Library·Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya·2·2.3

Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya 2.3

न वियदश्रुतेः वेदान्तेषु तत्र तत्र भिन्नप्रस्थाना उत्पत्तिश्रुतय उपलभ्यन्ते । केचिदाकाशस्योत्पत्तिमामनन्ति, केचिन्न । तथा केचिद्वायोरुत्पत्तिमामनन्ति, केचिन्न । एवं जीवस्य प्राणानां च । एवमेव क्रमादिद्वारको ऽपि विप्रतिषेधः श्रुत्यन्तरेषूपलक्ष्यते । विप्रतिषेधाच्च परपक्षाणामनपेक्षितत्वं स्थापितं तद्वत्स्वपक्षस्यापि विप्रतिषेधादेवानपेक्षितत्वमाशङ्क्येतेत्यतः सर्ववेदान्तगतसृष्टिश्रुत्यर्थनिर्मलत्वाय परः पप्रञ्च आरभ्यते । तदर्थनिर्मलत्वे च फलं यथोक्ताशङ्कानिवृत्तिरेव । तत्र प्रथमं तावदाकाशमाश्रित्य चिन्त्यते किमस्याकाशस्योत्पत्तिरस्त्युत नास्तीति । तत्र तावत्प्रतिपद्यते- ऽन वियदश्रुतेःऽ इति । न खल्वाकाशमुत्पद्यते । कस्मात् । अश्रुतेः । नह्यस्योत्पत्तिप्रकरणे श्रवणमस्ति । छान्दोग्ये हि ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ (छा। ६।२।१) इति सच्छब्दवाच्यं ब्रह्म प्रकृत्य ऽतदैक्षतऽ, ऽतत्तेजो ऽसृजतऽ (छा। ६।२।३) इति च पञ्चानां महाभूतानां मध्यमं तेज आदिङ्कृत्वा त्रयाणां तेजोबन्नानामुत्पत्तिः श्राव्यते । श्रुतिश्च नः प्रमाणमतीन्द्रियार्थविज्ञानोत्पत्तौ । नचात्र श्रुतिरस्त्याकाशस्योत्पत्तिप्रतिपादिनी । तस्मान्नास्त्याकाशस्योत्पत्तिरिति ॥ १ ॥

na viyadaśruteḥ vedānteṣu tatra tatra bhinnaprasthānā utpattiśrutaya upalabhyante / kecidākāśasyotpattimāmananti, kecinna / tathā kecidvāyorutpattimāmananti, kecinna / evaṃ jīvasya prāṇānāṃ ca / evameva kramādidvārako 'pi vipratiṣedhaḥ śrutyantareṣūpalakṣyate / vipratiṣedhācca parapakṣāṇāmanapekṣitatvaṃ sthāpitaṃ tadvatsvapakṣasyāpi vipratiṣedhādevānapekṣitatvamāśaṅkyetetyataḥ sarvavedāntagatasṛṣṭiśrutyarthanirmalatvāya paraḥ paprañca ārabhyate / tadarthanirmalatve ca phalaṃ yathoktāśaṅkānivṛttireva / tatra prathamaṃ tāvadākāśamāśritya cintyate kimasyākāśasyotpattirastyuta nāstīti / tatra tāvatpratipadyate- 'na viyadaśruteḥ' iti / na khalvākāśamutpadyate / kasmāt / aśruteḥ / nahyasyotpattiprakaraṇe śravaṇamasti / chāndogye hi 'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) iti sacchabdavācyaṃ brahma prakṛtya 'tadaikṣata', 'tattejo 'sṛjata' (chā. 6.2.3) iti ca pañcānāṃ mahābhūtānāṃ madhyamaṃ teja ādiṅkṛtvā trayāṇāṃ tejobannānāmutpattiḥ śrāvyate / śrutiśca naḥ pramāṇamatīndriyārthavijñānotpattau / nacātra śrutirastyākāśasyotpattipratipādinī / tasmānnāstyākāśasyotpattiriti // 1 //

Sanskrit only: no published translation is held for this verse.

अस्ति तु तुशब्दः पक्षान्तरपरिग्रहे । मा नामाकाशस्य छान्दोग्ये भूदुत्पत्तिः, श्रुत्यन्तरे त्वस्ति । तैत्तिरीयका हि समामनन्ति- ऽसत्यं ज्ञानमन्तं ब्रह्मऽ इति प्रकृत्य ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै। २।१) इति । ततश्च श्रुत्योर्विप्रतिषेधः क्वचित्तेजःप्रमुखा सृष्टिः क्वचिदाकाशप्रमुखेति । नन्वेकवाक्यतानयोः श्रुत्योर्युक्ता । सत्यम् । सा युक्ता नतु सावगन्तुं शक्यते । कुतः । ऽतत्तेजो ऽसृजतऽ (छा। ६।२।३) इति सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयेन संबन्धानुपपत्तेः, ऽतत्तेजो ऽसृजतऽ, ऽतदाकाशमसृजतऽ इति । ननु सकृच्छ्रुतस्यापि कर्तुः कर्तव्यद्वयेन संबन्धो दृश्यते,यथा सूपं पक्त्वौदनं पचतीति, एवं तदाकाशं सृष्ट्वा तत्तेजो ऽसृजतीति योजयिष्यामि । नैवं युज्यते । प्रथमजत्वं हि छान्दोग्ये तेजसो ऽवगम्यते तैत्तिरीयके चाकाशस्य । नचोभयोः प्रथमजत्वं संभवति । एतेनेतरश्रुत्यक्षरविरोधो ऽपि व्याख्यातः । ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै। २।१) इत्यत्रापि तस्मादाकाशः संभूतस्तस्मात्तेजः संभूतमिति सकृच्छ्रुतस्यापादानस्य संभवनस्य च वियत्तेजोभ्यां युगपत्संबन्धानुपपत्तेः । ऽवायोरग्निःऽ (तै। २।१) इति च पृथगाम्नानात् ॥ २ ॥ अस्मिन्विप्रतिषेधे कश्चिदाह-

asti tu tuśabdaḥ pakṣāntaraparigrahe / mā nāmākāśasya chāndogye bhūdutpattiḥ, śrutyantare tvasti / taittirīyakā hi samāmananti- 'satyaṃ jñānamantaṃ brahma' iti prakṛtya 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) iti / tataśca śrutyorvipratiṣedhaḥ kvacittejaḥpramukhā sṛṣṭiḥ kvacidākāśapramukheti / nanvekavākyatānayoḥ śrutyoryuktā / satyam / sā yuktā natu sāvagantuṃ śakyate / kutaḥ / 'tattejo 'sṛjata' (chā. 6.2.3) iti sakṛcchrutasya sraṣṭuḥ sraṣṭavyadvayena saṃbandhānupapatteḥ, 'tattejo 'sṛjata', 'tadākāśamasṛjata' iti / nanu sakṛcchrutasyāpi kartuḥ kartavyadvayena saṃbandho dṛśyate,yathā sūpaṃ paktvaudanaṃ pacatīti, evaṃ tadākāśaṃ sṛṣṭvā tattejo 'sṛjatīti yojayiṣyāmi / naivaṃ yujyate / prathamajatvaṃ hi chāndogye tejaso 'vagamyate taittirīyake cākāśasya / nacobhayoḥ prathamajatvaṃ saṃbhavati / etenetaraśrutyakṣaravirodho 'pi vyākhyātaḥ / 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) ityatrāpi tasmādākāśaḥ saṃbhūtastasmāttejaḥ saṃbhūtamiti sakṛcchrutasyāpādānasya saṃbhavanasya ca viyattejobhyāṃ yugapatsaṃbandhānupapatteḥ / 'vāyoragniḥ' (tai. 2.1) iti ca pṛthagāmnānāt // 2 // asminvipratiṣedhe kaścidāha-

Sanskrit only: no published translation is held for this verse.

गौण्यसंभवात् नास्ति वियत उत्पत्तिरश्रुतेरेव । या त्वितरा वियदुत्पत्तिवादिनी श्रुतिरुदाहृता सा गौणी भवितुमर्हति । कस्मात् । असंभवात् । नह्याकाशस्योत्पत्तिः संभावयितुं शक्या श्रीमत्कणभुगभिप्रायानुसारिषु जीवत्सु । ते हि कारणसामाग्र्यसंभवादकाशस्योत्पत्तिं वारयन्ति । समवाय्यसमवायिनिमित्तकारणेभ्यो हि किल सर्वमुत्पद्यमानं समुत्पद्यते । द्रव्यस्य चैकजातीयकमनेकं च द्रव्यं समवायिकारणं भवति । नचाकाशस्यैकजातीयकमनेकं च द्रव्यमारम्भकमस्ति, यस्मिन्समवायिकारणे सत्यसमवायिकारणे च तत्संयोग आकाश उत्पद्येत । तदभावात्तु तदनुग्रहप्रवृत्तं निमित्तकारणं दूरापेतमेवाकाशस्य भवति । उत्पत्तिमतां च तेजःप्रभृतीनां पूर्वोत्तरकायोर्विशेषः संभाव्यते प्रागुत्पत्तेः प्रकाशादिकार्यं न बभूव पश्चाच्च भवतीति । आकाशस्य पुनर्न पूर्वोत्तरकालयोर्विशेषः संभावयितुं शक्यते । किं हि प्रागुत्पत्तेरनवकाशमसुषिरमच्छिद्रं बभूवेति शक्यते ऽध्यवसातुम् । पृथिव्यादिवैधर्म्याच्च विभुत्वादिलक्षणादाकाशस्याजत्वसिद्धिः । तस्माद्यथा लोक आकाशं कुर्वाकाशो जात इत्येवञ्जातीयको गौणः प्रयोगो भवति, यथाच घटाकाशः करकाकाशो गृहाकाश इत्येकस्याप्याकाशस्यैवञ्जातीयको भेदव्यपदेशो गौणो भवति, वेदे ऽपि ऽआरण्यानाकाशेष्वालभेरन्ऽ इति, एवमुत्पत्तिश्रुतिरपि गौणी द्रष्टव्या ॥ ३ ॥

gauṇyasaṃbhavāt nāsti viyata utpattiraśrutereva / yā tvitarā viyadutpattivādinī śrutirudāhṛtā sā gauṇī bhavitumarhati / kasmāt / asaṃbhavāt / nahyākāśasyotpattiḥ saṃbhāvayituṃ śakyā śrīmatkaṇabhugabhiprāyānusāriṣu jīvatsu / te hi kāraṇasāmāgryasaṃbhavādakāśasyotpattiṃ vārayanti / samavāyyasamavāyinimittakāraṇebhyo hi kila sarvamutpadyamānaṃ samutpadyate / dravyasya caikajātīyakamanekaṃ ca dravyaṃ samavāyikāraṇaṃ bhavati / nacākāśasyaikajātīyakamanekaṃ ca dravyamārambhakamasti, yasminsamavāyikāraṇe satyasamavāyikāraṇe ca tatsaṃyoga ākāśa utpadyeta / tadabhāvāttu tadanugrahapravṛttaṃ nimittakāraṇaṃ dūrāpetamevākāśasya bhavati / utpattimatāṃ ca tejaḥprabhṛtīnāṃ pūrvottarakāyorviśeṣaḥ saṃbhāvyate prāgutpatteḥ prakāśādikāryaṃ na babhūva paścācca bhavatīti / ākāśasya punarna pūrvottarakālayorviśeṣaḥ saṃbhāvayituṃ śakyate / kiṃ hi prāgutpatteranavakāśamasuṣiramacchidraṃ babhūveti śakyate 'dhyavasātum / pṛthivyādivaidharmyācca vibhutvādilakṣaṇādākāśasyājatvasiddhiḥ / tasmādyathā loka ākāśaṃ kurvākāśo jāta ityevañjātīyako gauṇaḥ prayogo bhavati, yathāca ghaṭākāśaḥ karakākāśo gṛhākāśa ityekasyāpyākāśasyaivañjātīyako bhedavyapadeśo gauṇo bhavati, vede 'pi 'āraṇyānākāśeṣvālabheran' iti, evamutpattiśrutirapi gauṇī draṣṭavyā // 3 //

Sanskrit only: no published translation is held for this verse.

शब्दाच्च शब्दः खल्वाकाशस्याजत्वं ख्यापयति । यत आह- ऽवायुश्चान्तरिक्षं चैतदमृतम्ऽ (बृ। २।३।३) इति । नह्यमृतस्योत्पत्तिरुपपद्यते । आकाशवत्सर्वगतश्च नित्यः इति चाकाशेन ब्रह्म सर्वगतत्वनित्यत्वाभ्यां धर्माभ्यामुपमिमान आकाशस्यापि तौ धर्मौ सूचयति । नच तादृशस्योत्पत्तिरुपपद्यते । ऽस यथानन्तो ऽयमाकाश एवमनन्त आत्मा वेदितव्यःऽ इति चोदाहरणम् । ऽआकाशशरीरं ब्रह्मऽ (तै। १।६।२), ऽआकाश आत्माऽ (तै। १।७।१) इति च । नह्याकाशस्योत्पत्तिमत्त्वे ब्रह्मणस्तेन विशेषेण संभवति नीलेनेवोत्पलस्य । तस्मान्नित्यमेवाकाशेन साधारणं ब्रह्मेति गम्यते ॥ ४ ॥

śabdācca śabdaḥ khalvākāśasyājatvaṃ khyāpayati / yata āha- 'vāyuścāntarikṣaṃ caitadamṛtam' (bṛ. 2.3.3) iti / nahyamṛtasyotpattirupapadyate / ākāśavatsarvagataśca nityaḥ iti cākāśena brahma sarvagatatvanityatvābhyāṃ dharmābhyāmupamimāna ākāśasyāpi tau dharmau sūcayati / naca tādṛśasyotpattirupapadyate / 'sa yathānanto 'yamākāśa evamananta ātmā veditavyaḥ' iti codāharaṇam / 'ākāśaśarīraṃ brahma' (tai. 1.6.2), 'ākāśa ātmā' (tai. 1.7.1) iti ca / nahyākāśasyotpattimattve brahmaṇastena viśeṣeṇa saṃbhavati nīlenevotpalasya / tasmānnityamevākāśena sādhāraṇaṃ brahmeti gamyate // 4 //

Sanskrit only: no published translation is held for this verse.

स्याच् चैकस्य ब्रह्मशब्दवत् इदं पदोत्तरं सूत्रम् । स्यादेतत् । कथं पुनरेकस्य संभूतशब्दस्य ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै। २।१) इत्यस्मिन्नधिकारे परेषु तेजःप्रभृतिष्वनुवर्तमानस्य मुख्यत्वं संभवत्याकाशे च गौणत्वमिति । अत उत्तरमुच्यते- स्याच्चैकस्यापि संभूतशब्दस्य विषयविशेषवशाद्गौणो मुख्यस्य प्रयोगो ब्रह्मशब्दवत् । यथैकस्यापि ब्रह्मशब्दस्य ऽतपसा ब्रह्म विजिज्ञासस्व, तपो ब्रह्मऽ (तै। ३।२) इत्यस्मिन्नधिकारे ऽन्नादिषु गौणः प्रयोग आनन्दे च मुख्यः । यथा च तपसि ब्रह्मविज्ञानसाधने ब्रह्मशब्दो भक्त्या प्रयुज्यते ऽञ्जसा तु विज्ञेये ब्रह्मणि तद्वत् । कथं पुनरनुत्पत्तौ नभसः ऽएकमेवाद्वितीयम्ऽ (छा। ६।२।१) इतीयं प्रतिज्ञा समर्थ्यते । ननु नभसा द्वितीयेन सद्वितीयं ब्रह्म प्राप्नोति । कथं च ब्रह्मणि विदिते सर्वं विदितं स्यादिति । तदुच्यते- एकमेवेति तावत्स्वकार्यापेक्षयोपपद्यते । यथा लोके कश्चित्कुम्भकारकुले पूर्वेद्युर्मृद्दण्डचक्रादीनि चोपलभ्यापरेद्युश्च नानाविधान्यमत्राणि प्रसारितान्युपलभ्य ब्रूयान्मृदेवैकाकिनी पूर्वेद्युरासीदिति स च तयावधारणया मृत्कार्यजातमेव पूर्वेद्युर्नासीदित्यभिप्रेयान्न दण्डचक्रादि, तद्वदद्वितीयश्रुतिरधिष्ठात्रान्तरं वारयति । यथा मृदो ऽमत्रप्रकृतेः कुम्भकारो ऽधिष्ठाता दृश्यते नैवं ब्रह्मणो जगत्प्रकृतेरन्यो ऽधिकृतास्तीति । नच नभसापि द्वितीयेन सद्वितीयं ब्रह्म प्रसज्यते । लक्षणान्यत्वनिमित्तं हि नानात्वम् । नच प्रागुत्पत्तेर्ब्रह्मनभसोर्लक्षणान्यत्वमस्ति क्षीरोदकयोरिव संसृष्ट्योर्व्यापित्वामूर्तत्वदिधर्मसामान्यात् । सर्गकाले तु ब्रह्म जगदुत्पादयितुं यतते स्तिमितमितरवत्तिष्टति । तेनान्यत्वमवसीयते । तथाच ऽआकाशशरीरं ब्रह्मऽ (तै। १।६।२) इत्यादिश्रुतिभ्यो ऽपि ब्रह्माकाशयोरभेदोपचारसिद्धिः । अत एव च ब्रह्मविज्ञानेन सर्वविज्ञानसिद्धिः । अपिच सर्वं कार्यमुत्पद्यमानमाकाशेनाव्यतिरिक्तदेशकालमेवोत्पद्यते, ब्रह्मणा चाव्यतिरिक्तदेशकालमेवाकाशं भवतीति, अतो ब्रह्मणा तत्कार्येण च विज्ञातेन सहविज्ञातमेवाकाशं भवति । यथा क्षीरपूर्णे घटे कतिचिदब्बिन्दवः प्रक्षिप्ताः सन्तः क्षीरग्रहणेनैव गृहीता भवन्ति, नहि क्षीरप्रहणादब्बिन्दवुग्रहणं परिशिष्यते, एवं ब्रह्मणा तत्कार्यैश्चाव्यतिरिक्तदेशकालत्वाद्गृहीतमेव ब्रह्मग्रहणेन नभो भवति । तस्माद्भाक्तं नभसः संभवश्रवणमिति ॥ ५ ॥ ---------------------- फ़्न्: अभेदोपचारो भक्तिः । कुलं गृहम् । अमत्राणि घटादीनि । एवं प्राप्त इदमाह -

syāc caikasya brahmaśabdavat idaṃ padottaraṃ sūtram / syādetat / kathaṃ punarekasya saṃbhūtaśabdasya 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) ityasminnadhikāre pareṣu tejaḥprabhṛtiṣvanuvartamānasya mukhyatvaṃ saṃbhavatyākāśe ca gauṇatvamiti / ata uttaramucyate- syāccaikasyāpi saṃbhūtaśabdasya viṣayaviśeṣavaśādgauṇo mukhyasya prayogo brahmaśabdavat / yathaikasyāpi brahmaśabdasya 'tapasā brahma vijijñāsasva, tapo brahma' (tai. 3.2) ityasminnadhikāre 'nnādiṣu gauṇaḥ prayoga ānande ca mukhyaḥ / yathā ca tapasi brahmavijñānasādhane brahmaśabdo bhaktyā prayujyate 'ñjasā tu vijñeye brahmaṇi tadvat / kathaṃ punaranutpattau nabhasaḥ 'ekamevādvitīyam' (chā. 6.2.1) itīyaṃ pratijñā samarthyate / nanu nabhasā dvitīyena sadvitīyaṃ brahma prāpnoti / kathaṃ ca brahmaṇi vidite sarvaṃ viditaṃ syāditi / taducyate- ekameveti tāvatsvakāryāpekṣayopapadyate / yathā loke kaścitkumbhakārakule pūrvedyurmṛddaṇḍacakrādīni copalabhyāparedyuśca nānāvidhānyamatrāṇi prasāritānyupalabhya brūyānmṛdevaikākinī pūrvedyurāsīditi sa ca tayāvadhāraṇayā mṛtkāryajātameva pūrvedyurnāsīdityabhipreyānna daṇḍacakrādi, tadvadadvitīyaśrutiradhiṣṭhātrāntaraṃ vārayati / yathā mṛdo 'matraprakṛteḥ kumbhakāro 'dhiṣṭhātā dṛśyate naivaṃ brahmaṇo jagatprakṛteranyo 'dhikṛtāstīti / naca nabhasāpi dvitīyena sadvitīyaṃ brahma prasajyate / lakṣaṇānyatvanimittaṃ hi nānātvam / naca prāgutpatterbrahmanabhasorlakṣaṇānyatvamasti kṣīrodakayoriva saṃsṛṣṭyorvyāpitvāmūrtatvadidharmasāmānyāt / sargakāle tu brahma jagadutpādayituṃ yatate stimitamitaravattiṣṭati / tenānyatvamavasīyate / tathāca 'ākāśaśarīraṃ brahma' (tai. 1.6.2) ityādiśrutibhyo 'pi brahmākāśayorabhedopacārasiddhiḥ / ata eva ca brahmavijñānena sarvavijñānasiddhiḥ / apica sarvaṃ kāryamutpadyamānamākāśenāvyatiriktadeśakālamevotpadyate, brahmaṇā cāvyatiriktadeśakālamevākāśaṃ bhavatīti, ato brahmaṇā tatkāryeṇa ca vijñātena sahavijñātamevākāśaṃ bhavati / yathā kṣīrapūrṇe ghaṭe katicidabbindavaḥ prakṣiptāḥ santaḥ kṣīragrahaṇenaiva gṛhītā bhavanti, nahi kṣīraprahaṇādabbindavugrahaṇaṃ pariśiṣyate, evaṃ brahmaṇā tatkāryaiścāvyatiriktadeśakālatvādgṛhītameva brahmagrahaṇena nabho bhavati / tasmādbhāktaṃ nabhasaḥ saṃbhavaśravaṇamiti // 5 // ---------------------- FN: abhedopacāro bhaktiḥ / kulaṃ gṛham / amatrāṇi ghaṭādīni / evaṃ prāpta idamāha -

Sanskrit only: no published translation is held for this verse.

प्रतिज्ञाहानिर् अव्यतिरेकाच् छब्देभ्यः ऽयेनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्ऽ (छा। ६।१।१) इति, ऽआत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम्ऽ (बृ। ४।५।६) इति, ऽकस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतिऽ (मुण्ड। १।१।३) इति, ऽन काचन मद्धहिर्धा विद्यास्तिऽ इति चैवंरूपा प्रतिवेदान्तं प्रतिज्ञा विज्ञायते । तस्याः प्रतिज्ञाया एवमहानिरनुपरोधः स्यात्, यद्यव्यतिरेकः कृत्स्नस्य वस्तुजातस्य विज्ञेयाद्ब्रह्मणः स्यात् । व्यतिरेके हि सत्येकविज्ञानेन सर्वं विज्ञायत इतीयं प्रतिज्ञा ह्रीयेत । स चाव्यतिरेक एवमुपपद्यते यदि कृत्स्नं वस्तुजातमेकस्माद्ब्रह्मण उत्पद्येत । शब्देभ्यश्च प्रकृतिविकाराव्यतिरेकन्यायेनैव प्रतिज्ञासिद्धिरवगम्यते । तथाहि- ऽयेनाश्रुतं श्रुतं भवतिऽ इति प्रतिज्ञाय मृदादिदृष्टान्तैः कार्यकारणाभेदप्रतिपादनपरैः प्रतिज्ञैषा समर्थ्यते । तत्साधनायैव चोत्तरे शब्दाः ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ (छा। ६।२।१), ऽतदैक्षतऽ, ऽतत्तेजो ऽसृजतऽ (छा। ६।२।३) इत्येवं कार्यजातं ब्रह्मणः प्रदर्श्याव्यतिरेकं प्रदर्शयन्ति- ऽऐतदात्म्यमिदं सर्वम्ऽ (छा। ६।८।७) इत्यारभ्याप्रपाठकपरिसमाप्तेः । तद्यद्याकाशं न ब्रह्मकार्यं स्यान्न ब्रह्मणि विज्ञात आकाशं विज्ञायेत, ततश्च प्रतिज्ञाहानिः स्यात् । नच प्रतिज्ञाहान्या वेदस्याप्रामाण्यं युक्तं कर्तुम् । तथाहि- प्रतिवेदान्तं ते ते शब्दास्तेन तेन दृष्टान्तेन तामेव प्रतिज्ञां ख्यपयन्ति ऽइदं सर्वं यदयमात्माऽ (बृ। २।४।६),ऽ ब्रह्मैवेदममृतं पुरस्तात्ऽ (मुण्ड। २।२।११) इत्येवमादयः । तस्माज्ज्वलनादिवदेव गगनमप्युत्पद्यते । यदुक्तमश्रुतेर्न वियदुत्पद्यत इति, तदयुक्तं, वियदुत्पत्तिविषयश्रुत्यन्तरस्य दर्शितत्वात् ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै। २।१) इति । सत्यं दर्शितम् । विरुद्धं तु ऽतत्तेजो ऽसृजतऽ इत्यनेन श्रुत्यन्तरेण । न । एकवाक्यत्वात्सर्वश्रुतीनाम् । भवत्येकवाक्यत्वमविरुद्धानाम् । इह तु विरोध उक्तः, सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयसंबन्धासंभवाद्द्वयोश्च प्रथमजत्वासंभवाद्विकल्पासंभवाच्चेति । नैष दोषः । तेजःसर्गस्य तैत्तिरीयके तृतीयत्वश्रवणात् ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः । वायोरग्निःऽ (तै। २।१) इति । अशक्या हीयं श्रुतिरन्यथा परिणेतुम् । शक्या तु परिणेतुं छान्दोग्यश्रुतिस्तदाकाशं वायुं च सृष्ट्वा ऽतत्तेजो ऽसृजतऽ इति । नहीयं श्रुतिस्तेजोजनिप्रधाना सती श्रुत्यन्तरप्रसिद्धामाकाशस्योत्पत्तिं वारयितुं शक्नोति । एकस्य वाक्यस्य व्यापारद्वयासंभवात् । स्रष्ट्वा त्वेको ऽपि क्रमेणानेकं स्रष्टव्यं सृजेत् । इत्येकवाक्यत्वकल्पनायां संभवत्यां न विरुद्धार्थत्वेन श्रुतिर्हातव्या । नचास्माभिः सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयसंबन्धो ऽभिप्रेयते श्रुत्यन्तरवशेन स्रष्टव्यान्तरोपसंग्रहात् । यथाच ऽसर्वं खल्विदं ब्रह्म तज्जलान्ऽ (छा। ३।१४।१) इत्यत्र साक्षादेव सर्वस्य वस्तुजातस्य ब्रह्मजत्वं श्रूयमाणं न प्रदेशान्तरविहितं तेजःप्रमुखमुत्पत्तिक्रमं वारयति, एवं तेजसो ऽपि ब्रह्मजत्वं श्रूयमाणं न श्रुत्यन्तरविहितं नभःप्रमुखमुत्पत्तिक्रमं वारयितुमर्हति । ननु शमविधानार्थमेतद्वाक्यम्, ऽतज्जलानिति शान्त उपासीतऽ इति श्रुतेः, नैतत्सृष्टिवाक्यं, तस्मादेतन्न प्रदेशान्तरसिद्धं क्रममुपरोद्धुमर्हतीति । ऽतत्तेजो ऽसृजतऽ इत्येतत्सृष्टिवाक्यम् । तस्मादत्र यथाश्रुति क्रमो ग्रहीतव्य इति । नेत्युच्यते । नहि तेजःप्राथम्यानुरोधेन श्रुत्यन्तरप्रसिद्धो वियत्पदार्थः परित्यक्तव्यो भवति, पदार्थधर्मत्वात्क्रमस्य । अपिच ऽतत्तेजो ऽसृजतऽ इति नात्र क्रमस्य वाचकः कश्चिच्छब्दो ऽस्ति । अर्थात्तु क्रमो ऽवगम्यते । स च ऽवायोरग्निःऽ इत्यनेन श्रुत्यन्तरप्रसिद्धेन क्रमेण निवार्यते । विकल्पसमुच्चयौ तु वियत्तेजसोः प्रथमजत्वविषयावसंभवानभ्युपगमाभ्यां निवारितौ । तस्मान्नास्ति श्रुत्योर्विप्रतिषेधः । अपिच छान्दोग्ये ऽयेनाश्रुतं श्रुतं भवतिऽ इत्येतां प्रतिज्ञां वाक्योपक्रमे श्रुतां समर्थयितुमसमाम्नातमपि वियदुत्पत्तावुपसंख्यातव्यं, किमङ्ग पुनस्तैत्तिरीयके समाम्नातं नभो न संगृह्यते । यच्चोक्तमाकाशस्य सर्वेणानन्यदेशकालत्वाद्ब्रह्मणा तत्कार्यैश्च सह विदितमेव तद्भवत्यतो न प्रतिज्ञा हीयते, नच ऽएकमेवाद्वितीयम्ऽ इति श्रुतिकोपो भवति, क्षीरोदकवद्ब्रह्मनभसोरव्यतिरेकोपपत्तेरिति । अत्रोच्यते । न क्षीरोदकन्यायेनेदमेकविज्ञानेन सर्वविज्ञानं नेतव्यम् । मृदादिदृष्टान्तप्रणयनाद्धि प्रकृतिविकारन्यायेनैवेदं सर्वविज्ञानं नेतव्यमिति गम्यते । क्षीरोदकन्यायेन च सर्वविज्ञानं कल्प्यमानं न सम्यग्विज्ञानं स्यात् । नहि क्षीरज्ञानगृहीतस्योदकस्य सम्यग्विज्ञानगृहीतमस्ति । नच वेदस्य पुरुषाणामिव मायालीकवञ्चनादिभिरर्थावधारणमुपपद्यते । सावधारणा चेयम् । ऽएकमेवाद्वितीयम्ऽ इति श्रुतिः क्षीरोदकन्यायेन नीयमाना पीड्येत । नच स्वकार्यापेक्षयेदं वस्त्वेकदेशविषयं सर्वविज्ञानमेकमेवाद्वितीयतावधारणं चेति न्याय्यं, मृदादिष्वपि हि तत्संभवान्न तदपूर्ववदुपन्यसितव्यं भवति ऽश्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धो ऽस्युत तमादेशमप्राक्ष्यो ऽयेनाश्रुतं श्रुतं भवतिऽ (छा। ६।१।१) इत्यादिना । तस्मादशेषवस्तुविषयमेवेदं सर्वविज्ञानं सर्वस्य ब्रह्मकार्यतापेक्षयोपन्यस्यत इति द्रष्टव्यम् ॥ ६ ॥ यत्पुनरेतदुक्तमसंभवाद् गौणी गनस्योत्पत्तिश्रुतिरिति । अत्र ब्रूमः -

pratijñāhānir avyatirekāc chabdebhyaḥ 'yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātam' (chā. 6.1.1) iti, 'ātmani khalvare dṛṣṭe śrute mate vijñāta idaṃ sarvaṃ viditam' (bṛ. 4.5.6) iti, 'kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati' (muṇḍa. 1.1.3) iti, 'na kācana maddhahirdhā vidyāsti' iti caivaṃrūpā prativedāntaṃ pratijñā vijñāyate / tasyāḥ pratijñāyā evamahāniranuparodhaḥ syāt, yadyavyatirekaḥ kṛtsnasya vastujātasya vijñeyādbrahmaṇaḥ syāt / vyatireke hi satyekavijñānena sarvaṃ vijñāyata itīyaṃ pratijñā hrīyeta / sa cāvyatireka evamupapadyate yadi kṛtsnaṃ vastujātamekasmādbrahmaṇa utpadyeta / śabdebhyaśca prakṛtivikārāvyatirekanyāyenaiva pratijñāsiddhiravagamyate / tathāhi- 'yenāśrutaṃ śrutaṃ bhavati' iti pratijñāya mṛdādidṛṣṭāntaiḥ kāryakāraṇābhedapratipādanaparaiḥ pratijñaiṣā samarthyate / tatsādhanāyaiva cottare śabdāḥ 'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1), 'tadaikṣata', 'tattejo 'sṛjata' (chā. 6.2.3) ityevaṃ kāryajātaṃ brahmaṇaḥ pradarśyāvyatirekaṃ pradarśayanti- 'aitadātmyamidaṃ sarvam' (chā. 6.8.7) ityārabhyāprapāṭhakaparisamāpteḥ / tadyadyākāśaṃ na brahmakāryaṃ syānna brahmaṇi vijñāta ākāśaṃ vijñāyeta, tataśca pratijñāhāniḥ syāt / naca pratijñāhānyā vedasyāprāmāṇyaṃ yuktaṃ kartum / tathāhi- prativedāntaṃ te te śabdāstena tena dṛṣṭāntena tāmeva pratijñāṃ khyapayanti 'idaṃ sarvaṃ yadayamātmā' (bṛ. 2.4.6),' brahmaivedamamṛtaṃ purastāt' (muṇḍa. 2.2.11) ityevamādayaḥ / tasmājjvalanādivadeva gaganamapyutpadyate / yaduktamaśruterna viyadutpadyata iti, tadayuktaṃ, viyadutpattiviṣayaśrutyantarasya darśitatvāt 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) iti / satyaṃ darśitam / viruddhaṃ tu 'tattejo 'sṛjata' ityanena śrutyantareṇa / na / ekavākyatvātsarvaśrutīnām / bhavatyekavākyatvamaviruddhānām / iha tu virodha uktaḥ, sakṛcchrutasya sraṣṭuḥ sraṣṭavyadvayasaṃbandhāsaṃbhavāddvayośca prathamajatvāsaṃbhavādvikalpāsaṃbhavācceti / naiṣa doṣaḥ / tejaḥsargasya taittirīyake tṛtīyatvaśravaṇāt 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ / ākāśādvāyuḥ / vāyoragniḥ' (tai. 2.1) iti / aśakyā hīyaṃ śrutiranyathā pariṇetum / śakyā tu pariṇetuṃ chāndogyaśrutistadākāśaṃ vāyuṃ ca sṛṣṭvā 'tattejo 'sṛjata' iti / nahīyaṃ śrutistejojanipradhānā satī śrutyantaraprasiddhāmākāśasyotpattiṃ vārayituṃ śaknoti / ekasya vākyasya vyāpāradvayāsaṃbhavāt / sraṣṭvā tveko 'pi krameṇānekaṃ sraṣṭavyaṃ sṛjet / ityekavākyatvakalpanāyāṃ saṃbhavatyāṃ na viruddhārthatvena śrutirhātavyā / nacāsmābhiḥ sakṛcchrutasya sraṣṭuḥ sraṣṭavyadvayasaṃbandho 'bhipreyate śrutyantaravaśena sraṣṭavyāntaropasaṃgrahāt / yathāca 'sarvaṃ khalvidaṃ brahma tajjalān' (chā. 3.14.1) ityatra sākṣādeva sarvasya vastujātasya brahmajatvaṃ śrūyamāṇaṃ na pradeśāntaravihitaṃ tejaḥpramukhamutpattikramaṃ vārayati, evaṃ tejaso 'pi brahmajatvaṃ śrūyamāṇaṃ na śrutyantaravihitaṃ nabhaḥpramukhamutpattikramaṃ vārayitumarhati / nanu śamavidhānārthametadvākyam, 'tajjalāniti śānta upāsīta' iti śruteḥ, naitatsṛṣṭivākyaṃ, tasmādetanna pradeśāntarasiddhaṃ kramamuparoddhumarhatīti / 'tattejo 'sṛjata' ityetatsṛṣṭivākyam / tasmādatra yathāśruti kramo grahītavya iti / netyucyate / nahi tejaḥprāthamyānurodhena śrutyantaraprasiddho viyatpadārthaḥ parityaktavyo bhavati, padārthadharmatvātkramasya / apica 'tattejo 'sṛjata' iti nātra kramasya vācakaḥ kaścicchabdo 'sti / arthāttu kramo 'vagamyate / sa ca 'vāyoragniḥ' ityanena śrutyantaraprasiddhena krameṇa nivāryate / vikalpasamuccayau tu viyattejasoḥ prathamajatvaviṣayāvasaṃbhavānabhyupagamābhyāṃ nivāritau / tasmānnāsti śrutyorvipratiṣedhaḥ / apica chāndogye 'yenāśrutaṃ śrutaṃ bhavati' ityetāṃ pratijñāṃ vākyopakrame śrutāṃ samarthayitumasamāmnātamapi viyadutpattāvupasaṃkhyātavyaṃ, kimaṅga punastaittirīyake samāmnātaṃ nabho na saṃgṛhyate / yaccoktamākāśasya sarveṇānanyadeśakālatvādbrahmaṇā tatkāryaiśca saha viditameva tadbhavatyato na pratijñā hīyate, naca 'ekamevādvitīyam' iti śrutikopo bhavati, kṣīrodakavadbrahmanabhasoravyatirekopapatteriti / atrocyate / na kṣīrodakanyāyenedamekavijñānena sarvavijñānaṃ netavyam / mṛdādidṛṣṭāntapraṇayanāddhi prakṛtivikāranyāyenaivedaṃ sarvavijñānaṃ netavyamiti gamyate / kṣīrodakanyāyena ca sarvavijñānaṃ kalpyamānaṃ na samyagvijñānaṃ syāt / nahi kṣīrajñānagṛhītasyodakasya samyagvijñānagṛhītamasti / naca vedasya puruṣāṇāmiva māyālīkavañcanādibhirarthāvadhāraṇamupapadyate / sāvadhāraṇā ceyam / 'ekamevādvitīyam' iti śrutiḥ kṣīrodakanyāyena nīyamānā pīḍyeta / naca svakāryāpekṣayedaṃ vastvekadeśaviṣayaṃ sarvavijñānamekamevādvitīyatāvadhāraṇaṃ ceti nyāyyaṃ, mṛdādiṣvapi hi tatsaṃbhavānna tadapūrvavadupanyasitavyaṃ bhavati 'śvetaketo yannu somyedaṃ mahāmanā anūcānamānī stabdho 'syuta tamādeśamaprākṣyo 'yenāśrutaṃ śrutaṃ bhavati' (chā. 6.1.1) ityādinā / tasmādaśeṣavastuviṣayamevedaṃ sarvavijñānaṃ sarvasya brahmakāryatāpekṣayopanyasyata iti draṣṭavyam // 6 // yatpunaretaduktamasaṃbhavād gauṇī ganasyotpattiśrutiriti / atra brūmaḥ -

