तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम्
द्वितीये ऽध्याये स्मृतिन्यायविरोधो वेदान्तविहिते ब्रह्मदर्शने परिहृतः ।
परपक्षाणां चानपेक्षत्वं प्रपञ्चितम् ।
श्रुतिविप्रतिषेधश्च परिहृतः ।
तत्र च जीवव्यतिरिक्तानि तत्त्वानि जीवोपकरणानि ब्रह्मणो जायन्त इत्युक्तम् ।
अथेदानीमुपकरणोपहितस्य जीवस्य संसारगतिप्रकारस्तदवस्थान्तराणि ब्रह्मसतत्त्वं विद्याभेदाभेदौ गुणोपसंहारानुपसंहारौ सम्यग्दर्शनात्पुरुषार्थसिद्धिः सम्यग्दर्शनोपायविधिप्रभेदो मुक्तिफलानियमश्चेत्येतदर्थजातं तृतीये ऽध्याये निरूपयिष्यते प्रसङ्गागतं च किमप्यन्यत् ।
तत्र प्रथमे तावत्पादे पञ्चाग्निविद्यामाश्रित्य संसारगतिप्रभेदः प्रदर्श्यते वैराग्यहेतोः ।
ऽतस्माज्जुगुप्सेत्ऽ इति चान्ते श्रवणात् ।
जीवोमुख्यप्राणसचिवः सेन्द्रियः समनस्को ऽविद्याकर्मपूर्वप्रज्ञापरिग्रहः पूर्वदेहं विहाय देहान्तरं प्रतिपद्यत इत्येतदवगतम् ।
ऽअथैनमेते प्राणा अभिसमायन्तिऽ इत्येवमादेः ऽअन्यन्नवतरं कल्याणतरं रूपं कुरुतेऽ (बृ। ४।४।१।४) इत्येवमन्तात्संसारप्रकरणस्थाच्छब्दात् ।
धर्माधर्मफलोपभोगसंभवाच्च ।
स किं देहः बीजैर्भूतसूक्ष्मैरसंपरिष्वक्तो गच्छत्याहोस्वित्संपरिष्वक्त इति चिन्त्यते ।
किं तावत्प्राप्तम् ।
असंपरिष्वक्त इति ।
कुतः करणोपादानवद्भूतोपादानस्याश्रुतत्वात् ।
ऽस एतास्तेजोमात्राः समभ्याददानःऽ (बृ। ४।४।१) इति ह्यत्र तेजोमात्राशब्देन करणानामुपादानं संकीर्तयति ।
वाक्यशेषे चक्षुरादिसंकीर्तनात् ।
नैवं भूतमात्रोपादानसंकीर्तनमस्ति ।
सुलभाश्च सर्वत्र भूतमात्राः ।
यत्रैव देह आरब्धव्यस्तत्रैव सन्ति ततश्च तासां नयनं निष्प्रयोजनम् ।
तस्मादसंपरिष्वक्तो यातीति ।
एवं प्राप्ते पठत्याचार्यः - तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त इति ।
तदन्तरप्रतिपत्तौ देहान्तरप्रतिपत्तौ देहबीजभूतैर्सूक्ष्मैः संपरिष्वक्तो रंहति गच्छतीत्यवगन्तव्यम् ।
कुतः - प्रश् ननिरूपणाभ्याम् ।
तथाहि प्रश् नः - ऽवेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तिऽ (छा। ५।३।३) इति ।
निरूपणं च प्रतिवचनं द्युपर्जन्यपृथिवीपुरुषयोषित्सु पञ्चस्वग्निषु श्रद्धासोमवृष्ट्यन्नरेतोरूपाः पञ्चाहुतिर्दर्शयित्वा ऽइति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तिऽ (छा। ५।९।१) इति ।
तस्मादद्भिः परिवेष्टितो जीवो रंहति व्रजतीति गम्यते ।
नन्वन्या श्रुतिर्जलूकावत्पूर्वदेहं न मुञ्चति यावन्न देहान्तरमाक्रमतीति दर्शयति- ऽतद्यथा तृणजलायुकाऽ (बृ। ४।४।३) इति ।
तत्राप्यप्परिवेष्टितस्यैव जीवस्य कर्मोपस्थापितप्रतिपत्तव्यदेहविषयभावनादीर्घीभावमात्रं जलूकस्योपमीयत इत्यव्रोधः ।
