अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गाद् इति चेन् नाविशेषात् भूतानामुत्पत्तिप्रलयावनुलोमप्रतिलोमक्रमाभ्यां भवत इत्युक्तम् । आत्मादिरुत्पत्तिः प्रलयश्चात्मान्त इत्यप्युक्तम् । सेन्द्रियस्य तु मनसो बुद्धेश्च सद्भावः प्रसिद्धः श्रुतिस्मृत्योः । ऽबुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च । इन्द्रियाणि हयानाहुःऽ (कठ। ३।३) इत्यादिलिङ्गेभ्यः । तयोरपि कस्मिश्चिदन्तराले क्रमेणोत्पत्तिप्रलयावुपसंग्राह्यौ, सर्वस्य वस्तुजातस्य ब्रह्मजत्वाभ्युपगमात् । अपिचाथर्वण उत्पत्तिप्रकरणे भूतानामात्मनश्चान्तराले करणान्यनुक्रम्यन्ते । ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणीऽ (मुणड। २।१।३) इति । तस्मात्पूर्वोक्तोत्पत्तिप्रलयक्रमभङ्गप्रसङ्गो भूतानामिति चेत् । न । अविशेषात् । यदि तावद्भौतिकानि करणानि ततो भूतोत्पत्तिप्रलयाभ्यामेवैषामुत्पत्तिप्रलयौ भवत इति नैतयोः क्रमान्तरं मृग्यम् । भवति च भौतिकत्वे लिङ्गं करणानाम् । ऽअन्नमयं हि सोम्य मन ओषधयः प्राणस्तेजोमयी वाक्ऽ (छा। ६।५।४) इत्येवजातीयकम् । व्यपदेशो ऽपि क्वचिद्भूतानां करणानां च ब्राह्मणपरिव्राजकन्यायेन नेतव्यः । अथ त्वभौतिकानि करणानि तथापि भूतोत्पत्तिक्रमो न करणैर्विशेष्यते प्रथमं करणान्युत्पद्यन्ते चरमं भूतानि प्रथमं वा भूतान्युत्पद्यन्ते चरमं वा करणानीति । आथर्वणे तु समाम्नायक्रममात्रं करणानां भूतानां च । न तत्रोत्पत्तिक्रम उच्यते । तथान्यत्रापि पृथगेव भूतक्रमात्करणक्रम आम्नायते- ऽप्रजापतिर्वा इदमग्र आसीत्स आत्मानमैक्षत स मनो ऽसृजत तन्मन एवासीत्तदात्मानमैक्षत तद्वाचमसृजतऽ इत्यादिना । तस्मान्नास्ति भूतोत्पत्तिक्रमस्य भङ्गः ॥ १५ ॥ ---------------------- फ़्न्: अन्यपराः शब्दा लिङ्गानीत्युच्यन्ते । इदं स्थूलमुत्पत्तेः प्राक् प्रजापतिः सूत्रात्मा आसीत् । १० चराचरव्यपाश्रयाधिकरणम् । सू। १६
antarā vijñānamanasī krameṇa talliṅgād iti cen nāviśeṣāt bhūtānāmutpattipralayāvanulomapratilomakramābhyāṃ bhavata ityuktam / ātmādirutpattiḥ pralayaścātmānta ityapyuktam / sendriyasya tu manaso buddheśca sadbhāvaḥ prasiddhaḥ śrutismṛtyoḥ / 'buddhiṃ tu sārathiṃ viddhi manaḥ pragrahameva ca / indriyāṇi hayānāhuḥ' (kaṭha. 3.3) ityādiliṅgebhyaḥ / tayorapi kasmiścidantarāle krameṇotpattipralayāvupasaṃgrāhyau, sarvasya vastujātasya brahmajatvābhyupagamāt / apicātharvaṇa utpattiprakaraṇe bhūtānāmātmanaścāntarāle karaṇānyanukramyante / 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca / khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī' (muṇaḍa. 2.1.3) iti / tasmātpūrvoktotpattipralayakramabhaṅgaprasaṅgo bhūtānāmiti cet / na / aviśeṣāt / yadi tāvadbhautikāni karaṇāni tato bhūtotpattipralayābhyāmevaiṣāmutpattipralayau bhavata iti naitayoḥ kramāntaraṃ mṛgyam / bhavati ca bhautikatve liṅgaṃ karaṇānām / 'annamayaṃ hi somya mana oṣadhayaḥ prāṇastejomayī vāk' (chā. 6.5.4) ityevajātīyakam / vyapadeśo 'pi kvacidbhūtānāṃ karaṇānāṃ ca brāhmaṇaparivrājakanyāyena netavyaḥ / atha tvabhautikāni karaṇāni tathāpi bhūtotpattikramo na karaṇairviśeṣyate prathamaṃ karaṇānyutpadyante caramaṃ bhūtāni prathamaṃ vā bhūtānyutpadyante caramaṃ vā karaṇānīti / ātharvaṇe tu samāmnāyakramamātraṃ karaṇānāṃ bhūtānāṃ ca / na tatrotpattikrama ucyate / tathānyatrāpi pṛthageva bhūtakramātkaraṇakrama āmnāyate- 'prajāpatirvā idamagra āsītsa ātmānamaikṣata sa mano 'sṛjata tanmana evāsīttadātmānamaikṣata tadvācamasṛjata' ityādinā / tasmānnāsti bhūtotpattikramasya bhaṅgaḥ // 15 // ---------------------- FN: anyaparāḥ śabdā liṅgānītyucyante / idaṃ sthūlamutpatteḥ prāk prajāpatiḥ sūtrātmā āsīt / 10 carācaravyapāśrayādhikaraṇam / sū. 16
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.