Sanskrit only: no published translation is held for this verse.

यावद्विकारं तु विभागो लोकवत् तुशब्दो ऽसंभवाशङ्काव्यावृत्त्यर्थः । न खल्वाकाशोत्पत्तावसंभवाशङ्का कर्तव्या । यतो यावत्किञ्चिद्विकारजातं दृश्यते घटघटिकोदञ्चनादि वा कटककेयूरकुण्डलादि वा सूचीनाराचनिस्त्रिंशादि वा तावानेव विभागो लोके लक्ष्यते । नत्वविकृतं किञ्चित्कुतश्चिद्विभक्तमुपलभ्यते । विभागश्चाकाशस्य पृथिव्यादिभ्यो ऽवगम्यते । तस्मात्सो ऽपि विकारो भवितुमर्हति । एतेन दिक्कालमनःपरमाण्वादीनां कार्यत्वं व्याख्यातम् । नन्वात्माप्याकाशादिभ्यो विभक्त इति तस्यापि कार्यत्वं घटादिवत्प्राप्नोति । न । ऽआत्मन आकाशः संभूतःऽ (तै। २।१) इति श्रुतेः । यदि ह्यात्मापि विकारः स्यात्तस्मात्परमन्यन्न श्रुतमित्याकाशादि सर्वं कार्यं निरात्मकमात्मनः कार्यत्वे स्यात् । तथाच शून्यवादः प्रसज्येत । आत्मत्वाच्चात्मनो निराकरणशङ्कानुपपत्तिः । नह्यात्मागन्तुकः कस्यचित्, स्वयंसिद्धत्वात् । नह्यात्मात्मनः प्रमाणमपेक्ष्य सिध्यति । तस्य हि प्रत्यक्षादीनि प्रमाणान्यप्रसिद्धप्रमेयसिद्धय उपादीयन्ते । नह्याकाशादयः पदार्धाः प्रमाणनिरपेक्षाः स्वयंसिद्धाः केनचिदभ्युपगम्यन्ते । आत्मा तु प्रमाणादिव्यवहाराश्रयत्वात्प्रागेव प्रमाणादिव्यवहारात्सिध्यति । नचेद्दृशस्य निराकरणं संभवति । आगन्तुकं हि वस्तु निराक्रियते न स्वरूपम् । य एव हि निराकर्ता तदेव तस्य स्वरूपम् । नह्यग्नेरौष्ण्यमग्निना निराक्रियते । तथाहमेवेदानीं जानामि वर्तमानं वस्त्वहमेवातीतमतीततरं चाज्ञासिषमहमेवानागतमनागततरं च ज्ञास्यामीत्यतीतानागतवर्तमानभावेनान्यथाभवत्यपि ज्ञातव्ये न ज्ञातुरन्यथाभावो ऽसति, सर्वदा वर्तमानस्वभावत्वात् । तथा भस्मीभवत्यपि देहे चात्मन उच्छेदो वर्तमानस्वभावादन्यथास्वभावत्वं वा न संभावयितुं शक्यम् । एवमप्रत्याख्येयस्वभावत्वादेवाकार्यत्वमात्मनः कार्यत्वं चाकाशस्य । यत्तूक्तं समानजातीयमनेकं कारणद्रव्यं व्योम्नो नास्तीति, तत्प्रत्युच्यते- न तावत्समानजातीयमेवारभते न भिन्नजातीयमिति नियमो ऽस्ति । नहि तन्तूनां तत्संयोगानां च समानजातीयत्वमस्ति, द्रव्यगुणत्वाभ्युपगमात् । नच निमित्तकारणानामपि तुरीवेमादीनां समानजातीयत्वनियमो ऽस्ति । स्यादेतत् । समवायिकारणविषय एव समानजातीयत्वाभ्युपगमो न कारणान्तरविषय इति । तदप्यनैकान्तिकम् । सूत्रगोबालैर्ह्यनेकजातीयैरेका रज्जुः सृज्यमाना दृश्यते । तथा सूत्रैरूर्णादिभिश्च विचित्रान्कम्बलान्वितन्वते । सत्त्वद्रव्यत्वाद्यपेक्षया वा समानजातीयत्वे कल्प्यमाने नियमानर्थक्यं, सर्वस्य सर्वेण समानजातीयकत्वात् । नाप्यनेकमेवारभते नैकमिति नियमो ऽस्ति । अणुमनसोराद्यकर्मारम्भाभ्युपगमात् । एकैको हि परमाणिर्मनश्चायं कर्मारभते न द्रव्यान्तरैः संहत्येत्यभ्युपगम्यते । द्रव्यारम्भ एवानेकारम्भकत्वनियम इति चेत् । न । परिणामाभ्युपगमात् । भवेदेष नियमो यदि संयोगसचिवं द्रव्यं द्रव्यान्तरस्यारम्भकमभ्युपगम्येत । तदेव तु द्रव्यं विशेषवदवस्थान्तरमापद्यमानं कार्यं नामाभ्युपगम्यते । तच्च क्वचिदनेकं परिणमते मृद्बीजाद्यङ् कुरादिभावेन । क्वचिदेकं परिणमते क्षीरादि दध्यादिभावेन । नेश्वरशासनमस्त्यनेकमेव कारणं कार्यं जनयतीति । अतः श्रुतिप्रामाण्यादेकस्माद्ब्रह्मण आकाशादिमहाभूतोत्पत्तिक्रमेण जगज्जातमिति निश्चीयते । तथाचोक्तम्- ऽउपसंहारदर्शनान्नेति चेन्न क्षीरवद्धिऽ (ब्र। सू। २।१।१४) इति । यच्चोक्तमाकाशस्योत्पत्तौ न पूर्वोत्तरकालयोर्विशेषः संभावयितुं शक्यत इति । तदयुक्तम् । येनैव हि विशेषेण पृथिव्यादिभ्यो व्यतिरिच्यमानं नभः स्वरूपवदिदानीमध्यवसीयते स एव विशेषः प्रागुत्पत्तेर्नासीदिति गम्यते । यथा च ब्रह्म न स्थूलादिभिः पृथिव्यादिस्वभावैः स्वभाववत्, ऽअस्थूलमनणुऽ (बृ। ३।८।८) इत्यादिश्रुतिभ्यः, एवमाकाशस्वभावेनापि न स्वभाववदनाकाशमिति श्रुतेरवगम्यते । तस्मात्प्रागुत्पत्तेरनाकाशमिति स्थितम् । यदप्युक्तं पृथिव्यादिवैधर्म्यादाकाशस्याजत्वमिति । तदप्यसत् । श्रुतिविरोधे सत्युत्पत्त्यसंभवानुमानस्याभासत्वोपपत्तेः । उत्पत्त्यनुमानस्य च दर्शितत्वात् । अनित्यमाकाशमनित्यगुणाश्रयत्वाद्घटादिवदित्यादिप्रयोगसंभवाच्च । आत्मन्यनैकान्तिकमिति चेत् । न । तस्यौपनिषदं प्रत्यनित्यगुणाश्रयत्वासिद्धेः । विभुत्वादीनां चाकाशस्योत्पत्तिवादिनं प्रत्यसिद्धत्वात् । यच्चोक्तमेतच्छब्दाच्चेति, तत्रामृतत्वश्रुतिस्तावद्वियत्यमृता दिवौकस इतिवद्द्रष्टव्या । उत्पत्तिप्रलययोरुपपादितत्वात् । ऽआकाशवत्सर्वगतश्च नित्यःऽ इत्यपि प्रसिद्धमहत्त्वेनाकाशेनोपमानं क्रियते निरतिशयमहत्त्वाय नाकाशसमत्वाय । यथेषुरिव सविता धावतीति क्षिप्रगतित्वायोच्यते नेषुतुल्यगतित्वाय तद्वत् । एतेनानन्तत्वोपमानश्रुतिर्व्याख्याता । ऽज्यायानाकाशात्ऽ इत्यादिश्रुतिभ्यश्च ब्रह्मण आकाशस्योनपरिमाणत्वसिद्धिः । ऽन तस्य प्रतिमास्तिऽ (श्वे। ४।१९) इति च ब्रह्मणो ऽनुपमानत्वं दर्शयति । ऽअतो ऽन्यदार्तम्ऽ (बृ। ३।४।२) इति च ब्रह्मणो ऽन्येषामाकाशादीनामार्तत्वं दर्शयति । तपसि ब्रह्मशब्दवदाकाशस्य जन्मश्रुतेर्गौणत्वमित्येतदाकाशसंभवश्रुत्यनुमानाभ्यां परिहृतम् । तस्माद्ब्रह्मकार्यं वियदिति सिद्धम् ॥ ७ ॥ ---------------------- फ़्न्: द्रव्यान्तरैः समवायिभिः । शब्दाश्रयत्वं विशेषः । २ मातरिश्वाधिकणम् । सू। ८

yāvadvikāraṃ tu vibhāgo lokavat tuśabdo 'saṃbhavāśaṅkāvyāvṛttyarthaḥ / na khalvākāśotpattāvasaṃbhavāśaṅkā kartavyā / yato yāvatkiñcidvikārajātaṃ dṛśyate ghaṭaghaṭikodañcanādi vā kaṭakakeyūrakuṇḍalādi vā sūcīnārācanistriṃśādi vā tāvāneva vibhāgo loke lakṣyate / natvavikṛtaṃ kiñcitkutaścidvibhaktamupalabhyate / vibhāgaścākāśasya pṛthivyādibhyo 'vagamyate / tasmātso 'pi vikāro bhavitumarhati / etena dikkālamanaḥparamāṇvādīnāṃ kāryatvaṃ vyākhyātam / nanvātmāpyākāśādibhyo vibhakta iti tasyāpi kāryatvaṃ ghaṭādivatprāpnoti / na / 'ātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) iti śruteḥ / yadi hyātmāpi vikāraḥ syāttasmātparamanyanna śrutamityākāśādi sarvaṃ kāryaṃ nirātmakamātmanaḥ kāryatve syāt / tathāca śūnyavādaḥ prasajyeta / ātmatvāccātmano nirākaraṇaśaṅkānupapattiḥ / nahyātmāgantukaḥ kasyacit, svayaṃsiddhatvāt / nahyātmātmanaḥ pramāṇamapekṣya sidhyati / tasya hi pratyakṣādīni pramāṇānyaprasiddhaprameyasiddhaya upādīyante / nahyākāśādayaḥ padārdhāḥ pramāṇanirapekṣāḥ svayaṃsiddhāḥ kenacidabhyupagamyante / ātmā tu pramāṇādivyavahārāśrayatvātprāgeva pramāṇādivyavahārātsidhyati / naceddṛśasya nirākaraṇaṃ saṃbhavati / āgantukaṃ hi vastu nirākriyate na svarūpam / ya eva hi nirākartā tadeva tasya svarūpam / nahyagnerauṣṇyamagninā nirākriyate / tathāhamevedānīṃ jānāmi vartamānaṃ vastvahamevātītamatītataraṃ cājñāsiṣamahamevānāgatamanāgatataraṃ ca jñāsyāmītyatītānāgatavartamānabhāvenānyathābhavatyapi jñātavye na jñāturanyathābhāvo 'sati, sarvadā vartamānasvabhāvatvāt / tathā bhasmībhavatyapi dehe cātmana ucchedo vartamānasvabhāvādanyathāsvabhāvatvaṃ vā na saṃbhāvayituṃ śakyam / evamapratyākhyeyasvabhāvatvādevākāryatvamātmanaḥ kāryatvaṃ cākāśasya / yattūktaṃ samānajātīyamanekaṃ kāraṇadravyaṃ vyomno nāstīti, tatpratyucyate- na tāvatsamānajātīyamevārabhate na bhinnajātīyamiti niyamo 'sti / nahi tantūnāṃ tatsaṃyogānāṃ ca samānajātīyatvamasti, dravyaguṇatvābhyupagamāt / naca nimittakāraṇānāmapi turīvemādīnāṃ samānajātīyatvaniyamo 'sti / syādetat / samavāyikāraṇaviṣaya eva samānajātīyatvābhyupagamo na kāraṇāntaraviṣaya iti / tadapyanaikāntikam / sūtragobālairhyanekajātīyairekā rajjuḥ sṛjyamānā dṛśyate / tathā sūtrairūrṇādibhiśca vicitrānkambalānvitanvate / sattvadravyatvādyapekṣayā vā samānajātīyatve kalpyamāne niyamānarthakyaṃ, sarvasya sarveṇa samānajātīyakatvāt / nāpyanekamevārabhate naikamiti niyamo 'sti / aṇumanasorādyakarmārambhābhyupagamāt / ekaiko hi paramāṇirmanaścāyaṃ karmārabhate na dravyāntaraiḥ saṃhatyetyabhyupagamyate / dravyārambha evānekārambhakatvaniyama iti cet / na / pariṇāmābhyupagamāt / bhavedeṣa niyamo yadi saṃyogasacivaṃ dravyaṃ dravyāntarasyārambhakamabhyupagamyeta / tadeva tu dravyaṃ viśeṣavadavasthāntaramāpadyamānaṃ kāryaṃ nāmābhyupagamyate / tacca kvacidanekaṃ pariṇamate mṛdbījādyaṅ kurādibhāvena / kvacidekaṃ pariṇamate kṣīrādi dadhyādibhāvena / neśvaraśāsanamastyanekameva kāraṇaṃ kāryaṃ janayatīti / ataḥ śrutiprāmāṇyādekasmādbrahmaṇa ākāśādimahābhūtotpattikrameṇa jagajjātamiti niścīyate / tathācoktam- 'upasaṃhāradarśanānneti cenna kṣīravaddhi' (bra. sū. 2.1.14) iti / yaccoktamākāśasyotpattau na pūrvottarakālayorviśeṣaḥ saṃbhāvayituṃ śakyata iti / tadayuktam / yenaiva hi viśeṣeṇa pṛthivyādibhyo vyatiricyamānaṃ nabhaḥ svarūpavadidānīmadhyavasīyate sa eva viśeṣaḥ prāgutpatternāsīditi gamyate / yathā ca brahma na sthūlādibhiḥ pṛthivyādisvabhāvaiḥ svabhāvavat, 'asthūlamanaṇu' (bṛ. 3.8.8) ityādiśrutibhyaḥ, evamākāśasvabhāvenāpi na svabhāvavadanākāśamiti śruteravagamyate / tasmātprāgutpatteranākāśamiti sthitam / yadapyuktaṃ pṛthivyādivaidharmyādākāśasyājatvamiti / tadapyasat / śrutivirodhe satyutpattyasaṃbhavānumānasyābhāsatvopapatteḥ / utpattyanumānasya ca darśitatvāt / anityamākāśamanityaguṇāśrayatvādghaṭādivadityādiprayogasaṃbhavācca / ātmanyanaikāntikamiti cet / na / tasyaupaniṣadaṃ pratyanityaguṇāśrayatvāsiddheḥ / vibhutvādīnāṃ cākāśasyotpattivādinaṃ pratyasiddhatvāt / yaccoktametacchabdācceti, tatrāmṛtatvaśrutistāvadviyatyamṛtā divaukasa itivaddraṣṭavyā / utpattipralayayorupapāditatvāt / 'ākāśavatsarvagataśca nityaḥ' ityapi prasiddhamahattvenākāśenopamānaṃ kriyate niratiśayamahattvāya nākāśasamatvāya / yatheṣuriva savitā dhāvatīti kṣipragatitvāyocyate neṣutulyagatitvāya tadvat / etenānantatvopamānaśrutirvyākhyātā / 'jyāyānākāśāt' ityādiśrutibhyaśca brahmaṇa ākāśasyonaparimāṇatvasiddhiḥ / 'na tasya pratimāsti' (śve. 4.19) iti ca brahmaṇo 'nupamānatvaṃ darśayati / 'ato 'nyadārtam' (bṛ. 3.4.2) iti ca brahmaṇo 'nyeṣāmākāśādīnāmārtatvaṃ darśayati / tapasi brahmaśabdavadākāśasya janmaśrutergauṇatvamityetadākāśasaṃbhavaśrutyanumānābhyāṃ parihṛtam / tasmādbrahmakāryaṃ viyaditi siddham // 7 // ---------------------- FN: dravyāntaraiḥ samavāyibhiḥ / śabdāśrayatvaṃ viśeṣaḥ / 2 mātariśvādhikaṇam / sū. 8

Sanskrit only: no published translation is held for this verse.

एतेन मातरिश्वा व्याख्यातः अतिदेशो ऽयम् । एतेन वियद्व्याख्यानेन मातरिश्वापि वियदाश्रयो वायुर्व्याख्यातः । तत्राप्येते यथायोगं पक्षा रचयितव्याः । न वायुरुत्पद्यते छान्दोगानामुत्पत्तिप्रकरणे ऽनाम्नानादित्येकः पक्षः । अस्ति तु तैत्तिरीयाणामुत्पत्तिप्रकरण आम्नानम् ऽआकाशाद्वायुःऽ (तै। २।१) इति पक्षान्तरम् । ततश्च श्रुत्योर्विप्रतिषेधे सति गौणी वायोरुत्पत्तिश्रुतिसंभवादित्यपरो ऽभिप्रायः । असंभवश्च ऽसैषानस्तमिता देवता यद्वायुःऽ (बृ। १।५।२२) इत्यस्तमयप्रतिषेधात्, अमृतत्वादिश्रवणाच्च । प्रतिज्ञानुपरोधाद्यावद्विकारं च विभागाभ्युपगमादुत्पद्यते वायुरिति सिद्धान्तः । अस्तमयप्रतिषेधो ऽपरविद्याविषय आपेक्षिकः । अग्न्यादीनामिव वायोरस्तमयाभावात् ॥ कृतप्रतिविधानं चामृतत्वादिश्रवणम् । ननु वायोराकाशस्य च तुल्ययोरुत्पत्तिप्रकरणे श्रवणाश्रवणयोरेकमेवाधिकरणमुभयविषयमस्तु किमतिदेशेनासति विशेष इति । उच्यते- सत्यमेवमेतत् । तथापि मन्दधियां शब्दमात्रकृताशङ्कानिवृत्त्यर्थो ऽयमतिदेशः क्रियते । संवर्गविद्यादिषु ह्युपास्यतया वायोर्महाभागत्वश्रवणात्, अस्तमयप्रतिषेधादिभ्यश्च भवति नित्यत्वाशङ्का कस्यचिदिति ॥ ८ ॥ ३ असंभवाधिकरणम् । सू। ९

etena mātariśvā vyākhyātaḥ atideśo 'yam / etena viyadvyākhyānena mātariśvāpi viyadāśrayo vāyurvyākhyātaḥ / tatrāpyete yathāyogaṃ pakṣā racayitavyāḥ / na vāyurutpadyate chāndogānāmutpattiprakaraṇe 'nāmnānādityekaḥ pakṣaḥ / asti tu taittirīyāṇāmutpattiprakaraṇa āmnānam 'ākāśādvāyuḥ' (tai. 2.1) iti pakṣāntaram / tataśca śrutyorvipratiṣedhe sati gauṇī vāyorutpattiśrutisaṃbhavādityaparo 'bhiprāyaḥ / asaṃbhavaśca 'saiṣānastamitā devatā yadvāyuḥ' (bṛ. 1.5.22) ityastamayapratiṣedhāt, amṛtatvādiśravaṇācca / pratijñānuparodhādyāvadvikāraṃ ca vibhāgābhyupagamādutpadyate vāyuriti siddhāntaḥ / astamayapratiṣedho 'paravidyāviṣaya āpekṣikaḥ / agnyādīnāmiva vāyorastamayābhāvāt // kṛtapratividhānaṃ cāmṛtatvādiśravaṇam / nanu vāyorākāśasya ca tulyayorutpattiprakaraṇe śravaṇāśravaṇayorekamevādhikaraṇamubhayaviṣayamastu kimatideśenāsati viśeṣa iti / ucyate- satyamevametat / tathāpi mandadhiyāṃ śabdamātrakṛtāśaṅkānivṛttyartho 'yamatideśaḥ kriyate / saṃvargavidyādiṣu hyupāsyatayā vāyormahābhāgatvaśravaṇāt, astamayapratiṣedhādibhyaśca bhavati nityatvāśaṅkā kasyaciditi // 8 // 3 asaṃbhavādhikaraṇam / sū. 9

Sanskrit only: no published translation is held for this verse.

असंभवस् तु सतो ऽनुपपत्तेः वियत्पवनयोरसंभाव्यमानजन्मनोरप्युत्पत्तिमुपश्रुत्य ब्रह्मणो ऽपि भवेत्कुतश्चिदुत्पत्तिरिति स्यात्कस्यचिन्मतिः । तथा विकारेभ्य एवाकाशादिभ्य उत्तरेषां विकाराणामुत्पत्तिमुपश्रुत्याकाशस्यापि विकारादेव ब्रह्मण उत्पत्तिरिति कश्चिन्मन्येत । तामाशङ्कामपनेतुमिदं सूत्रम्- ऽअसंभवस्तुऽ इति । न खलु ब्रह्मणः सदात्मकस्य कुतश्चिदन्यतः संभव उत्पत्तिराशङ्कितव्या । कस्मात् । अनुपपत्तेः । सन्मात्रं हि ब्रह्म । न तस्य सन्मात्रादेवोत्पत्तिः संभवति, असत्यतिशये प्रकृतिविकारभावानुपपत्तेः । नापि सद्विशेषाद्दृष्टविपर्ययात् । सामान्याद्धि विशेषा उत्पद्यमाना दृश्यन्ते मृदादेर्घटादयो नतु विशेषेभ्यः सामान्यम् । नाप्यसतो निरात्मकत्वात् । ऽकथमसतः सज्जायेतऽ (छा। ८।७।१) इति चाक्षेपश्रवणात् । ऽस कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपःऽ (श्वे। ६।९) इति च ब्रह्मणो जनयितारं वारयति । विवत्वपवनयोः पुनरुत्पत्तिः प्रदर्शिता नतु ब्रह्मणः सास्तीति वैषम्यम् । नच विकारेभ्यो विकारान्तरोत्पत्तिदर्शनाद्ब्रह्मणो ऽपि विकारत्वं भवितुमर्हतीति मूलप्रकृत्यनभ्युपगमे ऽनवस्ताप्रसङ्गात् । या मूलप्रकृतिरभ्युपगम्यते तदेव च नो ब्रह्मेत्यविरोधः ॥ ९ ॥ ४ तेजो ऽधिकरणम् । सू। १०

asaṃbhavas tu sato 'nupapatteḥ viyatpavanayorasaṃbhāvyamānajanmanorapyutpattimupaśrutya brahmaṇo 'pi bhavetkutaścidutpattiriti syātkasyacinmatiḥ / tathā vikārebhya evākāśādibhya uttareṣāṃ vikārāṇāmutpattimupaśrutyākāśasyāpi vikārādeva brahmaṇa utpattiriti kaścinmanyeta / tāmāśaṅkāmapanetumidaṃ sūtram- 'asaṃbhavastu' iti / na khalu brahmaṇaḥ sadātmakasya kutaścidanyataḥ saṃbhava utpattirāśaṅkitavyā / kasmāt / anupapatteḥ / sanmātraṃ hi brahma / na tasya sanmātrādevotpattiḥ saṃbhavati, asatyatiśaye prakṛtivikārabhāvānupapatteḥ / nāpi sadviśeṣāddṛṣṭaviparyayāt / sāmānyāddhi viśeṣā utpadyamānā dṛśyante mṛdāderghaṭādayo natu viśeṣebhyaḥ sāmānyam / nāpyasato nirātmakatvāt / 'kathamasataḥ sajjāyeta' (chā. 8.7.1) iti cākṣepaśravaṇāt / 'sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścijjanitā na cādhipaḥ' (śve. 6.9) iti ca brahmaṇo janayitāraṃ vārayati / vivatvapavanayoḥ punarutpattiḥ pradarśitā natu brahmaṇaḥ sāstīti vaiṣamyam / naca vikārebhyo vikārāntarotpattidarśanādbrahmaṇo 'pi vikāratvaṃ bhavitumarhatīti mūlaprakṛtyanabhyupagame 'navastāprasaṅgāt / yā mūlaprakṛtirabhyupagamyate tadeva ca no brahmetyavirodhaḥ // 9 // 4 tejo 'dhikaraṇam / sū. 10

Sanskrit only: no published translation is held for this verse.