एवं श्रुत्युक्ते देहान्तरप्रतिपत्तिप्रकारे सति याः पुरुषमतिप्रभवाः कल्पना व्यापिनां करणानामात्मनश्च देहान्तरप्रतिपत्तौ कर्मलशाद्वृत्तिलाभस्तत्र भवति ।
केवलस्यैवात्मनो वृत्तिलाभस्तत्र भवति ।
इन्द्रियाणि तु देहवदभिनवान्येव तत्र तत्र भोगस्थान उत्पद्यन्ते ।
मन एव वा केवलं भोगस्थानमभिप्रतिष्ठेत ।
जीव एवोत्प्लुत्य देहाद्देहान्तरं प्रतिपद्यते शुक इव वृक्षाद्वृक्षान्तरम् ।
इत्येवमाद्याः सर्वा एवानादर्तव्याः श्रुतिविरोधात् ॥ १ ॥
----------------------
फ़्न्: दर्शनोपायाः संन्यासादयः ।
प्रसङ्गगतं देहात्मदूषणम् ।
पञ्चसु द्युपर्जन्यपृथिवीपुरुषयोषित्स्वग्निध्यानं पञ्चाग्निविद्या ।
कर्म धर्माधर्माख्यं, पूर्वप्रज्ञा जन्मान्तरसंस्कारः ।
भावनाया दीर्घीभावो भाविदेहविषयत्वम् ।
केवलेति सौगतकल्पनम् ।
मन इति वैशेषिककल्पनम् ।
जीव इति दिगम्बरकल्पनम् ।
लोकायतकल्पनामाद्यग्रहणेन संगृह्यति ।
ननूदाहृताभ्यां प्रश् नप्रतिवचनाभ्यां केवलाभिरद्भिः संपरिष्वक्तो रंहतीति प्राप्नोति ।
अपशब्दश्रवणसामर्थ्यात् ।
तत्र कथं सामान्येन प्रतिज्ञायते सर्वैरेव भूतसूक्ष्मैः संपरिष्वक्तो रंहतीति ।
अत उत्तरं पठति-
tadantarapratipattau raṃhati saṃpariṣvaktaḥ praśnanirūpaṇābhyām
dvitīye 'dhyāye smṛtinyāyavirodho vedāntavihite brahmadarśane parihṛtaḥ /
parapakṣāṇāṃ cānapekṣatvaṃ prapañcitam /
śrutivipratiṣedhaśca parihṛtaḥ /
tatra ca jīvavyatiriktāni tattvāni jīvopakaraṇāni brahmaṇo jāyanta ityuktam /
athedānīmupakaraṇopahitasya jīvasya saṃsāragatiprakārastadavasthāntarāṇi brahmasatattvaṃ vidyābhedābhedau guṇopasaṃhārānupasaṃhārau samyagdarśanātpuruṣārthasiddhiḥ samyagdarśanopāyavidhiprabhedo muktiphalāniyamaścetyetadarthajātaṃ tṛtīye 'dhyāye nirūpayiṣyate prasaṅgāgataṃ ca kimapyanyat /
tatra prathame tāvatpāde pañcāgnividyāmāśritya saṃsāragatiprabhedaḥ pradarśyate vairāgyahetoḥ /
'tasmājjugupset' iti cānte śravaṇāt /
jīvomukhyaprāṇasacivaḥ sendriyaḥ samanasko 'vidyākarmapūrvaprajñāparigrahaḥ pūrvadehaṃ vihāya dehāntaraṃ pratipadyata ityetadavagatam /
'athainamete prāṇā abhisamāyanti' ityevamādeḥ 'anyannavataraṃ kalyāṇataraṃ rūpaṃ kurute' (bṛ. 4.4.1.4) ityevamantātsaṃsāraprakaraṇasthācchabdāt /
dharmādharmaphalopabhogasaṃbhavācca /
sa kiṃ dehaḥ bījairbhūtasūkṣmairasaṃpariṣvakto gacchatyāhosvitsaṃpariṣvakta iti cintyate /
kiṃ tāvatprāptam /
asaṃpariṣvakta iti /
kutaḥ karaṇopādānavadbhūtopādānasyāśrutatvāt /
'sa etāstejomātrāḥ samabhyādadānaḥ' (bṛ. 4.4.1) iti hyatra tejomātrāśabdena karaṇānāmupādānaṃ saṃkīrtayati /
