एतेन योगः प्रत्युक्तः एतेन सांख्यस्मृतिप्रत्याख्यानेन योगस्मृतिरपि प्रत्याख्याता द्रष्टव्येत्यतिदिशति । तत्रापि श्रुतिविरोधेन प्रधानं स्वतन्त्रमेव कारणं, महदादीनि च कार्याण्यलोकवेदप्रसिद्धानि कल्प्यन्ते । नन्वेवं सति समानन्यायत्वात्पूर्वेणैवैतद्गतं किमर्थं पुनरतिदिश्यते । अस्ति ह्यत्राभ्यधिकाशङ्का । सम्यग्दर्शनाभ्युपायो हि योगो वेदे विहितः ऽश्रोतव्यो मन्तव्यो निदिध्यासितव्यःऽ (बृ। २।४।५) इति । ऽत्र्युन्नतं स्थाप्य समं शरीरम्ऽ (श्वे। २।८) इत्यादिना चासनादिकल्पनापुरःसरं बहुप्रपञ्चं योगविधानं श्वेताश्वतरोपनिषदि दृश्यते । लिङ्गानि च वैदिकानि योगविषयाणि सहस्रश उपलभ्यन्ते ऽतां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्ऽ (का। २।६।१८) इति ऽविद्यामेतां योगविधिं च कृत्स्नम् (का। २।६।१८) इति चैवमादीनि । योगशास्त्रे ऽपि ऽअथ तत्त्वदर्शनोपायो योगःऽ इति सम्यग्दर्शनाभ्युपायत्वेनैव योगोङ्गीक्रियते । अतः संप्रतिपन्नार्थैकदेशत्वादष्टकादिस्मृतिवद्योगस्मृतिरप्यनपवदनीया भविष्यतीति । इयमप्यधिका शङ्कातिदेशेन निवर्त्यते । अर्थैकदेशसंप्रतिपत्तावप्यर्थैकदेशविप्रतिपत्तेः पूर्वोक्ताया दर्शनात् । सतीष्वप्यध्यात्मविषयासु बह्वीषु स्मृतिषु सांख्ययोगस्मृत्योरेव निराकरणे यत्नः कृतः । सांख्ययोगौ हि परमपुरुषार्थसाधनत्वेन लोके प्रख्यातौ, शिष्टैश्च परिगृहीतौ, लिङ्गेन न श्रौतेनोपबृंहितौ । ऽतत्कारणं सांख्ययोगाभिपन्नं ज्ञात्वा देवं मुच्यते सर्वपाशैःऽ (श्वं। ६।१३) इति । निराकरणं तु न सांख्यज्ञानेन वेदनिरपेक्षेण योगमार्गेण वा निःश्रेयसमधिगम्यत इति । श्रुतिर्हि वैदिकादात्मैकत्वविज्ञानादन्यन्निःश्रेयससाधनं वारयति ऽतमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यते ऽयनायऽ (श्वं। ३।८) इति । द्वैतिनो हि ते सांख्या योगाश्च नात्मैकत्वदर्शिनः । यत्तु दर्शनमुक्तं ऽतत्कारणं सांख्ययोगाभिपन्नम्ऽ इति, वैदिकमेव तत्र ज्ञानं ध्यानं च सांख्ययोगशब्दाभ्यामभिलप्यते प्रत्यासत्तेरित्यवगन्तव्यम् । येन त्वंशेन न विरुध्येते तेनेष्टमेव सांख्ययोगस्मृत्योः सावकाशत्वम् । तद्यथा- ऽअसङ्गो ह्ययं पुरुषःऽ (बृ। ४।३।१६) इत्येवमादिश्रुतिप्रसिद्धमेव पुरुषस्य विशुद्धत्वं निर्गुणपुरुषनिरूपणेन सांख्यैरभ्युपगम्यते । तथाच योगैरपि ऽअथ परिव्राड्विवर्णवासा मुण्डो ऽपरिग्रहःऽ (जाबा। ५) इत्येवमादि श्रुतिप्रसिद्धमेव निवृत्तिनिष्ठत्वं प्रव्रज्याद्युपदेशेनानुगम्यते । एतेन सर्वाणि तर्कस्मरणानि प्रतिवक्तव्यानि । तान्यपि तर्कोपपत्तिभ्यां तत्त्वज्ञानायोपकुर्वन्तीति चेदुपकुर्वन्तु नाम । तत्त्वज्ञानं तु वेदान्तवाक्येभ्य एव भवति ऽनावेदविन्मनुते तं बृहन्तम्ऽ (तै। ब्रा। ३।१२।९।७) ऽतं त्वौपनिषदं पुरुषं पृच्छामिऽ (बृ। ३।९।२३) इत्येवमादिश्रुतिभ्यः ॥ ३ ॥ ---------------------- फ़्न्: त्रीणि उरोग्रीवशिरांस्युन्नतानि यस्मिञ्शरीरे तत्त्र्युन्नतम् । तर्को ऽनुमानमनुग्राह्यं मानम् । उपपत्तिरनुग्राहिका युक्तिरिति भेदः । विलक्षणत्वाधिकरणम् । सू। ४-१२
