प्रतिज्ञाहानिर् अव्यतिरेकाच् छब्देभ्यः ऽयेनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्ऽ (छा। ६।१।१) इति, ऽआत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम्ऽ (बृ। ४।५।६) इति, ऽकस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतिऽ (मुण्ड। १।१।३) इति, ऽन काचन मद्धहिर्धा विद्यास्तिऽ इति चैवंरूपा प्रतिवेदान्तं प्रतिज्ञा विज्ञायते । तस्याः प्रतिज्ञाया एवमहानिरनुपरोधः स्यात्, यद्यव्यतिरेकः कृत्स्नस्य वस्तुजातस्य विज्ञेयाद्ब्रह्मणः स्यात् । व्यतिरेके हि सत्येकविज्ञानेन सर्वं विज्ञायत इतीयं प्रतिज्ञा ह्रीयेत । स चाव्यतिरेक एवमुपपद्यते यदि कृत्स्नं वस्तुजातमेकस्माद्ब्रह्मण उत्पद्येत । शब्देभ्यश्च प्रकृतिविकाराव्यतिरेकन्यायेनैव प्रतिज्ञासिद्धिरवगम्यते । तथाहि- ऽयेनाश्रुतं श्रुतं भवतिऽ इति प्रतिज्ञाय मृदादिदृष्टान्तैः कार्यकारणाभेदप्रतिपादनपरैः प्रतिज्ञैषा समर्थ्यते । तत्साधनायैव चोत्तरे शब्दाः ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ (छा। ६।२।१), ऽतदैक्षतऽ, ऽतत्तेजो ऽसृजतऽ (छा। ६।२।३) इत्येवं कार्यजातं ब्रह्मणः प्रदर्श्याव्यतिरेकं प्रदर्शयन्ति- ऽऐतदात्म्यमिदं सर्वम्ऽ (छा। ६।८।७) इत्यारभ्याप्रपाठकपरिसमाप्तेः । तद्यद्याकाशं न ब्रह्मकार्यं स्यान्न ब्रह्मणि विज्ञात आकाशं विज्ञायेत, ततश्च प्रतिज्ञाहानिः स्यात् । नच प्रतिज्ञाहान्या वेदस्याप्रामाण्यं युक्तं कर्तुम् । तथाहि- प्रतिवेदान्तं ते ते शब्दास्तेन तेन दृष्टान्तेन तामेव प्रतिज्ञां ख्यपयन्ति ऽइदं सर्वं यदयमात्माऽ (बृ। २।४।६),ऽ ब्रह्मैवेदममृतं पुरस्तात्ऽ (मुण्ड। २।२।११) इत्येवमादयः । तस्माज्ज्वलनादिवदेव गगनमप्युत्पद्यते । यदुक्तमश्रुतेर्न वियदुत्पद्यत इति, तदयुक्तं, वियदुत्पत्तिविषयश्रुत्यन्तरस्य दर्शितत्वात् ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै। २।१) इति । सत्यं दर्शितम् । विरुद्धं तु ऽतत्तेजो ऽसृजतऽ इत्यनेन श्रुत्यन्तरेण । न । एकवाक्यत्वात्सर्वश्रुतीनाम् । भवत्येकवाक्यत्वमविरुद्धानाम् । इह तु विरोध उक्तः, सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयसंबन्धासंभवाद्द्वयोश्च प्रथमजत्वासंभवाद्विकल्पासंभवाच्चेति । नैष दोषः । तेजःसर्गस्य तैत्तिरीयके तृतीयत्वश्रवणात् ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः । वायोरग्निःऽ (तै। २।१) इति । अशक्या हीयं श्रुतिरन्यथा परिणेतुम् । शक्या तु परिणेतुं छान्दोग्यश्रुतिस्तदाकाशं वायुं च सृष्ट्वा ऽतत्तेजो ऽसृजतऽ इति । नहीयं श्रुतिस्तेजोजनिप्रधाना सती श्रुत्यन्तरप्रसिद्धामाकाशस्योत्पत्तिं वारयितुं शक्नोति । एकस्य वाक्यस्य व्यापारद्वयासंभवात् । स्रष्ट्वा त्वेको ऽपि क्रमेणानेकं स्रष्टव्यं सृजेत् । इत्येकवाक्यत्वकल्पनायां संभवत्यां न विरुद्धार्थत्वेन श्रुतिर्हातव्या । नचास्माभिः सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयसंबन्धो ऽभिप्रेयते श्रुत्यन्तरवशेन स्रष्टव्यान्तरोपसंग्रहात् । यथाच ऽसर्वं खल्विदं ब्रह्म तज्जलान्ऽ (छा। ३।