vākyaśeṣe cakṣurādisaṃkīrtanāt /
naivaṃ bhūtamātropādānasaṃkīrtanamasti /
sulabhāśca sarvatra bhūtamātrāḥ /
yatraiva deha ārabdhavyastatraiva santi tataśca tāsāṃ nayanaṃ niṣprayojanam /
tasmādasaṃpariṣvakto yātīti /
evaṃ prāpte paṭhatyācāryaḥ - tadantarapratipattau raṃhati saṃpariṣvakta iti /
tadantarapratipattau dehāntarapratipattau dehabījabhūtairsūkṣmaiḥ saṃpariṣvakto raṃhati gacchatītyavagantavyam /
kutaḥ - praś nanirūpaṇābhyām /
tathāhi praś naḥ - 'vettha yathā pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' (chā. 5.3.3) iti /
nirūpaṇaṃ ca prativacanaṃ dyuparjanyapṛthivīpuruṣayoṣitsu pañcasvagniṣu śraddhāsomavṛṣṭyannaretorūpāḥ pañcāhutirdarśayitvā 'iti tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' (chā. 5.9.1) iti /
tasmādadbhiḥ pariveṣṭito jīvo raṃhati vrajatīti gamyate /
nanvanyā śrutirjalūkāvatpūrvadehaṃ na muñcati yāvanna dehāntaramākramatīti darśayati- 'tadyathā tṛṇajalāyukā' (bṛ. 4.4.3) iti /
tatrāpyappariveṣṭitasyaiva jīvasya karmopasthāpitapratipattavyadehaviṣayabhāvanādīrghībhāvamātraṃ jalūkasyopamīyata ityavrodhaḥ /
evaṃ śrutyukte dehāntarapratipattiprakāre sati yāḥ puruṣamatiprabhavāḥ kalpanā vyāpināṃ karaṇānāmātmanaśca dehāntarapratipattau karmalaśādvṛttilābhastatra bhavati /
kevalasyaivātmano vṛttilābhastatra bhavati /
indriyāṇi tu dehavadabhinavānyeva tatra tatra bhogasthāna utpadyante /
mana eva vā kevalaṃ bhogasthānamabhipratiṣṭheta /
jīva evotplutya dehāddehāntaraṃ pratipadyate śuka iva vṛkṣādvṛkṣāntaram /
ityevamādyāḥ sarvā evānādartavyāḥ śrutivirodhāt // 1 //
----------------------
FN: darśanopāyāḥ saṃnyāsādayaḥ /
prasaṅgagataṃ dehātmadūṣaṇam /
pañcasu dyuparjanyapṛthivīpuruṣayoṣitsvagnidhyānaṃ pañcāgnividyā /
karma dharmādharmākhyaṃ, pūrvaprajñā janmāntarasaṃskāraḥ /
bhāvanāyā dīrghībhāvo bhāvidehaviṣayatvam /
kevaleti saugatakalpanam /
mana iti vaiśeṣikakalpanam /
jīva iti digambarakalpanam /
lokāyatakalpanāmādyagrahaṇena saṃgṛhyati /
nanūdāhṛtābhyāṃ praś naprativacanābhyāṃ kevalābhiradbhiḥ saṃpariṣvakto raṃhatīti prāpnoti /
apaśabdaśravaṇasāmarthyāt /
tatra kathaṃ sāmānyena pratijñāyate sarvaireva bhūtasūkṣmaiḥ saṃpariṣvakto raṃhatīti /
ata uttaraṃ paṭhati-
Sanskrit only: no published translation is held for this verse.