तेजो ऽतस् तथा ह्य् आह छान्दोग्ये सन्मूलत्वं तेजसः श्रावितं, तैत्तिरीयके तु वायुमूलत्वं, तत्र तेजोयोनिं प्रति श्रुतिविप्रतिपत्तौ सत्यां प्राप्तं तावद्ब्रह्मयोनिकं तेज इति । कुतः । ऽसदेवऽ इत्युपक्रम्य ऽतत्तेजो ऽसृजतऽ इत्युपदेशात् । सर्वविज्ञानप्रतिज्ञायाश्च ब्रह्मप्रभवत्वे सर्वस्य संभवात् । ऽतज्जलान्ऽ (छा। ८।७।१) इति चाविशेषश्रुतेः ऽएतस्माज्जायते प्राणःऽ (मुण्ड। २।१।३) इति चोपक्रम्य श्रुत्यन्तरे सर्वस्याविशेषेण ब्रह्मजत्वोपदेशात् । तैत्तिरीयके च ऽस तपस्तप्त्वा । इदं सर्वमसृजत । यदिदं किञ्चऽ (तै। ३।६।१) इत्यविशेषश्रवणात् । तस्मात् ऽवायोरग्निःऽ इति क्रमोपदेशो द्रष्टव्यो वायोरनन्तरमग्निः संभूत इति । एवं प्राप्त उच्यते- तेजो ऽतो मातरिश्वनो जायत इति । कस्मात् । तथाह्याह- ऽवायोरग्निःऽ इति । अव्यवहिते हि तेजसो ब्रह्मजत्वे सत्यसति वायुजत्वे वायोरग्निरितीयं श्रुतिः कदर्थिता स्यात् । ननु क्रमार्थैषा भविष्यतीत्युक्तम् । नेति ब्रूमः - ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै। २।१।१) इति पुरस्तात्संभवत्यपादानस्यात्मनः पञ्चमीनिर्देशात्स, तस्यैव च संभवतेरिहाधिकारात्, परस्तादपि च तदधिकारे ऽपृथिव्या ओषधयःऽ (तै। २।१।१) इत्यपादानपञ्चमीदर्शनाद्वायोरग्निरित्यपादानपञ्चम्येवैषेति गम्यते । अपिच वायोरूर्ध्वमग्निः संभूत इति कल्प्य उपपदार्थयोगः कॢप्तस्तु कारकार्थयोगो वायोरग्नि संभूत इति । तस्मादेषा श्रुतिर्वायुयोनित्वं तेजसो ऽवगमयति । नन्वितरापि श्रुतिर्ब्रह्मयोनित्वं तेजसो ऽवगमयति ऽतत्तेजो ऽसृजतऽ इति । न । तस्याः पारम्पर्यजत्वे ऽप्यविरोदात् । यदापि ह्याकाशं वायुं च सृष्ट्वा वायुभावापन्नं ब्रह्म तेजो ऽसृजतेति कल्प्यते, तदापि ब्रह्मजत्वं तेजसो न विरुध्यते । यथा तस्याः श्रुतं तस्या दधि तस्या आमिक्षेत्यादि । दर्शयति च ब्रह्मणो विकारात्मनावस्तानं ऽतदात्मानं स्वयमकुरुतऽ (तै। २।७।१) इति । तथाचेश्वरस्मरणं भवति- ऽबुद्दिर्ज्ञानमसंमोहःऽ (भगी। १०।४) इत्याद्यनुक्रम्य ऽभवति भावा भूतानां मत्त एव पृथग्विधाःऽ (भगी। १०।५) इति । यद्यपि बुद्ध्यादयः स्वकारणेभ्यः प्रत्यक्षं भवन्तो दृश्यन्ते तथापि सर्वस्य भावजातस्य साक्षात्प्रणाड्या वेश्वरवंश्यत्वात् । एतेनाक्रमवत्सृष्टिवादिन्यः श्रुतयो व्याख्याताः । तासां सर्वथोपपत्तेः । क्रमवत्सृष्टिवादिनीनां त्वन्यथानुपपत्तेः । प्रतिज्ञापि सद्वंश्यत्वमात्रमपेक्षते नाव्यवहितजन्यत्वमित्यविरोधः ॥ १० ॥ ---------------------- फ़्न्: कदर्थिता पीडिता बाधितेति यावत् । तदधिकारे संभूत्यधिकारे । तस्या धेनोः श्रुतं तप्तं क्षीरं साक्षात्कार्यं, दध्यादिकं तु पारम्पर्यजमित्यर्थः । दधिसंसृष्टं कठिनक्षीरमामिक्षा । प्रणाड्या परम्परया ।

tejo 'tas tathā hy āha chāndogye sanmūlatvaṃ tejasaḥ śrāvitaṃ, taittirīyake tu vāyumūlatvaṃ, tatra tejoyoniṃ prati śrutivipratipattau satyāṃ prāptaṃ tāvadbrahmayonikaṃ teja iti / kutaḥ / 'sadeva' ityupakramya 'tattejo 'sṛjata' ityupadeśāt / sarvavijñānapratijñāyāśca brahmaprabhavatve sarvasya saṃbhavāt / 'tajjalān' (chā. 8.7.1) iti cāviśeṣaśruteḥ 'etasmājjāyate prāṇaḥ' (muṇḍa. 2.1.3) iti copakramya śrutyantare sarvasyāviśeṣeṇa brahmajatvopadeśāt / taittirīyake ca 'sa tapastaptvā / idaṃ sarvamasṛjata / yadidaṃ kiñca' (tai. 3.6.1) ityaviśeṣaśravaṇāt / tasmāt 'vāyoragniḥ' iti kramopadeśo draṣṭavyo vāyoranantaramagniḥ saṃbhūta iti / evaṃ prāpta ucyate- tejo 'to mātariśvano jāyata iti / kasmāt / tathāhyāha- 'vāyoragniḥ' iti / avyavahite hi tejaso brahmajatve satyasati vāyujatve vāyoragniritīyaṃ śrutiḥ kadarthitā syāt / nanu kramārthaiṣā bhaviṣyatītyuktam / neti brūmaḥ - 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1.1) iti purastātsaṃbhavatyapādānasyātmanaḥ pañcamīnirdeśātsa, tasyaiva ca saṃbhavaterihādhikārāt, parastādapi ca tadadhikāre 'pṛthivyā oṣadhayaḥ' (tai. 2.1.1) ityapādānapañcamīdarśanādvāyoragnirityapādānapañcamyevaiṣeti gamyate / apica vāyorūrdhvamagniḥ saṃbhūta iti kalpya upapadārthayogaḥ kḷptastu kārakārthayogo vāyoragni saṃbhūta iti / tasmādeṣā śrutirvāyuyonitvaṃ tejaso 'vagamayati / nanvitarāpi śrutirbrahmayonitvaṃ tejaso 'vagamayati 'tattejo 'sṛjata' iti / na / tasyāḥ pāramparyajatve 'pyavirodāt / yadāpi hyākāśaṃ vāyuṃ ca sṛṣṭvā vāyubhāvāpannaṃ brahma tejo 'sṛjateti kalpyate, tadāpi brahmajatvaṃ tejaso na virudhyate / yathā tasyāḥ śrutaṃ tasyā dadhi tasyā āmikṣetyādi / darśayati ca brahmaṇo vikārātmanāvastānaṃ 'tadātmānaṃ svayamakuruta' (tai. 2.7.1) iti / tathāceśvarasmaraṇaṃ bhavati- 'buddirjñānamasaṃmohaḥ' (bha.gī. 10.4) ityādyanukramya 'bhavati bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ' (bha.gī. 10.5) iti / yadyapi buddhyādayaḥ svakāraṇebhyaḥ pratyakṣaṃ bhavanto dṛśyante tathāpi sarvasya bhāvajātasya sākṣātpraṇāḍyā veśvaravaṃśyatvāt / etenākramavatsṛṣṭivādinyaḥ śrutayo vyākhyātāḥ / tāsāṃ sarvathopapatteḥ / kramavatsṛṣṭivādinīnāṃ tvanyathānupapatteḥ / pratijñāpi sadvaṃśyatvamātramapekṣate nāvyavahitajanyatvamityavirodhaḥ // 10 // ---------------------- FN: kadarthitā pīḍitā bādhiteti yāvat / tadadhikāre saṃbhūtyadhikāre / tasyā dhenoḥ śrutaṃ taptaṃ kṣīraṃ sākṣātkāryaṃ, dadhyādikaṃ tu pāramparyajamityarthaḥ / dadhisaṃsṛṣṭaṃ kaṭhinakṣīramāmikṣā / praṇāḍyā paramparayā /

Sanskrit only: no published translation is held for this verse.

आपः ऽअतस्तथाह्याहऽ इत्यनुवर्तते । आपो ऽतस्तेजसो जायन्ते । कस्मात् । तथाह्याह- ऽतदपो ऽसृजतऽ इति ऽअग्नेरापःऽ इति च वचने नास्ति संशयः । तेजसस्तु सृष्टिं व्याख्याय पृथिव्या व्याख्यास्यन्नपो ऽन्तरियामित्याप इति सूत्रयांबभूव ॥ ११ ॥ ६ पृथिव्यधिकाराधिकरणम् । सू। १२

āpaḥ 'atastathāhyāha' ityanuvartate / āpo 'tastejaso jāyante / kasmāt / tathāhyāha- 'tadapo 'sṛjata' iti 'agnerāpaḥ' iti ca vacane nāsti saṃśayaḥ / tejasastu sṛṣṭiṃ vyākhyāya pṛthivyā vyākhyāsyannapo 'ntariyāmityāpa iti sūtrayāṃbabhūva // 11 // 6 pṛthivyadhikārādhikaraṇam / sū. 12

Sanskrit only: no published translation is held for this verse.

पृथिव्य् अधिकाररूपशब्दान्तरेभ्यः ऽता आप ऐक्षन्त बह्वयः स्याम प्रजायेमहीति ता अन्नमसृजन्तऽ (छा। ६।२।४) इति श्रूयते । तत्र संशयः - किमनेनान्नशब्देन व्रीहियवाद्यभ्यवहार्यै चौदनाद्युच्यते किं वा पृथिवीति । तत्र प्राप्तं तावद्व्रीहियवाद्योदनादि वा परिग्रहीतव्यमिति । तत्र ह्यन्नशब्दः प्रसिद्धो लोके वाक्यशेषो ऽप्येतमर्थमुपोद्वलयति । ऽतस्माद्यत्र क्वच वर्षति तदेव भूयिष्टमन्नं भवतीतिऽ । व्रीहियवाद्येव हि सति वर्षणे बहु भवति न पृथिवीति । एवं प्राप्ते ब्रूमः पृथिव्येवेयमन्नशब्देनाद्भ्यो जायमाना विवक्ष्यत इति । कस्मात् । अधिकाराद्रूपाच्छब्दान्तराच्च । अधिकारस्तावत्- ऽतत्तेजो ऽसृजतऽ ऽतदपो ऽसृजतऽ इति महाभूतविषयो वर्तते । तत्र क्रमप्राप्तां पृथिवीं महाभूतं विलङ्घ्य नाकस्माद्व्रीह्यादिपरिग्रहो न्याय्यः । तथा रूपमपि वाक्यशेषे पृथिव्यनुगुणं दृश्यते ऽयत्कृष्णं तदन्नस्यऽ इति । नह्योदनादेरभ्यवहार्यस्य कृष्णत्वनियमो ऽस्ति । नापि व्रीह्यादीनाम् । ननु पृथिव्या अपि नैव कृष्णत्वनियमो ऽस्ति पयःपाण्डुरस्याङ्गाररोहितस्य च क्षेत्रस्य दर्शनात् । नायं दोषः । बाहुल्यापेक्षत्वात् । भूयिष्ठं हि पृथिव्याः कृष्णं रूपं न तथा श्वेतरोहिते । पौराणिका अपि पृथिवीच्छायां शर्वरीमुपदिशन्ति । सा च कृष्णाभासेत्यतः कृष्णं रूपं पृथिव्या इति श्लिष्यते । श्रुत्यन्तरमपि समानाधिकारमद्भ्यः पृथिवीति भवति । ऽतद्यदपां शर आसीत्तत्समहन्यत सा पृथिव्यभवत्ऽ (बृ। १।२।२) इति च । पृथिव्यास्तु व्रीह्यादेरुत्पत्तिं दर्शयति- ऽपृथिव्या ओषधय ओषधीभ्यो ऽन्नम्ऽ इति च । एवमधिकारादिषु पृथिव्याः प्रतिपादकेषु सत्सु कुतो व्रीह्यादिप्रतिपत्तिः । प्रसिद्धिरप्यधिकारादिभिरेव बाध्यते । वाक्यशेषो ऽपि पार्थिवत्वादन्नाद्यस्य तद्द्वारेण पृथिव्या एवाद्भ्यः प्रभवत्वं सूचयतीति द्रष्टव्यम् । तस्मात्पृथिवीयमन्नशब्देति ॥ १२ ॥ ---------------------- फ़्न्: तत्तत्र सृष्टिकाले यदपां शरःमण्डवद्घनीभाव आसीत्स एव समहन्यत कठिनः संघातो ऽभूत् । ७ तदभिध्यानाधिकरणम् । सू। १३

pṛthivy adhikārarūpaśabdāntarebhyaḥ 'tā āpa aikṣanta bahvayaḥ syāma prajāyemahīti tā annamasṛjanta' (chā. 6.2.4) iti śrūyate / tatra saṃśayaḥ - kimanenānnaśabdena vrīhiyavādyabhyavahāryai caudanādyucyate kiṃ vā pṛthivīti / tatra prāptaṃ tāvadvrīhiyavādyodanādi vā parigrahītavyamiti / tatra hyannaśabdaḥ prasiddho loke vākyaśeṣo 'pyetamarthamupodvalayati / 'tasmādyatra kvaca varṣati tadeva bhūyiṣṭamannaṃ bhavatīti' / vrīhiyavādyeva hi sati varṣaṇe bahu bhavati na pṛthivīti / evaṃ prāpte brūmaḥ pṛthivyeveyamannaśabdenādbhyo jāyamānā vivakṣyata iti / kasmāt / adhikārādrūpācchabdāntarācca / adhikārastāvat- 'tattejo 'sṛjata' 'tadapo 'sṛjata' iti mahābhūtaviṣayo vartate / tatra kramaprāptāṃ pṛthivīṃ mahābhūtaṃ vilaṅghya nākasmādvrīhyādiparigraho nyāyyaḥ / tathā rūpamapi vākyaśeṣe pṛthivyanuguṇaṃ dṛśyate 'yatkṛṣṇaṃ tadannasya' iti / nahyodanāderabhyavahāryasya kṛṣṇatvaniyamo 'sti / nāpi vrīhyādīnām / nanu pṛthivyā api naiva kṛṣṇatvaniyamo 'sti payaḥpāṇḍurasyāṅgārarohitasya ca kṣetrasya darśanāt / nāyaṃ doṣaḥ / bāhulyāpekṣatvāt / bhūyiṣṭhaṃ hi pṛthivyāḥ kṛṣṇaṃ rūpaṃ na tathā śvetarohite / paurāṇikā api pṛthivīcchāyāṃ śarvarīmupadiśanti / sā ca kṛṣṇābhāsetyataḥ kṛṣṇaṃ rūpaṃ pṛthivyā iti śliṣyate / śrutyantaramapi samānādhikāramadbhyaḥ pṛthivīti bhavati / 'tadyadapāṃ śara āsīttatsamahanyata sā pṛthivyabhavat' (bṛ. 1.2.2) iti ca / pṛthivyāstu vrīhyāderutpattiṃ darśayati- 'pṛthivyā oṣadhaya oṣadhībhyo 'nnam' iti ca / evamadhikārādiṣu pṛthivyāḥ pratipādakeṣu satsu kuto vrīhyādipratipattiḥ / prasiddhirapyadhikārādibhireva bādhyate / vākyaśeṣo 'pi pārthivatvādannādyasya taddvāreṇa pṛthivyā evādbhyaḥ prabhavatvaṃ sūcayatīti draṣṭavyam / tasmātpṛthivīyamannaśabdeti // 12 // ---------------------- FN: tattatra sṛṣṭikāle yadapāṃ śaraḥmaṇḍavadghanībhāva āsītsa eva samahanyata kaṭhinaḥ saṃghāto 'bhūt / 7 tadabhidhyānādhikaraṇam / sū. 13

Sanskrit only: no published translation is held for this verse.

तदभिध्यानाद् एव तु तल्लिङ्गात् सः किमिमानि वियदादीनि भूतानि स्वयमेव स्वविकारान्सृजन्त्याहोस्वत्परमेश्वर एव तेन तेनात्मनावतिष्ठमानो ऽभिध्यायंस्तं तं विकारं सृजतीति संदेहे सति प्राप्तं तावत्स्वयमेव सृजन्तीति । कुतः । ऽआकाशाद्वायुर्वायोरग्निःऽ इत्यादिस्वातन्त्र्यश्रवणात् । नन्वचेतनानां स्वतन्त्राणां प्रवृत्तिः प्रतिषिद्धा । नैष दोषः । ऽतत्तेज ऐक्षत ता आप ऐक्षन्तऽ (छा। ६।२।४) इति च भूतानामपि चेतनत्वश्रवणादिति । एवं प्राप्ते ऽभिधीयते- स एव परमेश्वरस्तेन तेनात्मनावतिष्ठमानो ऽभिध्यायंस्तं तं विकारं सृजतीति । कुतः । तल्लिङ्गात् । तथाहि शास्त्रम्- ऽयः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयतिऽ (बृ। ३।७।३) इत्येवञ्जातीयकं साध्यक्षाणमेव भूतानां प्रवृत्तिं दर्शयति । तथा सो ऽकामयत बहु स्यां प्रजायेय इति प्रस्तुत्य ऽसच्च त्यच्चाभवत् । तदात्मानं स्वयमकुरुतऽ (तै। २।६।१) इति च तस्यैव च सर्वात्मभावं दर्शयति । यत्त्वीक्षणश्रवणमप्तेजसोस्तत्परमेश्वरावेशवशादेव द्रष्टव्यम् ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ (बृ। ३।७।२३) इतीक्षित्रन्तरप्रतिषेधात्, प्रकृतत्वाच्च सत ईक्षितुः ऽतदैक्षत बहु स्यां प्रजायेयऽ इत्यत्र ॥ १३ ॥ ---------------------- फ़्न्: परमेश्वरस्यान्तर्यामिभावेनावेशः संबन्धस्तद्वशाद्भूतेष्वीक्षणं श्रवणं नैतावता तेषां चेतनत्वं स्वातन्त्र्यं वेत्यर्थः । ८ विपर्ययाधिकरणम् । सू। १४

tadabhidhyānād eva tu talliṅgāt saḥ kimimāni viyadādīni bhūtāni svayameva svavikārānsṛjantyāhosvatparameśvara eva tena tenātmanāvatiṣṭhamāno 'bhidhyāyaṃstaṃ taṃ vikāraṃ sṛjatīti saṃdehe sati prāptaṃ tāvatsvayameva sṛjantīti / kutaḥ / 'ākāśādvāyurvāyoragniḥ' ityādisvātantryaśravaṇāt / nanvacetanānāṃ svatantrāṇāṃ pravṛttiḥ pratiṣiddhā / naiṣa doṣaḥ / 'tatteja aikṣata tā āpa aikṣanta' (chā. 6.2.4) iti ca bhūtānāmapi cetanatvaśravaṇāditi / evaṃ prāpte 'bhidhīyate- sa eva parameśvarastena tenātmanāvatiṣṭhamāno 'bhidhyāyaṃstaṃ taṃ vikāraṃ sṛjatīti / kutaḥ / talliṅgāt / tathāhi śāstram- 'yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīmantaro yamayati' (bṛ. 3.7.3) ityevañjātīyakaṃ sādhyakṣāṇameva bhūtānāṃ pravṛttiṃ darśayati / tathā so 'kāmayata bahu syāṃ prajāyeya iti prastutya 'sacca tyaccābhavat / tadātmānaṃ svayamakuruta' (tai. 2.6.1) iti ca tasyaiva ca sarvātmabhāvaṃ darśayati / yattvīkṣaṇaśravaṇamaptejasostatparameśvarāveśavaśādeva draṣṭavyam 'nānyo 'to 'sti draṣṭā' (bṛ. 3.7.23) itīkṣitrantarapratiṣedhāt, prakṛtatvācca sata īkṣituḥ 'tadaikṣata bahu syāṃ prajāyeya' ityatra // 13 // ---------------------- FN: parameśvarasyāntaryāmibhāvenāveśaḥ saṃbandhastadvaśādbhūteṣvīkṣaṇaṃ śravaṇaṃ naitāvatā teṣāṃ cetanatvaṃ svātantryaṃ vetyarthaḥ / 8 viparyayādhikaraṇam / sū. 14

Sanskrit only: no published translation is held for this verse.

विपर्ययेण तु क्रमो ऽत उपपद्यते च भूतानामुत्पत्तिक्रमश्चिन्तितः । अथेदानीमप्ययक्रमश्चिन्त्यते । किमनियतेन क्रमेणाप्यय उत्पत्तिक्रमेणाथवा तद्विपरीतेनेति । त्रयो ऽपि चोत्पत्तिस्थितिप्रलया भूतानां ब्रह्मायत्ताः श्रूयन्ते- ऽयतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्तिऽ (तै। ३।१।१) इति । तत्रानियमो ऽविशेषादिति प्राप्तम् । अथवोत्पत्तेः क्रमस्य श्रुतत्वाप्रलयस्यापि क्रमाकाङ्क्षिणः स एव क्रमः स्यादिति । एवं प्राप्तं ततो ब्रूमः विपर्ययेण तु प्रलयक्रमो ऽत उत्पत्तिक्रमाद्भवितुमर्हति । तथाहि लोके दृश्यते येन क्रमेण सोपानमारूढस्ततो विपरीतेन क्रमेणावरोहतीति । अपिच दृश्यते मृदो जातं घटशरावाद्यप्ययकाले मृद्भावमप्येत्यद्भ्यश्च जातं हिमकरकाद्यब्भावमप्येतीति । अतश्चोपपद्यत एतत् । यद्पृथिव्यद्भ्यो जाता सती स्थितिकालव्यतिक्रान्तावपो ऽपीयादापश्च तेजसो जाताः सत्यस्तेजो ऽपीयुः । एवं क्रमेण सूक्ष्मं सूक्ष्मतरं चानन्तरमनन्तरं कारणमपीत्य सर्वं कार्यजातं परमकारणं परमसूक्ष्मं च ब्रह्माप्येतीति वेदितव्यम् । नहि स्वकारणव्यतिक्रमेण कारणकारणे कार्याप्ययो न्याय्यः । स्मृतावप्युत्पत्तिक्रमविपर्ययेणैवाप्ययक्रमस्तत्र तत्र दर्शितः - ऽजगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते । ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयतेऽ इत्येवमादौ । उत्पत्तिक्रमस्तूत्पत्तावेव श्रुतत्वान्नाप्यये भवितुमर्हति । नचासावयोग्यत्वादप्ययेनाकाङ्क्ष्यते । नहि कार्ये ध्रियमाणे कारणस्याप्ययो युक्तः कारणाप्यये कार्यस्यावस्थानानुपपत्तेः । कार्याप्यये तु कारणस्यावस्थानं युक्तं मृदादिष्वेवं दृष्टत्वात् ॥ १४ ॥ ---------------------- फ़्न्: क्रमेण परम्परया । ९ अन्तराविज्ञानाधिकरणम् । सू। १५

viparyayeṇa tu kramo 'ta upapadyate ca bhūtānāmutpattikramaścintitaḥ / athedānīmapyayakramaścintyate / kimaniyatena krameṇāpyaya utpattikrameṇāthavā tadviparīteneti / trayo 'pi cotpattisthitipralayā bhūtānāṃ brahmāyattāḥ śrūyante- 'yato vā imāni bhūtāni jāyante / yena jātāni jīvanti yatprayantyabhisaṃviśanti' (tai. 3.1.1) iti / tatrāniyamo 'viśeṣāditi prāptam / athavotpatteḥ kramasya śrutatvāpralayasyāpi kramākāṅkṣiṇaḥ sa eva kramaḥ syāditi / evaṃ prāptaṃ tato brūmaḥ viparyayeṇa tu pralayakramo 'ta utpattikramādbhavitumarhati / tathāhi loke dṛśyate yena krameṇa sopānamārūḍhastato viparītena krameṇāvarohatīti / apica dṛśyate mṛdo jātaṃ ghaṭaśarāvādyapyayakāle mṛdbhāvamapyetyadbhyaśca jātaṃ himakarakādyabbhāvamapyetīti / ataścopapadyata etat / yadpṛthivyadbhyo jātā satī sthitikālavyatikrāntāvapo 'pīyādāpaśca tejaso jātāḥ satyastejo 'pīyuḥ / evaṃ krameṇa sūkṣmaṃ sūkṣmataraṃ cānantaramanantaraṃ kāraṇamapītya sarvaṃ kāryajātaṃ paramakāraṇaṃ paramasūkṣmaṃ ca brahmāpyetīti veditavyam / nahi svakāraṇavyatikrameṇa kāraṇakāraṇe kāryāpyayo nyāyyaḥ / smṛtāvapyutpattikramaviparyayeṇaivāpyayakramastatra tatra darśitaḥ - 'jagatpratiṣṭhā devarṣe pṛthivyapsu pralīyate / jyotiṣyāpaḥ pralīyante jyotirvāyau pralīyate' ityevamādau / utpattikramastūtpattāveva śrutatvānnāpyaye bhavitumarhati / nacāsāvayogyatvādapyayenākāṅkṣyate / nahi kārye dhriyamāṇe kāraṇasyāpyayo yuktaḥ kāraṇāpyaye kāryasyāvasthānānupapatteḥ / kāryāpyaye tu kāraṇasyāvasthānaṃ yuktaṃ mṛdādiṣvevaṃ dṛṣṭatvāt // 14 // ---------------------- FN: krameṇa paramparayā / 9 antarāvijñānādhikaraṇam / sū. 15

Sanskrit only: no published translation is held for this verse.

अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गाद् इति चेन् नाविशेषात् भूतानामुत्पत्तिप्रलयावनुलोमप्रतिलोमक्रमाभ्यां भवत इत्युक्तम् । आत्मादिरुत्पत्तिः प्रलयश्चात्मान्त इत्यप्युक्तम् । सेन्द्रियस्य तु मनसो बुद्धेश्च सद्भावः प्रसिद्धः श्रुतिस्मृत्योः । ऽबुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च । इन्द्रियाणि हयानाहुःऽ (कठ। ३।३) इत्यादिलिङ्गेभ्यः । तयोरपि कस्मिश्चिदन्तराले क्रमेणोत्पत्तिप्रलयावुपसंग्राह्यौ, सर्वस्य वस्तुजातस्य ब्रह्मजत्वाभ्युपगमात् । अपिचाथर्वण उत्पत्तिप्रकरणे भूतानामात्मनश्चान्तराले करणान्यनुक्रम्यन्ते । ऽएतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणीऽ (मुणड। २।१।३) इति । तस्मात्पूर्वोक्तोत्पत्तिप्रलयक्रमभङ्गप्रसङ्गो भूतानामिति चेत् । न । अविशेषात् । यदि तावद्भौतिकानि करणानि ततो भूतोत्पत्तिप्रलयाभ्यामेवैषामुत्पत्तिप्रलयौ भवत इति नैतयोः क्रमान्तरं मृग्यम् । भवति च भौतिकत्वे लिङ्गं करणानाम् । ऽअन्नमयं हि सोम्य मन ओषधयः प्राणस्तेजोमयी वाक्ऽ (छा। ६।५।४) इत्येवजातीयकम् । व्यपदेशो ऽपि क्वचिद्भूतानां करणानां च ब्राह्मणपरिव्राजकन्यायेन नेतव्यः । अथ त्वभौतिकानि करणानि तथापि भूतोत्पत्तिक्रमो न करणैर्विशेष्यते प्रथमं करणान्युत्पद्यन्ते चरमं भूतानि प्रथमं वा भूतान्युत्पद्यन्ते चरमं वा करणानीति । आथर्वणे तु समाम्नायक्रममात्रं करणानां भूतानां च । न तत्रोत्पत्तिक्रम उच्यते । तथान्यत्रापि पृथगेव भूतक्रमात्करणक्रम आम्नायते- ऽप्रजापतिर्वा इदमग्र आसीत्स आत्मानमैक्षत स मनो ऽसृजत तन्मन एवासीत्तदात्मानमैक्षत तद्वाचमसृजतऽ इत्यादिना । तस्मान्नास्ति भूतोत्पत्तिक्रमस्य भङ्गः ॥ १५ ॥ ---------------------- फ़्न्: अन्यपराः शब्दा लिङ्गानीत्युच्यन्ते । इदं स्थूलमुत्पत्तेः प्राक् प्रजापतिः सूत्रात्मा आसीत् । १० चराचरव्यपाश्रयाधिकरणम् । सू। १६

antarā vijñānamanasī krameṇa talliṅgād iti cen nāviśeṣāt bhūtānāmutpattipralayāvanulomapratilomakramābhyāṃ bhavata ityuktam / ātmādirutpattiḥ pralayaścātmānta ityapyuktam / sendriyasya tu manaso buddheśca sadbhāvaḥ prasiddhaḥ śrutismṛtyoḥ / 'buddhiṃ tu sārathiṃ viddhi manaḥ pragrahameva ca / indriyāṇi hayānāhuḥ' (kaṭha. 3.3) ityādiliṅgebhyaḥ / tayorapi kasmiścidantarāle krameṇotpattipralayāvupasaṃgrāhyau, sarvasya vastujātasya brahmajatvābhyupagamāt / apicātharvaṇa utpattiprakaraṇe bhūtānāmātmanaścāntarāle karaṇānyanukramyante / 'etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca / khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī' (muṇaḍa. 2.1.3) iti / tasmātpūrvoktotpattipralayakramabhaṅgaprasaṅgo bhūtānāmiti cet / na / aviśeṣāt / yadi tāvadbhautikāni karaṇāni tato bhūtotpattipralayābhyāmevaiṣāmutpattipralayau bhavata iti naitayoḥ kramāntaraṃ mṛgyam / bhavati ca bhautikatve liṅgaṃ karaṇānām / 'annamayaṃ hi somya mana oṣadhayaḥ prāṇastejomayī vāk' (chā. 6.5.4) ityevajātīyakam / vyapadeśo 'pi kvacidbhūtānāṃ karaṇānāṃ ca brāhmaṇaparivrājakanyāyena netavyaḥ / atha tvabhautikāni karaṇāni tathāpi bhūtotpattikramo na karaṇairviśeṣyate prathamaṃ karaṇānyutpadyante caramaṃ bhūtāni prathamaṃ vā bhūtānyutpadyante caramaṃ vā karaṇānīti / ātharvaṇe tu samāmnāyakramamātraṃ karaṇānāṃ bhūtānāṃ ca / na tatrotpattikrama ucyate / tathānyatrāpi pṛthageva bhūtakramātkaraṇakrama āmnāyate- 'prajāpatirvā idamagra āsītsa ātmānamaikṣata sa mano 'sṛjata tanmana evāsīttadātmānamaikṣata tadvācamasṛjata' ityādinā / tasmānnāsti bhūtotpattikramasya bhaṅgaḥ // 15 // ---------------------- FN: anyaparāḥ śabdā liṅgānītyucyante / idaṃ sthūlamutpatteḥ prāk prajāpatiḥ sūtrātmā āsīt / 10 carācaravyapāśrayādhikaraṇam / sū. 16

Sanskrit only: no published translation is held for this verse.

चराचरव्यपाश्रयस् तु स्यात् तद्व्यपदेशो भाक्तस् तद्भावभावित्वात् स्तो जीवस्याप्युत्पत्तिप्रलयौ, जातो देवदत्तो मृतो देवदत्त इत्येवजातीयकाल्लौकिकव्यपदेशात् जातकर्मादिसंस्कारविधानाच्चेति स्यात्कस्यच्द्भ्रान्तिस्तामपनुदामः । न जीवस्योत्पत्तिप्रलयौ स्तः, शास्त्रफलसंबन्धोपपत्तेः । शरीरानुविनाशिनि हि जीवे शरीरान्तकगतेष्टानिष्टप्राप्तिपरिहारार्थौ विधिप्रतिषेधावनर्तकौ स्याताम् । श्रूयते च- ऽजीवापेतं वाव किलेदं म्रियते न जीवो म्रियतेऽ (छा। ६।११।३) इति । ननु लौकिको जन्ममरणव्यपदेशो जीवस्य दर्शितः । सत्यं दर्शितः । भाक्तस्त्वेष जीवस्य जन्ममरणव्यपदेशः । किमाश्रयः पुनरयं मुख्यो यदपेक्षया भाक्त इति । उच्यते- चराचरव्यपाश्रयः । स्थावरजङ्गमशरीरविषयौ जन्ममरणशब्दौ । स्थावरजङ्गमानि हि भूतानि जायन्ते च म्रियन्ते चातस्तद्विषयौ जन्ममरणशब्दौ मुख्यौ सन्तौ तत्स्थे जीवात्मन्युपचर्यते, तद्भावभावित्वात् । शरीरप्रादुर्भावतिरोभावयोर्हि सतोर्जन्ममरणशब्दौ भवतो नासतोः । नहि शरीरसंबन्धादन्यत्र जीवो जातो मृतो वा केनचिल्लक्ष्यते । ऽस वा अयं पुरुषो जायमानः शरीरमभिसंपद्यमानः स उत्क्रामन् म्रियमाणः (बृ। ४।३।८) इति च शरीरसंयोगवियोगनिमित्तावेव जन्ममरणशब्दौ दर्शयति । जातकर्मादिविधानमपि देहप्रादुर्भावापेक्षमेव द्रष्टव्यम् । अभावाज्जीवप्रादुर्भावस्य । जीवस्य परस्मादात्मन उत्पत्तिर्वियदादीनामिवास्ति नास्ति वेत्येतदुत्तरेण सूत्रेण वक्ष्यति । देहाश्रयौ तावज्जीवस्य स्थूलावुत्पत्तिप्रलयौ न स्त इत्येतदनेन सूत्रेणावोचत् ॥ १६ ॥ ---------------------- फ़्न्: जीवापेतं जीवेन त्यक्तमिदं शरीरम् । ११ आत्माधिरणम् । सू। १७

carācaravyapāśrayas tu syāt tadvyapadeśo bhāktas tadbhāvabhāvitvāt sto jīvasyāpyutpattipralayau, jāto devadatto mṛto devadatta ityevajātīyakāllaukikavyapadeśāt jātakarmādisaṃskāravidhānācceti syātkasyacdbhrāntistāmapanudāmaḥ / na jīvasyotpattipralayau staḥ, śāstraphalasaṃbandhopapatteḥ / śarīrānuvināśini hi jīve śarīrāntakagateṣṭāniṣṭaprāptiparihārārthau vidhipratiṣedhāvanartakau syātām / śrūyate ca- 'jīvāpetaṃ vāva kiledaṃ mriyate na jīvo mriyate' (chā. 6.11.3) iti / nanu laukiko janmamaraṇavyapadeśo jīvasya darśitaḥ / satyaṃ darśitaḥ / bhāktastveṣa jīvasya janmamaraṇavyapadeśaḥ / kimāśrayaḥ punarayaṃ mukhyo yadapekṣayā bhākta iti / ucyate- carācaravyapāśrayaḥ / sthāvarajaṅgamaśarīraviṣayau janmamaraṇaśabdau / sthāvarajaṅgamāni hi bhūtāni jāyante ca mriyante cātastadviṣayau janmamaraṇaśabdau mukhyau santau tatsthe jīvātmanyupacaryate, tadbhāvabhāvitvāt / śarīraprādurbhāvatirobhāvayorhi satorjanmamaraṇaśabdau bhavato nāsatoḥ / nahi śarīrasaṃbandhādanyatra jīvo jāto mṛto vā kenacillakṣyate / 'sa vā ayaṃ puruṣo jāyamānaḥ śarīramabhisaṃpadyamānaḥ sa utkrāman mriyamāṇaḥ (bṛ. 4.3.8) iti ca śarīrasaṃyogaviyoganimittāveva janmamaraṇaśabdau darśayati / jātakarmādividhānamapi dehaprādurbhāvāpekṣameva draṣṭavyam / abhāvājjīvaprādurbhāvasya / jīvasya parasmādātmana utpattirviyadādīnāmivāsti nāsti vetyetaduttareṇa sūtreṇa vakṣyati / dehāśrayau tāvajjīvasya sthūlāvutpattipralayau na sta ityetadanena sūtreṇāvocat // 16 // ---------------------- FN: jīvāpetaṃ jīvena tyaktamidaṃ śarīram / 11 ātmādhiraṇam / sū. 17

Sanskrit only: no published translation is held for this verse.