१४।१) इत्यत्र साक्षादेव सर्वस्य वस्तुजातस्य ब्रह्मजत्वं श्रूयमाणं न प्रदेशान्तरविहितं तेजःप्रमुखमुत्पत्तिक्रमं वारयति, एवं तेजसो ऽपि ब्रह्मजत्वं श्रूयमाणं न श्रुत्यन्तरविहितं नभःप्रमुखमुत्पत्तिक्रमं वारयितुमर्हति । ननु शमविधानार्थमेतद्वाक्यम्, ऽतज्जलानिति शान्त उपासीतऽ इति श्रुतेः, नैतत्सृष्टिवाक्यं, तस्मादेतन्न प्रदेशान्तरसिद्धं क्रममुपरोद्धुमर्हतीति । ऽतत्तेजो ऽसृजतऽ इत्येतत्सृष्टिवाक्यम् । तस्मादत्र यथाश्रुति क्रमो ग्रहीतव्य इति । नेत्युच्यते । नहि तेजःप्राथम्यानुरोधेन श्रुत्यन्तरप्रसिद्धो वियत्पदार्थः परित्यक्तव्यो भवति, पदार्थधर्मत्वात्क्रमस्य । अपिच ऽतत्तेजो ऽसृजतऽ इति नात्र क्रमस्य वाचकः कश्चिच्छब्दो ऽस्ति । अर्थात्तु क्रमो ऽवगम्यते । स च ऽवायोरग्निःऽ इत्यनेन श्रुत्यन्तरप्रसिद्धेन क्रमेण निवार्यते । विकल्पसमुच्चयौ तु वियत्तेजसोः प्रथमजत्वविषयावसंभवानभ्युपगमाभ्यां निवारितौ । तस्मान्नास्ति श्रुत्योर्विप्रतिषेधः । अपिच छान्दोग्ये ऽयेनाश्रुतं श्रुतं भवतिऽ इत्येतां प्रतिज्ञां वाक्योपक्रमे श्रुतां समर्थयितुमसमाम्नातमपि वियदुत्पत्तावुपसंख्यातव्यं, किमङ्ग पुनस्तैत्तिरीयके समाम्नातं नभो न संगृह्यते । यच्चोक्तमाकाशस्य सर्वेणानन्यदेशकालत्वाद्ब्रह्मणा तत्कार्यैश्च सह विदितमेव तद्भवत्यतो न प्रतिज्ञा हीयते, नच ऽएकमेवाद्वितीयम्ऽ इति श्रुतिकोपो भवति, क्षीरोदकवद्ब्रह्मनभसोरव्यतिरेकोपपत्तेरिति । अत्रोच्यते । न क्षीरोदकन्यायेनेदमेकविज्ञानेन सर्वविज्ञानं नेतव्यम् । मृदादिदृष्टान्तप्रणयनाद्धि प्रकृतिविकारन्यायेनैवेदं सर्वविज्ञानं नेतव्यमिति गम्यते । क्षीरोदकन्यायेन च सर्वविज्ञानं कल्प्यमानं न सम्यग्विज्ञानं स्यात् । नहि क्षीरज्ञानगृहीतस्योदकस्य सम्यग्विज्ञानगृहीतमस्ति । नच वेदस्य पुरुषाणामिव मायालीकवञ्चनादिभिरर्थावधारणमुपपद्यते । सावधारणा चेयम् । ऽएकमेवाद्वितीयम्ऽ इति श्रुतिः क्षीरोदकन्यायेन नीयमाना पीड्येत । नच स्वकार्यापेक्षयेदं वस्त्वेकदेशविषयं सर्वविज्ञानमेकमेवाद्वितीयतावधारणं चेति न्याय्यं, मृदादिष्वपि हि तत्संभवान्न तदपूर्ववदुपन्यसितव्यं भवति ऽश्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धो ऽस्युत तमादेशमप्राक्ष्यो ऽयेनाश्रुतं श्रुतं भवतिऽ (छा। ६।१।१) इत्यादिना । तस्मादशेषवस्तुविषयमेवेदं सर्वविज्ञानं सर्वस्य ब्रह्मकार्यतापेक्षयोपन्यस्यत इति द्रष्टव्यम् ॥ ६ ॥ यत्पुनरेतदुक्तमसंभवाद् गौणी गनस्योत्पत्तिश्रुतिरिति । अत्र ब्रूमः -
