Library·Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya·2·2.1·2.1.18

Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya 2.1.18

BSBh 2.1.18

युक्तेः शब्दान्तराच् च युक्तेश्च प्रागुत्पत्तेः कार्यस्य सत्त्वमनन्यत्वं च कारणादवगम्यते, शब्दान्तराच्च । युक्तिस्तावद्वर्ण्यते- दधिघटरुचकाद्यर्थिभिः प्रतिनियतानि कारणानि क्षीरमृत्तिकासुवर्णादीन्युपादीयमानानि लोके दृश्यन्ते । नहि दध्यर्थिभिर्मृत्तिकोपादीयते न घटार्थिभिः क्षीरं तदसत्कार्यवादे नोपपद्येत । अविशिष्टे हि प्रागुत्पत्तेः सर्वस्य सर्वत्रासत्वे कस्मात्क्षीरादेव दध्युत्पद्यते न मृत्तिकायाः मृत्तिकाया एव च घट उत्पद्यते न क्षीरात् । अथाविशिष्टे ऽपि प्रागसत्त्वे क्षीर एव दध्नः कश्चिदतिशयो न मृत्तिकायां, मृत्तिकायामेव च घटस्य कश्चिदतिशयो न क्षीर इत्युच्येत, तर्ह्यतिशयवत्त्वात्प्रागवस्थाया असत्कार्यवादहानिः सत्कार्यवादसिद्धिश्च । शक्तिश्च कारणस्य कार्यनियमार्था कल्पमाना नान्यासती वा कार्यं नियच्छेत् । असत्त्वाविशेषादन्यत्वाविशेषाच्च । तस्मात्कारणस्यात्मभूता शक्तिः शक्तेश्चात्मभूतं कार्यम् । अपिच कार्यकारणयोर्द्रव्यगुणादीनां चाश्वमहिषवद्भेदबुद्ध्यभावात्तादात्म्यमभ्युपगन्तव्यम् । समवायकल्पनायामपि समवायस्य समवायिभिः संबन्धे ऽभ्युपगम्यमाने तस्य तस्यान्योन्यः संबन्धः कल्पयितव्य इत्यनवस्थाप्रसङ्गः । अनभ्युपगम्यमाने च विच्छेदप्रसङ्गः । अथ समवायः स्वयं संबन्धरूपत्वादनपेक्ष्यैवापरं संबन्धं संबध्यते, संयोगो ऽपि तर्हि स्वयं संबन्धरूपत्वादनपेक्ष्यैव समवायं संबध्येत । तादात्म्यप्रतीतेश्च द्रव्यगुणादीनां समवायकल्पनानर्थक्यम् । कथं च कार्यमवयविद्रव्यं कारणेष्ववयवद्रव्येषु वर्तमानं वर्तते । किं समस्तेष्ववयवेषु वर्तेतोत प्रत्यवयवम् । यदि तावत्समस्तेषु वर्तेत ततो ऽवयव्यनुपलब्धिः प्रसज्येत, समस्तावयवसमनिकर्षस्याशक्यत्वात् । नहि बहुत्वं समस्तेष्वाश्रयेषु वर्तमानं व्यस्ताश्रयग्रहणेन गृह्यते । अथावयवशः समस्तेषु वर्तेत तदाप्यरम्भकावयवव्यतिरेकेणावयविनो ऽवयवाः कल्प्येरन् यैरारम्भकेष्ववयवेष्ववयवशो ऽवयवी वर्तेत कोशावयवव्यतिरिक्तैर्ह्यवयवैरसिः कोशं व्याप्नोति । अनवस्था चैवं प्रसज्येत । तेषु तेष्वयवयवेषु वर्तयितुमन्येषामवयवानां कल्पनीयत्वात् । अथ प्रत्यवयवं वर्तेत तदैकत्र व्यापारे।