्वव्यवहारास्पदत्वं प्रतिपद्यते । पारमार्थिकेन च रूपेण सर्वव्यवहारातीतमपरिणमतवतिष्ठते । वाचारम्भणमात्रत्वाच्चाविद्याकल्पितस्य नामरूपभेदस्येति न निरवयवत्वं ब्रह्मणः कुप्यति । नचेयं परिणामश्रुतिः परिणामप्रतिपादनार्था, तत्प्रतिपत्तौ फलानवगमात् । सर्वव्यवहारहीनब्रह्मात्मभावप्रतिपादनार्था त्वेषा, तत्प्रतिफलावगमात् । ऽस एष नेति नेत्यात्माऽ इत्युपक्रम्याह- ऽअभयं वै जनक प्राप्तो ऽसिऽ (बृ। ४।२।४) इति । तस्मादस्मत्पक्षे न कश्चिदपि दोषप्रसङ्गो ऽस्ति ॥ २७ ॥

śrutes tu śabdamūlatvāt tuśabdenākṣepaṃ pariharati / na khalvasmatpakṣe kaścidapi doṣo 'sti / na tāvatkṛtsnaprasaktirasti / kutaḥ / śruteḥ / yathaiva hi brahmaṇo jagadutpattiḥ śrūyata evaṃ vikāravyatirekeṇāpi brahmaṇo 'vastānaṃ śrūyate, prakṛtivikārayorbhedena vyapadeśāt 'seyaṃ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi' (chā. 6.3.2) iti, 'tāvānasya mahimā tato jyāyāṃśca puruṣaḥ / pādo 'sya sarvā bhūtāni tripādasyāmṛtaṃ divi' (chā. 3.12.6) iti caivañjātīyakāt / tathā hṛdayāyatanatvavacanātsatsaṃpattivacanācca / yadi ca kṛtsnaṃ brahma kāryābhāvenopayuktaṃ syāt 'satā somya tadā saṃpanno bhavati' (chā. 6.81) iti suṣuptigataṃ viśeṣaṇamanupapannaṃ syāt / vikṛtena brahmaṇā nityasaṃpannatvādivikṛtasya ca brahmaṇo 'bhāvāt / tathendriyagocaratvapratiṣedhādbrahmaṇo vikārasya cendriyagocaratvopapatteḥ / tasmādastyavikṛtaṃ brahma / naca niravayavatvaśabdakopo 'sti, śrūyamāṇatvādeva niravayavatvasyāpyabhyupagamyamānatvāt / śabdamūlaṃ ca brahma śabdapramāṇakaṃ nendriyādipramāṇakaṃ tadyathāśabdamabhyupagantavyam / śabdaścobhayamapi brahmaṇaḥ pratipādayatyakṛtsnaprasaktiṃ niravayavatvaṃ ca / laukikānāmapi maṇimantrauṣadhiprabhṛtīnāṃ deśakālanimittavaicitryavaśācchaktayo viruddhānekakāryaviṣayā dṛśyante / tā api tāvannopadeśamantareṇa kevalena tarkeṇāvagantuṃ śakyante 'sya vastuna etāvatya etatsahāya etadviṣayā etatprayojanāśca śaktaya iti / kimutācintyasvabhāvasya brahmaṇo rūpaṃ vinā śabdena na nirūpyeta / tathācāhuḥ paurāṇikāḥ - 'acintyāḥ khalu ye bhāvā na tāṃstarkeṇa yojayet / prakṛtibhyaḥ paraṃ yacca tadacintyasya lakṣaṇam // ' iti tasmācchabdamūla evātīndriyārthayāthātmyādhigamaḥ / nanu śabdenāpi na śakyate viruddhor'thaḥ pratyāyayituṃ niravayavaṃ ca brahma pariṇamate naca kṛtsnamiti / yadi niravayavaṃ brahma syānnaiva pariṇameta / kṛtsnameva vā pariṇameta / atha kenacidrūpeṇa pariṇameta kenaciccāvatiṣṭheteti rūpabhedakalpanātsāvayavameva prasajyeta / kriyāviṣaye hi 'atirātre ṣoḍaśinaṃ gṛhṇāti' 'nātirātre ṣoḍaśinaṃ gṛhṇāti' ityevañjātīyakāyāṃ virodhapratītāvapi vikalpāśrayaṇaṃ virodhaparihārakāraṇaṃ bhavati puruṣatantratvāccānuṣṭhānasya / iha tu vikalpāśrayaṇenāpi na virodhaparihāraḥ saṃbhavatyapuruṣatantratvādvastunaḥ tasmāddurghaṭametaditi / naiṣa doṣaḥ / avidyākalpitarūpabhedābhyupagamāt / nahyavidyākalpitena rūpabhedena sāvayavaṃ vastu saṃpadyate / nahi timiropahatanayanenāneka iva candramā dṛśyamāno 'neka eva bhavati / avidyākalpitena ca nāmarūpalakṣaṇena rūpabhedena vyākṛtāvyākṛtātmakena tattvānyatvābhyāmanirvacanīyena brahma pariṇāmādisarvavyavahārāspadatvaṃ pratipadyate / pāramārthikena ca rūpeṇa sarvavyavahārātītamapariṇamatavatiṣṭhate / vācārambhaṇamātratvāccāvidyākalpitasya nāmarūpabhedasyeti na niravayavatvaṃ brahmaṇaḥ kupyati / naceyaṃ pariṇāmaśrutiḥ pariṇāmapratipādanārthā, tatpratipattau phalānavagamāt / sarvavyavahārahīnabrahmātmabhāvapratipādanārthā tveṣā, tatpratiphalāvagamāt / 'sa eṣa neti netyātmā' ityupakramyāha- 'abhayaṃ vai janaka prāpto 'si' (bṛ. 4.2.4) iti / tasmādasmatpakṣe na kaścidapi doṣaprasaṅgo 'sti // 27 //

Sanskrit only: no published translation is held for this verse.