pratijñāhānir avyatirekāc chabdebhyaḥ 'yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātam' (chā. 6.1.1) iti, 'ātmani khalvare dṛṣṭe śrute mate vijñāta idaṃ sarvaṃ viditam' (bṛ. 4.5.6) iti, 'kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavati' (muṇḍa. 1.1.3) iti, 'na kācana maddhahirdhā vidyāsti' iti caivaṃrūpā prativedāntaṃ pratijñā vijñāyate / tasyāḥ pratijñāyā evamahāniranuparodhaḥ syāt, yadyavyatirekaḥ kṛtsnasya vastujātasya vijñeyādbrahmaṇaḥ syāt / vyatireke hi satyekavijñānena sarvaṃ vijñāyata itīyaṃ pratijñā hrīyeta / sa cāvyatireka evamupapadyate yadi kṛtsnaṃ vastujātamekasmādbrahmaṇa utpadyeta / śabdebhyaśca prakṛtivikārāvyatirekanyāyenaiva pratijñāsiddhiravagamyate / tathāhi- 'yenāśrutaṃ śrutaṃ bhavati' iti pratijñāya mṛdādidṛṣṭāntaiḥ kāryakāraṇābhedapratipādanaparaiḥ pratijñaiṣā samarthyate / tatsādhanāyaiva cottare śabdāḥ 'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1), 'tadaikṣata', 'tattejo 'sṛjata' (chā. 6.2.3) ityevaṃ kāryajātaṃ brahmaṇaḥ pradarśyāvyatirekaṃ pradarśayanti- 'aitadātmyamidaṃ sarvam' (chā. 6.8.7) ityārabhyāprapāṭhakaparisamāpteḥ / tadyadyākāśaṃ na brahmakāryaṃ syānna brahmaṇi vijñāta ākāśaṃ vijñāyeta, tataśca pratijñāhāniḥ syāt / naca pratijñāhānyā vedasyāprāmāṇyaṃ yuktaṃ kartum / tathāhi- prativedāntaṃ te te śabdāstena tena dṛṣṭāntena tāmeva pratijñāṃ khyapayanti 'idaṃ sarvaṃ yadayamātmā' (bṛ. 2.4.6),' brahmaivedamamṛtaṃ purastāt' (muṇḍa. 2.2.11) ityevamādayaḥ / tasmājjvalanādivadeva gaganamapyutpadyate / yaduktamaśruterna viyadutpadyata iti, tadayuktaṃ, viyadutpattiviṣayaśrutyantarasya darśitatvāt 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) iti / satyaṃ darśitam / viruddhaṃ tu 'tattejo 'sṛjata' ityanena śrutyantareṇa / na / ekavākyatvātsarvaśrutīnām / bhavatyekavākyatvamaviruddhānām / iha tu virodha uktaḥ, sakṛcchrutasya sraṣṭuḥ sraṣṭavyadvayasaṃbandhāsaṃbhavāddvayośca prathamajatvāsaṃbhavādvikalpāsaṃbhavācceti / naiṣa doṣaḥ / tejaḥsargasya taittirīyake tṛtīyatvaśravaṇāt 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ / ākāśādvāyuḥ / vāyoragniḥ' (tai. 2.1) iti / aśakyā hīyaṃ śrutiranyathā pariṇetum / śakyā tu pariṇetuṃ chāndogyaśrutistadākāśaṃ vāyuṃ ca sṛṣṭvā 'tattejo 'sṛjata' iti / nahīyaṃ śrutistejojanipradhānā satī śrutyantaraprasiddhāmākāśasyotpattiṃ vārayituṃ śaknoti / ekasya vākyasya vyāpāradvayāsaṃbhavāt / sraṣṭvā tveko 'pi krameṇānekaṃ sraṣṭavyaṃ sṛjet / ityekavākyatvakalpanāyāṃ saṃbhavatyāṃ na viruddhārthatvena śrutirhātavyā / nacāsmābhiḥ sakṛcchrutasya sraṣṭuḥ sraṣṭavyadvayasaṃbandho 'bhipreyate śrutyantaravaśena