ऽन्यत्राव्यापारः स्यात् । नहि देवदत्तः स्नुघ्ने संनिधीयमानस्तदहरेव पाटलिपुत्रे ऽपि संनिधीयेत । युगपदनेकत्र वृत्तावनेकत्वप्रसङ्गः स्यात् । देवदत्तयज्ञदत्तयोरिव स्रुघ्नापाटलिपुत्रनिवासिनोः । गोत्वादिवत्प्रत्येकं परिसमाप्तेर्न दोष इति चेत् । न । तथा प्रतीत्यभावात् । यदि गोत्वादिवत्प्रत्येकं परिसमाप्तो ऽवयवी स्याद्यथा गोत्वं प्रतिव्यक्ति प्रत्यक्षं गृह्यत एवमवयव्यपि प्रत्यवयवं प्रत्यक्षं गृह्येत । नचैवं नियतं गृह्यते । प्रत्येकपरिसमाप्तौ चावयविनः कार्येणाधिकारात्तस्य चैकत्वाच्छृङ्गेणापि स्तनकार्यं कुर्यादुरसा च पृष्ठकार्यम् । नचैवं दृश्यते । प्रागुत्पत्तेश्च कार्यस्यासत्त्व उत्पत्तिरकर्तृका निरात्मिका च स्यात् । उत्पचत्तिश्च नाम क्रिया, सा सकर्तृकैव भवितुमर्हति गत्यादिवत् । क्रिया च नाम स्यादकर्तृका चेति विप्रतिषिध्येत । घटस्य चेत्पत्तिरुच्यमाना न घटकर्तृका किं तरिह्यन्यकर्तृकेति कल्प्या स्यात् । तथा कपालादीनामप्युत्पत्तिरुच्यमानान्यकर्तृकैव कल्प्येत । तथाच सति घट उत्पद्यत इत्युक्ते कुलालादीनामप्युत्पद्यमानता प्रतीयते । उत्पन्नताप्रतीतेश्च । अथ स्वकारणसत्तासंबन्ध एवोत्पत्तिरात्मलाभश्च कार्यस्येति चेत्, कथमलब्धात्मकं संबध्येतेति वक्तव्यम् । सतोर्हि द्वयोः संबन्धः संभवति न सदसतोरसतोर्वा । अभावस्य च निरुपाख्यत्वात्प्रागुत्पत्तेरिति मर्यादाकरणमनुपपन्नम् । सतां हि लोके क्षेत्रगृहादीनां मर्यादा दृष्टा नाभावस्य । नहि वन्ध्यापुत्रो राजा बभूव प्राक्पूर्णवर्मणो ऽभिषेकादित्येवञ्जातीयकेन मर्यादाकारणेन निरुपाख्यो वन्ध्यापुत्रो राजा बभूव प्राक्पूर्णवर्मणो ऽभिषेकादित्येवञ्जातीयकेन मर्यादाकरणेन निरुपाख्यो वन्ध्यपुत्रो राजा बभूव भवति भविष्यतीति वा विशेष्यते । यदि च वन्द्यापुत्रो ऽपि कारकव्यापारादूर्ध्वमभविष्यत्तत इदमप्युपात्स्यत कार्याभावो ऽपि कारकव्यापारादूर्ध्वं भविष्यतीति । वयं तु पश्यामो वन्द्यापुत्रस्य कार्याभावस्य चाभावत्वाविशेषाद्यथा वन्ध्यापुत्रः कारकव्यापारादूर्ध्वं न भविष्यत्येवं कार्याभावो ऽपि कारकव्यापारादूर्ध्वं न भविष्यतीति । नन्वेवं सति कारकव्यापारो ऽनर्थकः प्रसज्येत । यथैव हि प्राक्सिद्धत्वात्कारणस्वरूपसिद्धये न कश्चिद्व्याप्रियते । एवं प्राक्सिद्धत्वात्तदनन्यत्वाच्च कार्यस्य स्वरूपसिद्धये ऽपि न कश्चिद्व्याप्रियेत । व्याप्रियते च । अतः कारकव्यापारार्थवत्त्वाय मन्यामहे प्रागुत्पत्तेरभाव । कार्यस्येति । नैष दोषः । यतः कार्याकारेण कारणं व्यवस्तापयतः कारकव्यापारस्यार्थवत्त्वमपपद्यते । कार्याकारो ऽपि कारणस्यात्मभूत एवानात्मभूतस्यानारभ्यत्वादित्यभाणि । नच विशेषदर्शनमात्रेण वस्त्वन्यत्वं भवति । नहि देवदत्तः संकोचितहस्तपादः प्रसारितहस्तपादश्च विशेषण दृश्यमानो ऽपि वस्त्वन्यत्वं गच्छति, स एवेति प्रत्यभिज्ञानात् । तथा प्रतिदिनमनेकसंस्थानानामपि पित्रादीनां न वस्त्वन्यत्वं भवति, मम पिता मम भ्राता मम पुत्र इति प्रत्यभिज्ञानात् । जन्मोच्छेदानन्तरितत्वात्तत्र युक्तं नान्यत्रेति चेत् । न । क्षीरादीनामपि दध्याद्याकारसंस्थानस्य प्रत्यक्षत्वात् । अदृश्यमानानामपि वटधानादीनां समानजातीयावयवान्तरोपचितानामङ् कुरादिभावेन