पयो ऽम्बुवच् चेत् तत्रापि स्यादेतत् । यथा क्षीरमचेतनं स्वभावेनैव वत्सविवृद्ध्यर्थं प्रवर्तते, यथाच जलमचेतनं स्वभावेनैव लोकोपकाराय स्यन्दत एवं प्रधानमचेतनं स्वभावेनैव पुरुषार्थसिद्धये प्रवर्तिष्यत इति । नैतत्साधूच्यते । यतस्तत्रापि पयोम्बुनोश्चेतनाधिष्ठितयोरेव प्रवृत्तिरित्यनुमिमीमहे । उभयवादिप्रसिद्धे रथादवचेतने केवले प्रवृत्त्यदर्शनात् । शास्त्रं च ऽयो ऽप्सु तिष्ठन् यो ऽपो ऽन्तरो यमयतिऽ (बृ। ३।७।४), ऽएतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योन्या नद्यः स्यन्दन्तेऽ (बृ। ३।८।९) इत्येवञ्जातीयकं समस्तस्य लोकपरिस्पन्दितस्येश्वराधिष्ठिततां श्रावयति । तस्मात्साध्यपक्षनिक्षिप्तत्वात्पयोम्बुवदित्यनुपन्यासः । चेतनायाश्च धेन्वाः स्नेहेच्छया पयसः प्रवर्तकत्वोपपत्तेः । वत्सचोषणेन च पयस आकृष्यमाणत्वात् । नचाम्बुनो ऽप्यत्यन्तमनपेक्षा, निम्नभूम्याद्यपेक्षत्वात्स्यन्दनस्य । चेतनापेक्षत्वं तु सर्वत्रोपदर्शितम् । ऽउपसंहारदर्शनान्नेति चेन्न क्षीरवद्धिऽ (ब्रसू। २।१।२४) इत्यत्र तु बाह्यनिमित्तनिरपेक्षमपि स्वाश्रयं कार्यं भवतीत्येतल्लोकदृष्ट्या निदर्शितम् । शास्त्रदृष्ट्या तु पुनः सर्वत्रैवेश्वरापेक्षत्वमापद्यमानं न पराणुद्यते ॥ ३ ॥ ---------------------- फ़्न्: साध्यवत्ता पक्षेण तुल्यत्वात् । अनुपन्यासः न विचारभूमिः ।
payo 'mbuvac cet tatrāpi syādetat / yathā kṣīramacetanaṃ svabhāvenaiva vatsavivṛddhyarthaṃ pravartate, yathāca jalamacetanaṃ svabhāvenaiva lokopakārāya syandata evaṃ pradhānamacetanaṃ svabhāvenaiva puruṣārthasiddhaye pravartiṣyata iti / naitatsādhūcyate / yatastatrāpi payombunoścetanādhiṣṭhitayoreva pravṛttirityanumimīmahe / ubhayavādiprasiddhe rathādavacetane kevale pravṛttyadarśanāt / śāstraṃ ca 'yo 'psu tiṣṭhan yo 'po 'ntaro yamayati' (bṛ. 3.7.4), 'etasya vā akṣarasya praśāsane gārgi prācyonyā nadyaḥ syandante' (bṛ. 3.8.9) ityevañjātīyakaṃ samastasya lokaparispanditasyeśvarādhiṣṭhitatāṃ śrāvayati / tasmātsādhyapakṣanikṣiptatvātpayombuvadityanupanyāsaḥ / cetanāyāśca dhenvāḥ snehecchayā payasaḥ pravartakatvopapatteḥ / vatsacoṣaṇena ca payasa ākṛṣyamāṇatvāt / nacāmbuno 'pyatyantamanapekṣā, nimnabhūmyādyapekṣatvātsyandanasya / cetanāpekṣatvaṃ tu sarvatropadarśitam / 'upasaṃhāradarśanānneti cenna kṣīravaddhi' (bra.sū. 2.1.24) ityatra tu bāhyanimittanirapekṣamapi svāśrayaṃ kāryaṃ bhavatītyetallokadṛṣṭyā nidarśitam / śāstradṛṣṭyā tu punaḥ sarvatraiveśvarāpekṣatvamāpadyamānaṃ na parāṇudyate // 3 // ---------------------- FN: sādhyavattā pakṣeṇa tulyatvāt / anupanyāsaḥ na vicārabhūmiḥ /
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.