नात्मा श्रुतेर् नित्यत्वाच् च ताभ्यः अस्त्यात्मा जीवाख्यः शरीरेन्द्रियपञ्जराध्यक्षः कर्मफलसंबन्धी । स किं व्योमादिवदुत्पद्यते ब्रह्मण आहोस्विद्ब्रह्मवदेव नोत्पद्यत इति श्रुतिविप्रतिपत्तेर्विशयः । कासुचिच्छ्रुतिष्वग्निविस्फुलिङ्गादिनिदर्शनैर्जीवात्मनः परस्माद्ब्रह्मण उत्पत्तिराम्नायते, कासुचित्त्वविकृतस्य परस्य ब्रह्मणः कार्यप्रवेशेन जीवभावो विज्ञायते नचोत्पत्तिराम्नायत इति । तत्र प्राप्तं तावदुत्पद्यते जीव इति । कुतः । प्रतिज्ञानुपरोधादेव । एकस्मिन्विदिते सर्वमिदं विदितम् इतीयं प्रतिज्ञा सर्वस्य वस्तुजातस्य ब्रह्मप्रभवत्वे सति नोपरुध्येत । तत्त्वान्तरत्वे तु जीवस्य प्रतिज्ञेयमुपरुध्येत । नचाविकृतः परमात्मैव जीव इति शक्यते विज्ञातुं, लक्षणभेदात् । अपहृतपाप्मत्वादिधर्मको हि परमात्मा, तद्विपरीतो हि जीवः । विभागाच्चास्य विकारत्वसिद्धिः । यावान्ह्याकाशादिः प्रविभक्तः स सर्वो विकारस्तस्य चाकाशादेरुत्पत्तिः समधिगता । जीवात्मापि पुण्यापुण्यकर्मा सुखदुःखयुक्प्रतिशरीरं प्रविभक्त इति तस्यापि प्रपञ्चोत्पत्त्यवसर उत्पत्तिर्भवितुमर्हति । अपिच ऽयथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चारन्त्येवमेवास्मादात्मनः सर्वे प्राणाःऽ (बृ। २।१।२०) इति प्राणादेर्भोग्यजातस्य सृष्टिं शिष्ट्वा ऽसर्व एव आत्मनो व्युच्चरन्तिऽ इति भोक्तृणीमात्मनां पृथक्सृष्टिं शास्ति । ऽयथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्तिऽ (मुण्ड। २।१।१) इति च जीवात्मनामुत्पत्तिप्रलयावुच्येते । सरूपवचनात्, जीवात्मानो हि परमात्मना सरूपा भवन्ति चैतन्ययोगात् । नच क्वचिदश्रवणमन्यत्र श्रुतं वारयितुमर्हति । श्रुत्यन्तरगतस्याप्यविरुद्धस्याधिकस्यार्थस्य सर्वत्रोपसंहर्तव्यत्वात् । प्रवेशश्रुतिरप्येवं सति विकारभावापत्त्यैव व्याख्यातव्या, ऽतदात्मानं स्वयमकुरुतऽ इत्यादिवत् । तस्मादुत्पद्यते जीव इति । एवं प्राप्ते ब्रूमः - नात्मा जीव उत्पद्यत इति । कस्मात् । अश्रुतेः । नह्यस्योत्पत्तिप्रकरणे श्रवणमस्ति भूयःसु प्रदेशेषु । ननु क्वचिदश्रवणमन्यत्र श्रुतं न वारयितीत्युक्तम् । सत्यमुक्तम् । उत्पत्तिरेव त्वस्य न संभवतीति वदामः । कस्मात् । नित्यत्वाच्च ताभ्यः । चशब्दादजत्वादिभ्यश्च । नित्यत्वं ह्यस्य श्रुतिभ्यो ऽवगम्यते तथाजत्वमविकारित्वमविकृतस्यैव ब्रह्मणो जीवात्मनावस्थानं ब्रह्मात्मना चेति । नचैवंरूपस्योत्पत्तिरुपपद्यते । ताः काः श्रुतयः । ऽन जीवो म्रियतेऽ (छा। ६।११।३), ऽस वा एष महानज आत्माजरो ऽमरो ऽमृतो ऽभयो ब्रह्मऽ (बृ। ४।४।२२), ऽन जायते म्रियते वा विपश्चित्ऽ (कठं २।१८), ऽअजो नित्यः शाश्वतो ऽयं पुराणःऽ (कठ। २।१८)। ऽतत्सृष्ट्वा तदेवानुप्राविशत्ऽ (तै। २।६।१), ऽअनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणिऽ (छा। ६।३।२), ऽस एष इह प्रविष्ट आ नखाग्रेभ्यःऽ (बृ। १।४।७), ऽतत्त्वमसिऽ (छा। ६।८।७) ऽअहं ब्रह्मास्मिऽ (बृ। १।४।१९), ऽअयमात्मा ब्रह्म सर्वानुभूःऽ (बृ। २।५।१९) इत्येवमाद्या नित्यत्ववादिन्यः सत्यो जीवस्योत्पत्तिं प्रतिबध्नन्ति । ननु प्रविभक्तत्वाद्विकारो विकारत्वाच्चोत्पद्यत इत्युक्तम् । अत्रोच्यते- नास्य प्रविभागः स्वतो ऽस्ति । ऽएको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्माऽ (श्वे। ६।११) इति श्रुतेः । बुद्ध्याद्यपाधिनिमित्तं त्वस्य प्रविभागप्रतिभानमाकाशस्येव घटादिसंबन्धनिमित्तम् । तथाच शास्त्रम्- ऽस वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयःऽ (बृ। ४।४।५) इत्येवमादि ब्रह्मण एवाविकृतस्य सतो ऽप्येकस्यानेकबुद्ध्यादिमयत्वं दर्शयति । तन्मयत्वं चास्य विविक्तस्वरूपानभिव्यक्त्या तदुपरक्तस्वरूपत्वं स्त्रीमयो जाल्म इत्यादिवद्द्रष्टव्यम् । यदपि क्वचिदस्योत्पत्तिप्रलयश्रवणं तदप्यत एवोपाधिसंबन्धान्नेतव्यम् । उपाध्युत्पत्त्यास्योत्पत्तिस्तत्प्रलयेन च प्रलय इति । तथाच दर्शयति- ऽप्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्तिऽ (बृ। ४।५।१३) इति । तथोपाधिप्रलय एवायं नात्मविलय इत्येतदप्यत्रैव ऽमा भगवान्मोहान्तमापीपदन्न वा अहमिमं विजानामि न प्रेत्य संज्ञास्तिऽ इति प्रश्नपूर्वकं प्रतिपादयति- ऽन वा अरे ऽहं मोहं ब्रवीम्यविनाशी वा अरे ऽयमात्मानुच्छित्तिधर्मा मात्रासंसर्गस्त्वस्य भवतिऽ (बृ। ४।५।१४) इति । प्रतिज्ञानुपरोधो ऽप्यविकृतस्यैव ब्रह्मणो जीवभावाभ्युपगमात् । लक्षणभेदो ऽप्यनयोरुपाधिनिमित्त एव । ऽअत ऊर्ध्वं विमोक्षायैव ब्रूहिऽ (बृ। ४।३।१५) इति च प्रकृतस्यैव विज्ञानमयस्यात्मनः सर्वसंसारधर्मप्रत्याख्यानेन परमात्मभावप्रतिपादनात् । तस्मानैवात्मोत्पद्यते प्रविलीयते चेति ॥ १७ ॥ ---------------------- फ़्न्: उपरोधो बाधः । सरूपशब्दो जीववाचीति शेषः । जाल्मः कामजडः । स यथा स्त्रीपरतन्त्रः स्त्रीमयो व्पदिश्यते । एतेभ्यो देहात्मना परिणतेभ्यो भूतेभ्यः साम्येनोत्थाय जनित्वा तान्येव लीयमानान्यनु पश्चाद्विनश्यति । मोहं मोहकरं वाक्यम् । १२ ज्ञाधिकरणम् । सू। १८

nātmā śruter nityatvāc ca tābhyaḥ astyātmā jīvākhyaḥ śarīrendriyapañjarādhyakṣaḥ karmaphalasaṃbandhī / sa kiṃ vyomādivadutpadyate brahmaṇa āhosvidbrahmavadeva notpadyata iti śrutivipratipatterviśayaḥ / kāsucicchrutiṣvagnivisphuliṅgādinidarśanairjīvātmanaḥ parasmādbrahmaṇa utpattirāmnāyate, kāsucittvavikṛtasya parasya brahmaṇaḥ kāryapraveśena jīvabhāvo vijñāyate nacotpattirāmnāyata iti / tatra prāptaṃ tāvadutpadyate jīva iti / kutaḥ / pratijñānuparodhādeva / ekasminvidite sarvamidaṃ viditam itīyaṃ pratijñā sarvasya vastujātasya brahmaprabhavatve sati noparudhyeta / tattvāntaratve tu jīvasya pratijñeyamuparudhyeta / nacāvikṛtaḥ paramātmaiva jīva iti śakyate vijñātuṃ, lakṣaṇabhedāt / apahṛtapāpmatvādidharmako hi paramātmā, tadviparīto hi jīvaḥ / vibhāgāccāsya vikāratvasiddhiḥ / yāvānhyākāśādiḥ pravibhaktaḥ sa sarvo vikārastasya cākāśāderutpattiḥ samadhigatā / jīvātmāpi puṇyāpuṇyakarmā sukhaduḥkhayukpratiśarīraṃ pravibhakta iti tasyāpi prapañcotpattyavasara utpattirbhavitumarhati / apica 'yathāgneḥ kṣudrā visphuliṅgā vyuccārantyevamevāsmādātmanaḥ sarve prāṇāḥ' (bṛ. 2.1.20) iti prāṇāderbhogyajātasya sṛṣṭiṃ śiṣṭvā 'sarva eva ātmano vyuccaranti' iti bhoktṛṇīmātmanāṃ pṛthaksṛṣṭiṃ śāsti / 'yathā sudīptātpāvakādvisphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ / tathākṣarādvividhāḥ somya bhāvāḥ prajāyante tatra caivāpiyanti' (muṇḍa. 2.1.1) iti ca jīvātmanāmutpattipralayāvucyete / sarūpavacanāt, jīvātmāno hi paramātmanā sarūpā bhavanti caitanyayogāt / naca kvacidaśravaṇamanyatra śrutaṃ vārayitumarhati / śrutyantaragatasyāpyaviruddhasyādhikasyārthasya sarvatropasaṃhartavyatvāt / praveśaśrutirapyevaṃ sati vikārabhāvāpattyaiva vyākhyātavyā, 'tadātmānaṃ svayamakuruta' ityādivat / tasmādutpadyate jīva iti / evaṃ prāpte brūmaḥ - nātmā jīva utpadyata iti / kasmāt / aśruteḥ / nahyasyotpattiprakaraṇe śravaṇamasti bhūyaḥsu pradeśeṣu / nanu kvacidaśravaṇamanyatra śrutaṃ na vārayitītyuktam / satyamuktam / utpattireva tvasya na saṃbhavatīti vadāmaḥ / kasmāt / nityatvācca tābhyaḥ / caśabdādajatvādibhyaśca / nityatvaṃ hyasya śrutibhyo 'vagamyate tathājatvamavikāritvamavikṛtasyaiva brahmaṇo jīvātmanāvasthānaṃ brahmātmanā ceti / nacaivaṃrūpasyotpattirupapadyate / tāḥ kāḥ śrutayaḥ / 'na jīvo mriyate' (chā. 6.11.3), 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.4.22), 'na jāyate mriyate vā vipaścit' (kaṭhaṃ 2.18), 'ajo nityaḥ śāśvato 'yaṃ purāṇaḥ' (kaṭha. 2.18). 'tatsṛṣṭvā tadevānuprāviśat' (tai. 2.6.1), 'anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi' (chā. 6.3.2), 'sa eṣa iha praviṣṭa ā nakhāgrebhyaḥ' (bṛ. 1.4.7), 'tattvamasi' (chā. 6.8.7) 'ahaṃ brahmāsmi' (bṛ. 1.4.19), 'ayamātmā brahma sarvānubhūḥ' (bṛ. 2.5.19) ityevamādyā nityatvavādinyaḥ satyo jīvasyotpattiṃ pratibadhnanti / nanu pravibhaktatvādvikāro vikāratvāccotpadyata ityuktam / atrocyate- nāsya pravibhāgaḥ svato 'sti / 'eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā' (śve. 6.11) iti śruteḥ / buddhyādyapādhinimittaṃ tvasya pravibhāgapratibhānamākāśasyeva ghaṭādisaṃbandhanimittam / tathāca śāstram- 'sa vā ayamātmā brahma vijñānamayo manomayaḥ prāṇamayaścakṣurmayaḥ śrotramayaḥ' (bṛ. 4.4.5) ityevamādi brahmaṇa evāvikṛtasya sato 'pyekasyānekabuddhyādimayatvaṃ darśayati / tanmayatvaṃ cāsya viviktasvarūpānabhivyaktyā taduparaktasvarūpatvaṃ strīmayo jālma ityādivaddraṣṭavyam / yadapi kvacidasyotpattipralayaśravaṇaṃ tadapyata evopādhisaṃbandhānnetavyam / upādhyutpattyāsyotpattistatpralayena ca pralaya iti / tathāca darśayati- 'prajñānaghana evaitebhyo bhūtebhyaḥ samutthāya tānyevānu vinaśyati na pretya saṃjñāsti' (bṛ. 4.5.13) iti / tathopādhipralaya evāyaṃ nātmavilaya ityetadapyatraiva 'mā bhagavānmohāntamāpīpadanna vā ahamimaṃ vijānāmi na pretya saṃjñāsti' iti praśnapūrvakaṃ pratipādayati- 'na vā are 'haṃ mohaṃ bravīmyavināśī vā are 'yamātmānucchittidharmā mātrāsaṃsargastvasya bhavati' (bṛ. 4.5.14) iti / pratijñānuparodho 'pyavikṛtasyaiva brahmaṇo jīvabhāvābhyupagamāt / lakṣaṇabhedo 'pyanayorupādhinimitta eva / 'ata ūrdhvaṃ vimokṣāyaiva brūhi' (bṛ. 4.3.15) iti ca prakṛtasyaiva vijñānamayasyātmanaḥ sarvasaṃsāradharmapratyākhyānena paramātmabhāvapratipādanāt / tasmānaivātmotpadyate pravilīyate ceti // 17 // ---------------------- FN: uparodho bādhaḥ / sarūpaśabdo jīvavācīti śeṣaḥ / jālmaḥ kāmajaḍaḥ / sa yathā strīparatantraḥ strīmayo vpadiśyate / etebhyo dehātmanā pariṇatebhyo bhūtebhyaḥ sāmyenotthāya janitvā tānyeva līyamānānyanu paścādvinaśyati / mohaṃ mohakaraṃ vākyam / 12 jñādhikaraṇam / sū. 18

Sanskrit only: no published translation is held for this verse.

ज्ञो ऽत एव स किं कणभुजानामिवागन्तुकचैतन्यः स्वतो ऽचेतन आहोस्वित्सांख्यानामिव नित्यचैतन्यस्वरूप एवेति वादिविप्रतिपत्तेः संशयः । किं तावत्प्राप्तम् । आगन्तुकमात्मनश्चैतन्यमात्ममनःसंयोगजमग्निघटसंयोगजरोह् इतादिगुणवदिति प्राप्तम् । नित्यचैतन्यत्वे हि सुप्तमूर्च्छितग्रहाविष्टानामपि चातन्यं स्यात् । ते पृष्टाः सन्तो न किञ्चिद्वयमचेतयामहीति जल्पन्ति स्वस्थाश्च चेतयमाना दृश्यन्ते । अतः कादाचित्कचैतन्यत्वादागन्तुकचैतन्य आत्मेति । एवं प्राप्ते ऽभिधीयते- ज्ञो नित्यचैतन्यो ऽयमात्मात एव, यस्मादेव नोत्पद्यते परमेव ब्रह्माविकृतमुपाधिसंपर्काज्जीवभावेनावतिष्ठते । परस्य हि ब्रह्मणश्चैतन्यस्वरूपत्वमाम्नातम्- ऽविज्ञानमानन्दं ब्रह्मऽ (बृ। ३।९।२८), ऽसत्यं ज्ञानमन्तं ब्रह्मऽ (तै। २।१।१), ऽअनन्तरो ऽबाह्यः कृत्स्नः प्रज्ञानघन एवऽ (बृ। ४।५।१३), इत्यादिषु श्रुतिषु । तदेव चेत्परं ब्रह्म जीवस्तस्माज्जीवस्यापि नित्यचैतन्यस्वरूपत्वमग्न्यौष्ण्यप्रकाशवदिति गम्यते । विज्ञानमयप्रक्रियायां च श्रुतयो भवन्ति- असुप्तः ऽसुप्तानभिचाकशीतिऽ (बृ। ४।३।११) ऽअत्रायं पुरुषः स्वयञ्ज्योतिर्भवतिऽ (बृ। ४।३।९) इति, ऽनहि विज्ञातुर्निर्विज्ञातेर्विपरिलापो विद्यतेऽ (बृ। ४।३।३०) इत्येवंरूपाः । ऽअथ यो वेदेदं जिघ्राणीति स आत्माऽ (छा। ८।१२।४) इति च सर्वैः करणद्वारैरिदं वेदेदं वेदेति विज्ञानेनानुसंधानात्तद्रूपत्वसिद्धिः । नित्यस्वरूपचैतन्यत्वे घ्राणाद्यानर्थक्यमिति चेत् । न । गन्धादिविषयविशेषपरिच्छेदार्थत्वात् । तथाहि दर्शयति- ऽगन्धाय घ्राणम्ऽ इत्यादि । यत्तु सुप्तादयो न चेतयन्त इति तस्य श्रुत्यैव परिहारो ऽभिहितः । सुषुप्तं प्रकृत्य ऽयद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति- नहि द्रष्टुर्द्दष्टेर्विपरिलोपो विद्यते ऽविनाशित्वान्न तु तद्द्वितीयमस्ति ततो ऽन्यद्विभक्तं यत्पश्येत्ऽ (बृ। ४।३।२३) इत्यादिना । एतदुक्तं भवति- विषयाभावादियमचेतयमानता न चैतन्याभावादिति । यथा वियदाश्रयस्य प्रकाशस्य प्रकाश्यभावादनभिव्यक्तिर्न स्वरूपाभावात्तद्वत् । वैशेषिकादितर्कश्च श्रुतिविरोध आभासीभवति । तस्मान्नित्यचैतन्यस्वरूप एवात्मेति निश्चिनुमः ॥ १८ ॥ ---------------------- फ़्न्: स्वयमसुप्तो भासमान एवात्मा सुप्तान्वागादीनुपरव्यापारानभिचाकशीति अभिपश्यति । परिच्छेदो वृत्तिः । गन्धाय तद्गोचरान्तःकरणवृत्तये ।

jño 'ta eva sa kiṃ kaṇabhujānāmivāgantukacaitanyaḥ svato 'cetana āhosvitsāṃkhyānāmiva nityacaitanyasvarūpa eveti vādivipratipatteḥ saṃśayaḥ / kiṃ tāvatprāptam / āgantukamātmanaścaitanyamātmamanaḥsaṃyogajamagnighaṭasaṃyogajaroh itādiguṇavaditi prāptam / nityacaitanyatve hi suptamūrcchitagrahāviṣṭānāmapi cātanyaṃ syāt / te pṛṣṭāḥ santo na kiñcidvayamacetayāmahīti jalpanti svasthāśca cetayamānā dṛśyante / ataḥ kādācitkacaitanyatvādāgantukacaitanya ātmeti / evaṃ prāpte 'bhidhīyate- jño nityacaitanyo 'yamātmāta eva, yasmādeva notpadyate parameva brahmāvikṛtamupādhisaṃparkājjīvabhāvenāvatiṣṭhate / parasya hi brahmaṇaścaitanyasvarūpatvamāmnātam- 'vijñānamānandaṃ brahma' (bṛ. 3.9.28), 'satyaṃ jñānamantaṃ brahma' (tai. 2.1.1), 'anantaro 'bāhyaḥ kṛtsnaḥ prajñānaghana eva' (bṛ. 4.5.13), ityādiṣu śrutiṣu / tadeva cetparaṃ brahma jīvastasmājjīvasyāpi nityacaitanyasvarūpatvamagnyauṣṇyaprakāśavaditi gamyate / vijñānamayaprakriyāyāṃ ca śrutayo bhavanti- asuptaḥ 'suptānabhicākaśīti' (bṛ. 4.3.11) 'atrāyaṃ puruṣaḥ svayañjyotirbhavati' (bṛ. 4.3.9) iti, 'nahi vijñāturnirvijñāterviparilāpo vidyate' (bṛ. 4.3.30) ityevaṃrūpāḥ / 'atha yo vededaṃ jighrāṇīti sa ātmā' (chā. 8.12.4) iti ca sarvaiḥ karaṇadvārairidaṃ vededaṃ vedeti vijñānenānusaṃdhānāttadrūpatvasiddhiḥ / nityasvarūpacaitanyatve ghrāṇādyānarthakyamiti cet / na / gandhādiviṣayaviśeṣaparicchedārthatvāt / tathāhi darśayati- 'gandhāya ghrāṇam' ityādi / yattu suptādayo na cetayanta iti tasya śrutyaiva parihāro 'bhihitaḥ / suṣuptaṃ prakṛtya 'yadvai tanna paśyati paśyanvai tanna paśyati- nahi draṣṭurddaṣṭerviparilopo vidyate 'vināśitvānna tu taddvitīyamasti tato 'nyadvibhaktaṃ yatpaśyet' (bṛ. 4.3.23) ityādinā / etaduktaṃ bhavati- viṣayābhāvādiyamacetayamānatā na caitanyābhāvāditi / yathā viyadāśrayasya prakāśasya prakāśyabhāvādanabhivyaktirna svarūpābhāvāttadvat / vaiśeṣikāditarkaśca śrutivirodha ābhāsībhavati / tasmānnityacaitanyasvarūpa evātmeti niścinumaḥ // 18 // ---------------------- FN: svayamasupto bhāsamāna evātmā suptānvāgādīnuparavyāpārānabhicākaśīti abhipaśyati / paricchedo vṛttiḥ / gandhāya tadgocarāntaḥkaraṇavṛttaye /

Sanskrit only: no published translation is held for this verse.

उत्क्रान्तिगत्यागतीनाम् इदानीं तु किंपरिमाणो जीव इति चिन्त्यते । किमणुपरिमाण उत मध्यमपरिमाण आहोस्विन्महापरिमाण इति । ननु च नात्मोत्पद्यते नित्यचैतन्यश्यायमित्युक्तम् । अतश्च पर एवात्मा जीव इत्यापतति । परस्या चात्मनो ऽनन्तरत्वमाम्नातं, तत्र कुतो जीवस्य परिमाणचिन्तावतार इति । उच्यते- सत्यमेतत् । उत्क्रान्तिगत्याहगतिश्रवणानि तु जीवस्य परिच्छेदं प्रापयन्ति । स्वशब्देन चास्य क्वचिदणुपरिमाणत्वमाम्नायते । तस्य सर्वस्यानाकुलत्वोपपादानायायमारम्भः । तत्र प्राप्तं तावदुत्क्रान्तिगत्यागतीनां श्रवणात्परिच्छिन्नो ऽणुपरिमाणो जीव इति । उत्क्रान्तिस्तावत्- ऽस यदास्माच्छरीरादुत्क्रामति सहैवैतैः सर्वैरुत्क्रामतिऽ (कौषीत। ३।३) इति । गतिरपि ऽये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तिऽ (कौषीत। १।२) इति । आगतिरपि ऽतस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणेऽ (बृ। ४।४।६) इति । आसामुत्क्रान्तिगत्यागतीनां श्रवणात्परिच्छिन्नस्तावज्जीव इति प्राप्नोति । नहि विभोश्चलनमवकल्पत इति । सति च परिच्छेदे शरीरपरिमाणत्वस्यार्हतपरीक्षायां निरस्तत्वादणुरात्मेति गम्यते ॥ १९ ॥

utkrāntigatyāgatīnām idānīṃ tu kiṃparimāṇo jīva iti cintyate / kimaṇuparimāṇa uta madhyamaparimāṇa āhosvinmahāparimāṇa iti / nanu ca nātmotpadyate nityacaitanyaśyāyamityuktam / ataśca para evātmā jīva ityāpatati / parasyā cātmano 'nantaratvamāmnātaṃ, tatra kuto jīvasya parimāṇacintāvatāra iti / ucyate- satyametat / utkrāntigatyāhagatiśravaṇāni tu jīvasya paricchedaṃ prāpayanti / svaśabdena cāsya kvacidaṇuparimāṇatvamāmnāyate / tasya sarvasyānākulatvopapādānāyāyamārambhaḥ / tatra prāptaṃ tāvadutkrāntigatyāgatīnāṃ śravaṇātparicchinno 'ṇuparimāṇo jīva iti / utkrāntistāvat- 'sa yadāsmāccharīrādutkrāmati sahaivaitaiḥ sarvairutkrāmati' (kauṣīta. 3.3) iti / gatirapi 'ye vai ke cāsmāllokātprayanti candramasameva te sarve gacchanti' (kauṣīta. 1.2) iti / āgatirapi 'tasmāllokātpunaraityasmai lokāya karmaṇe' (bṛ. 4.4.6) iti / āsāmutkrāntigatyāgatīnāṃ śravaṇātparicchinnastāvajjīva iti prāpnoti / nahi vibhoścalanamavakalpata iti / sati ca paricchede śarīraparimāṇatvasyārhataparīkṣāyāṃ nirastatvādaṇurātmeti gamyate // 19 //

Sanskrit only: no published translation is held for this verse.

स्वात्मना चोत्तरयोः उत्क्रान्तिः कदाचिदचलतो ऽपि ग्रामस्वाम्यनिवृत्तिवद्देहस्वाम्यनिवृत्त्या कर्मक्षयेणावकल्पेत । उत्तरे तु गत्यागती नाचलतः संभवतः । स्वात्मना हि तयोः संबन्धो भवति, गमेः कर्तृस्थक्रियात्वात् । अमध्यमपरिमाणस्य च गत्यागती अणुत्व एव संभवतः । सत्योश्च गत्यागत्योरुत्क्रान्तिरप्यपसृप्तिरेव देहादिति प्रतीयते । नह्यनपसृत्य देहाद्गत्यागती स्याताम् । देहप्रदेशानां चोत्क्रान्तावपादानत्ववचनात् । ऽचक्षुषो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यःऽ (बृ। ४।४।२) इति । ऽस एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामतिऽ (बृ। ४।४।१), ऽशुक्रमादाय पुनरैति स्थानम्ऽ (बृ। ४।३।११) इति चोत्तरे ऽपि शरीरे शरीरस्य गत्यागती भवतः । तस्मादप्यस्याणुत्वसिद्धिः ॥ २० ॥ ---------------------- फ़्न्: अपादानत्वमवधित्वम् ।

svātmanā cottarayoḥ utkrāntiḥ kadācidacalato 'pi grāmasvāmyanivṛttivaddehasvāmyanivṛttyā karmakṣayeṇāvakalpeta / uttare tu gatyāgatī nācalataḥ saṃbhavataḥ / svātmanā hi tayoḥ saṃbandho bhavati, gameḥ kartṛsthakriyātvāt / amadhyamaparimāṇasya ca gatyāgatī aṇutva eva saṃbhavataḥ / satyośca gatyāgatyorutkrāntirapyapasṛptireva dehāditi pratīyate / nahyanapasṛtya dehādgatyāgatī syātām / dehapradeśānāṃ cotkrāntāvapādānatvavacanāt / 'cakṣuṣo vā mūrdhno vānyebhyo vā śarīradeśebhyaḥ' (bṛ. 4.4.2) iti / 'sa etāstejomātrāḥ samabhyādadāno hṛdayamevānvavakrāmati' (bṛ. 4.4.1), 'śukramādāya punaraiti sthānam' (bṛ. 4.3.11) iti cottare 'pi śarīre śarīrasya gatyāgatī bhavataḥ / tasmādapyasyāṇutvasiddhiḥ // 20 // ---------------------- FN: apādānatvamavadhitvam /

Sanskrit only: no published translation is held for this verse.

नाणुरतच्छ्रुतेर् इति चेन् नेतराधिकारात् अथापि स्यान्नाणुरयमात्मा । कस्मात् । अतच्छ्रुतेः । अणुत्वविपरीतपरिमाणश्रवणादित्यर्थः । ऽस वा एष महानज आत्मा यो ऽयं विज्ञानमयः प्राणेषु (बृ। ४।४।१२), ऽआकाशवत्सर्वगतश्च नित्यःऽ, ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ (तै। २।१।१) इत्येवञ्जातीयका हि श्रुतिरात्मनो ऽणुत्वे विप्रतिषिध्येतेति चेत् । नैष दोषः । कस्मात् । इतराधिकारात् । परस्य ह्यात्मनः प्रक्रियायामेषा परिमाणान्तरश्रुतिः । परस्यैवात्मनः प्राधान्येन वेदान्तेषु वेदितव्यत्वेन प्रकृतत्वात् । विरजः पर आकाशादित्येवंविधाच्च परस्यैवात्मनस्तत्र तत्र विशेषाधिकारात् । ननु ऽयो ऽयं विज्ञानमयः प्राणेषुऽ (बृ। ४।४।२२) इति शारीर एव महत्त्वसंबन्धित्वेन प्रतिनिर्दिश्यते । शास्त्रदृष्ट्या त्वेष निर्देशो वामदेववद्द्रष्टव्यः । तस्मात्प्राज्ञविषयत्वात्परिमाणान्तरश्रवणस्य च जीवस्याणुत्वं विरुध्यते ॥ २१ ॥ ---------------------- फ़्न्: इतराधिकारात् ब्रह्मप्रकरणात् ।

nāṇuratacchruter iti cen netarādhikārāt athāpi syānnāṇurayamātmā / kasmāt / atacchruteḥ / aṇutvaviparītaparimāṇaśravaṇādityarthaḥ / 'sa vā eṣa mahānaja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu (bṛ. 4.4.12), 'ākāśavatsarvagataśca nityaḥ', 'satyaṃ jñānamanantaṃ brahma' (tai. 2.1.1) ityevañjātīyakā hi śrutirātmano 'ṇutve vipratiṣidhyeteti cet / naiṣa doṣaḥ / kasmāt / itarādhikārāt / parasya hyātmanaḥ prakriyāyāmeṣā parimāṇāntaraśrutiḥ / parasyaivātmanaḥ prādhānyena vedānteṣu veditavyatvena prakṛtatvāt / virajaḥ para ākāśādityevaṃvidhācca parasyaivātmanastatra tatra viśeṣādhikārāt / nanu 'yo 'yaṃ vijñānamayaḥ prāṇeṣu' (bṛ. 4.4.22) iti śārīra eva mahattvasaṃbandhitvena pratinirdiśyate / śāstradṛṣṭyā tveṣa nirdeśo vāmadevavaddraṣṭavyaḥ / tasmātprājñaviṣayatvātparimāṇāntaraśravaṇasya ca jīvasyāṇutvaṃ virudhyate // 21 // ---------------------- FN: itarādhikārāt brahmaprakaraṇāt /

Sanskrit only: no published translation is held for this verse.

स्वशब्दोन्मानाभ्यां च इतश्चाणुरात्मा यतः साक्षादेवास्याणुत्ववाची शब्दः श्रूयते- ऽएषो ऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेशऽ (मुण्ड। ३।१।९) इति । प्राणसंबन्धाच्च जीव एवायमणुरभिहित इति गम्यते । तथोन्मानमपि जीवस्याणिमानं गमयति- ऽबालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयःऽ (श्वे। ५।८) इति । ऽआराग्रमात्रो ह्यवरोषपि दृष्टःऽ (श्वे। ५।८) इति चोन्मानान्तरम् ॥ २२ ॥ नन्वणुत्वे सत्येकदेशस्थस्य सकलदेहगतोपलब्धिर्विरुध्यते । दृश्यते च जाह्नवीह्रदनिमग्नानां सर्वाङ्गशैत्योपलब्धिर्निदाघसमये च सकलशरीरपरितापोपलब्धिरिति । ---------------------- फ़्न्: उद्धृत्यमानमुन्मानम् । बालः केशः । तोत्रप्रोतायःशलाकाग्रमराग्रं तस्मादुद्धृता मात्रा मानं यस्य स जीवस्तथा । अत उत्तरं पठति-

svaśabdonmānābhyāṃ ca itaścāṇurātmā yataḥ sākṣādevāsyāṇutvavācī śabdaḥ śrūyate- 'eṣo 'ṇurātmā cetasā veditavyo yasminprāṇaḥ pañcadhā saṃviveśa' (muṇḍa. 3.1.9) iti / prāṇasaṃbandhācca jīva evāyamaṇurabhihita iti gamyate / tathonmānamapi jīvasyāṇimānaṃ gamayati- 'bālāgraśatabhāgasya śatadhā kalpitasya ca / bhāgo jīvaḥ sa vijñeyaḥ' (śve. 5.8) iti / 'ārāgramātro hyavaroṣapi dṛṣṭaḥ' (śve. 5.8) iti conmānāntaram // 22 // nanvaṇutve satyekadeśasthasya sakaladehagatopalabdhirvirudhyate / dṛśyate ca jāhnavīhradanimagnānāṃ sarvāṅgaśaityopalabdhirnidāghasamaye ca sakalaśarīraparitāpopalabdhiriti / ---------------------- FN: uddhṛtyamānamunmānam / bālaḥ keśaḥ / totraprotāyaḥśalākāgramarāgraṃ tasmāduddhṛtā mātrā mānaṃ yasya sa jīvastathā / ata uttaraṃ paṭhati-

Sanskrit only: no published translation is held for this verse.