दर्शनगोचरतापत्तौ जन्मसंज्ञा । तेषामेवायवानामपचयवशाददर्शनापत्तावुच्छेदसंज्ञा । तत्रेदृग्जन्मोच्छेदान्तरितत्वाच्चेदसतः सत्त्वपत्तिस्तथा सति गर्भवासिन उत्तानशायिनश्च भेदप्रसङ्गः । तथाच बाल्ययौवनस्थाविरेष्वपि भेदप्रसङ्गः, पित्रादिव्यवहारलोपप्रसङ्गश्च । एतेन क्षणभङ्गवादः प्रतिवदितव्यः । यस्यपुनः प्रागुत्पत्तेरसत्कार्यं तस्य निर्विषयः कारकव्यापारः स्यात् । अभावस्य विषयत्वानुपपत्तेराकाशहननप्रयोजनखड्गाद्यनेकायुधप्रयुक्तिवत् । समवायिकारणविषयः कारकव्यापारः स्यादिति चेत् । न । अन्यविषयेण कारकव्यापारेणान्यनिष्पत्तेरतिप्रसङ्गात् । समवायिकारणस्यैवात्मातिशयः कार्यमिति चेत् । न । सत्कार्यतापत्तेः । तस्मात्क्षीरादीन्येव द्रव्याणि दध्यादिभावेनावतिष्ठमानानि कार्याख्यां लभन्त इति न कारणादन्यत्कार्यं वर्षशतेनापि शक्यं निश्चेतुम् । तथा मूलकारणमेवान्त्यात्कार्यात्तेन तेन कार्याकारेण नटवत्सर्वव्यवहारास्पदत्वं प्रतिपद्यते । एवं युक्तेः कार्यस्य प्रागुत्पत्तेः सत्त्वमनन्यत्वं च कारणादवगम्यते । शब्दान्तराच्चैतदवगम्यते । पूर्वसूत्रे ऽसद्व्यपदेशिनः शब्दस्योदाहृतत्वात्ततो ऽन्यः सद्व्यपदेशी शब्दः शब्दान्तरम्- ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ इत्यादि । ऽतद्धैक आहुरसदेवेदमग्र आसीत्ऽ इति चासत्पक्षमुपक्षिप्य ऽकथमसतः सज्जायेतऽ इत्याक्षिप्य ऽसदेव सोम्येदमग्र आसीत्ऽ (छा। ६।२।१) इत्यवधारयति । तत्रेदंशब्दवाच्यस्य कार्यस्य प्रागुत्पत्तेः सच्छब्दवाच्येन कारणेन सामानाधिकरण्यस्य श्रूयमाणत्वात्सत्त्वानन्यत्वे प्रसिद्ध्यतः । यदि तु प्रागुत्पत्तेरसत्कार्यं स्यात्पश्चाच्चोत्पद्यमानं कारणे समवेयात्तदान्यकारणात्स्यात् । तत्र ऽयेनाश्रुतं श्रुतं भवतिऽ (छा। ६।१।३) इतीयं प्रतिज्ञा पीड्येत । सत्त्वानन्यत्वावगतेस्त्वियं प्रतिज्ञा समर्थ्यते ॥ १८ ॥ ---------------------- फ़्न्: अतिशयः कार्यधर्मः कारणधर्मो वा । कार्याभावो ऽसत्कार्यमित्यर्थः उपापत्स्यत उपपन्नमभविष्यदित्यन्वयः । वस्त्वन्तरत्वं परमार्थतो भिन्नत्वम् । एतेन कारणस्य सर्वकार्येष्वन्वयकथनेन । विवर्तवादं व्यक्तीकर्तुं नटवदित्युदाहरणम् ।

yukteḥ śabdāntarāc ca yukteśca prāgutpatteḥ kāryasya sattvamananyatvaṃ ca kāraṇādavagamyate, śabdāntarācca / yuktistāvadvarṇyate- dadhighaṭarucakādyarthibhiḥ pratiniyatāni kāraṇāni kṣīramṛttikāsuvarṇādīnyupādīyamānāni loke dṛśyante / nahi dadhyarthibhirmṛttikopādīyate na ghaṭārthibhiḥ kṣīraṃ tadasatkāryavāde nopapadyeta / aviśiṣṭe hi prāgutpatteḥ sarvasya sarvatrāsatve kasmātkṣīrādeva dadhyutpadyate na mṛttikāyāḥ mṛttikāyā eva ca ghaṭa utpadyate na kṣīrāt / athāviśiṣṭe 