त्र्यात्मकत्वात् तु भूयस्त्वात्
तुशब्देन चोदितामाशङ्कमुच्छिनत्ति ।
त्र्यात्मिका ह्यापस्त्रिवृत्करणश्रुतेः ।
तास्वारम्भिकास्वाभ्युपगतास्वितरदपि भूतद्वयमवश्यमभ्युपगन्तव्यं भवति ।
त्र्यात्मकश्च देहस्त्रयाणामपि तेजोबन्नानां तस्मिन्कार्योपलब्धेः ।
पुनश्च त्र्यात्मकस्त्रिधातुत्वात्त्रिभिर्वातपित्तश्लेष्माभिः ।
न स भूतान्तराणि प्रत्याख्याय केवलाभिरद्भिरारब्धुं शक्यते ।
तस्माद्भूयस्त्वापेक्षो ऽयमापः पुरुषवचस इति ।
प्रश् नप्रतिवचनयोरप्शब्दो न कैवल्यापेक्षः ।
सर्वदेहेषु हि रसलोहितादिद्रवद्रव्यभूयस्त्वं दृश्यते ।
ननु पार्थिवो धातुर्भूयिष्ठो देहेषूपलक्ष्यते ।
नैष दोषः ।
इतरापेक्षयाप्यपा बाहुल्यं भविष्यति ।
दृश्यते च शुक्रशोणितलक्षणे ऽपि देहबीजे द्रवबाहुल्यम् ।
कर्म च निमित्तकारणं देहान्तरारम्भे ।
कर्माणि चाग्निहोत्रादीनि सोमाज्यपयःप्रभृतिद्रवद्रव्यव्यपाश्रयाणि ।
कर्मसमवायिश्चापः श्रद्धाशब्दोदिताः सह कर्मभिर्द्युलोकाख्ये ऽग्नौ हूयन्त इति वक्ष्यति ।
तस्मादप्यपां बाहुल्यप्रसिद्धिः ।
बाहुल्याच्चाप्शब्देन सर्वेषामेव देहबीजानां भूतसूक्ष्माणामुपादानमिति निरवद्यम् ॥ २ ॥
tryātmakatvāt tu bhūyastvāt
tuśabdena coditāmāśaṅkamucchinatti /
tryātmikā hyāpastrivṛtkaraṇaśruteḥ /
tāsvārambhikāsvābhyupagatāsvitaradapi bhūtadvayamavaśyamabhyupagantavyaṃ bhavati /
tryātmakaśca dehastrayāṇāmapi tejobannānāṃ tasminkāryopalabdheḥ /
punaśca tryātmakastridhātutvāttribhirvātapittaśleṣmābhiḥ /
na sa bhūtāntarāṇi pratyākhyāya kevalābhiradbhirārabdhuṃ śakyate /
tasmādbhūyastvāpekṣo 'yamāpaḥ puruṣavacasa iti /
praś naprativacanayorapśabdo na kaivalyāpekṣaḥ /
sarvadeheṣu hi rasalohitādidravadravyabhūyastvaṃ dṛśyate /
nanu pārthivo dhāturbhūyiṣṭho deheṣūpalakṣyate /
naiṣa doṣaḥ /
itarāpekṣayāpyapā bāhulyaṃ bhaviṣyati /
dṛśyate ca śukraśoṇitalakṣaṇe 'pi dehabīje dravabāhulyam /
karma ca nimittakāraṇaṃ dehāntarārambhe /
karmāṇi cāgnihotrādīni somājyapayaḥprabhṛtidravadravyavyapāśrayāṇi /
karmasamavāyiścāpaḥ śraddhāśabdoditāḥ saha karmabhirdyulokākhye 'gnau hūyanta iti vakṣyati /
tasmādapyapāṃ bāhulyaprasiddhiḥ /
bāhulyāccāpśabdena sarveṣāmeva dehabījānāṃ bhūtasūkṣmāṇāmupādānamiti niravadyam // 2 //
Sanskrit only: no published translation is held for this verse.
प्राणगतेश् च
प्राणानां च देहान्तरप्रतिपत्तौ गतिः श्राव्यते- ऽतमुत्क्रामन्तं प्राणो ऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्तिऽ (बृ। ४।४।२) इत्यादिश्रुतिभिः ।
सा च प्राणानां गतिर्नाश्रयमन्तरेण संभवतीत्यतः प्राणगतिप्रयुक्ता तदाश्रयभूतानामपापमपि भूतान्तरोपसृष्टानां गतिरवगम्यते ।
नहि निराश्रयाः प्राणाः क्वचिद्गच्छन्ति तिष्ठन्ति वा जीवतो दर्शनात् ॥ ३ ॥
prāṇagateś ca
prāṇānāṃ ca dehāntarapratipattau gatiḥ śrāvyate- 'tamutkrāmantaṃ prāṇo 'nūtkrāmati prāṇamanūtkrāmantaṃ sarve prāṇā anūtkrāmanti' (bṛ. 4.4.2) ityādiśrutibhiḥ /
sā ca prāṇānāṃ gatirnāśrayamantareṇa saṃbhavatītyataḥ prāṇagatiprayuktā tadāśrayabhūtānāmapāpamapi bhūtāntaropasṛṣṭānāṃ gatiravagamyate /
nahi nirāśrayāḥ prāṇāḥ kvacidgacchanti tiṣṭhanti vā jīvato darśanāt // 3 //
Sanskrit only: no published translation is held for this verse.
