न भेदाद् इति चेन् न प्रत्येकमतद्वचनात् अथापि स्याद्यदुक्तं निर्विकल्पमेकलिङ्गमेव ब्रह्म नास्य स्वतः स्थानतो वोभयलिङ्गत्वमस्तीति । तन्नोपपद्यते । कस्मात् । भेदात् । भिन्ना हि प्रतिविद्यं ब्रह्मण आकारा उपदिश्यन्ते । चतुष्पाद्ब्रह्म षोडशकलं ब्रह्म वामनीत्वादिलक्षणं ब्रह्म त्रैलोक्यशरीरवैश्वानरशब्दोदितं ब्रह्मेत्येवञ्जातीयकाः । तस्मात्सविशेषत्वमपि ब्रह्मणो ऽभ्युपगन्तव्यम् । ननूक्तं नोभयलिङ्गत्वं ब्रह्मणः संभवतीति । अयमप्यविरोधः । उपाधिकृतत्वादाकारभेदस्य । अन्यथा हि निर्विषयमेव भेदशास्त्रं प्रसज्येतेति चेत् । नेति ब्रूमः । कस्मात् । प्रत्येकमतद्वचनात् । प्रत्युपाधिभेदं ह्यभेदमेव ब्रह्मणः श्रावयति शास्त्रम् - ऽयश्चायमस्यां पृथिव्यां तेजोमयो ऽमृतमयः पुरुषो यश्चायमध्यात्मं शारीरस्तेजोमयो ऽमृतमयः पुरुषो ऽयमेव स यो ऽयमात्माऽ (बृ। २।५।१) इत्यादि । अतश्च न भिन्नाकारयोगो ब्रह्मणः शास्त्रीय इति शक्यते वक्तुम् । भेदस्योपासनार्थत्वादभेदे तात्पर्यात् ।
na bhedād iti cen na pratyekamatadvacanāt athāpi syādyaduktaṃ nirvikalpamekaliṅgameva brahma nāsya svataḥ sthānato vobhayaliṅgatvamastīti / tannopapadyate / kasmāt / bhedāt / bhinnā hi pratividyaṃ brahmaṇa ākārā upadiśyante / catuṣpādbrahma ṣoḍaśakalaṃ brahma vāmanītvādilakṣaṇaṃ brahma trailokyaśarīravaiśvānaraśabdoditaṃ brahmetyevañjātīyakāḥ / tasmātsaviśeṣatvamapi brahmaṇo 'bhyupagantavyam / nanūktaṃ nobhayaliṅgatvaṃ brahmaṇaḥ saṃbhavatīti / ayamapyavirodhaḥ / upādhikṛtatvādākārabhedasya / anyathā hi nirviṣayameva bhedaśāstraṃ prasajyeteti cet / neti brūmaḥ / kasmāt / pratyekamatadvacanāt / pratyupādhibhedaṃ hyabhedameva brahmaṇaḥ śrāvayati śāstram - 'yaścāyamasyāṃ pṛthivyāṃ tejomayo 'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ śārīrastejomayo 'mṛtamayaḥ puruṣo 'yameva sa yo 'yamātmā' (bṛ. 2.5.1) ityādi / ataśca na bhinnākārayogo brahmaṇaḥ śāstrīya iti śakyate vaktum / bhedasyopāsanārthatvādabhede tātparyāt /
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.