'pi prāgasattve kṣīra eva dadhnaḥ kaścidatiśayo na mṛttikāyāṃ, mṛttikāyāmeva ca ghaṭasya kaścidatiśayo na kṣīra ityucyeta, tarhyatiśayavattvātprāgavasthāyā asatkāryavādahāniḥ satkāryavādasiddhiśca / śaktiśca kāraṇasya kāryaniyamārthā kalpamānā nānyāsatī vā kāryaṃ niyacchet / asattvāviśeṣādanyatvāviśeṣācca / tasmātkāraṇasyātmabhūtā śaktiḥ śakteścātmabhūtaṃ kāryam / apica kāryakāraṇayordravyaguṇādīnāṃ cāśvamahiṣavadbhedabuddhyabhāvāttādātmyamabhyupagantavyam / samavāyakalpanāyāmapi samavāyasya samavāyibhiḥ saṃbandhe 'bhyupagamyamāne tasya tasyānyonyaḥ saṃbandhaḥ kalpayitavya ityanavasthāprasaṅgaḥ / anabhyupagamyamāne ca vicchedaprasaṅgaḥ / atha samavāyaḥ svayaṃ saṃbandharūpatvādanapekṣyaivāparaṃ saṃbandhaṃ saṃbadhyate, saṃyogo 'pi tarhi svayaṃ saṃbandharūpatvādanapekṣyaiva samavāyaṃ saṃbadhyeta / tādātmyapratīteśca dravyaguṇādīnāṃ samavāyakalpanānarthakyam / kathaṃ ca kāryamavayavidravyaṃ kāraṇeṣvavayavadravyeṣu vartamānaṃ vartate / kiṃ samasteṣvavayaveṣu vartetota pratyavayavam / yadi tāvatsamasteṣu varteta tato 'vayavyanupalabdhiḥ prasajyeta, samastāvayavasamanikarṣasyāśakyatvāt / nahi bahutvaṃ samasteṣvāśrayeṣu vartamānaṃ vyastāśrayagrahaṇena gṛhyate / athāvayavaśaḥ samasteṣu varteta tadāpyarambhakāvayavavyatirekeṇāvayavino 'vayavāḥ kalpyeran yairārambhakeṣvavayaveṣvavayavaśo 'vayavī varteta kośāvayavavyatiriktairhyavayavairasiḥ kośaṃ vyāpnoti / anavasthā caivaṃ prasajyeta / teṣu teṣvayavayaveṣu vartayitumanyeṣāmavayavānāṃ kalpanīyatvāt / atha pratyavayavaṃ varteta tadaikatra vyāpāre.'nyatrāvyāpāraḥ syāt / nahi devadattaḥ snughne saṃnidhīyamānastadahareva pāṭaliputre 'pi saṃnidhīyeta / yugapadanekatra vṛttāvanekatvaprasaṅgaḥ syāt / devadattayajñadattayoriva srughnāpāṭaliputranivāsinoḥ / gotvādivatpratyekaṃ parisamāpterna doṣa iti cet / na / tathā pratītyabhāvāt / yadi gotvādivatpratyekaṃ parisamāpto 'vayavī syādyathā gotvaṃ prativyakti pratyakṣaṃ gṛhyata evamavayavyapi pratyavayavaṃ pratyakṣaṃ gṛhyeta / nacaivaṃ niyataṃ gṛhyate / pratyekaparisamāptau cāvayavinaḥ kāryeṇādhikārāttasya caikatvācchṛṅgeṇāpi stanakāryaṃ kuryādurasā ca pṛṣṭhakāryam / nacaivaṃ dṛśyate / prāgutpatteśca kāryasyāsattva utpattirakartṛkā nirātmikā ca syāt / utpacattiśca nāma kriyā, sā sakartṛkaiva bhavitumarhati gatyādivat / kriyā ca nāma syādakartṛkā ceti