अविरोधश् चन्दनवत् यथा हि हरिचन्दनबिन्दुः शरीरैकदेशसंबद्धो ऽपि सन्सकलदेहव्यपिनमाह्लादं करोत्येवमात्मापि देहैकदेशेभ्यः सकलदेहव्यापिनीमुपलब्धिं करिष्यति । त्वक्संबन्धनाच्चास्य सकलशरीरगता वेदना न विरुध्यते । त्वगात्मनोर्हि संबन्धः कृत्स्नायां त्वचि वर्तते त्वक्च कृत्स्नशरीरव्यापिनीति ॥ २३ ॥

avirodhaś candanavat yathā hi haricandanabinduḥ śarīraikadeśasaṃbaddho 'pi sansakaladehavyapinamāhlādaṃ karotyevamātmāpi dehaikadeśebhyaḥ sakaladehavyāpinīmupalabdhiṃ kariṣyati / tvaksaṃbandhanāccāsya sakalaśarīragatā vedanā na virudhyate / tvagātmanorhi saṃbandhaḥ kṛtsnāyāṃ tvaci vartate tvakca kṛtsnaśarīravyāpinīti // 23 //

Sanskrit only: no published translation is held for this verse.

अवस्थितिवैशेष्याद् इति चेन् नाभ्युपगमाद् धृदि हि अत्राह यदुक्तमविरोधश्चन्दनवदिति, तदयुक्तं दृष्टान्तदार्ष्ट्रान्तिकयोरतुल्यत्वात् । सिद्धे ह्यात्मनो देहैकदेशस्थत्वे चन्दनदृष्टान्तो भवति । प्रत्यक्षं तु चन्दनस्यावस्थितिवैशेष्यमेकदेशस्थत्वं सकलदेहाह्लादनं च । आत्मनः पुनः सकलदेहोपलब्धिमात्रं प्रत्यक्षं नैकदेशवर्तित्वम् । अनुमेयं तु तदिति यदप्युच्येत । नचात्रानुमानं संभवति । किमात्मनः सकलशरीरगता वेदना त्वगिन्द्रियस्येव सकलदेहव्यापिनः सतः किंवा विभोर्नभस इवाहोस्विच्चन्दनबिन्दोरिवाणोरेकदेशस्थस्येति संशयानतिवृत्तेरिति । अत्रोच्यते- नायं दोषः । कस्मात् । अभ्युपगमात् । अभ्युपगम्यते ह्यात्मनो ऽपि चन्दनस्येव देहैकदेशवृत्तित्वमवस्थितिवैशेष्यम् । कथमित्युच्यते । हृदि ह्येष आत्मा पठ्यते वेदान्तषु । ऽहृदि ह्येष आत्माऽ (प्रश्न। ३।६), ऽस वा एष आत्मा हृदिऽ (छा। ८।३।३), ऽकतम आत्मेति यो ऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषःऽ (बृ। ४।३।७) इत्याद्युपदेशेभ्यः । तस्माद्दृष्टान्तदार्ष्ट्रान्तिकयोरवैषम्याद्युक्तमेवैतदविरोधश्चन्दनवदिति ॥ २४ ॥

avasthitivaiśeṣyād iti cen nābhyupagamād dhṛdi hi atrāha yaduktamavirodhaścandanavaditi, tadayuktaṃ dṛṣṭāntadārṣṭrāntikayoratulyatvāt / siddhe hyātmano dehaikadeśasthatve candanadṛṣṭānto bhavati / pratyakṣaṃ tu candanasyāvasthitivaiśeṣyamekadeśasthatvaṃ sakaladehāhlādanaṃ ca / ātmanaḥ punaḥ sakaladehopalabdhimātraṃ pratyakṣaṃ naikadeśavartitvam / anumeyaṃ tu taditi yadapyucyeta / nacātrānumānaṃ saṃbhavati / kimātmanaḥ sakalaśarīragatā vedanā tvagindriyasyeva sakaladehavyāpinaḥ sataḥ kiṃvā vibhornabhasa ivāhosviccandanabindorivāṇorekadeśasthasyeti saṃśayānativṛtteriti / atrocyate- nāyaṃ doṣaḥ / kasmāt / abhyupagamāt / abhyupagamyate hyātmano 'pi candanasyeva dehaikadeśavṛttitvamavasthitivaiśeṣyam / kathamityucyate / hṛdi hyeṣa ātmā paṭhyate vedāntaṣu / 'hṛdi hyeṣa ātmā' (praśna. 3.6), 'sa vā eṣa ātmā hṛdi' (chā. 8.3.3), 'katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ' (bṛ. 4.3.7) ityādyupadeśebhyaḥ / tasmāddṛṣṭāntadārṣṭrāntikayoravaiṣamyādyuktamevaitadavirodhaścandanavaditi // 24 //

Sanskrit only: no published translation is held for this verse.

गुणाद्वा लोकवत् चैतन्यगुणव्याप्तेर्वाणोरपि सतो जीवस्य सकलदेहव्यापि कार्यं न विरुध्यते । यथा लोके मणिप्रदीपप्रभृतीनामपवरकैकदेशवर्तिनामपि प्रभापवरकव्यापिनी सती कृत्स्ने ऽपवरके कार्यं करोति तद्वत् । स्यात्कदाचिच्चन्दनस्य सावयवत्वात्सूक्ष्मावयवविसर्पणेनापि सकलदेह आह्लादयितृत्वं व त्वणोर्जीवस्यावयवाः सन्ति यैरयं सकलदेहं विप्रसर्पेदित्याशङ्क्य गुणाद्वा लोकवदित्युक्तम् ॥ २५ ॥ कथं पुनर्गुणो गुणिव्यतिरेकेणान्यत्र वर्तेत । नहि पटस्य शुक्लो गुणः पटव्यतिरेकेणान्यत्र वर्तमानो दृश्यते । प्रदीपभावद्भवेदिति चेत् । न । तस्या अपि द्रव्यत्वाभ्युपगमात् । निबिडावयवं हि तेजोद्रव्यं प्रदीपः । प्रविरलावयवं तु तेजोद्रव्यमेव प्रभेति । अत उत्तरं पठति-

guṇādvā lokavat caitanyaguṇavyāptervāṇorapi sato jīvasya sakaladehavyāpi kāryaṃ na virudhyate / yathā loke maṇipradīpaprabhṛtīnāmapavarakaikadeśavartināmapi prabhāpavarakavyāpinī satī kṛtsne 'pavarake kāryaṃ karoti tadvat / syātkadāciccandanasya sāvayavatvātsūkṣmāvayavavisarpaṇenāpi sakaladeha āhlādayitṛtvaṃ va tvaṇorjīvasyāvayavāḥ santi yairayaṃ sakaladehaṃ viprasarpedityāśaṅkya guṇādvā lokavadityuktam // 25 // kathaṃ punarguṇo guṇivyatirekeṇānyatra varteta / nahi paṭasya śuklo guṇaḥ paṭavyatirekeṇānyatra vartamāno dṛśyate / pradīpabhāvadbhavediti cet / na / tasyā api dravyatvābhyupagamāt / nibiḍāvayavaṃ hi tejodravyaṃ pradīpaḥ / praviralāvayavaṃ tu tejodravyameva prabheti / ata uttaraṃ paṭhati-

Sanskrit only: no published translation is held for this verse.

व्यतिरेको गन्धवत् यथा गुणस्यापि सतो गन्धस्य गन्धवद्द्रव्यव्यतिरेकेण वृत्तिर्भवति । अप्राप्तेष्वपि कुसुमादिषु गन्धवत्सु कुसुमगन्धोपलब्धेः । एवमणोरपि सतो जीवस्य चैतन्यगुणव्यतिरेको भविष्यति । अतश्चानैकान्तिकमेतद्गुणत्वाद्रूपादिवदाश्रयविश्लेषानुपपत्तिरिति । गुणस्यैव सतो गन्धस्याश्रयविश्लेषदर्शनात् । गन्धस्यापि सहैवाश्रयेण विश्लेष इति चेत् । न । यस्मान्मूलद्रव्याद्विश्लेषितस्य क्षयप्रसङ्गात् । अक्षीयमाणमपि तत्पूर्वावस्थातो गम्यते । अन्यथा तत्पूर्वावस्थैर्गुरुत्वादिभिर्हीयेत । स्यादेतत् । गन्धाश्रयाणां विश्लिष्टानामवयवानामल्पत्वात्सन्नपि विशेषो नोपलक्ष्यते । सूक्ष्मा हि गन्धपरमाणवः सर्वतो विप्रसृप्ता गन्धबुद्धिमुत्पादयन्ति नासिकापुटमनुप्रविशन्त इति चेत् । न । अतीन्द्रियत्वात्परमाणूनां स्फुटगन्धोपलब्धेश्च नागकेसरादिषु । नच लोके प्रतीतिर्गन्धवद्द्रव्यमाघ्रातमिति । गन्ध एवाघ्रात इति तु लौकिकाः प्रतीयन्ति । रूपादिष्वाश्रयव्यतिरेकानुपलब्धेर्गन्धस्याप्ययुक्त आश्रयव्यतिरेक इति चेत् । न । प्रत्यक्षत्वादनुमानाप्रवृत्तेः । तस्माद्यद्यथा लोके दृष्टं तत्तथैवानुमन्तव्यं निरूपकैर्नान्यथा । नहि रसो गुणो जिह्वयोपलभ्यत इत्यतो रूपादयो ऽपि गुणा जिह्वायैवोपलभ्येरग्निरिति नियन्तुं शक्यते ॥ २६ ॥ ---------------------- फ़्न्: गुणस्य द्रव्यव्यतिरेक आश्रयविश्लेषः ।

vyatireko gandhavat yathā guṇasyāpi sato gandhasya gandhavaddravyavyatirekeṇa vṛttirbhavati / aprāpteṣvapi kusumādiṣu gandhavatsu kusumagandhopalabdheḥ / evamaṇorapi sato jīvasya caitanyaguṇavyatireko bhaviṣyati / ataścānaikāntikametadguṇatvādrūpādivadāśrayaviśleṣānupapattiriti / guṇasyaiva sato gandhasyāśrayaviśleṣadarśanāt / gandhasyāpi sahaivāśrayeṇa viśleṣa iti cet / na / yasmānmūladravyādviśleṣitasya kṣayaprasaṅgāt / akṣīyamāṇamapi tatpūrvāvasthāto gamyate / anyathā tatpūrvāvasthairgurutvādibhirhīyeta / syādetat / gandhāśrayāṇāṃ viśliṣṭānāmavayavānāmalpatvātsannapi viśeṣo nopalakṣyate / sūkṣmā hi gandhaparamāṇavaḥ sarvato viprasṛptā gandhabuddhimutpādayanti nāsikāpuṭamanupraviśanta iti cet / na / atīndriyatvātparamāṇūnāṃ sphuṭagandhopalabdheśca nāgakesarādiṣu / naca loke pratītirgandhavaddravyamāghrātamiti / gandha evāghrāta iti tu laukikāḥ pratīyanti / rūpādiṣvāśrayavyatirekānupalabdhergandhasyāpyayukta āśrayavyatireka iti cet / na / pratyakṣatvādanumānāpravṛtteḥ / tasmādyadyathā loke dṛṣṭaṃ tattathaivānumantavyaṃ nirūpakairnānyathā / nahi raso guṇo jihvayopalabhyata ityato rūpādayo 'pi guṇā jihvāyaivopalabhyeragniriti niyantuṃ śakyate // 26 // ---------------------- FN: guṇasya dravyavyatireka āśrayaviśleṣaḥ /

Sanskrit only: no published translation is held for this verse.

तथा च दर्शयति हृदयायतनत्वमणुपरिमाणत्वं चात्मनो ऽभिधाय तस्यैव ऽआ लोमस्य आ नखाग्रेभ्यःऽ (छा। ८।८।१) इति चैतन्येन गुणेन समस्तशरीरव्यापित्वं दर्शयति ॥ २७ ॥

tathā ca darśayati hṛdayāyatanatvamaṇuparimāṇatvaṃ cātmano 'bhidhāya tasyaiva 'ā lomasya ā nakhāgrebhyaḥ' (chā. 8.8.1) iti caitanyena guṇena samastaśarīravyāpitvaṃ darśayati // 27 //

Sanskrit only: no published translation is held for this verse.

पृथगुपदेशात् ऽप्रज्ञया शरीरं समारुह्यऽ (कौषी। ३।६) इति चात्मप्रज्ञयोः कर्तृकरणभावेन पृथगुपदेशाच्चैतन्यगुणेनैवास्य शरीरव्यापिता गम्यते । ऽतदेषां प्राणानां विज्ञानेन विज्ञानमादायऽ (बृ। २।१।१७) इति च कर्तुः शारीरत्पृथग्विज्ञानस्योपदेश एतमेवाभिप्रायमुपोद्बलयति । तस्मादणुरात्मेति ॥ २८ ॥ ---------------------- फ़्न्: विज्ञानमिन्द्रियाणां ज्ञानशक्तिं विज्ञानेन चैतन्यगुणेनादाय शेत इत्यर्थः । एवं प्राप्ते ब्रूमः -

pṛthagupadeśāt 'prajñayā śarīraṃ samāruhya' (kauṣī. 3.6) iti cātmaprajñayoḥ kartṛkaraṇabhāvena pṛthagupadeśāccaitanyaguṇenaivāsya śarīravyāpitā gamyate / 'tadeṣāṃ prāṇānāṃ vijñānena vijñānamādāya' (bṛ. 2.1.17) iti ca kartuḥ śārīratpṛthagvijñānasyopadeśa etamevābhiprāyamupodbalayati / tasmādaṇurātmeti // 28 // ---------------------- FN: vijñānamindriyāṇāṃ jñānaśaktiṃ vijñānena caitanyaguṇenādāya śeta ityarthaḥ / evaṃ prāpte brūmaḥ -

Sanskrit only: no published translation is held for this verse.

तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत् तुशब्दः पक्षं व्यवर्तयति । नैतदस्त्यणुरात्मेति । उत्पत्त्यश्रवणाद्धि परस्यैव तु ब्रह्मणः प्रवेशश्रवणात्तादात्म्योपदेशाच्च परमेव ब्रह्म जीव इत्युक्तम् । परमेव चेद्ब्रह्म जीवस्तस्माद्यावत्परं ब्रह्म तावानेव जीवो भवितुमर्हति । परस्य च ब्रह्मणो विभुत्वमाम्नातम् । तस्माद्विभुर्जीवः । तथाच ऽस वा एष महानज आत्मा यो ऽयं विज्ञानमयः प्राणेषुऽ (बृ। ४।४।२२) इत्येवञ्जातीयका जीवविषया विभुत्ववादाः श्रौताः स्मार्ताश्च समर्थिता भवन्ति । नचाणोर्जीवस्य सकलशरीरगता वेदनोपपद्यते । त्वक्संबन्धात्स्यादिति चेत् । न । कण्टकतोदने ऽपि सकलशरीरगतैव वेदना प्रसज्येत । त्वक्कण्टकयोर्हि संयोगः कृत्स्नायां त्वचि वर्तते त्वक्च कृत्स्नशरीरव्यापिनीति । पादतल एव तु कण्टकनुन्नो वेदनां प्रति लभते । नचाणोर्गुणव्याप्तिरुपपद्यते, गुणस्य गुणिदेशत्वात् । गुणत्वमेव हि गुणिनमनाश्रित्य गुणस्य हीयेत । प्रदीपप्रभायाश्च द्रव्यान्तरत्वं व्याख्यातम् । गन्धो ऽपि गुणत्वाभ्युपगमात्साश्रय एव संचरितुमर्हति । अन्यथा गुणत्वहानिप्रसङ्गात् । तथाचोक्तं द्वैपायनेन- ऽउपलभ्याप्सु चेद्गन्दं केचिद्ब्रूयुरनैपुणाः । पृथिव्यामेव तं विद्यादपो वायुं च संश्रितम्ऽ इति । यदि च चैतन्यं जीवस्य समस्तं शरीरं व्याप्नुयान्नाणुर्जीवः स्यात् । चैतन्यमेव ह्यस्य स्वरूपमग्नेरिवौष्ण्यप्रकाशौ । नात्र गुणगुणिविभागो विद्यत इति शरीरपरिमाणत्वं च प्रत्याख्यातम् । परिशेषाद्विभुर्जीवः । कथं तर्ह्यणुत्वादिव्यपदेश इत्यत आह- तद् गुणसारत्वात्तु तद्व्यपदेशः इति । तस्या बुद्धेर्गुणास्तद्गुणा इच्छा द्वेषः सुखं दुःखमित्येवमादयस्तद्गुणाः सारः प्रधानं यस्यात्मनः संसारित्वे संभवति स तद्गुणसारस्तस्य भावस्तद्गुणसारत्वम् । नहि बुद्धेर्गुणैर्विना केवलस्यात्मनः संसारित्वमस्ति । बुद्ध्युपाधिर्धर्माध्यासनिमित्तं हि कर्तृत्वभोक्तृत्वादिलक्षणं संसारित्वमकर्तृरभोक्तुश्चासंसारिणो नित्यमुक्तस्य सत आत्मनः । तस्मात्तद्गुणसारत्वाद्बुद्धिपरिमाणेनास्य परिमाणव्यपदेशः । तदुत्क्रान्त्यादिभिश्चास्योत्क्रान्त्यदिव्यपदेशो न स्वतः । तथाच- ऽबालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पतेऽ (श्वे। ५।९) इत्यणुत्वं जीवस्योक्त्वा तस्यैव पुनरानन्त्यमाह । तच्चैवमेव समञ्जसं स्याद्यद्यौपचारिकमणुत्वं जीवस्य भवेत्पारमार्थिकं चानन्त्यम् । नह्युभयं मुख्यमवकल्पेत । नचानन्त्यमौपचारिकमिति शक्यं विज्ञातुं, सर्वोपनिषत्सु ब्रह्मात्मभावस्य प्रतिपादयिषितत्वात् । तथेतरस्मिन्नप्युन्माने ऽबुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यवरो ऽपि दृष्टःऽ (श्वे। ६।८) इति च बुद्धिगुणसंबन्धेनैवाराग्रमात्रतां शास्ति न स्वेनैवात्मना । ऽएषो ऽणुरात्मा चेतसा वेदितव्यःऽ (मुण्ड। ३।१।९) इत्यत्रापि न जीवस्याणुपरिमाणत्वं शिष्यते, परस्यैवात्मनश्चक्षुराद्यनवग्राह्यत्वेन ज्ञानप्रसादगम्यत्वेन च प्रकृतत्वात् । जीवस्यापि च मुख्याणुपरिमाणत्वानुपपत्तेः । तस्माद्दुर्ज्ञानत्वाभिप्रायमिदमणुत्ववचनमुपाध्यभिप्रायं वा द्रष्टव्यम् । तथा ऽप्रज्ञया शरीरं समारुह्यऽ (कौषी। ३।६) इत्येवञ्जातीयकेष्वपि भेदोपदेशेषु बुद्ध्यौवोपाधिभूतया जीवः शरीरं समारुह्येत्येवं योजयितव्यम् । व्यपदेशमात्रं वा, शिलापुत्रकस्य शरीरमित्यवदत् । नह्यत्र गुणगुणिविभागो ऽपि विद्यत इत्युक्तम् । हृदयायतनत्ववचनमपि बुद्धेरेव तदायतनत्वात् । तथोत्क्रान्त्यादीनामप्युपाध्यायत्ततां दर्शयति- ऽकस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीतिऽ (प्रश्न। ६।३) ऽस प्राणमसृजतऽ (प्र। ६।४) इति । उत्क्रान्त्यभावे हि गत्यागत्योरप्यभावो विज्ञायते । नह्यनपसृपस्य देहाद्गत्यागती स्याताम् । एवमुपाधिगुणसारत्वाज्जीवस्याणुत्वादिव्यपदेशः प्राज्ञवत् । यथा प्राज्ञस्य परमात्मनः सगुणेषूपासनेषूपाधिगुणसारत्वादणीयस्त्वादिव्यपदेशः- ऽअणीयान्व्रीहेर्वा यवाद्वाऽ (छा। ३।१।१४।२) ऽमनोमयः प्राणशरीरः सर्वगन्धः सर्वरसः सत्यकामः सत्यसंकल्पःऽ (छा। ३।१४।२) इत्येवंप्रकारस्तद्वत् । स्यादेतद्यदि बुद्धिगुणसारत्वादात्मनः संसारित्वं कल्प्येत, ततो बुद्ध्यात्मनोर्भिन्नयोः संयोगावसानमवश्यंभावीत्यतो बुद्धिवियोगे सत्यात्मनो विभक्तस्यानालक्ष्यत्वादसत्त्वमसंसारित्वं वा प्रसज्येतेति ॥ २९ ॥ अत उत्तरं पठति-

tadguṇasāratvāt tu tadvyapadeśaḥ prājñavat tuśabdaḥ pakṣaṃ vyavartayati / naitadastyaṇurātmeti / utpattyaśravaṇāddhi parasyaiva tu brahmaṇaḥ praveśaśravaṇāttādātmyopadeśācca parameva brahma jīva ityuktam / parameva cedbrahma jīvastasmādyāvatparaṃ brahma tāvāneva jīvo bhavitumarhati / parasya ca brahmaṇo vibhutvamāmnātam / tasmādvibhurjīvaḥ / tathāca 'sa vā eṣa mahānaja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu' (bṛ. 4.4.22) ityevañjātīyakā jīvaviṣayā vibhutvavādāḥ śrautāḥ smārtāśca samarthitā bhavanti / nacāṇorjīvasya sakalaśarīragatā vedanopapadyate / tvaksaṃbandhātsyāditi cet / na / kaṇṭakatodane 'pi sakalaśarīragataiva vedanā prasajyeta / tvakkaṇṭakayorhi saṃyogaḥ kṛtsnāyāṃ tvaci vartate tvakca kṛtsnaśarīravyāpinīti / pādatala eva tu kaṇṭakanunno vedanāṃ prati labhate / nacāṇorguṇavyāptirupapadyate, guṇasya guṇideśatvāt / guṇatvameva hi guṇinamanāśritya guṇasya hīyeta / pradīpaprabhāyāśca dravyāntaratvaṃ vyākhyātam / gandho 'pi guṇatvābhyupagamātsāśraya eva saṃcaritumarhati / anyathā guṇatvahāniprasaṅgāt / tathācoktaṃ dvaipāyanena- 'upalabhyāpsu cedgandaṃ kecidbrūyuranaipuṇāḥ / pṛthivyāmeva taṃ vidyādapo vāyuṃ ca saṃśritam' iti / yadi ca caitanyaṃ jīvasya samastaṃ śarīraṃ vyāpnuyānnāṇurjīvaḥ syāt / caitanyameva hyasya svarūpamagnerivauṣṇyaprakāśau / nātra guṇaguṇivibhāgo vidyata iti śarīraparimāṇatvaṃ ca pratyākhyātam / pariśeṣādvibhurjīvaḥ / kathaṃ tarhyaṇutvādivyapadeśa ityata āha- tad guṇasāratvāttu tadvyapadeśaḥ iti / tasyā buddherguṇāstadguṇā icchā dveṣaḥ sukhaṃ duḥkhamityevamādayastadguṇāḥ sāraḥ pradhānaṃ yasyātmanaḥ saṃsāritve saṃbhavati sa tadguṇasārastasya bhāvastadguṇasāratvam / nahi buddherguṇairvinā kevalasyātmanaḥ saṃsāritvamasti / buddhyupādhirdharmādhyāsanimittaṃ hi kartṛtvabhoktṛtvādilakṣaṇaṃ saṃsāritvamakartṛrabhoktuścāsaṃsāriṇo nityamuktasya sata ātmanaḥ / tasmāttadguṇasāratvādbuddhiparimāṇenāsya parimāṇavyapadeśaḥ / tadutkrāntyādibhiścāsyotkrāntyadivyapadeśo na svataḥ / tathāca- 'bālāgraśatabhāgasya śatadhā kalpitasya ca / bhāgo jīvaḥ sa vijñeyaḥ sa cānantyāya kalpate' (śve. 5.9) ityaṇutvaṃ jīvasyoktvā tasyaiva punarānantyamāha / taccaivameva samañjasaṃ syādyadyaupacārikamaṇutvaṃ jīvasya bhavetpāramārthikaṃ cānantyam / nahyubhayaṃ mukhyamavakalpeta / nacānantyamaupacārikamiti śakyaṃ vijñātuṃ, sarvopaniṣatsu brahmātmabhāvasya pratipādayiṣitatvāt / tathetarasminnapyunmāne 'buddherguṇenātmaguṇena caiva ārāgramātro hyavaro 'pi dṛṣṭaḥ' (śve. 6.8) iti ca buddhiguṇasaṃbandhenaivārāgramātratāṃ śāsti na svenaivātmanā / 'eṣo 'ṇurātmā cetasā veditavyaḥ' (muṇḍa. 3.1.9) ityatrāpi na jīvasyāṇuparimāṇatvaṃ śiṣyate, parasyaivātmanaścakṣurādyanavagrāhyatvena jñānaprasādagamyatvena ca prakṛtatvāt / jīvasyāpi ca mukhyāṇuparimāṇatvānupapatteḥ / tasmāddurjñānatvābhiprāyamidamaṇutvavacanamupādhyabhiprāyaṃ vā draṣṭavyam / tathā 'prajñayā śarīraṃ samāruhya' (kauṣī. 3.6) ityevañjātīyakeṣvapi bhedopadeśeṣu buddhyauvopādhibhūtayā jīvaḥ śarīraṃ samāruhyetyevaṃ yojayitavyam / vyapadeśamātraṃ vā, śilāputrakasya śarīramityavadat / nahyatra guṇaguṇivibhāgo 'pi vidyata ityuktam / hṛdayāyatanatvavacanamapi buddhereva tadāyatanatvāt / tathotkrāntyādīnāmapyupādhyāyattatāṃ darśayati- 'kasminnvahamutkrānta utkrānto bhaviṣyāmi kasminvā pratiṣṭhite pratiṣṭhāsyāmīti' (praśna. 6.3) 'sa prāṇamasṛjata' (pra. 6.4) iti / utkrāntyabhāve hi gatyāgatyorapyabhāvo vijñāyate / nahyanapasṛpasya dehādgatyāgatī syātām / evamupādhiguṇasāratvājjīvasyāṇutvādivyapadeśaḥ prājñavat / yathā prājñasya paramātmanaḥ saguṇeṣūpāsaneṣūpādhiguṇasāratvādaṇīyastvādivyapadeśaḥ- 'aṇīyānvrīhervā yavādvā' (chā. 3.1.14.2) 'manomayaḥ prāṇaśarīraḥ sarvagandhaḥ sarvarasaḥ satyakāmaḥ satyasaṃkalpaḥ' (chā. 3.14.2) ityevaṃprakārastadvat / syādetadyadi buddhiguṇasāratvādātmanaḥ saṃsāritvaṃ kalpyeta, tato buddhyātmanorbhinnayoḥ saṃyogāvasānamavaśyaṃbhāvītyato buddhiviyoge satyātmano vibhaktasyānālakṣyatvādasattvamasaṃsāritvaṃ vā prasajyeteti // 29 // ata uttaraṃ paṭhati-

Sanskrit only: no published translation is held for this verse.

यावदात्मभावित्वाच् च न दोषस् तद्दर्शनात् नेयमनन्तरनिर्दिष्टदोषप्राप्तिराशङ्कनीया । कस्मात् । यावदात्मभावित्वाद्बुद्धिसंयोगस्य । यावदयमात्मा संसारी भवति, यावदस्य सम्यग्दर्शनेन संसारित्वं न निवर्तते, तावदस्य बुद्ध्या संयोगो न शाम्यति । यावदेव चायं बुद्ध्युपाधिसंबन्धस्तावज्जीवस्य जीवत्वं संसारित्वं च । परमार्थतस्तु न जीवो नाम बुद्ध्युपाधिसंबन्धपरिकल्पितस्वरूपव्यतिरेकेणास्ति । नहि नित्यमुक्तस्वरूपात्सर्वज्ञादीश्वरादन्यश्चेतनो धातुर्द्वितीयो वेदान्तार्थनिरूपणायामुपलभ्यते । ऽनान्यो ऽतो ऽस्ति द्रष्टा श्रोता मन्ता विज्ञाताऽ (बृ। ३।७।२३), ऽनान्यदतो ऽस्ति द्रष्टृ श्रोतृ मन्तृ विज्ञातृऽ (छा। ६।८।७), ऽतत्त्वमसिऽ (छा। ६।१।६), ऽअहं ब्रह्मास्मिऽ (बृ। १।४।७) इत्यादिश्रुतेभ्यः । कथं पुनरवगम्यते यावदात्मभावी बुद्धिसंयोग इति । तद्दर्शनादित्याह । तथाहि शास्त्रं दर्शयति- ऽयो ऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः स समानः सन्नुभौ लोकावनुसंचरति ध्यायतीव लेलायतीवऽ (बृ। ४।३।४) इत्यादि । तत्र विज्ञानमय इति बुद्धिमय इत्येतदुक्तं भवति । प्रदेशान्तरे ऽविज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयःऽ इति विज्ञानमयस्य मनआदिभिः सह पाठात् । बुद्धिमयत्वं च तद्गुणसारत्वमेवाभिप्रेयते । यथा लोके स्त्रीमयो देवदत्त इति स्त्रीरागादिप्रधानो ऽभिधीयते तद्वत् । ऽस समानः सन्नुभौ लोकावनुसंचरतिऽ इति च लोकान्तरगमने ऽप्यवियोगं बुद्ध्या दर्शयति । केन समानस्तस्यैवबुद्ध्येति गम्यते संनिधानात् । तच्च दर्शयति - ऽध्यायतीव लेलायतीवऽ (बृ। ४।३।७) इति । एतदुक्तं भवति- नायं स्वतो ध्यायति, नापि चलति, ध्यायन्त्यां बुद्धौ ध्यायतीव चलन्त्यां बुद्धौ चलतीवेति । अपिच मिथ्याज्ञानपुरःसरो ऽयमात्मनो बुद्ध्युपाधिसंबन्धः । नच मिथ्याज्ञानस्य सम्यग्ज्ञानादन्यत्र निवृत्तिरस्तीत्यतो यावद्ब्रह्मात्मतानवबोधस्यावदयं बुद्ध्युपाधिसंबन्धो न शाम्यति । दर्शयति च- ऽवेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः पुरस्तात् । तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यते ऽयनायऽ (श्वे। ३।८) इति ॥ ३० ॥ ---------------------- फ़्न्: विज्ञानमयो बुद्धिप्रचुरः । आदित्यवर्णं स्वप्रकाशम् । तमसः परस्तादज्ञानास्पृष्टम् । सता परमात्मना । ननु सुषुप्तप्रलययोर्न शक्यते बुद्धिसंबन्धं आत्मनो ऽभ्युपगन्तुम् । ऽसता सोम्य तदा संपन्नो भवति स्वमपीतो भवतिऽ (छा। ६।८।१) इति वचनात् । कृत्स्नविकारप्रलयाभ्युपगमाच्च । तत्कथं यावदात्मभावित्वं बुद्धिसंबन्धस्येत्यत्रोच्यते-

yāvadātmabhāvitvāc ca na doṣas taddarśanāt neyamanantaranirdiṣṭadoṣaprāptirāśaṅkanīyā / kasmāt / yāvadātmabhāvitvādbuddhisaṃyogasya / yāvadayamātmā saṃsārī bhavati, yāvadasya samyagdarśanena saṃsāritvaṃ na nivartate, tāvadasya buddhyā saṃyogo na śāmyati / yāvadeva cāyaṃ buddhyupādhisaṃbandhastāvajjīvasya jīvatvaṃ saṃsāritvaṃ ca / paramārthatastu na jīvo nāma buddhyupādhisaṃbandhaparikalpitasvarūpavyatirekeṇāsti / nahi nityamuktasvarūpātsarvajñādīśvarādanyaścetano dhāturdvitīyo vedāntārthanirūpaṇāyāmupalabhyate / 'nānyo 'to 'sti draṣṭā śrotā mantā vijñātā' (bṛ. 3.7.23), 'nānyadato 'sti draṣṭṛ śrotṛ mantṛ vijñātṛ' (chā. 6.8.7), 'tattvamasi' (chā. 6.1.6), 'ahaṃ brahmāsmi' (bṛ. 1.4.7) ityādiśrutebhyaḥ / kathaṃ punaravagamyate yāvadātmabhāvī buddhisaṃyoga iti / taddarśanādityāha / tathāhi śāstraṃ darśayati- 'yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ sa samānaḥ sannubhau lokāvanusaṃcarati dhyāyatīva lelāyatīva' (bṛ. 4.3.4) ityādi / tatra vijñānamaya iti buddhimaya ityetaduktaṃ bhavati / pradeśāntare 'vijñānamayo manomayaḥ prāṇamayaścakṣurmayaḥ śrotramayaḥ' iti vijñānamayasya manaādibhiḥ saha pāṭhāt / buddhimayatvaṃ ca tadguṇasāratvamevābhipreyate / yathā loke strīmayo devadatta iti strīrāgādipradhāno 'bhidhīyate tadvat / 'sa samānaḥ sannubhau lokāvanusaṃcarati' iti ca lokāntaragamane 'pyaviyogaṃ buddhyā darśayati / kena samānastasyaivabuddhyeti gamyate saṃnidhānāt / tacca darśayati - 'dhyāyatīva lelāyatīva' (bṛ. 4.3.7) iti / etaduktaṃ bhavati- nāyaṃ svato dhyāyati, nāpi calati, dhyāyantyāṃ buddhau dhyāyatīva calantyāṃ buddhau calatīveti / apica mithyājñānapuraḥsaro 'yamātmano buddhyupādhisaṃbandhaḥ / naca mithyājñānasya samyagjñānādanyatra nivṛttirastītyato yāvadbrahmātmatānavabodhasyāvadayaṃ buddhyupādhisaṃbandho na śāmyati / darśayati ca- 'vedāhametaṃ puruṣaṃ mahāntamādityavarṇaṃ tamasaḥ purastāt / tameva viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya' (śve. 3.8) iti // 30 // ---------------------- FN: vijñānamayo buddhipracuraḥ / ādityavarṇaṃ svaprakāśam / tamasaḥ parastādajñānāspṛṣṭam / satā paramātmanā / nanu suṣuptapralayayorna śakyate buddhisaṃbandhaṃ ātmano 'bhyupagantum / 'satā somya tadā saṃpanno bhavati svamapīto bhavati' (chā. 6.8.1) iti vacanāt / kṛtsnavikārapralayābhyupagamācca / tatkathaṃ yāvadātmabhāvitvaṃ buddhisaṃbandhasyetyatrocyate-

Sanskrit only: no published translation is held for this verse.