आत्मनि चैवं विचित्राश् च हि अपिच नैवात्र विवदितव्यं कथमेकस्मिन्ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिः स्यादिति । यत आत्मन्यप्येकस्मिन्स्वप्नदृशि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिः पठ्यते- ऽन तत्र रथा न रथयोगो न पन्थानो भवन्त्यथ रथारथयोगान्पथः सृजतेऽ ( बृ। ४।३।१०) इत्यादिना । लोके ऽपि देवादिषु मायाव्यादिषु च स्वप्नरूपानुपमर्देनैव विचित्रा हस्त्यश्वादिसृष्टयो दृश्यन्ते । तथैकस्मिन्नपि ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिर्भविष्यतीति ॥ २८ ॥

ātmani caivaṃ vicitrāś ca hi apica naivātra vivaditavyaṃ kathamekasminbrahmaṇi svarūpānupamardenaivānekākārā sṛṣṭiḥ syāditi / yata ātmanyapyekasminsvapnadṛśi svarūpānupamardenaivānekākārā sṛṣṭiḥ paṭhyate- 'na tatra rathā na rathayogo na panthāno bhavantyatha rathārathayogānpathaḥ sṛjate' ( bṛ. 4.3.10) ityādinā / loke 'pi devādiṣu māyāvyādiṣu ca svapnarūpānupamardenaiva vicitrā hastyaśvādisṛṣṭayo dṛśyante / tathaikasminnapi brahmaṇi svarūpānupamardenaivānekākārā sṛṣṭirbhaviṣyatīti // 28 //

Sanskrit only: no published translation is held for this verse.

स्वपक्षदोषाच् च परेषामप्येष समानः स्वपक्षे दोषः । प्रधानवादिनो ऽपि हि निरवयवमपरिच्छिन्नं शब्दादिहीनं प्रधानं साववस्य परिच्छिन्नस्य शब्दादिमतः कार्यस्य कारणमिति स्वपक्षः । तत्रापि कृत्स्नप्रसक्तिर्निरवयवत्वात्प्रधानस्य प्राप्नोति निरवयवत्वाभ्युपगमकोपो वा । ननु नैव तैर्निरवयवं प्रधानमभ्युपगम्यते, सत्त्वरजस्तमांसि त्रयो गुणा नित्यास्तेषां साम्यावस्था प्रधाने तैरेवावयवैस्तत्सावयवमिति । नैवञ्जातीयकेन सावयवत्वेन प्रकृतो दोषः परिहर्तुं पार्यते । यतः सत्त्वरजस्तमसामप्येकैकस्य समानं निरवयवत्वम् । एकैकमेव चेतरद्वयानुगृहीतं सजातीयस्य प्रपञ्चस्योपादानमिति समानत्वात्स्वपक्षदोषप्रसङ्गस्य । तर्कप्रतिष्ठानात्सावयवत्वमेवेति चेत् । एववमप्यनित्यत्वादिदोषप्रसङ्गः । अथ शक्तय एव कार्यवैचित्र्यसूचिता अवयवा इत्यभिप्रायः । तास्तु ब्रह्मवादिनो ऽप्यवशिष्टाः । तथाणुवादिनो ऽप्यणुरण्वन्तरेण संयुज्यमानो निरवयवत्वाद्यदि कार्त्स्येन संयुज्येत ततः प्रथिमानुपपत्तेरणुमात्रत्वप्रसङ्गः । अथैकदेशेन संयुज्येत तथापि निरवयवत्वाभ्युपगमकोप इति स्वपक्षे ऽपि समान एष दोषः । समानत्वाच्च नान्यन्यतरस्मिन्नेव पक्ष उपक्षेप्तव्यो भवति । परिहृतस्तु ब्रह्मवादिना स्वपक्षे दोषः ॥ २९ ॥ ---------------------- फ़्न्: वैशेषिकाणां ह्यणुभ्यां संयुज्य ह्यणुकमेकमारभ्यते, तैस्त्रिभिर्ह्यणुकैस्त्र्यणुकमेकमारभ्यत इति प्रक्रिया । १० सर्वोपेताधिकरणम् । सू। ३०-३१

