असंभवस् तु सतो ऽनुपपत्तेः वियत्पवनयोरसंभाव्यमानजन्मनोरप्युत्पत्तिमुपश्रुत्य ब्रह्मणो ऽपि भवेत्कुतश्चिदुत्पत्तिरिति स्यात्कस्यचिन्मतिः । तथा विकारेभ्य एवाकाशादिभ्य उत्तरेषां विकाराणामुत्पत्तिमुपश्रुत्याकाशस्यापि विकारादेव ब्रह्मण उत्पत्तिरिति कश्चिन्मन्येत । तामाशङ्कामपनेतुमिदं सूत्रम्- ऽअसंभवस्तुऽ इति । न खलु ब्रह्मणः सदात्मकस्य कुतश्चिदन्यतः संभव उत्पत्तिराशङ्कितव्या । कस्मात् । अनुपपत्तेः । सन्मात्रं हि ब्रह्म । न तस्य सन्मात्रादेवोत्पत्तिः संभवति, असत्यतिशये प्रकृतिविकारभावानुपपत्तेः । नापि सद्विशेषाद्दृष्टविपर्ययात् । सामान्याद्धि विशेषा उत्पद्यमाना दृश्यन्ते मृदादेर्घटादयो नतु विशेषेभ्यः सामान्यम् । नाप्यसतो निरात्मकत्वात् । ऽकथमसतः सज्जायेतऽ (छा। ८।७।१) इति चाक्षेपश्रवणात् । ऽस कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपःऽ (श्वे। ६।९) इति च ब्रह्मणो जनयितारं वारयति । विवत्वपवनयोः पुनरुत्पत्तिः प्रदर्शिता नतु ब्रह्मणः सास्तीति वैषम्यम् । नच विकारेभ्यो विकारान्तरोत्पत्तिदर्शनाद्ब्रह्मणो ऽपि विकारत्वं भवितुमर्हतीति मूलप्रकृत्यनभ्युपगमे ऽनवस्ताप्रसङ्गात् । या मूलप्रकृतिरभ्युपगम्यते तदेव च नो ब्रह्मेत्यविरोधः ॥ ९ ॥ ४ तेजो ऽधिकरणम् । सू। १०
asaṃbhavas tu sato 'nupapatteḥ viyatpavanayorasaṃbhāvyamānajanmanorapyutpattimupaśrutya brahmaṇo 'pi bhavetkutaścidutpattiriti syātkasyacinmatiḥ / tathā vikārebhya evākāśādibhya uttareṣāṃ vikārāṇāmutpattimupaśrutyākāśasyāpi vikārādeva brahmaṇa utpattiriti kaścinmanyeta / tāmāśaṅkāmapanetumidaṃ sūtram- 'asaṃbhavastu' iti / na khalu brahmaṇaḥ sadātmakasya kutaścidanyataḥ saṃbhava utpattirāśaṅkitavyā / kasmāt / anupapatteḥ / sanmātraṃ hi brahma / na tasya sanmātrādevotpattiḥ saṃbhavati, asatyatiśaye prakṛtivikārabhāvānupapatteḥ / nāpi sadviśeṣāddṛṣṭaviparyayāt / sāmānyāddhi viśeṣā utpadyamānā dṛśyante mṛdāderghaṭādayo natu viśeṣebhyaḥ sāmānyam / nāpyasato nirātmakatvāt / 'kathamasataḥ sajjāyeta' (chā. 8.7.1) iti cākṣepaśravaṇāt / 'sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścijjanitā na cādhipaḥ' (śve. 6.9) iti ca brahmaṇo janayitāraṃ vārayati / vivatvapavanayoḥ punarutpattiḥ pradarśitā natu brahmaṇaḥ sāstīti vaiṣamyam / naca vikārebhyo vikārāntarotpattidarśanādbrahmaṇo 'pi vikāratvaṃ bhavitumarhatīti mūlaprakṛtyanabhyupagame 'navastāprasaṅgāt / yā mūlaprakṛtirabhyupagamyate tadeva ca no brahmetyavirodhaḥ // 9 // 4 tejo 'dhikaraṇam / sū. 10
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.