पुंस्त्वादिवत् त्व् अस्य सतो ऽभिव्यक्तियोगात् यथा लोके पुंस्त्वादीनि बीजात्मना विद्यमानान्येव बाल्यादिष्वनुपलभ्यमानान्यविद्यमानवदभिप्रेयमाणानि यौवनादिष्वाविर्भवन्ति, नाविद्यमानान्युत्पद्यन्ते षण्डादीनामपि तदुत्पत्तिप्रसङ्गात्, एवमयमपि बुद्धिसंबन्धः शक्त्यात्मना विद्यमान एव सुषुप्तप्रलययोः पुनः प्रबोधप्रसवयोराविर्भवति । एवं ह्येतद्युज्यते । नह्याकस्मिकी कस्यचिदुत्पत्तिः संभवति । अतिप्रसङ्गात् । दर्शयति च सुषुप्तादुत्थानमविद्यात्मकबीजसद्भावकारितम्- ऽसति संपद्य न विदुः सति संपद्यमाहऽ इति त इह व्याघ्रो वा संहो वाऽ (छा। ६।९।३) इत्यादिना । तस्मात्सिद्धमेतद्यावदात्मभावी बुद्ध्याद्युपाधिसंबन्ध इति ॥ ३१ ॥

puṃstvādivat tv asya sato 'bhivyaktiyogāt yathā loke puṃstvādīni bījātmanā vidyamānānyeva bālyādiṣvanupalabhyamānānyavidyamānavadabhipreyamāṇāni yauvanādiṣvāvirbhavanti, nāvidyamānānyutpadyante ṣaṇḍādīnāmapi tadutpattiprasaṅgāt, evamayamapi buddhisaṃbandhaḥ śaktyātmanā vidyamāna eva suṣuptapralayayoḥ punaḥ prabodhaprasavayorāvirbhavati / evaṃ hyetadyujyate / nahyākasmikī kasyacidutpattiḥ saṃbhavati / atiprasaṅgāt / darśayati ca suṣuptādutthānamavidyātmakabījasadbhāvakāritam- 'sati saṃpadya na viduḥ sati saṃpadyamāha' iti ta iha vyāghro vā saṃho vā' (chā. 6.9.3) ityādinā / tasmātsiddhametadyāvadātmabhāvī buddhyādyupādhisaṃbandha iti // 31 //

Sanskrit only: no published translation is held for this verse.

नित्योपलब्ध्यनुपलब्धिप्रसङ्गो ऽन्यतरनियमो वान्यथा तच्चात्मन उपाधिभूतमन्तःकरणं मनो बुद्धिर्विज्ञानं च्तितमिति चानेकधा तत्र तत्राभिलप्यते । क्वचिच्च वृत्तिविभागेन संशयादिवृत्तिकं मन इत्युच्यते, निश्चयादिवृत्तिकं बुद्धिरिति । तच्चैवंभूतमन्तःकरणमवश्यमस्तीत्यभ्युपगन्तव्यम् । अन्यथा ह्यनभ्युपगम्यमाने तस्मिन्नित्योपलब्ध्यनुपलब्धिप्रसङ्गः स्यात् । आत्मेन्द्रियविषयाणामुपलब्धिसाधनानां संनिधाने सति नित्यमेवोपलब्धिः प्रसज्येत । अथ सत्यपि हेतुसमवधाने फलाभावस्ततो नित्यमेवानुपलब्धिः प्रसज्येत । नचैवं दृश्यते । अथवान्यतरस्यात्मन इन्द्रियस्य वा शक्तिप्रतिबन्धो ऽभ्युपगन्तव्यः । नचात्मनः शक्तिप्रतिबन्धः संभवति । अविक्रियत्वात् । नापीन्द्रियस्य । नहि तस्य पूर्वोत्तरयोः क्षणयोरप्रतिबद्धशक्तिकस्य सतो ऽकस्माच्छक्तिः प्रतिबध्येत । तस्माद्यस्यावधानानवधानाभ्यामुपलब्ध्यनुपलब्धी भवतस्तन्मनः । तथाच श्रुतिः - ऽअन्यत्रात्मना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषम्ऽ (बृ। १।५।३) इति, ऽमनसा ह्येव पश्यति मनसा शृणोतिऽ (बृ। १।५।३) इति । कामादयश्चास्य वृत्तय इति दर्शयति ऽकामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्हीर्भीरित्येतत्सर्वं मन एवऽ (बृ। १।५।३) इति । तस्माद्युक्तमेतत् । ऽतद्गुणसारत्वात्तद्व्यपदेशःऽ इति ॥ ३२ ॥ १४ कर्त्राधिकरणम् । सू। ३३-४०

nityopalabdhyanupalabdhiprasaṅgo 'nyataraniyamo vānyathā taccātmana upādhibhūtamantaḥkaraṇaṃ mano buddhirvijñānaṃ ctitamiti cānekadhā tatra tatrābhilapyate / kvacicca vṛttivibhāgena saṃśayādivṛttikaṃ mana ityucyate, niścayādivṛttikaṃ buddhiriti / taccaivaṃbhūtamantaḥkaraṇamavaśyamastītyabhyupagantavyam / anyathā hyanabhyupagamyamāne tasminnityopalabdhyanupalabdhiprasaṅgaḥ syāt / ātmendriyaviṣayāṇāmupalabdhisādhanānāṃ saṃnidhāne sati nityamevopalabdhiḥ prasajyeta / atha satyapi hetusamavadhāne phalābhāvastato nityamevānupalabdhiḥ prasajyeta / nacaivaṃ dṛśyate / athavānyatarasyātmana indriyasya vā śaktipratibandho 'bhyupagantavyaḥ / nacātmanaḥ śaktipratibandhaḥ saṃbhavati / avikriyatvāt / nāpīndriyasya / nahi tasya pūrvottarayoḥ kṣaṇayorapratibaddhaśaktikasya sato 'kasmācchaktiḥ pratibadhyeta / tasmādyasyāvadhānānavadhānābhyāmupalabdhyanupalabdhī bhavatastanmanaḥ / tathāca śrutiḥ - 'anyatrātmanā abhūvaṃ nādarśamanyatramanā abhūvaṃ nāśrauṣam' (bṛ. 1.5.3) iti, 'manasā hyeva paśyati manasā śṛṇoti' (bṛ. 1.5.3) iti / kāmādayaścāsya vṛttaya iti darśayati 'kāmaḥ saṃkalpo vicikitsā śraddhāśraddhā dhṛtiradhṛtirhīrbhīrityetatsarvaṃ mana eva' (bṛ. 1.5.3) iti / tasmādyuktametat / 'tadguṇasāratvāttadvyapadeśaḥ' iti // 32 // 14 kartrādhikaraṇam / sū. 33-40

Sanskrit only: no published translation is held for this verse.

कर्ता शास्त्रार्थवत्त्वात् तद्गुणसारत्वाधिकारेणैवापरो ऽपि जीवधर्मः प्रपञ्च्यते । कर्ता चायं जीवः स्यात् । कस्मात् । शास्त्रार्थत्वात् । एवञ्च ऽयजेतऽ ऽजुहुयात्ऽ ऽदद्यात्ऽ इत्येवंविधं विदिशास्त्रमर्थवद्भवति । अन्यथा तदनर्थकं स्यात् । तद्धि कर्तुः सतः कर्तव्यविशेषमुपदिशति । नचासति कर्तृत्वे तदुपपद्येत । तथेदमपि शास्त्रमर्थवद्भवति एष हि द्रष्टा श्रोता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः (प्र। ५।९) इति ॥ ३३ ॥

kartā śāstrārthavattvāt tadguṇasāratvādhikāreṇaivāparo 'pi jīvadharmaḥ prapañcyate / kartā cāyaṃ jīvaḥ syāt / kasmāt / śāstrārthatvāt / evañca 'yajeta' 'juhuyāt' 'dadyāt' ityevaṃvidhaṃ vidiśāstramarthavadbhavati / anyathā tadanarthakaṃ syāt / taddhi kartuḥ sataḥ kartavyaviśeṣamupadiśati / nacāsati kartṛtve tadupapadyeta / tathedamapi śāstramarthavadbhavati eṣa hi draṣṭā śrotā mantā boddhā kartā vijñānātmā puruṣaḥ (pra. 5.9) iti // 33 //

Sanskrit only: no published translation is held for this verse.

विहारोपदेशात् इतश्च जीवस्य कर्तृत्वं, यज्जीवप्रक्रियायां संध्ये स्थाने विहारमुपदिशति- ऽस ईयते ऽमृतो यत्र कामम्ऽ (बृ। ४।३।१२) इति, ऽस्वे शरीरे यथाकामं परिवर्ततेऽ (बृ। २।१।१८) इति च ॥ ३४ ॥ ---------------------- फ़्न्: संध्ये स्थाने स्वप्नावस्थानम् । ईयते गच्छति ।

vihāropadeśāt itaśca jīvasya kartṛtvaṃ, yajjīvaprakriyāyāṃ saṃdhye sthāne vihāramupadiśati- 'sa īyate 'mṛto yatra kāmam' (bṛ. 4.3.12) iti, 'sve śarīre yathākāmaṃ parivartate' (bṛ. 2.1.18) iti ca // 34 // ---------------------- FN: saṃdhye sthāne svapnāvasthānam / īyate gacchati /

Sanskrit only: no published translation is held for this verse.

उपादानात् इतश्चास्य कर्तृत्वं, यज्जीवप्रक्रियायामेव करणानामुपादानं संकीर्तयति- ऽतदेषां प्राणानां विज्ञानेन विज्ञानमादायऽ (बृ। २१।१।१७) इति, ऽप्राणान्गृहीत्वाऽ (बृ। २।१।१८) इति च ॥ ३५ ॥ ---------------------- फ़्न्: प्राणानामिन्द्र्याणां विज्ञानेन बुद्ध्या विज्ञानं ग्रहणशक्तिमादाय स्वापे जीवो हृदयमेतीति योजना ।

upādānāt itaścāsya kartṛtvaṃ, yajjīvaprakriyāyāmeva karaṇānāmupādānaṃ saṃkīrtayati- 'tadeṣāṃ prāṇānāṃ vijñānena vijñānamādāya' (bṛ. 21.1.17) iti, 'prāṇāngṛhītvā' (bṛ. 2.1.18) iti ca // 35 // ---------------------- FN: prāṇānāmindryāṇāṃ vijñānena buddhyā vijñānaṃ grahaṇaśaktimādāya svāpe jīvo hṛdayametīti yojanā /

Sanskrit only: no published translation is held for this verse.

व्यपदेशाच् च क्रियायां न चेन् निर्देशविपर्ययः इतश्च जीवस्य कर्तृत्वं, यदस्य लौकिकीषु वैदिकीषु च क्रियासु कर्तृत्वं व्यपदिशति शास्त्रम्- ऽविज्ञानं यज्ञं तनुते कर्माणि तनुते ऽपि चऽ (तै। २।५।१) इति । ननु विज्ञानच्छब्दो बुद्धौ समधिगतः । कथमनेन जीवस्य कर्तृत्वं सूच्यत इति । नेत्युच्यते । जीवस्यैवैष निर्देशो न बुद्धेः । न चेज्जीवस्य स्यान्निर्देशविपर्ययः स्यात् । विज्ञानेनेत्येवं निरदेक्ष्यात् । तथा ह्यन्यत्र बुद्धिविवक्षायां विज्ञानशब्दस्य करणविभक्तिनिर्देशो दृश्यते ऽतदेषां प्राणानां विज्ञानेन विज्ञानमादायऽ (बृ। २।१।१७) इति । इह तु ऽ विज्ञानं यज्ञं तनुतेऽ (तै। २।५।१) इति कर्तृसमानाधिकरणनिर्देशाद्बुद्धिव्यतिरिक्तस्यैवात्मनः कर्तृत्वं सूच्यत इत्यदोषः ॥ ३६ ॥ अत्राह- यदि बुद्धिव्यतिरिक्तो जीवः कर्ता स्यात्स स्वतन्त्रः सन्प्रियं हितं चैवात्मनो नियमेन संपादयेन्न विपरीतम् । विपरीतमपि तु संपादयन्नुपलभ्यते । नच स्वतन्त्रस्यात्मन ईदृशी प्रवृत्तिरनियमेनोपपद्यत इति । अत उत्तरं पठति-

vyapadeśāc ca kriyāyāṃ na cen nirdeśaviparyayaḥ itaśca jīvasya kartṛtvaṃ, yadasya laukikīṣu vaidikīṣu ca kriyāsu kartṛtvaṃ vyapadiśati śāstram- 'vijñānaṃ yajñaṃ tanute karmāṇi tanute 'pi ca' (tai. 2.5.1) iti / nanu vijñānacchabdo buddhau samadhigataḥ / kathamanena jīvasya kartṛtvaṃ sūcyata iti / netyucyate / jīvasyaivaiṣa nirdeśo na buddheḥ / na cejjīvasya syānnirdeśaviparyayaḥ syāt / vijñānenetyevaṃ niradekṣyāt / tathā hyanyatra buddhivivakṣāyāṃ vijñānaśabdasya karaṇavibhaktinirdeśo dṛśyate 'tadeṣāṃ prāṇānāṃ vijñānena vijñānamādāya' (bṛ. 2.1.17) iti / iha tu ' vijñānaṃ yajñaṃ tanute' (tai. 2.5.1) iti kartṛsamānādhikaraṇanirdeśādbuddhivyatiriktasyaivātmanaḥ kartṛtvaṃ sūcyata ityadoṣaḥ // 36 // atrāha- yadi buddhivyatirikto jīvaḥ kartā syātsa svatantraḥ sanpriyaṃ hitaṃ caivātmano niyamena saṃpādayenna viparītam / viparītamapi tu saṃpādayannupalabhyate / naca svatantrasyātmana īdṛśī pravṛttiraniyamenopapadyata iti / ata uttaraṃ paṭhati-

Sanskrit only: no published translation is held for this verse.

उपलब्धिवदनियमः यथायमात्मोपलब्धिं प्रति स्वतन्त्रो ऽप्यनियमेनेष्टमनिष्टं चोपलभत एवमनियमेनैवेष्टमनिष्टं च संपादयिष्यति । उपलब्धावप्यस्वातन्त्र्यमुपलब्धिहेतूपादानोपलम्भादिति चेत् । न । विषयप्रकल्पनामात्रप्रयोजनत्वादुपलब्धिहेतूनाम् । उपलब्धौ त्वनन्यापेक्षत्वमात्मनश्चैतन्ययोगात् । अपिचार्थक्रियायामपि नात्यन्तमात्मनः स्वातन्त्र्यमस्ति देशकालनिमित्तविशेषापेक्षत्वात् । नच सहायापेक्षस्य कर्तुः कर्तृत्वं निवर्तते । भवति ह्येधोदकाद्यपेक्षस्यापि पक्तुः पक्तृत्वम् । सहकारिवैचित्र्याच्चेष्टानिष्टार्थक्रियायामनियमेन प्रवृत्तिरात्मनो न विरुध्यते ॥ ३७ ॥

upalabdhivadaniyamaḥ yathāyamātmopalabdhiṃ prati svatantro 'pyaniyameneṣṭamaniṣṭaṃ copalabhata evamaniyamenaiveṣṭamaniṣṭaṃ ca saṃpādayiṣyati / upalabdhāvapyasvātantryamupalabdhihetūpādānopalambhāditi cet / na / viṣayaprakalpanāmātraprayojanatvādupalabdhihetūnām / upalabdhau tvananyāpekṣatvamātmanaścaitanyayogāt / apicārthakriyāyāmapi nātyantamātmanaḥ svātantryamasti deśakālanimittaviśeṣāpekṣatvāt / naca sahāyāpekṣasya kartuḥ kartṛtvaṃ nivartate / bhavati hyedhodakādyapekṣasyāpi paktuḥ paktṛtvam / sahakārivaicitryācceṣṭāniṣṭārthakriyāyāmaniyamena pravṛttirātmano na virudhyate // 37 //

Sanskrit only: no published translation is held for this verse.

शक्तिविपर्ययात् इतश्च विज्ञानव्यतिरिक्तो जीवः कर्ता भवितुमर्हति । यदि पुर्विज्ञानशब्दवाच्या बुद्धिरेव कर्त्री स्यात्ततः शक्तिविपर्ययः स्यात् । करणशक्तिर्बुद्धेर्हीयेत कर्तृशक्तिश्चापद्येत । सत्यां च बुद्धेः कर्तृशक्तौ तस्या एवाहंप्रत्ययविषयत्वमभ्युपगन्तव्यम् । अहङ्कारपूर्विकाया एव प्रवृत्तेः सर्वत्र दर्शनात् । अहं गच्छाम्यहमागच्छाम्यहं भुञ्जो ऽहं पिबामीति च । तस्याश्च कर्तृशक्तियुक्तायाः सर्वार्थकारी करणमन्यत्कल्पयितव्यम् । शक्तो ऽपि हि सन्कर्ता करणमुपादाय क्रियासु प्रवर्तमानो दृश्यत इति । ततश्च संज्ञामात्रे विवादः स्यान्न वस्तुभेदः कश्चित् । करणव्यतिरिक्तस्य कर्तृत्वाभ्युपगमात् ॥ ३८ ॥

śaktiviparyayāt itaśca vijñānavyatirikto jīvaḥ kartā bhavitumarhati / yadi purvijñānaśabdavācyā buddhireva kartrī syāttataḥ śaktiviparyayaḥ syāt / karaṇaśaktirbuddherhīyeta kartṛśaktiścāpadyeta / satyāṃ ca buddheḥ kartṛśaktau tasyā evāhaṃpratyayaviṣayatvamabhyupagantavyam / ahaṅkārapūrvikāyā eva pravṛtteḥ sarvatra darśanāt / ahaṃ gacchāmyahamāgacchāmyahaṃ bhuñjo 'haṃ pibāmīti ca / tasyāśca kartṛśaktiyuktāyāḥ sarvārthakārī karaṇamanyatkalpayitavyam / śakto 'pi hi sankartā karaṇamupādāya kriyāsu pravartamāno dṛśyata iti / tataśca saṃjñāmātre vivādaḥ syānna vastubhedaḥ kaścit / karaṇavyatiriktasya kartṛtvābhyupagamāt // 38 //

Sanskrit only: no published translation is held for this verse.

समाध्यभावाच् च यो ऽप्ययमौपनिषदात्मप्रतिपत्तिप्रयोजनः समाधिरुपदिष्टो वेदान्तेषु- ऽआत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यसितव्य सो ऽन्वेष्टव्यः स विजिज्ञासितव्यःऽ (बृ। २।४।५), ऽआत्मेत्येवं ध्यायथ आत्मानम्ऽ (मुण्ड। २।२।६) इत्येवंलक्षणः, सो ऽप्यसत्यात्मनः कर्तृत्वे नोपपद्येत । तस्मादप्यस्य कर्तृत्वसिद्धिः ॥ ३९ ॥ १५ तक्षाधिकरणम् ॥ सू। ४०

samādhyabhāvāc ca yo 'pyayamaupaniṣadātmapratipattiprayojanaḥ samādhirupadiṣṭo vedānteṣu- 'ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyasitavya so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ' (bṛ. 2.4.5), 'ātmetyevaṃ dhyāyatha ātmānam' (muṇḍa. 2.2.6) ityevaṃlakṣaṇaḥ, so 'pyasatyātmanaḥ kartṛtve nopapadyeta / tasmādapyasya kartṛtvasiddhiḥ // 39 // 15 takṣādhikaraṇam // sū. 40

Sanskrit only: no published translation is held for this verse.

यथा च तक्षोभयथा एवं तावच्छास्त्रार्थवत्त्वादिभिर्हेतुभिः कर्तृत्वं शारीरस्य प्रदर्शितं, तत्पुनः स्वाभाविकं वा स्यादुपाधिनिमित्तं वेति चिन्त्यते । तत्रैतैरेव शास्त्रार्थवत्त्वादिभिर्हेतुभिः स्वाभाविकं कर्तृत्वमपवादहेत्वभावादिति । एवं प्राप्ते ब्रूमः । न स्वाभाविकं कर्तृत्वमात्मनः संभवति, अनिर्मोक्षप्रसङ्गात् । कर्तृत्वस्वभावे ह्यात्मनो न कर्तृत्वान्निर्मोक्षः संभवति, अग्नेरिवौष्ण्यात् । नच कर्तृत्वादनिर्मुक्तस्यास्ति पुरुषार्थसिद्धिः, कर्तृत्वस्य दुःखरूपत्वात् । ननु स्थितायामपि कर्तृत्वशक्तौ कर्तृत्वकार्यपरिहारात्पुरुषार्थः सेत्स्यति । तत्परिहारश्च निमित्तपरिहारात् । यथाग्नेर्दहनशक्तियुक्तस्यापि काष्ठवियोगाद्दहनकार्याभावात् । न । निमित्तानामपि शक्तिलक्षणेन संबन्धेन संबद्धानामत्यन्तपरिहारासंभवात् । ननु मोक्षसाधनविधानान्मोक्षः सेत्स्यति । न । साधनायत्तस्यानित्यत्वात् । अपिच नित्यशुद्धबुद्धमुक्तात्मप्रतिपादनान्मोक्षसिद्धिरभिमता । तादृगात्मप्रतिपादनं च न स्वाभाविके कर्तृत्वे ऽवकल्पेत । तस्मादुपाधिधर्माध्यासेनैवात्मनः कर्तृत्वं न स्वाभाविकम् । तथाच श्रुतिः - ऽध्यायतीव लेलायतीवऽ (बृ। ४।३।७) इति । ऽआत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः(कण्ठ। ३।४) इति चोपाधिसंपृक्तस्यैवात्मनो भोक्तेत्यादिविशेषलाभं दर्शयति । नहि विवेकिनां परस्मादन्यो जीवो नाम कर्ता भोक्ता वा विद्यते । ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ (बृ। ४।३।२३) इत्यादिश्रवणात् । पर एव तर्हि संसारी कर्ता भोक्ता च प्रसज्येत, परस्मादन्यश्चेच्चितिमाञ्जीवः कर्ता बुद्ध्यादिसंघातव्यतिरिक्तो न स्यात् । न । अविद्याप्रत्युपस्थापितत्वात्कर्तृत्वभोक्तृत्वयोः । तथाच शास्त्रम्- ऽयत्र हि द्वैतमिव भवति तदितर इतरं पश्यतिऽ (बृ। २।४।१४) इत्यविद्यावस्थायां कर्तृत्वभोक्तृत्वे दर्शयित्वा विद्यावस्थायां ते एव कर्तृत्वभोक्तृत्वे निवारयति- ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृ। २।४।१४) इति । तथा स्वप्नजागरितयोरात्मन उपाधिसंपर्ककृतं श्रमं श्येनस्येवाकाशे विपरिपततः श्रावयित्वा तदभावं सुषुप्तौ प्राज्ञेनात्मना संपरिष्वक्तस्य श्रावयति- ऽतद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपं शोकान्तरम् (बृ। ४।३।२१) इत्यारभ्य एषास्य परमा गतिरेषास्य परमा संपदेषो ऽस्य परमो लोक एषो ऽस्यपरम आनन्दः (बृ। ४।३।३२) इत्युपसंहारात् । तदेतदाहाचार्यः - यथा च तक्षोभयथा इति । त्वर्थे चायं चः पठितः । नैवं मन्तव्यं स्वाभाविकमेवात्मनः कर्तृत्वमग्नेरिवौष्ण्यमिति । यथा तु तक्षा लोके वास्यादिकरणहस्तः कर्ता दुःखी भवति स एव स्वगृहं प्राप्तो विमुक्तवास्यादिकरणः स्वस्थो निवृत्तो निर्व्यापारः सुखी भवत्येवमविद्याप्रत्युपस्थापितद्वैतसंपृक्त आत्मा स्वप्नजागरितावस्थयोः कर्ता दुःखी भवति स तच्छ्रमापनुत्तये स्वमात्मानं परं ब्रह्म प्रविश्य विमुक्तकार्यकरणसंघातो ऽकर्ता सुखी भवति संप्रसादावस्थायाम् । तथा मुक्त्यवस्थायामप्यविद्याध्वान्तं विद्याप्रदीपेन विधूयात्मैव केवलो निवृत्तः सुखी भवति । तक्षदृष्टान्तश्चैतावतांऽशेन द्रष्टव्यः । तक्षा हि विशिष्ठेषु तक्षणादिव्यापारेष्वपेक्ष्यैव प्रतिनियतानि करणानि वास्यादीनि कर्ता भवति । स्वशरीरेण त्वकर्तैव । एवमयमात्मा सर्वव्यापारेष्वपेक्ष्यैव मनआदीनि करणानि कर्ता भवति, स्वात्मना त्वकर्तैवेति । नत्वात्मनस्थक्ष्ण इवावयवाः सन्ति यैर्हस्तादिभिरिव वास्यादीनि तक्षा मनआदीनि करणान्यात्मोपाददीत न्यस्येद्वा । यत्तूक्तं शास्त्रार्थवत्त्वादिभिर्हेतुभिः स्वाभाविकमात्मनः कर्तृत्वमिति । तन्न । विधिशास्त्रं तावद्यथाप्राप्तं कर्तृत्वमुपादाय कर्तव्यविशेषमुपदिशति न कर्तृत्वमात्मनः प्रतिपादयति । नच स्वाभाविकमस्य कर्तृत्वमिति ब्रह्मात्मत्वोपदेशादित्यवोचाम । तस्मादविद्याकृतं कर्तृत्वमुपादाय विधिशास्त्रं प्रवर्तिष्यते । कर्ता विज्ञानात्मा पुरुष इत्येवञ्जातीयकमपि शास्त्रमनुवादरूपत्वाद्यथाप्राप्यमेवाविद्याकृतं कर्तृत्वमनुवदिष्यति । एतेन विहारोपादाने परिहृते । तयोरप्यनुवादरूपत्वात् । ननु संध्ये स्थाने प्रसुप्तेषु करणेषु स्वे शरीरे यथाकामं परिवर्तत इति विहार उपदिश्यमानः केवलस्यात्मनः कर्तृत्वमावहति । तथोपादाने ऽपि ऽतदेषां प्राणानां विज्ञानेन विज्ञानमादायऽ इति करणेषु कर्मकरणविभक्ती श्रूयमाणे केवलस्यात्मनः कर्तृत्वं गमयत इति । अत्रोच्यते- न तावत्संध्ये स्थाने ऽत्यन्तमात्मनः करणविरमणमस्ति । ऽसधीः स्वप्नो भूत्वेमं लोकमतिक्रामतिऽ (बृ।४।३।७) इति तत्रापि धीसंबन्धश्रवणात् । तथाच स्मरन्ति- ऽइन्द्रियाणामुपरमे मनो ऽनुपरतं यदि । सेवते विषयानेव तद्विद्यात्स्वप्नदर्शनम्ऽ इति । ऽकामादयश्च मनसो वृत्तयःऽ इति श्रुतिः । ताश्च स्वप्ने दृश्यन्ते । तस्मात्समना एव स्वप्ने विहरति । विहारो ऽपि च तत्रत्यो वासनामय एव नतु पारमार्थिको ऽस्ति । तथाच श्रुतिरिवाकारानुबद्धमेव स्वप्नव्यापारं वर्णयति- ऽउतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन्ऽ (बृ। ४।३।१३) इति । लौकिका अपि तथैव स्वप्नं कथयन्ति- आरुक्षमिव गिरिशृङ्गमद्राक्षमिव वनराजिमिति । तथोपादाने ऽपि यद्यपि करणेषु कर्मकरणविभक्तिनिर्देशस्तथापि तत्संपृक्तस्यैवात्मनः कर्तृत्वं द्रष्टव्यम् । केवले कर्तृत्वासंभवस्य दर्शितत्वात् । भवति च लोके ऽनेकप्रकारा विवक्षा योधा युध्यन्ते योधै राजा युध्यत इति । अपिचास्मिन्नुपादाने करणव्यापारोपरममात्रं विवक्ष्यते न स्वातन्त्र्यं कस्यचिदबुद्धिपूर्वकस्यापि स्वापे करणव्यापारोपरमस्य दृष्टत्वात् । यस्त्वयं व्यपदेशो दर्शितः ऽविज्ञानं यज्ञं तनुतेऽ इति, स बुद्धेरेव कर्तृत्वं प्रापयति । विज्ञानशब्दस्य तत्र प्रसिद्धत्वात् । मनोनन्तरं पाठाच्च । ऽतस्य श्रद्धैव शिरःऽ (तै। २।४) इति च विज्ञानमयस्यात्मनः श्रद्धाद्यवयवत्वसंकीर्तनात् । श्रद्धादीनां च बुद्धिधर्मत्वप्रसिद्धेः । ऽविज्ञानं देवाः सर्वे ब्रह्म ज्येष्ठमुपासतेऽ (तै। २।५।१) इति च वाक्यशेषात् । ज्येष्ठत्वस्य च प्रथमजत्वमस्य बुद्धौ प्रसिद्धत्वात् । ऽस एष वाचश्चित्तस्योत्तरोत्तरक्रमो यद्यज्ञःऽ इति च श्रुत्यन्तरे यज्ञस्य वाग्बुद्धिसाध्यत्वावधारमात् । नच बुद्धेः शक्तिविपर्ययः करणानां कर्तृत्वाभ्युपगमे भवति । सर्वकारकाणामेव स्वस्वव्यापारेषु कर्तृत्वस्यावश्यंभावित्वात् । उपलब्ध्यपेक्षं त्वेषां करणानां करणत्वं, सा चात्मनः । नच तस्यामप्यस्य कर्तृत्वमस्ति । नित्योलब्धिस्वरूपत्वात् । अहङ्कारपूर्वकमपि कर्तृत्वं नोपलब्धुर्भवितुमर्हति । अहङ्कारस्याप्युपलभ्यमानत्वात् । नचैवं सति करणान्तरकल्पनाप्रसङ्गः । बुद्धेः करणत्वाभ्युपगमात् । समाध्यभावस्तु शास्त्रार्थत्त्वेनैव परिहृतः । यथाप्राप्तमेव कर्तृत्वमुपादाय समाधिविधानात् । तस्मात्कर्तृत्वमप्यात्मन उपाधिनिमित्तमेवेति स्थितम् ॥ ४० ॥ ---------------------- फ़्न्: शोकान्तरं दुःखास्पृष्टम् । गतिः प्राप्यं, लोको भोग्यं सुखम् । अन्यैरप्रेर्यत्वं स्वस्थत्वम्, मानसप्रयत्नराहित्यं निर्वृतत्वम्, कायचेष्टाशून्यत्वं निर्व्यापारत्वम् । संप्रसादः सुषुप्तिः । जक्षत् भुञ्जानैव । १६ परायत्ताधिकरणम् । सू। ४१-४२