svapakṣadoṣāc ca pareṣāmapyeṣa samānaḥ svapakṣe doṣaḥ / pradhānavādino 'pi hi niravayavamaparicchinnaṃ śabdādihīnaṃ pradhānaṃ sāvavasya paricchinnasya śabdādimataḥ kāryasya kāraṇamiti svapakṣaḥ / tatrāpi kṛtsnaprasaktirniravayavatvātpradhānasya prāpnoti niravayavatvābhyupagamakopo vā / nanu naiva tairniravayavaṃ pradhānamabhyupagamyate, sattvarajastamāṃsi trayo guṇā nityāsteṣāṃ sāmyāvasthā pradhāne tairevāvayavaistatsāvayavamiti / naivañjātīyakena sāvayavatvena prakṛto doṣaḥ parihartuṃ pāryate / yataḥ sattvarajastamasāmapyekaikasya samānaṃ niravayavatvam / ekaikameva cetaradvayānugṛhītaṃ sajātīyasya prapañcasyopādānamiti samānatvātsvapakṣadoṣaprasaṅgasya / tarkapratiṣṭhānātsāvayavatvameveti cet / evavamapyanityatvādidoṣaprasaṅgaḥ / atha śaktaya eva kāryavaicitryasūcitā avayavā ityabhiprāyaḥ / tāstu brahmavādino 'pyavaśiṣṭāḥ / tathāṇuvādino 'pyaṇuraṇvantareṇa saṃyujyamāno niravayavatvādyadi kārtsyena saṃyujyeta tataḥ prathimānupapatteraṇumātratvaprasaṅgaḥ / athaikadeśena saṃyujyeta tathāpi niravayavatvābhyupagamakopa iti svapakṣe 'pi samāna eṣa doṣaḥ / samānatvācca nānyanyatarasminneva pakṣa upakṣeptavyo bhavati / parihṛtastu brahmavādinā svapakṣe doṣaḥ // 29 // ---------------------- FN: vaiśeṣikāṇāṃ hyaṇubhyāṃ saṃyujya hyaṇukamekamārabhyate, taistribhirhyaṇukaistryaṇukamekamārabhyata iti prakriyā / 10 sarvopetādhikaraṇam / sū. 30-31

Sanskrit only: no published translation is held for this verse.

सर्वोपेता च तद्दर्शनात् एकस्यापि ब्रह्मणो विचित्रशक्तियोगादुपपद्यते विचित्रो विकारप्रपञ्च इत्युक्तम् । तत्पुनः कथमवगम्यते परं ब्रह्मेति । तदुच्यते । सर्वोपेता च तद्दर्शनात् । सर्वशक्तियुक्ता च परा देवतेत्यभ्युपगन्तव्यम् । कुतः । तद्दर्शनात् । यथाहि दर्शयति श्रुतिः सर्वशक्तियोगं परस्या देवतायाः - ऽसर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तो ऽवाक्यनादरःऽ (छा। ३।१४।४), ऽसत्यकामः सत्यसंकल्पःऽ (छा। ८।७।१), ऽयः सर्वज्ञः सर्ववित्ऽ (मुण्ड। १।१।९), ऽएतस्य वा अक्षरस्य प्रशासने गार्गिसूर्याचन्द्रमसौ विधृतौ तिष्ठतःऽ (बृ। ३।८।९) इत्येवञ्जातीयका ॥ ३० ॥ ---------------------- फ़्न्: अभ्यात्तः अभितोव्याप्तः । अवाकी वागिन्द्रियशून्यः । अनादरो निष्कामः ।

sarvopetā ca taddarśanāt ekasyāpi brahmaṇo vicitraśaktiyogādupapadyate vicitro vikāraprapañca ityuktam / tatpunaḥ kathamavagamyate paraṃ brahmeti / taducyate / sarvopetā ca taddarśanāt / sarvaśaktiyuktā ca parā devatetyabhyupagantavyam / kutaḥ / taddarśanāt / yathāhi darśayati śrutiḥ sarvaśaktiyogaṃ parasyā devatāyāḥ - 'sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvamidamabhyātto 'vākyanādaraḥ' (chā. 3.14.4), 'satyakāmaḥ satyasaṃkalpaḥ' (chā. 8.7.1), 'yaḥ sarvajñaḥ sarvavit' (muṇḍa. 1.1.9), 'etasya vā akṣarasya praśāsane gārgisūryācandramasau vidhṛtau tiṣṭhataḥ' (bṛ. 3.8.9) ityevañjātīyakā // 30 // ---------------------- FN: abhyāttaḥ abhitovyāptaḥ / avākī vāgindriyaśūnyaḥ / anādaro niṣkāmaḥ /

Sanskrit only: no published translation is held for this verse.

विकरणत्वान् नेति चेत् तद् उक्तम् स्यादेतत् विकरणां परां देवतां शास्ति शास्त्रम्- ऽअचक्षुष्कमश्रोत्रमवागमनाःऽ (बृ।३।८।८) इत्येवञ्जातीयकम् । कथं सा सर्वशक्तियुक्तापि सती कार्याय प्रभवेत् । देवादयो हि चेतनाः सर्वशक्तियुक्ता अपि सन्त आध्यत्मिककार्यकरणसंपन्ना एव तस्मैतस्मै कार्याय प्रभवन्तो विज्ञायन्ते । कथञ्च ऽनेति नेतिऽ (बृ। ३।९।२३) इति प्रतिषिद्धसर्वविशेषाया देवतायाः सर्वशक्तियोगः संभवेदिति चेत् । यदत्र वक्तव्यं तत्पुरस्तादेवोक्तम् । श्रत्यवगाह्यमेवेदमतिगम्भीरं ब्रह्म न तर्कावगाह्यम् । नच यथैकस्य सामर्थ्यं दृष्टं तथान्यस्यापि सामर्थ्येन भवितव्यमिति नियमो ऽस्तीति । प्रतिषिद्धसर्वविशेषस्यापि ब्रह्मणः सर्वशक्तियोगः संभवतीत्येतदप्यविद्याकल्पितरूपभेदोपन्यासेनोक्तमेव । तथाच शास्त्रम्- ऽअपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णःऽ (श्वं। ३।१९) इत्यकरणस्यापि ब्रह्मणः सर्वसामर्थ्ययोगं दर्शयति ॥ ३१ ॥ ११ प्रयोजनवत्त्वाधिकरणम्। सू। ३२-३३