sraṣṭavyāntaropasaṃgrahāt / yathāca 'sarvaṃ khalvidaṃ brahma tajjalān' (chā. 3.14.1) ityatra sākṣādeva sarvasya vastujātasya brahmajatvaṃ śrūyamāṇaṃ na pradeśāntaravihitaṃ tejaḥpramukhamutpattikramaṃ vārayati, evaṃ tejaso 'pi brahmajatvaṃ śrūyamāṇaṃ na śrutyantaravihitaṃ nabhaḥpramukhamutpattikramaṃ vārayitumarhati / nanu śamavidhānārthametadvākyam, 'tajjalāniti śānta upāsīta' iti śruteḥ, naitatsṛṣṭivākyaṃ, tasmādetanna pradeśāntarasiddhaṃ kramamuparoddhumarhatīti / 'tattejo 'sṛjata' ityetatsṛṣṭivākyam / tasmādatra yathāśruti kramo grahītavya iti / netyucyate / nahi tejaḥprāthamyānurodhena śrutyantaraprasiddho viyatpadārthaḥ parityaktavyo bhavati, padārthadharmatvātkramasya / apica 'tattejo 'sṛjata' iti nātra kramasya vācakaḥ kaścicchabdo 'sti / arthāttu kramo 'vagamyate / sa ca 'vāyoragniḥ' ityanena śrutyantaraprasiddhena krameṇa nivāryate / vikalpasamuccayau tu viyattejasoḥ prathamajatvaviṣayāvasaṃbhavānabhyupagamābhyāṃ nivāritau / tasmānnāsti śrutyorvipratiṣedhaḥ / apica chāndogye 'yenāśrutaṃ śrutaṃ bhavati' ityetāṃ pratijñāṃ vākyopakrame śrutāṃ samarthayitumasamāmnātamapi viyadutpattāvupasaṃkhyātavyaṃ, kimaṅga punastaittirīyake samāmnātaṃ nabho na saṃgṛhyate / yaccoktamākāśasya sarveṇānanyadeśakālatvādbrahmaṇā tatkāryaiśca saha viditameva tadbhavatyato na pratijñā hīyate, naca 'ekamevādvitīyam' iti śrutikopo bhavati, kṣīrodakavadbrahmanabhasoravyatirekopapatteriti / atrocyate / na kṣīrodakanyāyenedamekavijñānena sarvavijñānaṃ netavyam / mṛdādidṛṣṭāntapraṇayanāddhi prakṛtivikāranyāyenaivedaṃ sarvavijñānaṃ netavyamiti gamyate / kṣīrodakanyāyena ca sarvavijñānaṃ kalpyamānaṃ na samyagvijñānaṃ syāt / nahi kṣīrajñānagṛhītasyodakasya samyagvijñānagṛhītamasti / naca vedasya puruṣāṇāmiva māyālīkavañcanādibhirarthāvadhāraṇamupapadyate / sāvadhāraṇā ceyam / 'ekamevādvitīyam' iti śrutiḥ kṣīrodakanyāyena nīyamānā pīḍyeta / naca svakāryāpekṣayedaṃ vastvekadeśaviṣayaṃ sarvavijñānamekamevādvitīyatāvadhāraṇaṃ ceti nyāyyaṃ, mṛdādiṣvapi hi tatsaṃbhavānna tadapūrvavadupanyasitavyaṃ bhavati 'śvetaketo yannu somyedaṃ mahāmanā anūcānamānī stabdho 'syuta tamādeśamaprākṣyo 'yenāśrutaṃ śrutaṃ bhavati' (chā. 6.1.1) ityādinā / tasmādaśeṣavastuviṣayamevedaṃ sarvavijñānaṃ sarvasya brahmakāryatāpekṣayopanyasyata iti draṣṭavyam // 6 // yatpunaretaduktamasaṃbhavād gauṇī ganasyotpattiśrutiriti / atra brūmaḥ -
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.