yathā ca takṣobhayathā evaṃ tāvacchāstrārthavattvādibhirhetubhiḥ kartṛtvaṃ śārīrasya pradarśitaṃ, tatpunaḥ svābhāvikaṃ vā syādupādhinimittaṃ veti cintyate / tatraitaireva śāstrārthavattvādibhirhetubhiḥ svābhāvikaṃ kartṛtvamapavādahetvabhāvāditi / evaṃ prāpte brūmaḥ / na svābhāvikaṃ kartṛtvamātmanaḥ saṃbhavati, anirmokṣaprasaṅgāt / kartṛtvasvabhāve hyātmano na kartṛtvānnirmokṣaḥ saṃbhavati, agnerivauṣṇyāt / naca kartṛtvādanirmuktasyāsti puruṣārthasiddhiḥ, kartṛtvasya duḥkharūpatvāt / nanu sthitāyāmapi kartṛtvaśaktau kartṛtvakāryaparihārātpuruṣārthaḥ setsyati / tatparihāraśca nimittaparihārāt / yathāgnerdahanaśaktiyuktasyāpi kāṣṭhaviyogāddahanakāryābhāvāt / na / nimittānāmapi śaktilakṣaṇena saṃbandhena saṃbaddhānāmatyantaparihārāsaṃbhavāt / nanu mokṣasādhanavidhānānmokṣaḥ setsyati / na / sādhanāyattasyānityatvāt / apica nityaśuddhabuddhamuktātmapratipādanānmokṣasiddhirabhimatā / tādṛgātmapratipādanaṃ ca na svābhāvike kartṛtve 'vakalpeta / tasmādupādhidharmādhyāsenaivātmanaḥ kartṛtvaṃ na svābhāvikam / tathāca śrutiḥ - 'dhyāyatīva lelāyatīva' (bṛ. 4.3.7) iti / 'ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ(kaṇṭha. 3.4) iti copādhisaṃpṛktasyaivātmano bhoktetyādiviśeṣalābhaṃ darśayati / nahi vivekināṃ parasmādanyo jīvo nāma kartā bhoktā vā vidyate / 'nānyo 'to 'sti draṣṭā' (bṛ. 4.3.23) ityādiśravaṇāt / para eva tarhi saṃsārī kartā bhoktā ca prasajyeta, parasmādanyaśceccitimāñjīvaḥ kartā buddhyādisaṃghātavyatirikto na syāt / na / avidyāpratyupasthāpitatvātkartṛtvabhoktṛtvayoḥ / tathāca śāstram- 'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati' (bṛ. 2.4.14) ityavidyāvasthāyāṃ kartṛtvabhoktṛtve darśayitvā vidyāvasthāyāṃ te eva kartṛtvabhoktṛtve nivārayati- 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 2.4.14) iti / tathā svapnajāgaritayorātmana upādhisaṃparkakṛtaṃ śramaṃ śyenasyevākāśe viparipatataḥ śrāvayitvā tadabhāvaṃ suṣuptau prājñenātmanā saṃpariṣvaktasya śrāvayati- 'tadvā asyaitadāptakāmamātmakāmamakāmaṃ rūpaṃ śokāntaram (bṛ. 4.3.21) ityārabhya eṣāsya paramā gatireṣāsya paramā saṃpadeṣo 'sya paramo loka eṣo 'syaparama ānandaḥ (bṛ. 4.3.32) ityupasaṃhārāt / tadetadāhācāryaḥ - yathā ca takṣobhayathā iti / tvarthe cāyaṃ caḥ paṭhitaḥ / naivaṃ mantavyaṃ svābhāvikamevātmanaḥ kartṛtvamagnerivauṣṇyamiti / yathā tu takṣā loke vāsyādikaraṇahastaḥ kartā duḥkhī bhavati sa eva svagṛhaṃ prāpto vimuktavāsyādikaraṇaḥ svastho nivṛtto nirvyāpāraḥ sukhī bhavatyevamavidyāpratyupasthāpitadvaitasaṃpṛkta ātmā svapnajāgaritāvasthayoḥ kartā duḥkhī bhavati sa tacchramāpanuttaye svamātmānaṃ paraṃ brahma praviśya vimuktakāryakaraṇasaṃghāto 'kartā sukhī bhavati saṃprasādāvasthāyām / tathā muktyavasthāyāmapyavidyādhvāntaṃ vidyāpradīpena vidhūyātmaiva kevalo nivṛttaḥ sukhī bhavati / takṣadṛṣṭāntaścaitāvatāṃ'śena draṣṭavyaḥ / takṣā hi viśiṣṭheṣu takṣaṇādivyāpāreṣvapekṣyaiva pratiniyatāni karaṇāni vāsyādīni kartā bhavati / svaśarīreṇa tvakartaiva / evamayamātmā sarvavyāpāreṣvapekṣyaiva manaādīni karaṇāni kartā bhavati, svātmanā tvakartaiveti / natvātmanasthakṣṇa ivāvayavāḥ santi yairhastādibhiriva vāsyādīni takṣā manaādīni karaṇānyātmopādadīta nyasyedvā / yattūktaṃ śāstrārthavattvādibhirhetubhiḥ svābhāvikamātmanaḥ kartṛtvamiti / tanna / vidhiśāstraṃ tāvadyathāprāptaṃ kartṛtvamupādāya kartavyaviśeṣamupadiśati na kartṛtvamātmanaḥ pratipādayati / naca svābhāvikamasya kartṛtvamiti brahmātmatvopadeśādityavocāma / tasmādavidyākṛtaṃ kartṛtvamupādāya vidhiśāstraṃ pravartiṣyate / kartā vijñānātmā puruṣa ityevañjātīyakamapi śāstramanuvādarūpatvādyathāprāpyamevāvidyākṛtaṃ kartṛtvamanuvadiṣyati / etena vihāropādāne parihṛte / tayorapyanuvādarūpatvāt / nanu saṃdhye sthāne prasupteṣu karaṇeṣu sve śarīre yathākāmaṃ parivartata iti vihāra upadiśyamānaḥ kevalasyātmanaḥ kartṛtvamāvahati / tathopādāne 'pi 'tadeṣāṃ prāṇānāṃ vijñānena vijñānamādāya' iti karaṇeṣu karmakaraṇavibhaktī śrūyamāṇe kevalasyātmanaḥ kartṛtvaṃ gamayata iti / atrocyate- na tāvatsaṃdhye sthāne 'tyantamātmanaḥ karaṇaviramaṇamasti / 'sadhīḥ svapno bhūtvemaṃ lokamatikrāmati' (bṛ.4.3.7) iti tatrāpi dhīsaṃbandhaśravaṇāt / tathāca smaranti- 'indriyāṇāmuparame mano 'nuparataṃ yadi / sevate viṣayāneva tadvidyātsvapnadarśanam' iti / 'kāmādayaśca manaso vṛttayaḥ' iti śrutiḥ / tāśca svapne dṛśyante / tasmātsamanā eva svapne viharati / vihāro 'pi ca tatratyo vāsanāmaya eva natu pāramārthiko 'sti / tathāca śrutirivākārānubaddhameva svapnavyāpāraṃ varṇayati- 'uteva strībhiḥ saha modamāno jakṣadutevāpi bhayāni paśyan' (bṛ. 4.3.13) iti / laukikā api tathaiva svapnaṃ kathayanti- ārukṣamiva giriśṛṅgamadrākṣamiva vanarājimiti / tathopādāne 'pi yadyapi karaṇeṣu karmakaraṇavibhaktinirdeśastathāpi tatsaṃpṛktasyaivātmanaḥ kartṛtvaṃ draṣṭavyam / kevale kartṛtvāsaṃbhavasya darśitatvāt / bhavati ca loke 'nekaprakārā vivakṣā yodhā yudhyante yodhai rājā yudhyata iti / apicāsminnupādāne karaṇavyāpāroparamamātraṃ vivakṣyate na svātantryaṃ kasyacidabuddhipūrvakasyāpi svāpe karaṇavyāpāroparamasya dṛṣṭatvāt / yastvayaṃ vyapadeśo darśitaḥ 'vijñānaṃ yajñaṃ tanute' iti, sa buddhereva kartṛtvaṃ prāpayati / vijñānaśabdasya tatra prasiddhatvāt / manonantaraṃ pāṭhācca / 'tasya śraddhaiva śiraḥ' (tai. 2.4) iti ca vijñānamayasyātmanaḥ śraddhādyavayavatvasaṃkīrtanāt / śraddhādīnāṃ ca buddhidharmatvaprasiddheḥ / 'vijñānaṃ devāḥ sarve brahma jyeṣṭhamupāsate' (tai. 2.5.1) iti ca vākyaśeṣāt / jyeṣṭhatvasya ca prathamajatvamasya buddhau prasiddhatvāt / 'sa eṣa vācaścittasyottarottarakramo yadyajñaḥ' iti ca śrutyantare yajñasya vāgbuddhisādhyatvāvadhāramāt / naca buddheḥ śaktiviparyayaḥ karaṇānāṃ kartṛtvābhyupagame bhavati / sarvakārakāṇāmeva svasvavyāpāreṣu kartṛtvasyāvaśyaṃbhāvitvāt / upalabdhyapekṣaṃ tveṣāṃ karaṇānāṃ karaṇatvaṃ, sā cātmanaḥ / naca tasyāmapyasya kartṛtvamasti / nityolabdhisvarūpatvāt / ahaṅkārapūrvakamapi kartṛtvaṃ nopalabdhurbhavitumarhati / ahaṅkārasyāpyupalabhyamānatvāt / nacaivaṃ sati karaṇāntarakalpanāprasaṅgaḥ / buddheḥ karaṇatvābhyupagamāt / samādhyabhāvastu śāstrārthattvenaiva parihṛtaḥ / yathāprāptameva kartṛtvamupādāya samādhividhānāt / tasmātkartṛtvamapyātmana upādhinimittameveti sthitam // 40 // ---------------------- FN: śokāntaraṃ duḥkhāspṛṣṭam / gatiḥ prāpyaṃ, loko bhogyaṃ sukham / anyairapreryatvaṃ svasthatvam, mānasaprayatnarāhityaṃ nirvṛtatvam, kāyaceṣṭāśūnyatvaṃ nirvyāpāratvam / saṃprasādaḥ suṣuptiḥ / jakṣat bhuñjānaiva / 16 parāyattādhikaraṇam / sū. 41-42

Sanskrit only: no published translation is held for this verse.

परात् तु तच्छ्रुतेः यदिदमविद्यावस्थायामुपादिनिबन्धनं कर्तृत्वं जीवस्याभिहितं, तत्किमनपेक्ष्येश्वरं भवत्याहोस्विदीश्वरापेक्षमिति भवति विचारणा । तत्र प्राप्तं तावन्नेश्वरमपेक्षते जीवः कर्तृत्व इति । कस्मात् । अपेक्षाप्रयोजनाभावात् । अयं हि जीवः स्वयमेव रागद्वेषादिदोषप्रयुक्तः कारकान्तरसामग्रीसमपन्नः कर्तृत्वमनुभवितुं शक्नोति । तस्य किमीश्वरः करिष्यति । नच लोके प्रसिद्धिरस्ति कृष्यादिकासु क्रियास्वनडुदादिवदीश्वरो ऽपरो ऽपेक्षितव्य इति । क्लेषात्मकेन च कर्तृत्वेन जन्तून्संसृजत ईश्वरस्य नैर्घृण्यं प्रसज्येत, विषमफलं चैषां कर्तृत्वं विदधतो वैषम्यम् । ननु ऽवैषम्यनैर्घृण्ये न सापेक्षत्वात्ऽ (ब्र। १।४।१७) इत्युक्तम् । सत्यमुक्तम् सति त्वीश्वरस्य सापेक्षत्वसंभवे । सापेक्षत्वं चेश्वरस्य संभवति सतोर्जन्तूनां धर्माधर्मयोस्तयोश्च सद्भावः सति जीवस्य कर्तृत्वे । तदेव चेत्कर्तृत्वमीश्वरापेक्षं स्यात्किंविषयमीश्वरस्य सापेक्षत्वमुच्येत । अकृताभ्यागमश्चैवं जीवस्य प्रसज्येत । तस्मात्स्वत एवास्य कर्तृत्वमिति । एतां प्राप्तिं तुशब्देन व्यावर्त्य प्रतिजानीते- ऽपरात्ऽ इति । अविद्यावस्थायां कार्यकरणसंघाताविवेकदर्शिनो जीवस्याविद्यातिमिरान्धस्य सतः परस्मादात्मनः कर्माध्यक्षात्सर्वभूताधिवासात्साक्षिणश्चेतयितुरीश्वरात्तदनुज्ञया कर्तृत्वभोक्तृत्वलक्षणस्य संसारस्य सिद्धिः, तदनुग्रहहेतुकेनैव च विज्ञानेन मोक्षसिद्धिर्भवितुमर्हति । कुतः । तच्छ्रुतेः । यद्यपि दोषप्रयुक्तः सामग्रीसंपन्नश्च जीवः, यद्यपि च लोके कृष्यादिषु कर्मसु नेश्वरकारणत्वं प्रसिद्धं, तथापि सर्वास्वेव प्रवृत्तिष्वीश्वरो हेतुकर्तेति श्रुतेरवसीयते । तथाहि श्रुतिर्भवति- ऽएष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीयते । एष ह्येवासाधु कर्म कारयति तं यमधो निनीषतेऽ (कौषी। ३।८) इति । ऽय आत्मनि तिष्ठन्नात्मानमन्तरो यमयतिऽ इति चैवञ्जातीयका ॥ ४१ ॥ नन्वेवमीश्वरस्य कारयितृत्वे सति वैषम्यनैर्घण्ये स्यातामकृताभ्यागमश्च जीवस्येति । नेत्युच्यते-

parāt tu tacchruteḥ yadidamavidyāvasthāyāmupādinibandhanaṃ kartṛtvaṃ jīvasyābhihitaṃ, tatkimanapekṣyeśvaraṃ bhavatyāhosvidīśvarāpekṣamiti bhavati vicāraṇā / tatra prāptaṃ tāvanneśvaramapekṣate jīvaḥ kartṛtva iti / kasmāt / apekṣāprayojanābhāvāt / ayaṃ hi jīvaḥ svayameva rāgadveṣādidoṣaprayuktaḥ kārakāntarasāmagrīsamapannaḥ kartṛtvamanubhavituṃ śaknoti / tasya kimīśvaraḥ kariṣyati / naca loke prasiddhirasti kṛṣyādikāsu kriyāsvanaḍudādivadīśvaro 'paro 'pekṣitavya iti / kleṣātmakena ca kartṛtvena jantūnsaṃsṛjata īśvarasya nairghṛṇyaṃ prasajyeta, viṣamaphalaṃ caiṣāṃ kartṛtvaṃ vidadhato vaiṣamyam / nanu 'vaiṣamyanairghṛṇye na sāpekṣatvāt' (bra. 1.4.17) ityuktam / satyamuktam sati tvīśvarasya sāpekṣatvasaṃbhave / sāpekṣatvaṃ ceśvarasya saṃbhavati satorjantūnāṃ dharmādharmayostayośca sadbhāvaḥ sati jīvasya kartṛtve / tadeva cetkartṛtvamīśvarāpekṣaṃ syātkiṃviṣayamīśvarasya sāpekṣatvamucyeta / akṛtābhyāgamaścaivaṃ jīvasya prasajyeta / tasmātsvata evāsya kartṛtvamiti / etāṃ prāptiṃ tuśabdena vyāvartya pratijānīte- 'parāt' iti / avidyāvasthāyāṃ kāryakaraṇasaṃghātāvivekadarśino jīvasyāvidyātimirāndhasya sataḥ parasmādātmanaḥ karmādhyakṣātsarvabhūtādhivāsātsākṣiṇaścetayiturīśvarāttadanujñayā kartṛtvabhoktṛtvalakṣaṇasya saṃsārasya siddhiḥ, tadanugrahahetukenaiva ca vijñānena mokṣasiddhirbhavitumarhati / kutaḥ / tacchruteḥ / yadyapi doṣaprayuktaḥ sāmagrīsaṃpannaśca jīvaḥ, yadyapi ca loke kṛṣyādiṣu karmasu neśvarakāraṇatvaṃ prasiddhaṃ, tathāpi sarvāsveva pravṛttiṣvīśvaro hetukarteti śruteravasīyate / tathāhi śrutirbhavati- 'eṣa hyeva sādhu karma kārayati taṃ yamebhyo lokebhya unninīyate / eṣa hyevāsādhu karma kārayati taṃ yamadho ninīṣate' (kauṣī. 3.8) iti / 'ya ātmani tiṣṭhannātmānamantaro yamayati' iti caivañjātīyakā // 41 // nanvevamīśvarasya kārayitṛtve sati vaiṣamyanairghaṇye syātāmakṛtābhyāgamaśca jīvasyeti / netyucyate-

Sanskrit only: no published translation is held for this verse.

कृतप्रयत्नापेक्षस् तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः तुशब्दश्चोदितदोषव्यावर्तनार्थः । कृतो यः प्रयत्नो जीवस्य धर्माधर्मलक्षणस्तदपेक्ष एवैनमीश्वरः कारयति । ततश्चैते चोदिता दोषा न प्रसज्यन्ते । जीवकृतधर्माधर्मवैषम्यापेक्ष एव तत्तत्फलानि विषमं विभजेत्पर्जन्यवदीश्वरो निमित्तत्वमात्रेण । यथा लोके नानाविधानां गुच्छगुल्मादीनां व्रीहियवादीनां चासाधारणेभ्यः स्वस्वबीजेभ्यो जायमानानां साधारणं निमित्तं भवति पर्जन्यः । नह्यसति पर्जन्ये रसपष्पपलाशादिवैषम्यं तेषां जायते, नाप्यसत्सु स्वस्वबीजेषु, एवं जीवकृतप्रयत्नापेक्ष ईश्वरस्तेषां शुभाशुभं विदध्यादिति श्लिष्यते । ननु कृतप्रयत्नापेक्षत्वमेव जीवस्य परायत्ते कर्तृत्वे नोपपद्यते । नैष दोषः । परायत्ते ऽपि हि कर्तृत्वे करोत्येव जीवः । कुर्वन्तं हि तमीश्वरः कारयति । अपिच पूर्वप्रयत्नमपेक्ष्येदानीं कारयति पूर्वतरं च प्रयत्नमपेक्ष्य पूर्वमकारयदित्यनादित्वात्संसारस्येत्यनवद्यम् । कथं पुनरवगम्यते कृतप्रत्नापेक्ष ईश्वर इति । विहितप्रतिषिद्धावैयर्थ्यादिभ्य इत्याह । एवं हि ऽस्वर्गकामो यजेतऽ ऽब्राह्मणो न हन्तव्यःऽ, इत्येवञ्जातीयकस्य विहितस्य प्रतिषिद्धस्य चावैयर्थ्यं भवति । अन्यथा तदनर्थकं स्यात् । ईश्वर एव विधिप्रतिषेधयोर्नियुज्येत । अत्यन्तपरतन्त्रत्वाज्जीवस्य । तथा विहितकारिणमप्यनर्थेन संसृजेत्प्रतिषिद्धकारिणमप्यर्थेन । ततश्च प्रामाण्यं वेदस्यास्तमियात् । ईश्वरस्य चात्यन्तानपेक्षत्वे लौकिकस्यापि पुरुषकारस्य वैयर्थ्यं तथा देशकालनिमित्तानां पूर्वोक्तदोषप्रसङ्गश्चेत्येवञ्जातीयकं दोषजातमादिग्रहणेन दर्शयति ॥ ४२ ॥ १७ अंशाधिकरणम् । सू। ४३-५३

kṛtaprayatnāpekṣas tu vihitapratiṣiddhāvaiyarthyādibhyaḥ tuśabdaścoditadoṣavyāvartanārthaḥ / kṛto yaḥ prayatno jīvasya dharmādharmalakṣaṇastadapekṣa evainamīśvaraḥ kārayati / tataścaite coditā doṣā na prasajyante / jīvakṛtadharmādharmavaiṣamyāpekṣa eva tattatphalāni viṣamaṃ vibhajetparjanyavadīśvaro nimittatvamātreṇa / yathā loke nānāvidhānāṃ gucchagulmādīnāṃ vrīhiyavādīnāṃ cāsādhāraṇebhyaḥ svasvabījebhyo jāyamānānāṃ sādhāraṇaṃ nimittaṃ bhavati parjanyaḥ / nahyasati parjanye rasapaṣpapalāśādivaiṣamyaṃ teṣāṃ jāyate, nāpyasatsu svasvabījeṣu, evaṃ jīvakṛtaprayatnāpekṣa īśvarasteṣāṃ śubhāśubhaṃ vidadhyāditi śliṣyate / nanu kṛtaprayatnāpekṣatvameva jīvasya parāyatte kartṛtve nopapadyate / naiṣa doṣaḥ / parāyatte 'pi hi kartṛtve karotyeva jīvaḥ / kurvantaṃ hi tamīśvaraḥ kārayati / apica pūrvaprayatnamapekṣyedānīṃ kārayati pūrvataraṃ ca prayatnamapekṣya pūrvamakārayadityanāditvātsaṃsārasyetyanavadyam / kathaṃ punaravagamyate kṛtapratnāpekṣa īśvara iti / vihitapratiṣiddhāvaiyarthyādibhya ityāha / evaṃ hi 'svargakāmo yajeta' 'brāhmaṇo na hantavyaḥ', ityevañjātīyakasya vihitasya pratiṣiddhasya cāvaiyarthyaṃ bhavati / anyathā tadanarthakaṃ syāt / īśvara eva vidhipratiṣedhayorniyujyeta / atyantaparatantratvājjīvasya / tathā vihitakāriṇamapyanarthena saṃsṛjetpratiṣiddhakāriṇamapyarthena / tataśca prāmāṇyaṃ vedasyāstamiyāt / īśvarasya cātyantānapekṣatve laukikasyāpi puruṣakārasya vaiyarthyaṃ tathā deśakālanimittānāṃ pūrvoktadoṣaprasaṅgaścetyevañjātīyakaṃ doṣajātamādigrahaṇena darśayati // 42 // 17 aṃśādhikaraṇam / sū. 43-53

Sanskrit only: no published translation is held for this verse.

अंशो नानाव्यपदेशाद् अन्यथा चापि दाशकितवादित्वम् अधीयत एके जीवेश्वरयोरुपकार्योपकारभाव उक्तः । स च संबद्धयोरेव लोके दृष्टो यथा स्वामिभृत्ययोर्यथा वाग्निविस्फुलिङ्गयोः । ततश्च जीवेश्वरयोरप्युपकार्योपकारकभावाभ्युपगमात्किं स्वामिभृत्यवत्संबन्ध आहोस्विदग्निविस्फुलिङ्गवदित्यस्यां विचिकित्सायामनियमो वा प्राप्नोति । अथवा स्वामिभृत्यप्रकारेष्वेवेशित्रीशितव्यभावस्य प्रसिद्धत्वात्तद्विध एव संबन्ध इति प्राप्नोति । अतो ब्रवीत्यंश इति । जीव ईश्वस्यांशो भवितुमर्हति, यथाग्नेर्विस्फुलिङ्गः । अंश इवांशो नहि निरवयवस्य मुख्य्ॐऽशः संभवति । कस्मात्पुनर्निरवयवत्वात्स एव न भवति । नानाव्यपदेशात् । ऽसो ऽन्वेष्टव्यः स विजिज्ञासितव्यःऽ (छा। ८।७।१) ऽएतमेव विदित्वा मुनिर्भवतिऽ ऽ य आत्मनि तिष्ठन्नात्मानमन्तरो यमयतिऽ इति चैवञ्जातीयको भेदनिर्देशो नासति भेदे युज्यते । ननु चायं नानाव्यपदेशः सुतरां स्वामिभृत्यसारूप्ये युज्यत इत्यत आह- अन्यथा चापीति । नच नानाव्यपदेशादेव केवलादंशत्वप्रतिप्तिः । किं तर्ह्यन्यथा चापि व्यपदेशो भवत्यनानात्वस्य प्रतिपादकः । तथाहि- एके शाखिनो दाशकितवादिभावं ब्रह्मण आमनन्त्याथर्वणिका ब्रह्मसूक्ते- ऽब्रह्म दाशा ब्रह्म दासा ब्रह्मैवेमे कितवाःऽ इत्यादिना । दाशा य एते कैवर्ताः प्रसिद्धाः, ये चामी दासाः स्वामिष्वात्मानमुपक्षपयन्ति, ये चान्ये कितवा द्यूतकृतस्ते सर्वे ब्रह्मैवेति हीनजन्तूदाहरणेन सर्वेषामेव नामरूपकृतकार्यकरणसंघातप्रविष्टानां जीवानां ब्रह्मत्वमाह । तथान्यत्रापि ब्रह्मप्रक्रियायामेवायमर्थः प्रपञ्च्यते- ऽत्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखःऽ (श्वे। ४।३) इति । ऽसर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्तेऽ इति च । ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ (बृच ३।७।२३) इत्यादिश्रुतिभ्यश्चास्यार्थस्य सिद्धिः । चैतन्यं चाविशिष्टं जीवेश्वरयोर्यथाग्निविस्फुलिङ्गयोरौष्ण्यम् । अतो भेदाभेदावगमाभ्यामंशत्वावगमः ॥ ४३ ॥ कुतश्चांशत्वावगमः -

aṃśo nānāvyapadeśād anyathā cāpi dāśakitavāditvam adhīyata eke jīveśvarayorupakāryopakārabhāva uktaḥ / sa ca saṃbaddhayoreva loke dṛṣṭo yathā svāmibhṛtyayoryathā vāgnivisphuliṅgayoḥ / tataśca jīveśvarayorapyupakāryopakārakabhāvābhyupagamātkiṃ svāmibhṛtyavatsaṃbandha āhosvidagnivisphuliṅgavadityasyāṃ vicikitsāyāmaniyamo vā prāpnoti / athavā svāmibhṛtyaprakāreṣveveśitrīśitavyabhāvasya prasiddhatvāttadvidha eva saṃbandha iti prāpnoti / ato bravītyaṃśa iti / jīva īśvasyāṃśo bhavitumarhati, yathāgnervisphuliṅgaḥ / aṃśa ivāṃśo nahi niravayavasya mukhyoṃ'śaḥ saṃbhavati / kasmātpunarniravayavatvātsa eva na bhavati / nānāvyapadeśāt / 'so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ' (chā. 8.7.1) 'etameva viditvā munirbhavati' ' ya ātmani tiṣṭhannātmānamantaro yamayati' iti caivañjātīyako bhedanirdeśo nāsati bhede yujyate / nanu cāyaṃ nānāvyapadeśaḥ sutarāṃ svāmibhṛtyasārūpye yujyata ityata āha- anyathā cāpīti / naca nānāvyapadeśādeva kevalādaṃśatvapratiptiḥ / kiṃ tarhyanyathā cāpi vyapadeśo bhavatyanānātvasya pratipādakaḥ / tathāhi- eke śākhino dāśakitavādibhāvaṃ brahmaṇa āmanantyātharvaṇikā brahmasūkte- 'brahma dāśā brahma dāsā brahmaiveme kitavāḥ' ityādinā / dāśā ya ete kaivartāḥ prasiddhāḥ, ye cāmī dāsāḥ svāmiṣvātmānamupakṣapayanti, ye cānye kitavā dyūtakṛtaste sarve brahmaiveti hīnajantūdāharaṇena sarveṣāmeva nāmarūpakṛtakāryakaraṇasaṃghātapraviṣṭānāṃ jīvānāṃ brahmatvamāha / tathānyatrāpi brahmaprakriyāyāmevāyamarthaḥ prapañcyate- 'tvaṃ strī tvaṃ pumānasi tvaṃ kumāra uta vā kumārī / tvaṃ jīrṇo daṇḍena vañcasi tvaṃ jāto bhavasi viśvatomukhaḥ' (śve. 4.3) iti / 'sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste' iti ca / 'nānyo 'to 'sti draṣṭā' (bṛca 3.7.23) ityādiśrutibhyaścāsyārthasya siddhiḥ / caitanyaṃ cāviśiṣṭaṃ jīveśvarayoryathāgnivisphuliṅgayorauṣṇyam / ato bhedābhedāvagamābhyāmaṃśatvāvagamaḥ // 43 // kutaścāṃśatvāvagamaḥ -

Sanskrit only: no published translation is held for this verse.

मन्त्रवर्णाच् च मन्त्रवर्णश्चैतमर्थमवगमयति ऽतावानस्य महिमा ततो ज्यायांश्च पुरुषः । पादो ऽस्य सर्वाभूतानि त्रिपादस्यामृतं दिविऽ (छा। ३।१२।६) इति । अत्र भूतशब्देन जीवप्रधानानि स्थावरजङ्गमानि निर्दिशति । ऽअहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यःऽ इति प्रयोगात् । अंशः पादो भाग इत्यनर्थान्तरम् । तस्मादप्यंशत्वावगमः ॥ ४४ ॥ कुतश्चांशत्वावगमः -

mantravarṇāc ca mantravarṇaścaitamarthamavagamayati 'tāvānasya mahimā tato jyāyāṃśca puruṣaḥ / pādo 'sya sarvābhūtāni tripādasyāmṛtaṃ divi' (chā. 3.12.6) iti / atra bhūtaśabdena jīvapradhānāni sthāvarajaṅgamāni nirdiśati / 'ahiṃsansarvabhūtānyanyatra tīrthebhyaḥ' iti prayogāt / aṃśaḥ pādo bhāga ityanarthāntaram / tasmādapyaṃśatvāvagamaḥ // 44 // kutaścāṃśatvāvagamaḥ -

Sanskrit only: no published translation is held for this verse.

अपि च स्मर्यते ईश्वरगीतास्वपि चेश्वरंशत्वं जीवस्य स्मर्यते- ऽममैवांशो जीवलोके जीवभूतः सनातनःऽ (१५।७) इति । तस्मादप्यंशत्वावगमः । यत्तूक्तं स्वामिभृत्यादिष्वेवेशित्रीशितव्यभावो लोके प्रसिद्ध इति । यद्यप्येषा लोके प्रसिद्धस्तथापि शास्त्रात्त्वत्रांशांशित्वमीशित्रीशितव्यभावश्च निश्चीयते । निरतिशयोपाधिसंपन्नश्चेश्वरो निहीनोपाधिसंपन्नाञ्जीवान्प्रशास्तीति न किञ्चिद्विप्रतिषिध्यते ॥ ४५ ॥ अत्राह- ननु जीवस्येश्वरांशत्वाभ्युपगमे तदीयेन संसारदुःखोपभोगेनांशिन ईश्वरस्यापि दुःखित्वं स्यात् । यथा लोके हस्तपादाद्यन्यतमाङ्गगतेन दुःखेनाङ्गिनो देवदत्तस्य दुःखित्वं तद्वत् । ततश्च तत्प्राप्तानां महत्तरं दुःखं प्राप्नुयात् । अतो वरं पूर्वावस्थः संसार एवास्त्विति सम्यग्दर्शनानर्थक्यप्रसङ्गः स्यादिति । अत्रोच्यते-

api ca smaryate īśvaragītāsvapi ceśvaraṃśatvaṃ jīvasya smaryate- 'mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ' (15.7) iti / tasmādapyaṃśatvāvagamaḥ / yattūktaṃ svāmibhṛtyādiṣveveśitrīśitavyabhāvo loke prasiddha iti / yadyapyeṣā loke prasiddhastathāpi śāstrāttvatrāṃśāṃśitvamīśitrīśitavyabhāvaśca niścīyate / niratiśayopādhisaṃpannaśceśvaro nihīnopādhisaṃpannāñjīvānpraśāstīti na kiñcidvipratiṣidhyate // 45 // atrāha- nanu jīvasyeśvarāṃśatvābhyupagame tadīyena saṃsāraduḥkhopabhogenāṃśina īśvarasyāpi duḥkhitvaṃ syāt / yathā loke hastapādādyanyatamāṅgagatena duḥkhenāṅgino devadattasya duḥkhitvaṃ tadvat / tataśca tatprāptānāṃ mahattaraṃ duḥkhaṃ prāpnuyāt / ato varaṃ pūrvāvasthaḥ saṃsāra evāstviti samyagdarśanānarthakyaprasaṅgaḥ syāditi / atrocyate-

Sanskrit only: no published translation is held for this verse.