vikaraṇatvān neti cet tad uktam syādetat vikaraṇāṃ parāṃ devatāṃ śāsti śāstram- 'acakṣuṣkamaśrotramavāgamanāḥ' (bṛ.3.8.8) ityevañjātīyakam / kathaṃ sā sarvaśaktiyuktāpi satī kāryāya prabhavet / devādayo hi cetanāḥ sarvaśaktiyuktā api santa ādhyatmikakāryakaraṇasaṃpannā eva tasmaitasmai kāryāya prabhavanto vijñāyante / kathañca 'neti neti' (bṛ. 3.9.23) iti pratiṣiddhasarvaviśeṣāyā devatāyāḥ sarvaśaktiyogaḥ saṃbhavediti cet / yadatra vaktavyaṃ tatpurastādevoktam / śratyavagāhyamevedamatigambhīraṃ brahma na tarkāvagāhyam / naca yathaikasya sāmarthyaṃ dṛṣṭaṃ tathānyasyāpi sāmarthyena bhavitavyamiti niyamo 'stīti / pratiṣiddhasarvaviśeṣasyāpi brahmaṇaḥ sarvaśaktiyogaḥ saṃbhavatītyetadapyavidyākalpitarūpabhedopanyāsenoktameva / tathāca śāstram- 'apāṇipādo javano grahītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ' (śvaṃ. 3.19) ityakaraṇasyāpi brahmaṇaḥ sarvasāmarthyayogaṃ darśayati // 31 // 11 prayojanavattvādhikaraṇam. sū. 32-33

Sanskrit only: no published translation is held for this verse.

न प्रयोजनवत्त्वात् अन्यथा पुनश्चेतनकर्तृत्वं जगत आक्षिपति । न खलु चेतनः परमात्मेदं जगद्बिम्बं विरचयितुमर्हति । कुतः । प्रयोजनवत्त्वात्प्रवृत्तीनाम् । चेतनो हि लोके बुद्धिपूर्वकारी पुरुषः प्रवर्तमानो न मन्दोपक्रमामपि तावत्प्रवृत्तिमात्मप्रयोजनानुपयोगिनामारभमाणो दृष्टः । किमुत गुरुतरसंरम्भाम् । भवति च लोकप्रसिद्ध्यनुवादिनी श्रुतिः- ऽन वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवतिऽ (बृ। २।४।५) इति गुरुतरसंरम्भा चेयं प्रवृत्तिर्यदुच्चावचप्रपञ्चं जगद्बिम्बं विरचयितव्यम् । यदीयमपि प्रवृत्तिश्चेतनस्य परमात्मन आत्मप्रयोजनोपयोगिनी परिकल्प्येत परितृप्तित्वं परमात्मनः श्रूयमाणं बाध्येत । प्रयोजनाभावे वा प्रवृत्त्यभावो ऽपि स्यात् । अथ चेतनो ऽपि सन्नुन्मत्तो बुद्ध्यपराधादन्तरेणैवात्मप्रयोजनं प्रवर्तमानो दृष्टस्तथा परमात्मापि प्रवर्तिष्यत इत्युच्येत । तथा सति सर्वज्ञत्वं परमात्मनः श्रूयमाणं बाध्येत । तस्मादश्लिष्टा चेतनात्सृष्टिरिति ॥ ३२ ॥ ---------------------- फ़्न्: बुद्ध्यपराधो विवेकाभावः ।

na prayojanavattvāt anyathā punaścetanakartṛtvaṃ jagata ākṣipati / na khalu cetanaḥ paramātmedaṃ jagadbimbaṃ viracayitumarhati / kutaḥ / prayojanavattvātpravṛttīnām / cetano hi loke buddhipūrvakārī puruṣaḥ pravartamāno na mandopakramāmapi tāvatpravṛttimātmaprayojanānupayogināmārabhamāṇo dṛṣṭaḥ / kimuta gurutarasaṃrambhām / bhavati ca lokaprasiddhyanuvādinī śrutiḥ- 'na vā are sarvasya kāmāya sarvaṃ priyaṃ bhavatyātmanastu kāmāya sarvaṃ priyaṃ bhavati' (bṛ. 2.4.5) iti gurutarasaṃrambhā ceyaṃ pravṛttiryaduccāvacaprapañcaṃ jagadbimbaṃ viracayitavyam / yadīyamapi pravṛttiścetanasya paramātmana ātmaprayojanopayoginī parikalpyeta paritṛptitvaṃ paramātmanaḥ śrūyamāṇaṃ bādhyeta / prayojanābhāve vā pravṛttyabhāvo 'pi syāt / atha cetano 'pi sannunmatto buddhyaparādhādantareṇaivātmaprayojanaṃ pravartamāno dṛṣṭastathā paramātmāpi pravartiṣyata ityucyeta / tathā sati sarvajñatvaṃ paramātmanaḥ śrūyamāṇaṃ bādhyeta / tasmādaśliṣṭā cetanātsṛṣṭiriti // 32 // ---------------------- FN: buddhyaparādho vivekābhāvaḥ /

Sanskrit only: no published translation is held for this verse.