vipratiṣidhyeta / ghaṭasya cetpattirucyamānā na ghaṭakartṛkā kiṃ tarihyanyakartṛketi kalpyā syāt / tathā kapālādīnāmapyutpattirucyamānānyakartṛkaiva kalpyeta / tathāca sati ghaṭa utpadyata ityukte kulālādīnāmapyutpadyamānatā pratīyate / utpannatāpratīteśca / atha svakāraṇasattāsaṃbandha evotpattirātmalābhaśca kāryasyeti cet, kathamalabdhātmakaṃ saṃbadhyeteti vaktavyam / satorhi dvayoḥ saṃbandhaḥ saṃbhavati na sadasatorasatorvā / abhāvasya ca nirupākhyatvātprāgutpatteriti maryādākaraṇamanupapannam / satāṃ hi loke kṣetragṛhādīnāṃ maryādā dṛṣṭā nābhāvasya / nahi vandhyāputro rājā babhūva prākpūrṇavarmaṇo 'bhiṣekādityevañjātīyakena maryādākāraṇena nirupākhyo vandhyāputro rājā babhūva prākpūrṇavarmaṇo 'bhiṣekādityevañjātīyakena maryādākaraṇena nirupākhyo vandhyaputro rājā babhūva bhavati bhaviṣyatīti vā viśeṣyate / yadi ca vandyāputro 'pi kārakavyāpārādūrdhvamabhaviṣyattata idamapyupātsyata kāryābhāvo 'pi kārakavyāpārādūrdhvaṃ bhaviṣyatīti / vayaṃ tu paśyāmo vandyāputrasya kāryābhāvasya cābhāvatvāviśeṣādyathā vandhyāputraḥ kārakavyāpārādūrdhvaṃ na bhaviṣyatyevaṃ kāryābhāvo 'pi kārakavyāpārādūrdhvaṃ na bhaviṣyatīti / nanvevaṃ sati kārakavyāpāro 'narthakaḥ prasajyeta / yathaiva hi prāksiddhatvātkāraṇasvarūpasiddhaye na kaścidvyāpriyate / evaṃ prāksiddhatvāttadananyatvācca kāryasya svarūpasiddhaye 'pi na kaścidvyāpriyeta / vyāpriyate ca / ataḥ kārakavyāpārārthavattvāya manyāmahe prāgutpatterabhāva / kāryasyeti / naiṣa doṣaḥ / yataḥ kāryākāreṇa kāraṇaṃ vyavastāpayataḥ kārakavyāpārasyārthavattvamapapadyate / kāryākāro 'pi kāraṇasyātmabhūta evānātmabhūtasyānārabhyatvādityabhāṇi / naca viśeṣadarśanamātreṇa vastvanyatvaṃ bhavati / nahi devadattaḥ saṃkocitahastapādaḥ prasāritahastapādaśca viśeṣaṇa dṛśyamāno 'pi vastvanyatvaṃ gacchati, sa eveti pratyabhijñānāt / tathā pratidinamanekasaṃsthānānāmapi pitrādīnāṃ na vastvanyatvaṃ bhavati, mama pitā mama bhrātā mama putra iti pratyabhijñānāt / janmocchedānantaritatvāttatra yuktaṃ nānyatreti cet / na / kṣīrādīnāmapi dadhyādyākārasaṃsthānasya pratyakṣatvāt / adṛśyamānānāmapi vaṭadhānādīnāṃ samānajātīyāvayavāntaropacitānāmaṅ kurādibhāvena darśanagocaratāpattau janmasaṃjñā / teṣāmevāyavānāmapacayavaśādadarśanāpattāvucchedasaṃjñā / tatredṛgjanmocchedāntaritatvāccedasataḥ sattvapattistathā sati garbhavāsina uttānaśāyinaśca