प्रकाशादिवन् नैवं परः यथा जीवः संसारदुःखमनुभवति नैवं पर ईश्वरो ऽनुभवतीति प्रतिजानीमहे । जीवो ह्यविद्यावेशवशाद्देहाद्यात्मभावमिव गत्वा तत्कृतेन दुःखेन दुःख्यहमित्यविद्यया कृतं दुःखोपभोगमभिमन्यते । नैवं परमेश्वरस्य देहाद्यात्मभावो दुःखाभिमानो वास्ति । जीवस्याप्यविद्याकृतनामरूपनिर्वृत्तदेहेन्द्रियाद्युपाध्यविवेकभ्रमनिमित्त एव दुःखाभिमानो नतु पारमार्थिको ऽस्ति । यथाच स्वदेहगतदाहच्छेदादिनिमित्तं दुःखं तदभिमानभ्रान्त्यानुभवति तथा पुत्रमित्रादिगोचरमपि दुःखं तदभिमानभ्रान्त्यैवानुभवत्यहमेव पुत्रो ऽहमेव मित्रमित्येवं स्नेहवशेन पुत्रमित्रादिष्वभिनिविशमानः । ततश्च निश्चितमेतदवगम्यते- मिथ्याभिमानभ्रमनिमित्त एव दुःखानुभव इति । व्यतिरेकदर्शनाच्चैवमवगम्यते । तथाहि- पुत्रमित्रादिमत्सु बहुषूपविष्टेषु तत्संबन्धाभिमानिष्वितरेषु च पुत्रो मृतो मित्रं मृतमित्येवमाद्युद्घोषिते येषामेव पुत्रमित्रादिमत्त्वाभिमानस्तेषामेव तन्निमित्तं दुःखमुत्पद्यते नाभिमानहीनानां परिव्राजकादीनाम् । अतश्च लौकिकस्यापि पुंसः सम्यग्दर्शनार्थवत्त्वं दृष्टं, किमुत विषयशून्यादात्मनो ऽन्यद्वस्त्वन्तरमपश्यतो नित्यचैतन्यमात्रस्वरूपस्येति । तस्मान्नास्ति सम्यग्दर्शनानर्थक्यप्रसङ्गः । प्रकाशादिवदिति निदर्शनोपन्यासः । यथा प्रकाशः सौरश्चान्द्रमसो वा वियद्व्याप्यवतिष्ठमानो ऽङ्गुल्याद्युपाधिसंबन्धात्तेष्वृजुवक्रादिभावं प्रतिपद्यमानेषु तत्तद्भावमिव प्रतिपद्यमानो ऽपि न परमार्थतस्तद्भावं प्रतिपद्यते । यथा चाकाशो घटादिषु गच्छत्सु गच्छन्निव विभाव्यमानो ऽपि न परमार्थतो गच्छति, यथा चोदशरावादिकम्पनात्तद्गते सूर्यप्रतिबिम्बे कम्पमाने ऽपि न तद्वान्सूर्यः कम्पते, एवमविद्याप्रत्युपस्थापिते बुद्ध्याद्युपहिते जीवाख्येंऽशे दुःखायमाने ऽपि न तद्वानीश्वरो दुःखायते । जीवस्यापि तु दुःखप्राप्तिरविद्यानिमित्तैवेत्युक्तम् । तथाचाविद्यानिमित्तजीवभावव्युदासेन ब्रह्मभावमेव जीवस्य प्रतिपादयन्ति वेदान्ताः ऽतत्त्वमसिऽ इत्येवमादयः, तस्मान्नास्ति जैवेन दुःखेन परमात्मनो दुःखित्वप्रसङ्गः ॥ ४६ ॥ ---------------------- फ़्न्: इतरेष्वभिमानशून्येषु ।

prakāśādivan naivaṃ paraḥ yathā jīvaḥ saṃsāraduḥkhamanubhavati naivaṃ para īśvaro 'nubhavatīti pratijānīmahe / jīvo hyavidyāveśavaśāddehādyātmabhāvamiva gatvā tatkṛtena duḥkhena duḥkhyahamityavidyayā kṛtaṃ duḥkhopabhogamabhimanyate / naivaṃ parameśvarasya dehādyātmabhāvo duḥkhābhimāno vāsti / jīvasyāpyavidyākṛtanāmarūpanirvṛttadehendriyādyupādhyavivekabhramanimitta eva duḥkhābhimāno natu pāramārthiko 'sti / yathāca svadehagatadāhacchedādinimittaṃ duḥkhaṃ tadabhimānabhrāntyānubhavati tathā putramitrādigocaramapi duḥkhaṃ tadabhimānabhrāntyaivānubhavatyahameva putro 'hameva mitramityevaṃ snehavaśena putramitrādiṣvabhiniviśamānaḥ / tataśca niścitametadavagamyate- mithyābhimānabhramanimitta eva duḥkhānubhava iti / vyatirekadarśanāccaivamavagamyate / tathāhi- putramitrādimatsu bahuṣūpaviṣṭeṣu tatsaṃbandhābhimāniṣvitareṣu ca putro mṛto mitraṃ mṛtamityevamādyudghoṣite yeṣāmeva putramitrādimattvābhimānasteṣāmeva tannimittaṃ duḥkhamutpadyate nābhimānahīnānāṃ parivrājakādīnām / ataśca laukikasyāpi puṃsaḥ samyagdarśanārthavattvaṃ dṛṣṭaṃ, kimuta viṣayaśūnyādātmano 'nyadvastvantaramapaśyato nityacaitanyamātrasvarūpasyeti / tasmānnāsti samyagdarśanānarthakyaprasaṅgaḥ / prakāśādivaditi nidarśanopanyāsaḥ / yathā prakāśaḥ sauraścāndramaso vā viyadvyāpyavatiṣṭhamāno 'ṅgulyādyupādhisaṃbandhātteṣvṛjuvakrādibhāvaṃ pratipadyamāneṣu tattadbhāvamiva pratipadyamāno 'pi na paramārthatastadbhāvaṃ pratipadyate / yathā cākāśo ghaṭādiṣu gacchatsu gacchanniva vibhāvyamāno 'pi na paramārthato gacchati, yathā codaśarāvādikampanāttadgate sūryapratibimbe kampamāne 'pi na tadvānsūryaḥ kampate, evamavidyāpratyupasthāpite buddhyādyupahite jīvākhyeṃ'śe duḥkhāyamāne 'pi na tadvānīśvaro duḥkhāyate / jīvasyāpi tu duḥkhaprāptiravidyānimittaivetyuktam / tathācāvidyānimittajīvabhāvavyudāsena brahmabhāvameva jīvasya pratipādayanti vedāntāḥ 'tattvamasi' ityevamādayaḥ, tasmānnāsti jaivena duḥkhena paramātmano duḥkhitvaprasaṅgaḥ // 46 // ---------------------- FN: itareṣvabhimānaśūnyeṣu /

Sanskrit only: no published translation is held for this verse.

स्मरन्ति च स्मरन्ति च व्यासादयो यथा जैवेन दुःखेन न परमात्मा दुःखायत इति । ऽतत्र यः परमात्मा हि स नित्यो निर्गुणः स्मृतः । न लिप्यते फलैश्चापि पद्मपत्रमिवाम्भसा । कर्मात्मा त्वपरो यो ऽसौ मोक्षबन्धनैः स युज्यते । स सप्तदशकेनापि राशिना युज्यते पुनःऽ इति । चशब्दात्समामनन्ति चेति वाक्यशेषः । ऽतयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीतिऽ (श्वे। ४।६) इति । ऽएकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यःऽ (कठ। ५।११) इति च ॥ ४७ ॥ अत्राह- यदि तर्ह्येक एव सर्वेषां भूतानामन्तरात्मा स्यात्कथमनुज्ञापरिहारौ स्यातां लोकिकौ वैदिकौ चेति । ननु चांशो जीव ईश्वरस्येत्युक्तम् । तद्भेदाच्चानुज्ञापरिहारौ तदाश्रयावव्यतिकीर्णावुपपद्येते किमत्र चोद्यत इति । उच्यते- नैतदेवम् । अनंशित्वमपि हि जीवस्याभेदवादिन्यः श्रुतयः प्रतिपादयन्ति- ऽतत्सृष्ट्वा तदेवानुप्राविशत्ऽ (ते। २।६।१), ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ (बृ। ३।७।२३), ऽमृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिऽ (बृ। ४।४।१९), ऽतत्त्वमसिऽ (छा। ६।८।७) ऽअहं ब्रह्मास्मिऽ (बृ। १।४।१०) इत्येवञ्जातीयकाः । ननु भेदाभेदावगमाभ्यामंशत्वं सिद्ध्यतीत्युक्तम् । स्यादेतदेवं यद्युभावपि भेदाभेदौ प्रतिपिपादयिषितौ स्याताम्, अभेद एव त्वत्र प्रतिपिपादयिषितो ब्रह्मात्मत्वप्रतिपत्तौ पुरुषार्थसिद्धेः । स्वभावप्राप्तस्तु भेदो ऽनूद्यते । नच निरवयवस्य ब्रह्मणो मुख्य्ॐऽशो जीवः संभवतीत्युक्तम् । तस्मात्परः एवैकः सर्वेषां भूतानामन्तरात्मा जीवभावेनावस्थित इत्यतो वक्तव्यानुज्ञापरिहारोपपत्तिः ॥ ४७ ॥ ---------------------- फ़्न्: तत्र जीवपरयोर्मध्ये । कर्मात्मा कर्माश्रयो जीवः । सप्तदशकेन दशेन्द्रयाणि पञ्च प्राणः मनो बुद्दिश्चेति सप्तदशसंख्याको राशिर्लिङ्गम् । मृत्योः स मृत्यु - इह ब्रह्मणि यो नानेव कल्पितभेदशालि चेतनाचेतनात्मकं विश्वं पश्यति स मृत्योरनन्तरं मृत्युं जन्ममरणादिपरम्परारूपं संसारं प्राप्नोतीत्यर्थः । तां ब्रूमः -

smaranti ca smaranti ca vyāsādayo yathā jaivena duḥkhena na paramātmā duḥkhāyata iti / 'tatra yaḥ paramātmā hi sa nityo nirguṇaḥ smṛtaḥ / na lipyate phalaiścāpi padmapatramivāmbhasā / karmātmā tvaparo yo 'sau mokṣabandhanaiḥ sa yujyate / sa saptadaśakenāpi rāśinā yujyate punaḥ' iti / caśabdātsamāmananti ceti vākyaśeṣaḥ / 'tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhicākaśīti' (śve. 4.6) iti / 'ekastathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ' (kaṭha. 5.11) iti ca // 47 // atrāha- yadi tarhyeka eva sarveṣāṃ bhūtānāmantarātmā syātkathamanujñāparihārau syātāṃ lokikau vaidikau ceti / nanu cāṃśo jīva īśvarasyetyuktam / tadbhedāccānujñāparihārau tadāśrayāvavyatikīrṇāvupapadyete kimatra codyata iti / ucyate- naitadevam / anaṃśitvamapi hi jīvasyābhedavādinyaḥ śrutayaḥ pratipādayanti- 'tatsṛṣṭvā tadevānuprāviśat' (te. 2.6.1), 'nānyo 'to 'sti draṣṭā' (bṛ. 3.7.23), 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' (bṛ. 4.4.19), 'tattvamasi' (chā. 6.8.7) 'ahaṃ brahmāsmi' (bṛ. 1.4.10) ityevañjātīyakāḥ / nanu bhedābhedāvagamābhyāmaṃśatvaṃ siddhyatītyuktam / syādetadevaṃ yadyubhāvapi bhedābhedau pratipipādayiṣitau syātām, abheda eva tvatra pratipipādayiṣito brahmātmatvapratipattau puruṣārthasiddheḥ / svabhāvaprāptastu bhedo 'nūdyate / naca niravayavasya brahmaṇo mukhyoṃ'śo jīvaḥ saṃbhavatītyuktam / tasmātparaḥ evaikaḥ sarveṣāṃ bhūtānāmantarātmā jīvabhāvenāvasthita ityato vaktavyānujñāparihāropapattiḥ // 47 // ---------------------- FN: tatra jīvaparayormadhye / karmātmā karmāśrayo jīvaḥ / saptadaśakena daśendrayāṇi pañca prāṇaḥ mano buddiśceti saptadaśasaṃkhyāko rāśirliṅgam / mṛtyoḥ sa mṛtyu - iha brahmaṇi yo nāneva kalpitabhedaśāli cetanācetanātmakaṃ viśvaṃ paśyati sa mṛtyoranantaraṃ mṛtyuṃ janmamaraṇādiparamparārūpaṃ saṃsāraṃ prāpnotītyarthaḥ / tāṃ brūmaḥ -

Sanskrit only: no published translation is held for this verse.

अनुज्ञापरिहारौ देहसम्बन्धाज् ज्योतिरादिवत् ऽऋतौ भार्यामुपेयात्ऽ इत्यनुज्ञा । ऽऽगुर्वाङ्गनां नोपगच्छेत्ऽ इति परिहारः । तथा ऽअग्नीषोमीयं पशुं संज्ञपयेत्ऽ इत्यनुज्ञा । ऽन हिंस्यात्सर्वाभूतानिऽ इति परिहारः । एवं लोके ऽपि मित्रमुपसेवितव्यमित्यनुज्ञा । शत्रुः परिहर्तव्य इति परिहारः । एवंप्रकारावनुज्ञापरिहारावेकत्वे ऽप्यात्मनो देहसंबन्धात्स्याताम् । देहैः संबन्धो देहसंबन्धः । कः पुनर्देहसंबन्धः । देहादिरयं संघातो ऽहमेवेत्यात्मनि विपरीतप्रत्ययोत्पत्तिः । दृष्टा च सा सर्वप्राणिनामहं गच्छाम्यहमागच्छाम्यहमन्धो ऽहमनन्धो ऽहं मूढो ऽहममूढ इत्येवमात्मिका । नह्यस्याः सम्यग्दर्शनादन्यन्निवारकमस्ति । प्राक्तु सम्यग्दर्शनात्प्रततैषा भ्रान्तिः सर्वजन्तुषु । तदेवमविद्यानिमित्तदेहाद्युपाधिसंबन्धकृताद्विशेषादैकात्म्याभ्युपगमे ऽप्यनुज्ञापरिहाराववकल्प्येते । सम्यग्दर्शिनस्तर्ह्यनुज्ञापरिहारानर्थक्यं प्राप्तम् । न । तस्यकृतार्थत्वान्नियोज्यत्वानुपपत्तेः । हेयोपादेययोर्हि नियोज्यो नियोक्तव्यः स्यात् । आत्मनस्त्वतिरिक्तं हेयमुपादेयं वा वस्त्वपश्यन्कथं नियुज्येत । नचात्मात्मन्येव नियोज्यः स्यात् । शरीरव्यतिरेकदर्शिन एव नियोज्यत्वमिति चेत् । न । तत्संहतत्वाभिमानात् । सत्यं व्यतिरेकदर्शिनो नियोज्यत्वं तथापि व्योमादिवद्देहाद्यसंहतत्वमपश्यत एवात्मनो नियोज्यत्वाभिमानः । नहि देहाद्यसंहतत्वदर्शिनः कस्यचिदपि नियोगो दृष्टः । किमुतैकात्म्यदर्शिनः । नच नियोगाभावात्सम्यग्दर्शिनो यथेष्टचेष्टाप्रसङ्गः । सर्वत्राभिमानस्यैव प्रवर्तकत्वादिभिमानाभावाच्च सम्यग्दर्शिनः । तस्माद्देहसंबन्धादेवानुज्ञापरिहारौ । ज्योतिरादिवत् । यथा ज्योतिष एकत्वे ऽप्यग्निः क्रव्यात्परिह्रियते नेतरः । यथाच प्रकाश एकस्यापि सवितुरमेध्यदेशसंबद्धः परिह्रियते नेतरः शुचिभूमिष्ठः । यथा भौमाः प्रदेशा वज्रवैडूर्यादय उपादीयन्ते । भौमा अपि सन्तो नरकलेवरादयः परिह्रियन्ते । यथा मूत्रपरीषं गवां पवित्रतया परिगृह्यते तदेव जात्यन्तरे परिवर्ज्यते तद्वत् ॥ ४८ ॥ ---------------------- फ़्न्: प्रतता संतता । विशेषो भेदः । क्रव्यं मांसमत्तीति क्रव्यात् स्माशानाग्निः ।

anujñāparihārau dehasambandhāj jyotirādivat 'ṛtau bhāryāmupeyāt' ityanujñā / ''gurvāṅganāṃ nopagacchet' iti parihāraḥ / tathā 'agnīṣomīyaṃ paśuṃ saṃjñapayet' ityanujñā / 'na hiṃsyātsarvābhūtāni' iti parihāraḥ / evaṃ loke 'pi mitramupasevitavyamityanujñā / śatruḥ parihartavya iti parihāraḥ / evaṃprakārāvanujñāparihārāvekatve 'pyātmano dehasaṃbandhātsyātām / dehaiḥ saṃbandho dehasaṃbandhaḥ / kaḥ punardehasaṃbandhaḥ / dehādirayaṃ saṃghāto 'hamevetyātmani viparītapratyayotpattiḥ / dṛṣṭā ca sā sarvaprāṇināmahaṃ gacchāmyahamāgacchāmyahamandho 'hamanandho 'haṃ mūḍho 'hamamūḍha ityevamātmikā / nahyasyāḥ samyagdarśanādanyannivārakamasti / prāktu samyagdarśanātpratataiṣā bhrāntiḥ sarvajantuṣu / tadevamavidyānimittadehādyupādhisaṃbandhakṛtādviśeṣādaikātmyābhyupagame 'pyanujñāparihārāvavakalpyete / samyagdarśinastarhyanujñāparihārānarthakyaṃ prāptam / na / tasyakṛtārthatvānniyojyatvānupapatteḥ / heyopādeyayorhi niyojyo niyoktavyaḥ syāt / ātmanastvatiriktaṃ heyamupādeyaṃ vā vastvapaśyankathaṃ niyujyeta / nacātmātmanyeva niyojyaḥ syāt / śarīravyatirekadarśina eva niyojyatvamiti cet / na / tatsaṃhatatvābhimānāt / satyaṃ vyatirekadarśino niyojyatvaṃ tathāpi vyomādivaddehādyasaṃhatatvamapaśyata evātmano niyojyatvābhimānaḥ / nahi dehādyasaṃhatatvadarśinaḥ kasyacidapi niyogo dṛṣṭaḥ / kimutaikātmyadarśinaḥ / naca niyogābhāvātsamyagdarśino yatheṣṭaceṣṭāprasaṅgaḥ / sarvatrābhimānasyaiva pravartakatvādibhimānābhāvācca samyagdarśinaḥ / tasmāddehasaṃbandhādevānujñāparihārau / jyotirādivat / yathā jyotiṣa ekatve 'pyagniḥ kravyātparihriyate netaraḥ / yathāca prakāśa ekasyāpi savituramedhyadeśasaṃbaddhaḥ parihriyate netaraḥ śucibhūmiṣṭhaḥ / yathā bhaumāḥ pradeśā vajravaiḍūryādaya upādīyante / bhaumā api santo narakalevarādayaḥ parihriyante / yathā mūtraparīṣaṃ gavāṃ pavitratayā parigṛhyate tadeva jātyantare parivarjyate tadvat // 48 // ---------------------- FN: pratatā saṃtatā / viśeṣo bhedaḥ / kravyaṃ māṃsamattīti kravyāt smāśānāgniḥ /

Sanskrit only: no published translation is held for this verse.

असन्ततेश् चाव्यतिकरः स्यातां नामानुज्ञापरिहरावेकस्याप्यत्मनो देहविशेषयोगात् । यत्स्वयं कर्मफलसंबन्धः स चैकात्म्याभ्युपगमे व्यतिकीर्येत स्वाम्येकत्वादिति चेत् । नैतदेवम् । असंततेः । नहि कर्तृभोक्तृश्चात्मनः संततः सर्वैः शरीरैः संबन्धो ऽस्ति । उपाधितन्त्रो हि जीव इत्युक्तम् । उपाध्यसंतानाच्च नास्ति जीवसंतानः । ततश्च कर्मव्यतिकरः फलव्यतिकरो वा न भविष्यति ॥ ४९ ॥

asantateś cāvyatikaraḥ syātāṃ nāmānujñāpariharāvekasyāpyatmano dehaviśeṣayogāt / yatsvayaṃ karmaphalasaṃbandhaḥ sa caikātmyābhyupagame vyatikīryeta svāmyekatvāditi cet / naitadevam / asaṃtateḥ / nahi kartṛbhoktṛścātmanaḥ saṃtataḥ sarvaiḥ śarīraiḥ saṃbandho 'sti / upādhitantro hi jīva ityuktam / upādhyasaṃtānācca nāsti jīvasaṃtānaḥ / tataśca karmavyatikaraḥ phalavyatikaro vā na bhaviṣyati // 49 //

Sanskrit only: no published translation is held for this verse.

आभास एव च आभास एव चैष जीवः परस्यात्मनो जलसूर्यकादिवत्प्रतिपत्तव्यः । न स एव साक्षात् । नापि वस्त्वन्तरम् । अतश्च यथा नैकस्मिञ्जलसूर्यके कम्पमाने जलसूर्यकान्तरं कम्पते, एवं नैकस्मिञ्जीवे कर्मफलसंबन्धिनि जीवान्तरस्य तत्संबन्धः । एवमप्यव्यतिकर एव कर्मफलयोः । आभासस्य चाविद्याकृतत्वात्तदाश्रयस्य संसारस्याविद्याकृतत्वोपपत्तिरिति । तद्व्युदासेन च पारमार्थिकस्य ब्रह्मात्मभावस्योपदेशोपपत्तिः । येषां तु बहव आत्मानस्ते च सर्वे सर्वगतास्तेषामेवैष व्यतिकरः प्राप्नोति । कथम् । बहवो विभवश्चात्मानश्चैतन्यमात्रस्वरूपा निर्गुणा निरतिशयाश्च तदर्थं साधारणं प्रधानं तन्निमित्तैषां भोगापवर्गसिद्धिरिति सांख्याः । सति बहुत्वे विभुत्वे च घटकुड्यादिसमाना द्रव्यमात्रस्वरूपाः स्वतो ऽचेतना आत्मनस्तदुपकरणानि चाणूनि मनांस्यचेतनानि । तत्रात्मद्रव्याणां मनोद्रव्याणां च संयोगान्नवेच्छादयो वैशेषिका आत्मगुणा उत्पद्यन्ते । ते चाव्यतिरेकेण प्रत्येकमात्मसु समवयन्ति स संसारः । तेषां नवानामात्मगुणानामत्यन्तानुत्पादो मोक्ष इति काणादाः । तत्र सांख्यानां तावच्चैतन्यस्वरूपत्वात्सर्वात्मनां संनिधानाद्यविशेषाच्चैकस्य सुखदुःखसंबन्धे सर्वेषां सुखदुःखसंबन्धः प्राप्नोति । स्यादेतत् । प्रधानप्रवृत्तेः परुषकैवल्यार्थत्वाद्व्यवस्था भविष्यति । अन्यथा हि स्वविभूतिख्यापनार्था प्रधानप्रवृत्तिः स्यात् । तथाचानिर्मोक्षः प्रसज्येतेति । नैतत्सारम् । नह्यभिलषितसिद्धिनिबन्धना व्यवस्था शक्या विज्ञातुम् । उपपत्त्या तु कयाचिद्व्यवस्थोच्येत । असत्यां पुनरुपपत्तौ कामं मा भूदभिलषितं पुरुषकैवल्यं, प्राप्नोति तु व्यवस्थाहेत्वभावाद्व्यतिकरः । काणादानामपि यदैकेनात्मना मनः संयुज्यते तदात्मान्तरैरपि नान्तरीयकः संयोगः स्यात्संनिधानाद्यविशेषात् । ततश्च हेत्वविशेषात्फलाविशेष इत्येकस्यात्मनः सुखदुःखयोगे सर्वात्मनामपि समानं सुखदुःखित्वं प्रसज्येत ॥ ५० ॥ स्यादेतत् । अदृष्टनिमित्तो नियमो भविष्यतीति । नेत्याह-

ābhāsa eva ca ābhāsa eva caiṣa jīvaḥ parasyātmano jalasūryakādivatpratipattavyaḥ / na sa eva sākṣāt / nāpi vastvantaram / ataśca yathā naikasmiñjalasūryake kampamāne jalasūryakāntaraṃ kampate, evaṃ naikasmiñjīve karmaphalasaṃbandhini jīvāntarasya tatsaṃbandhaḥ / evamapyavyatikara eva karmaphalayoḥ / ābhāsasya cāvidyākṛtatvāttadāśrayasya saṃsārasyāvidyākṛtatvopapattiriti / tadvyudāsena ca pāramārthikasya brahmātmabhāvasyopadeśopapattiḥ / yeṣāṃ tu bahava ātmānaste ca sarve sarvagatāsteṣāmevaiṣa vyatikaraḥ prāpnoti / katham / bahavo vibhavaścātmānaścaitanyamātrasvarūpā nirguṇā niratiśayāśca tadarthaṃ sādhāraṇaṃ pradhānaṃ tannimittaiṣāṃ bhogāpavargasiddhiriti sāṃkhyāḥ / sati bahutve vibhutve ca ghaṭakuḍyādisamānā dravyamātrasvarūpāḥ svato 'cetanā ātmanastadupakaraṇāni cāṇūni manāṃsyacetanāni / tatrātmadravyāṇāṃ manodravyāṇāṃ ca saṃyogānnavecchādayo vaiśeṣikā ātmaguṇā utpadyante / te cāvyatirekeṇa pratyekamātmasu samavayanti sa saṃsāraḥ / teṣāṃ navānāmātmaguṇānāmatyantānutpādo mokṣa iti kāṇādāḥ / tatra sāṃkhyānāṃ tāvaccaitanyasvarūpatvātsarvātmanāṃ saṃnidhānādyaviśeṣāccaikasya sukhaduḥkhasaṃbandhe sarveṣāṃ sukhaduḥkhasaṃbandhaḥ prāpnoti / syādetat / pradhānapravṛtteḥ paruṣakaivalyārthatvādvyavasthā bhaviṣyati / anyathā hi svavibhūtikhyāpanārthā pradhānapravṛttiḥ syāt / tathācānirmokṣaḥ prasajyeteti / naitatsāram / nahyabhilaṣitasiddhinibandhanā vyavasthā śakyā vijñātum / upapattyā tu kayācidvyavasthocyeta / asatyāṃ punarupapattau kāmaṃ mā bhūdabhilaṣitaṃ puruṣakaivalyaṃ, prāpnoti tu vyavasthāhetvabhāvādvyatikaraḥ / kāṇādānāmapi yadaikenātmanā manaḥ saṃyujyate tadātmāntarairapi nāntarīyakaḥ saṃyogaḥ syātsaṃnidhānādyaviśeṣāt / tataśca hetvaviśeṣātphalāviśeṣa ityekasyātmanaḥ sukhaduḥkhayoge sarvātmanāmapi samānaṃ sukhaduḥkhitvaṃ prasajyeta // 50 // syādetat / adṛṣṭanimitto niyamo bhaviṣyatīti / netyāha-

Sanskrit only: no published translation is held for this verse.

अदृष्टानियमात् बहुष्वात्मस्वाकाशवत्सर्वगतेषु प्रतिशरीरं बाह्याभ्यन्तराविशेषेण संनिहितेषु मनोवाक्कायैर्धर्मलक्षणमदृष्टमुपर्ज्यते । सांख्यानां तावत्तदनात्मसमवायि प्रधानवर्ति प्रधानसाधारण्यान्न प्रत्यात्मं सुखदुःखोपभोगस्य नियामकमुपपद्यते । काणादानामपि पूर्ववत्साधारणेनात्ममनःसंयोगेन निर्वर्तितस्यादृष्टस्याप्यस्यैवात्मन इदमदृष्टमिति नियमे हेत्वभावादेष एव दोषः ॥ ५१ ॥ स्यादेतत् । अहमिदं फलं प्राप्नवानीदं परिहराणीत्थं प्रयता इत्थं करवाणीत्येवंविधा अभिसंध्यादयः प्रत्यात्मं प्रवर्तमाना अदृष्टस्यात्मनां च स्वस्वामिभावं नियंस्यन्तीति । नेत्याह-

adṛṣṭāniyamāt bahuṣvātmasvākāśavatsarvagateṣu pratiśarīraṃ bāhyābhyantarāviśeṣeṇa saṃnihiteṣu manovākkāyairdharmalakṣaṇamadṛṣṭamuparjyate / sāṃkhyānāṃ tāvattadanātmasamavāyi pradhānavarti pradhānasādhāraṇyānna pratyātmaṃ sukhaduḥkhopabhogasya niyāmakamupapadyate / kāṇādānāmapi pūrvavatsādhāraṇenātmamanaḥsaṃyogena nirvartitasyādṛṣṭasyāpyasyaivātmana idamadṛṣṭamiti niyame hetvabhāvādeṣa eva doṣaḥ // 51 // syādetat / ahamidaṃ phalaṃ prāpnavānīdaṃ pariharāṇītthaṃ prayatā itthaṃ karavāṇītyevaṃvidhā abhisaṃdhyādayaḥ pratyātmaṃ pravartamānā adṛṣṭasyātmanāṃ ca svasvāmibhāvaṃ niyaṃsyantīti / netyāha-

Sanskrit only: no published translation is held for this verse.

अभिसन्ध्यादिष्व् अपि चैवम् अभिसंध्यादीनामपि साधारणेनैवात्ममनःसंयोगेन सर्वात्मसंनिधौ क्रियमाणानां नियमहेतुत्वानुपपत्तेरुक्तदोषानुषङ्ग एव ॥ ५२ ॥

abhisandhyādiṣv api caivam abhisaṃdhyādīnāmapi sādhāraṇenaivātmamanaḥsaṃyogena sarvātmasaṃnidhau kriyamāṇānāṃ niyamahetutvānupapatteruktadoṣānuṣaṅga eva // 52 //

Sanskrit only: no published translation is held for this verse.

प्रदेशाद् इति चेन् नान्तर्भावात् अथोच्येत विभुत्वे ऽप्यत्मनः शरीरप्रतिष्ठेन मनसा संयोगः शरीरावच्छिन्न एवात्मप्रदेशे भविष्यतीति अतः प्रदेशकृता व्यवस्थाभिसंध्यादीनामदृष्टस्य सुखदुःखयोश्च भविष्यतीति । तदपि नोपपद्यते । कस्मात् । अन्तर्भावात् । विभुत्वाविशेषाद्धि सर्व एवात्मानः सर्वशरीरेष्वन्तर्भवन्ति । तत्र न वैशेषिकैः शरीरावच्छिन्नो ऽप्यात्मानः प्रदेशः कल्पयितुं शक्यः । कल्प्यमानो ऽप्ययं निष्प्रदेशस्यात्मनः प्रदेशः काल्पनिकत्वादेव न पारमार्थिकं कार्यं नियन्तुं शक्नोति । शरीरमपि सर्वात्मसंनिधावुत्पद्यमानमस्यैवात्मनो नेतरेषामिति न नियन्तुं शक्यम् । प्रदेशविशेषाभ्युपगमे ऽपि च द्वयोरात्मनोः समानसुखदुःखभाजोः कदाचिदेकेनैव तावच्छरीरेणोपभोगसिद्धिः स्यात् । समानप्रदेशस्यापि द्वयोरात्मनोरदृष्टस्य संभवात् । तथाहि- देवदत्तो यस्मिन्प्रदेशे सुखदुःखमन्वभूत्तस्मात्प्रदेशादपक्रान्ते तच्छरीरे यज्ञदत्तशरीरे च तं प्रदेशमनुप्राप्ते तस्यापीतरेण समानः सुखदुःखानुभवो दृश्यते स न स्याद्यदि देवदत्तयज्ञदत्तयोः समानप्रदेशमनिष्टं न स्यात् । स्वर्गाद्यनुपभोगप्रसङ्गश्च प्रदेशवादिनः स्यात् । ब्राह्मणादिशरीरप्रदेशेष्वदृष्टनिष्पत्तेः प्रदेशान्तरवर्तित्वाच्च स्वार्गाद्युपभोगस्य । सर्वगतत्वानुपपत्तिश्च बहूनामात्मनां, दृष्टान्ताभावात् । वद तावत्त्वं के बहवः समानप्रदेशाश्चेति । रूपादय इति चेत् । न । तेषामपि धर्म्यंशेनाभेदाल्लक्षणभेदाच्च । नतु बहूनामात्मनां लक्षणभेदो ऽस्ति । अन्त्यविशेषवशाद्भेदोपपत्तिरितिचेत् । न । भेदकल्पनाय अन्त्यविशेषकल्पनायाश्चेतरेतराश्रयत्वात् । आकाशादीनामपि विभुत्वं ब्रह्मवादिनो ऽसिद्धं कार्यत्वाभ्युपगमात्, तस्मादात्मैकत्वपक्ष एव सर्वदोषाभाव इति सिद्धम् ॥ ५३ ॥ इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्करभगवत्पूज्यपादकृतौ श्रीशारीरकमीमांसाभाष्ये द्वितीयाध्यायस्य तृतीयः पादः समाप्तः ॥ ३ ॥ ____________________________________________________________________________________________ ____________________________________________________________________________________________ द्वितीयाध्याये चतुर्थः पादः । अत्र पादे लिङ्गशरीरश्रुतीनां विरोधपरिहारः

pradeśād iti cen nāntarbhāvāt athocyeta vibhutve 'pyatmanaḥ śarīrapratiṣṭhena manasā saṃyogaḥ śarīrāvacchinna evātmapradeśe bhaviṣyatīti ataḥ pradeśakṛtā vyavasthābhisaṃdhyādīnāmadṛṣṭasya sukhaduḥkhayośca bhaviṣyatīti / tadapi nopapadyate / kasmāt / antarbhāvāt / vibhutvāviśeṣāddhi sarva evātmānaḥ sarvaśarīreṣvantarbhavanti / tatra na vaiśeṣikaiḥ śarīrāvacchinno 'pyātmānaḥ pradeśaḥ kalpayituṃ śakyaḥ / kalpyamāno 'pyayaṃ niṣpradeśasyātmanaḥ pradeśaḥ kālpanikatvādeva na pāramārthikaṃ kāryaṃ niyantuṃ śaknoti / śarīramapi sarvātmasaṃnidhāvutpadyamānamasyaivātmano netareṣāmiti na niyantuṃ śakyam / pradeśaviśeṣābhyupagame 'pi ca dvayorātmanoḥ samānasukhaduḥkhabhājoḥ kadācidekenaiva tāvaccharīreṇopabhogasiddhiḥ syāt / samānapradeśasyāpi dvayorātmanoradṛṣṭasya saṃbhavāt / tathāhi- devadatto yasminpradeśe sukhaduḥkhamanvabhūttasmātpradeśādapakrānte taccharīre yajñadattaśarīre ca taṃ pradeśamanuprāpte tasyāpītareṇa samānaḥ sukhaduḥkhānubhavo dṛśyate sa na syādyadi devadattayajñadattayoḥ samānapradeśamaniṣṭaṃ na syāt / svargādyanupabhogaprasaṅgaśca pradeśavādinaḥ syāt / brāhmaṇādiśarīrapradeśeṣvadṛṣṭaniṣpatteḥ pradeśāntaravartitvācca svārgādyupabhogasya / sarvagatatvānupapattiśca bahūnāmātmanāṃ, dṛṣṭāntābhāvāt / vada tāvattvaṃ ke bahavaḥ samānapradeśāśceti / rūpādaya iti cet / na / teṣāmapi dharmyaṃśenābhedāllakṣaṇabhedācca / natu bahūnāmātmanāṃ lakṣaṇabhedo 'sti / antyaviśeṣavaśādbhedopapattiriticet / na / bhedakalpanāya antyaviśeṣakalpanāyāścetaretarāśrayatvāt / ākāśādīnāmapi vibhutvaṃ brahmavādino 'siddhaṃ kāryatvābhyupagamāt, tasmādātmaikatvapakṣa eva sarvadoṣābhāva iti siddham // 53 // iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpūjyapādakṛtau śrīśārīrakamīmāṃsābhāṣye dvitīyādhyāyasya tṛtīyaḥ pādaḥ samāptaḥ // 3 // ____________________________________________________________________________________________ ____________________________________________________________________________________________ dvitīyādhyāye caturthaḥ pādaḥ / atra pāde liṅgaśarīraśrutīnāṃ virodhaparihāraḥ

Sanskrit only: no published translation is held for this verse.