लोकवत् तु लीलाकैवल्यम् तुशब्देनाक्षेपं परिहरति । यथा लोके कस्यचिदाप्तैषणस्य वा व्यतिरिक्तं किञ्चित्प्रयोजनमभिसंधाय केवलं लीलारूपाः प्रवृत्तयः क्रीडाविहारेषु भवन्ति, यथा चोच्छ्वासप्रश्वासादयो ऽनभिसंधाय बाह्यं किञ्चित्प्रयोजनं स्वभावादेव संभवन्ति एवमीश्वरस्याप्यनपेक्ष्य किञ्चित्प्रयोजनान्तरं स्वभावादेव केवलं लीलारूपा प्रवृत्तिर्भविष्यति । न हीश्वरस्य प्रयोजनान्तरं निरूप्यमाणं न्यायतः श्रुतितो वा संभवति । नच स्वभावः पर्यनुयोक्तुं शक्यते । यद्यप्यस्माकमियं जगद्बिम्बविरचना गुरुतरसंरम्भेवाभाति तथापि परमेश्वरस्य लीलैव केवलेयं, अपरिमितशक्तित्वात् । यदि नाम लोके लीलास्वपि किञ्चित्सूक्ष्मं प्रयोजनमुत्प्रेक्ष्येत तथापि नैवात्र किञ्चित्प्रयोजनमुत्प्रेक्षितुं शक्यते, आप्तकामश्रुतेः । नाप्यप्रवृत्तिरुन्मत्तप्रवृत्तिर्वा, सृष्टिश्रुतेः, सर्वज्ञश्रुतेश्च । नचेयं परमार्थविषया सृष्टिश्रुतिः अविद्याकल्पितनामरूपव्यवहारगोचरत्वात्, ब्रह्मात्मभावप्रतिपादनपरत्वाच्चेत्येतदपि नैव विस्मर्तव्यम् ॥ ३३ ॥ ---------------------- फ़्न्: व्यतिरिक्तं लीलायाः सकाशादिति यावत् । सृष्टिश्रुतेरप्रवृत्तिर्नास्ति, सर्वज्ञत्वश्रुतेरुन्मत्तता नास्तीति विभागः । वैषम्यनैर्घृण्याधिकरणम् । सू। ३४-३६

lokavat tu līlākaivalyam tuśabdenākṣepaṃ pariharati / yathā loke kasyacidāptaiṣaṇasya vā vyatiriktaṃ kiñcitprayojanamabhisaṃdhāya kevalaṃ līlārūpāḥ pravṛttayaḥ krīḍāvihāreṣu bhavanti, yathā cocchvāsapraśvāsādayo 'nabhisaṃdhāya bāhyaṃ kiñcitprayojanaṃ svabhāvādeva saṃbhavanti evamīśvarasyāpyanapekṣya kiñcitprayojanāntaraṃ svabhāvādeva kevalaṃ līlārūpā pravṛttirbhaviṣyati / na hīśvarasya prayojanāntaraṃ nirūpyamāṇaṃ nyāyataḥ śrutito vā saṃbhavati / naca svabhāvaḥ paryanuyoktuṃ śakyate / yadyapyasmākamiyaṃ jagadbimbaviracanā gurutarasaṃrambhevābhāti tathāpi parameśvarasya līlaiva kevaleyaṃ, aparimitaśaktitvāt / yadi nāma loke līlāsvapi kiñcitsūkṣmaṃ prayojanamutprekṣyeta tathāpi naivātra kiñcitprayojanamutprekṣituṃ śakyate, āptakāmaśruteḥ / nāpyapravṛttirunmattapravṛttirvā, sṛṣṭiśruteḥ, sarvajñaśruteśca / naceyaṃ paramārthaviṣayā sṛṣṭiśrutiḥ avidyākalpitanāmarūpavyavahāragocaratvāt, brahmātmabhāvapratipādanaparatvāccetyetadapi naiva vismartavyam // 33 // ---------------------- FN: vyatiriktaṃ līlāyāḥ sakāśāditi yāvat / sṛṣṭiśruterapravṛttirnāsti, sarvajñatvaśruterunmattatā nāstīti vibhāgaḥ / vaiṣamyanairghṛṇyādhikaraṇam / sū. 34-36

Sanskrit only: no published translation is held for this verse.

वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति पुनश्च जगज्जन्मादिहेतुत्वमीश्वरस्याक्षिप्यते स्थूणानिखननन्यायेन प्रतिज्ञातस्यार्थस्य दृढीकरणाय । नेश्वरो जगतः कारणमुपपद्यते । कुतः । वैषम्यनैर्घृण्यप्रसङ्गात् । कांश्चिदत्यन्तसुखभाजः करोति देवादीन्, कांश्चिदत्यन्तदुःखभाजः पश्वादीन्, कांश्चिन्मध्यमभोगभाजो मनुष्यादीनीत्येवं विषमां सृष्टिं निर्मिमाणस्यैश्वरस्य पृथग्जनस्येव रागद्वेषोपपत्तेः । श्रुतिस्मृत्यवधारितस्वच्छत्वादीश्वरस्वभावविलोपः प्रसज्येत । तथा खलजनैरपि जुगुप्सितं निर्घृणत्वमतिक्रूरत्वं दुःखयोगविधानात्सर्वप्रजोपसंहाराच्च प्रसज्येत । तस्माद्वैषम्यनैर्घृण्यप्रसङ्गान्नेश्वरः कारणमित्येवं प्राप्ते ब्रूमः - वैषम्यनैर्घृण्ये नेश्वरस्य प्रसज्येते । कस्मात् । सापेक्षत्वात् । यदि हि निरपेक्षः केवल ईश्वरो विषमां सृष्टिं निर्मिमीते स्यातामेतौ दोषौ वैषम्यं नैर्घृण्यं च । नतु निरपेक्षस्य निर्मातृत्वमस्ति । सापेक्षो हीश्वरो विषमां सृष्टिं निर्मिमीते । किमपेक्षत इति चेत् । धर्माधर्मावपेक्षत इति वदामः । अतः सृज्यमानप्राणिधर्माधर्मापेक्षा विषमा सृष्टिरिति नायमीश्लवरस्यापराधः । ईश्वरस्तु पर्जन्यवद्द्रष्टव्यः । यथाहि पर्जन्यो व्रीहियवादिसृष्टौ साधारणं कारणं भवति, व्रीहियवादिवैषम्ये तु तत्तद्बीजगतान्येवासाधारणानि सामर्थ्यानि कारणानि भवन्ति, एवमीश्वरो देवमनुष्यादिसृष्टौ साधारणं कारणं क्षवति । देवमनुष्यादिवैषम्ये तु तत्तज्जीवगतान्येवासाधारणानि कर्माणि कारणानि भवन्त्येवमीश्वरः सापेक्षत्वान्न वैषम्यनैर्घृण्याभ्यां दुष्यति । कथं पुनरवगम्यते सापेक्ष ईश्वरो नीचमध्यमोत्तमं संसारं निर्मिमीत इति । तथाहि दर्शयति श्रुतिः - ऽएष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष उ एवासाधु कर्म कारयति तं यमधो निनीषतेऽ (कौब्रा। ३।८) इति । ऽपुण्यो वै पुण्येन कर्मणा भवति पापः पापेनऽ (बृ। ३।२।१३) इति च । स्मृतिरपि प्राणिकर्मविशेषापेक्षमेवेश्वरस्यानुग्रहीतत्वं च दर्शयति- ऽये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्ऽ (भगी। ४।११) इत्येवञ्जातीयका ॥ ३४ ॥ ---------------------- फ़्न्: पृथग्जनः पामरः । यं जनुमुन्निनीषते ऊर्ध्वं नेतुमिच्छति तं साधु कारयत्येष ईश्वर इत्यन्वयः ।

vaiṣamyanairghṛṇye na sāpekṣatvāt tathā hi darśayati punaśca jagajjanmādihetutvamīśvarasyākṣipyate sthūṇānikhanananyāyena pratijñātasyārthasya dṛḍhīkaraṇāya / neśvaro jagataḥ kāraṇamupapadyate / kutaḥ / vaiṣamyanairghṛṇyaprasaṅgāt / kāṃścidatyantasukhabhājaḥ karoti devādīn, kāṃścidatyantaduḥkhabhājaḥ paśvādīn, kāṃścinmadhyamabhogabhājo manuṣyādīnītyevaṃ viṣamāṃ sṛṣṭiṃ nirmimāṇasyaiśvarasya pṛthagjanasyeva rāgadveṣopapatteḥ / śrutismṛtyavadhāritasvacchatvādīśvarasvabhāvavilopaḥ prasajyeta / tathā khalajanairapi jugupsitaṃ nirghṛṇatvamatikrūratvaṃ duḥkhayogavidhānātsarvaprajopasaṃhārācca prasajyeta / tasmādvaiṣamyanairghṛṇyaprasaṅgānneśvaraḥ kāraṇamityevaṃ prāpte brūmaḥ - vaiṣamyanairghṛṇye neśvarasya prasajyete / kasmāt / sāpekṣatvāt / yadi hi nirapekṣaḥ kevala īśvaro viṣamāṃ sṛṣṭiṃ nirmimīte syātāmetau doṣau vaiṣamyaṃ nairghṛṇyaṃ ca / natu nirapekṣasya nirmātṛtvamasti / sāpekṣo hīśvaro viṣamāṃ sṛṣṭiṃ nirmimīte / kimapekṣata iti cet / dharmādharmāvapekṣata iti vadāmaḥ / ataḥ sṛjyamānaprāṇidharmādharmāpekṣā viṣamā sṛṣṭiriti nāyamīślavarasyāparādhaḥ / īśvarastu parjanyavaddraṣṭavyaḥ / yathāhi parjanyo vrīhiyavādisṛṣṭau sādhāraṇaṃ kāraṇaṃ bhavati, vrīhiyavādivaiṣamye tu tattadbījagatānyevāsādhāraṇāni sāmarthyāni kāraṇāni bhavanti, evamīśvaro devamanuṣyādisṛṣṭau sādhāraṇaṃ kāraṇaṃ kṣavati / devamanuṣyādivaiṣamye tu tattajjīvagatānyevāsādhāraṇāni karmāṇi kāraṇāni bhavantyevamīśvaraḥ sāpekṣatvānna vaiṣamyanairghṛṇyābhyāṃ duṣyati / kathaṃ punaravagamyate sāpekṣa īśvaro nīcamadhyamottamaṃ saṃsāraṃ nirmimīta iti / tathāhi darśayati śrutiḥ - 'eṣa hyeva sādhu karma kārayati taṃ yamebhyo lokebhya unninīṣata eṣa u evāsādhu karma kārayati taṃ yamadho ninīṣate' (kau.brā. 3.8) iti / 'puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpena' (bṛ. 3.2.13) iti ca / smṛtirapi prāṇikarmaviśeṣāpekṣameveśvarasyānugrahītatvaṃ ca darśayati- 'ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham' (bha.gī. 4.11) ityevañjātīyakā // 34 // ---------------------- FN: pṛthagjanaḥ pāmaraḥ / yaṃ janumunninīṣate ūrdhvaṃ netumicchati taṃ sādhu kārayatyeṣa īśvara ityanvayaḥ /