bhedaprasaṅgaḥ / tathāca bālyayauvanasthāvireṣvapi bhedaprasaṅgaḥ, pitrādivyavahāralopaprasaṅgaśca / etena kṣaṇabhaṅgavādaḥ prativaditavyaḥ / yasyapunaḥ prāgutpatterasatkāryaṃ tasya nirviṣayaḥ kārakavyāpāraḥ syāt / abhāvasya viṣayatvānupapatterākāśahananaprayojanakhaḍgādyanekāyudhaprayuktivat / samavāyikāraṇaviṣayaḥ kārakavyāpāraḥ syāditi cet / na / anyaviṣayeṇa kārakavyāpāreṇānyaniṣpatteratiprasaṅgāt / samavāyikāraṇasyaivātmātiśayaḥ kāryamiti cet / na / satkāryatāpatteḥ / tasmātkṣīrādīnyeva dravyāṇi dadhyādibhāvenāvatiṣṭhamānāni kāryākhyāṃ labhanta iti na kāraṇādanyatkāryaṃ varṣaśatenāpi śakyaṃ niścetum / tathā mūlakāraṇamevāntyātkāryāttena tena kāryākāreṇa naṭavatsarvavyavahārāspadatvaṃ pratipadyate / evaṃ yukteḥ kāryasya prāgutpatteḥ sattvamananyatvaṃ ca kāraṇādavagamyate / śabdāntarāccaitadavagamyate / pūrvasūtre 'sadvyapadeśinaḥ śabdasyodāhṛtatvāttato 'nyaḥ sadvyapadeśī śabdaḥ śabdāntaram- 'sadeva somyedamagra āsīdekamevādvitīyam' ityādi / 'taddhaika āhurasadevedamagra āsīt' iti cāsatpakṣamupakṣipya 'kathamasataḥ sajjāyeta' ityākṣipya 'sadeva somyedamagra āsīt' (chā. 6.2.1) ityavadhārayati / tatredaṃśabdavācyasya kāryasya prāgutpatteḥ sacchabdavācyena kāraṇena sāmānādhikaraṇyasya śrūyamāṇatvātsattvānanyatve prasiddhyataḥ / yadi tu prāgutpatterasatkāryaṃ syātpaścāccotpadyamānaṃ kāraṇe samaveyāttadānyakāraṇātsyāt / tatra 'yenāśrutaṃ śrutaṃ bhavati' (chā. 6.1.3) itīyaṃ pratijñā pīḍyeta / sattvānanyatvāvagatestviyaṃ pratijñā samarthyate // 18 // ---------------------- FN: atiśayaḥ kāryadharmaḥ kāraṇadharmo vā / kāryābhāvo 'satkāryamityarthaḥ upāpatsyata upapannamabhaviṣyadityanvayaḥ / vastvantaratvaṃ paramārthato bhinnatvam / etena kāraṇasya sarvakāryeṣvanvayakathanena / vivartavādaṃ vyaktīkartuṃ naṭavadityudāharaṇam /

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/BSBh/2.1.18

Cite as: Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya 2.1.18, in HREEM (hreem.cc/library/BSBh/2.1.18), after GRETIL …, Each unit is one sūtra followed by Śaṅkara's commentary on it; ref = adhyāya.pāda.sūtra..

Edition, numbering and licence

GRETIL 6_sastra/3_phil/vedanta/brssbh1u.htm … brssbh4u.htm — Each unit is one sūtra followed by Śaṅkara's commentary on it; ref = adhyāya.pāda.sūtra.

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text