etena yogaḥ pratyuktaḥ etena sāṃkhyasmṛtipratyākhyānena yogasmṛtirapi pratyākhyātā draṣṭavyetyatidiśati / tatrāpi śrutivirodhena pradhānaṃ svatantrameva kāraṇaṃ, mahadādīni ca kāryāṇyalokavedaprasiddhāni kalpyante / nanvevaṃ sati samānanyāyatvātpūrveṇaivaitadgataṃ kimarthaṃ punaratidiśyate / asti hyatrābhyadhikāśaṅkā / samyagdarśanābhyupāyo hi yogo vede vihitaḥ 'śrotavyo mantavyo nididhyāsitavyaḥ' (bṛ. 2.4.5) iti / 'tryunnataṃ sthāpya samaṃ śarīram' (śve. 2.8) ityādinā cāsanādikalpanāpuraḥsaraṃ bahuprapañcaṃ yogavidhānaṃ śvetāśvataropaniṣadi dṛśyate / liṅgāni ca vaidikāni yogaviṣayāṇi sahasraśa upalabhyante 'tāṃ yogamiti manyante sthirāmindriyadhāraṇām' (kā. 2.6.18) iti 'vidyāmetāṃ yogavidhiṃ ca kṛtsnam (kā. 2.6.18) iti caivamādīni / yogaśāstre 'pi 'atha tattvadarśanopāyo yogaḥ' iti samyagdarśanābhyupāyatvenaiva yogoṅgīkriyate / ataḥ saṃpratipannārthaikadeśatvādaṣṭakādismṛtivadyogasmṛtirapyanapavadanīyā bhaviṣyatīti / iyamapyadhikā śaṅkātideśena nivartyate / arthaikadeśasaṃpratipattāvapyarthaikadeśavipratipatteḥ pūrvoktāyā darśanāt / satīṣvapyadhyātmaviṣayāsu bahvīṣu smṛtiṣu sāṃkhyayogasmṛtyoreva nirākaraṇe yatnaḥ kṛtaḥ / sāṃkhyayogau hi paramapuruṣārthasādhanatvena loke prakhyātau, śiṣṭaiśca parigṛhītau, liṅgena na śrautenopabṛṃhitau / 'tatkāraṇaṃ sāṃkhyayogābhipannaṃ jñātvā devaṃ mucyate sarvapāśaiḥ' (śvaṃ. 6.13) iti / nirākaraṇaṃ tu na sāṃkhyajñānena vedanirapekṣeṇa yogamārgeṇa vā niḥśreyasamadhigamyata iti / śrutirhi vaidikādātmaikatvavijñānādanyanniḥśreyasasādhanaṃ vārayati 'tameva viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya' (śvaṃ. 3.8) iti / dvaitino hi te sāṃkhyā yogāśca nātmaikatvadarśinaḥ / yattu darśanamuktaṃ 'tatkāraṇaṃ sāṃkhyayogābhipannam' iti, vaidikameva tatra jñānaṃ dhyānaṃ ca sāṃkhyayogaśabdābhyāmabhilapyate pratyāsatterityavagantavyam / yena tvaṃśena na virudhyete teneṣṭameva sāṃkhyayogasmṛtyoḥ sāvakāśatvam / tadyathā- 'asaṅgo hyayaṃ puruṣaḥ' (bṛ. 4.3.16) ityevamādiśrutiprasiddhameva puruṣasya viśuddhatvaṃ nirguṇapuruṣanirūpaṇena sāṃkhyairabhyupagamyate / tathāca yogairapi 'atha parivrāḍvivarṇavāsā muṇḍo 'parigrahaḥ' (jābā. 5) ityevamādi śrutiprasiddhameva nivṛttiniṣṭhatvaṃ pravrajyādyupadeśenānugamyate / etena sarvāṇi tarkasmaraṇāni prativaktavyāni / tānyapi tarkopapattibhyāṃ tattvajñānāyopakurvantīti cedupakurvantu nāma / tattvajñānaṃ tu vedāntavākyebhya eva bhavati 'nāvedavinmanute taṃ bṛhantam' (tai. brā. 3.12.9.7) 'taṃ tvaupaniṣadaṃ puruṣaṃ pṛcchāmi' (bṛ. 3.9.23) ityevamādiśrutibhyaḥ // 3 // ---------------------- FN: trīṇi urogrīvaśirāṃsyunnatāni yasmiñśarīre tattryunnatam / tarko 'numānamanugrāhyaṃ mānam / upapattiranugrāhikā yuktiriti bhedaḥ / vilakṣaṇatvādhikaraṇam / sū. 4-12
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.