Sanskrit only: no published translation is held for this verse.

न कर्माविभागाद् इति चेन् नानादित्वाद् ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ (छा। ६।२।१) इति प्राक्सृष्टेरविभागावधारणान्नास्ति कर्म यदपेक्ष्य विषमा सृष्टिः स्यात् । सृष्ट्युत्तरकालं हि शरीरादिविभागापेक्षं कर्म, कर्मापेक्षश्च शरीरादिविभाग इतीतरेतराश्रयत्वं प्रसज्येत । अतो विभागादूर्ध्वं कर्मापेक्ष ईश्वरः प्रवर्ततां नाम । प्राग्विभागाद्वैचित्र्यनिमित्तस्य कर्मणो ऽभावात्तुल्यैवाद्या सृष्टिः प्राप्नोतीति चेत् । नैष दोषः । अनादित्वात्संसारस्य । भवेदेष दोषो यद्यादिमान्संसारः स्यात् । अनादौ तु संसारे बीजाङ् कुरवद्धेतुमद्भावेन कर्मणः सर्गवैषम्यस्य च प्रवृत्तिर्न विरुध्यते ॥ ३५ ॥ कथं पुनरवगम्यते ऽनादिरेष संसार इति । अत उत्तरं पठति -

na karmāvibhāgād iti cen nānāditvād 'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) iti prāksṛṣṭeravibhāgāvadhāraṇānnāsti karma yadapekṣya viṣamā sṛṣṭiḥ syāt / sṛṣṭyuttarakālaṃ hi śarīrādivibhāgāpekṣaṃ karma, karmāpekṣaśca śarīrādivibhāga itītaretarāśrayatvaṃ prasajyeta / ato vibhāgādūrdhvaṃ karmāpekṣa īśvaraḥ pravartatāṃ nāma / prāgvibhāgādvaicitryanimittasya karmaṇo 'bhāvāttulyaivādyā sṛṣṭiḥ prāpnotīti cet / naiṣa doṣaḥ / anāditvātsaṃsārasya / bhavedeṣa doṣo yadyādimānsaṃsāraḥ syāt / anādau tu saṃsāre bījāṅ kuravaddhetumadbhāvena karmaṇaḥ sargavaiṣamyasya ca pravṛttirna virudhyate // 35 // kathaṃ punaravagamyate 'nādireṣa saṃsāra iti / ata uttaraṃ paṭhati -

Sanskrit only: no published translation is held for this verse.

उपपद्यते चाप्य् उपलभ्यते च उपपद्यते च संसारस्यानादित्वम् । आदिमत्त्वे हि संसारस्याकस्मादुद्भूतेर्मुक्तानामपि पुनः संसारोद्भूतिप्रसङ्गः, अकृताभ्यागमप्रसङ्गश्च, सुखदुःखादिवैषम्यस्य निर्निमित्तत्वात् । नचेश्वरो वैषम्यहेतुरित्युक्तम् । नचाविद्या केवला वैषम्यस्य कारणं, एकरूपत्वात् । रागादिक्लेशवासनाक्षिप्तकर्मापेक्षा त्वविद्या वैषम्यकरी स्यात् । नच कर्मान्तरेण शरीरं संभवति, नच शरीरमन्तरेण कर्म संभवतीतीतरेतराश्रयत्वप्रसङ्गः । अनादित्वे तु बीजाङ् कुरन्यायेनोपपत्तेर्न कश्चिद्दोषो भवति । उपलभ्यते च संसारस्यानादित्वं श्रुतिस्मृत्योः । श्रुतौ तावत् ऽअनेन जीवेनात्मनाऽ (छा। ६।३।२) इति सर्गप्रमुखे शारीरमात्मानं जीवशब्देन प्राणधारणनिमित्तेनाभिलपन्ननादिः संसार इति दर्शयति । आदिमत्त्वे तु प्रागनवधारितप्राणः सन् कथं प्राणादधारणनिमित्तेन जीवशब्देन सर्गप्रमुखे ऽभिलप्येत । नच धारयिष्यतीत्यतो ऽभिलप्येत । अनागताद्धि संन्धादतीतः संबन्धो बलवान्भवति, अभिनिष्पन्नत्वात् । ऽसूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्ऽ (ऋसं १०।१९०।३) इति च मन्त्रवर्णः पूर्वकल्पसद्भावं दर्शयति । स्मृतावप्यनादित्वं संसारस्योपलभ्यते- ऽन रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठाऽ (गी। १५।३) इति । पुराणे चातीतानागतानां च कल्पनां न परिमाणमस्तीति स्थापितम् ॥ ३६ ॥

upapadyate cāpy upalabhyate ca upapadyate ca saṃsārasyānāditvam / ādimattve hi saṃsārasyākasmādudbhūtermuktānāmapi punaḥ saṃsārodbhūtiprasaṅgaḥ, akṛtābhyāgamaprasaṅgaśca, sukhaduḥkhādivaiṣamyasya nirnimittatvāt / naceśvaro vaiṣamyaheturityuktam / nacāvidyā kevalā vaiṣamyasya kāraṇaṃ, ekarūpatvāt / rāgādikleśavāsanākṣiptakarmāpekṣā tvavidyā vaiṣamyakarī syāt / naca karmāntareṇa śarīraṃ saṃbhavati, naca śarīramantareṇa karma saṃbhavatītītaretarāśrayatvaprasaṅgaḥ / anāditve tu bījāṅ kuranyāyenopapatterna kaściddoṣo bhavati / upalabhyate ca saṃsārasyānāditvaṃ śrutismṛtyoḥ / śrutau tāvat 'anena jīvenātmanā' (chā. 6.3.2) iti sargapramukhe śārīramātmānaṃ jīvaśabdena prāṇadhāraṇanimittenābhilapannanādiḥ saṃsāra iti darśayati / ādimattve tu prāganavadhāritaprāṇaḥ san kathaṃ prāṇādadhāraṇanimittena jīvaśabdena sargapramukhe 'bhilapyeta / naca dhārayiṣyatītyato 'bhilapyeta / anāgatāddhi saṃndhādatītaḥ saṃbandho balavānbhavati, abhiniṣpannatvāt / 'sūryācandramasau dhātā yathāpūrvamakalpayat' (ṛ.saṃ 10.190.3) iti ca mantravarṇaḥ pūrvakalpasadbhāvaṃ darśayati / smṛtāvapyanāditvaṃ saṃsārasyopalabhyate- 'na rūpamasyeha tathopalabhyate nānto na cādirna ca saṃpratiṣṭhā' (gī. 15.3) iti / purāṇe cātītānāgatānāṃ ca kalpanāṃ na parimāṇamastīti sthāpitam // 36 //

Sanskrit only: no published translation is held for this verse.

सर्वधर्मोपपत्तेश् च चेतनं ब्रह्म जगतः कारणं प्रकृतिश्चेत्यस्मिन्नवधारिते वेदार्थे परैरुपक्षिप्तान्विलक्षणत्वादीन्दोषान्पर्यहार्षीदाचार्यः । इदानीं परपक्षप्रतिषेधप्रधानं प्रकरणं प्रारिप्समाणः स्वपक्षपरिग्रहप्रधानं प्रकरणमुपसंहरति । यस्मादस्मिन्ब्रह्मणि कारणे परिगृह्यमाणे प्रदर्शितेन प्रकारेण सर्वे कारणधर्मा उपपद्यन्ते ऽसर्वज्ञं सर्वशक्ति महामायं च ब्रह्मऽ इति, तस्मादनतिशङ्कनीयमिदमौपनिषदं दर्शनमिति ॥ ३७ ॥ इति श्रीगोविन्दभगवत्पूज्यपादशिष्यशङ्करभगवत्पूज्यपादकृतौ शारीरकमीमांसाभाष्ये द्वितीयाध्यायस्य प्रथमः पादः समाप्तः ॥ १ ॥ ____________________________________________________________________________________________ ____________________________________________________________________________________________

sarvadharmopapatteś ca cetanaṃ brahma jagataḥ kāraṇaṃ prakṛtiścetyasminnavadhārite vedārthe parairupakṣiptānvilakṣaṇatvādīndoṣānparyahārṣīdācāryaḥ / idānīṃ parapakṣapratiṣedhapradhānaṃ prakaraṇaṃ prāripsamāṇaḥ svapakṣaparigrahapradhānaṃ prakaraṇamupasaṃharati / yasmādasminbrahmaṇi kāraṇe parigṛhyamāṇe pradarśitena prakāreṇa sarve kāraṇadharmā upapadyante 'sarvajñaṃ sarvaśakti mahāmāyaṃ ca brahma' iti, tasmādanatiśaṅkanīyamidamaupaniṣadaṃ darśanamiti // 37 // iti śrīgovindabhagavatpūjyapādaśiṣyaśaṅkarabhagavatpūjyapādakṛtau śārīrakamīmāṃsābhāṣye dvitīyādhyāyasya prathamaḥ pādaḥ samāptaḥ // 1 // ____________________________________________________________________________________________ ____________________________________________________________________________________________

Sanskrit only: no published translation is held for this verse.