अग्न्यादिगतिश्रुतेर् इति चेन् न भाक्तत्वात्
स्यादेतत् ।
नैव प्राणा देहान्तरप्रतिपत्तौ सह जीवेन गच्छन्ति अग्न्यादिगतिश्रुतेः ।
तथाहि श्रुतिर्मरणकाले वागादयः प्राणा अग्न्यादीन्देवागच्छतीति दर्शयति- ऽयत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणःऽ (बृ। ३।२।१३) इत्यादिनेति चेत् ।
न ।
भाक्तत्वात् ।
वागादीनामग्न्यादिगतिश्रुतिर्गौणी केशेषु चादर्शनात् ।
ऽओषधीर्लोमानि वनस्पतीन्केशाःऽ (बृ। ३।२।१३) इति हि तत्राम्नायते ।
नहि लोमानि केशाश्चोत्प्लुत्यौषधीर्वनस्पतींश्च गच्छन्तीति संभवति ।
नच जीवस्य प्राणोपाधिप्रत्याख्याने गमनमवकल्प्यते ।
नापि प्राणैर्विना देहान्तर उपभोग उपपद्यते ।
विस्पष्टं च प्राणानां सह जीवेन गमनमन्यत्र श्रावितम् ।
अतो वागाद्यधिष्ठात्रीणामग्न्यादिदेवतानां वागाद्युपकारिणीनां मरणकाल उपकारनिवृत्तिमात्रमपेक्ष्य वागादयो ऽग्न्यादीन्गच्छन्तीत्युपचर्यते ॥ ४ ॥
----------------------
फ़्न्: अन्यत्र तमुत्क्रामन्तमित्यादौ ।
agnyādigatiśruter iti cen na bhāktatvāt
syādetat /
naiva prāṇā dehāntarapratipattau saha jīvena gacchanti agnyādigatiśruteḥ /
tathāhi śrutirmaraṇakāle vāgādayaḥ prāṇā agnyādīndevāgacchatīti darśayati- 'yatrāsya puruṣasya mṛtasyāgniṃ vāgapyeti vātaṃ prāṇaḥ' (bṛ. 3.2.13) ityādineti cet /
na /
bhāktatvāt /
vāgādīnāmagnyādigatiśrutirgauṇī keśeṣu cādarśanāt /
'oṣadhīrlomāni vanaspatīnkeśāḥ' (bṛ. 3.2.13) iti hi tatrāmnāyate /
nahi lomāni keśāścotplutyauṣadhīrvanaspatīṃśca gacchantīti saṃbhavati /
naca jīvasya prāṇopādhipratyākhyāne gamanamavakalpyate /
nāpi prāṇairvinā dehāntara upabhoga upapadyate /
vispaṣṭaṃ ca prāṇānāṃ saha jīvena gamanamanyatra śrāvitam /
ato vāgādyadhiṣṭhātrīṇāmagnyādidevatānāṃ vāgādyupakāriṇīnāṃ maraṇakāla upakāranivṛttimātramapekṣya vāgādayo 'gnyādīngacchantītyupacaryate // 4 //
----------------------
FN: anyatra tamutkrāmantamityādau /
Sanskrit only: no published translation is held for this verse.
प्रथमे ऽश्रवणाद् इति चेन् न ता एव ह्य् उपपत्तेः
स्यादेतत् ।
कथं पुनः ऽपञ्चम्यामाहुतावापः पुरुषवचसो भवन्तिऽ (छा। ५।३।३) इत्येतन्निर्धारयितुं पार्यते ।
यावता नैव प्रथमे ऽग्नावपां श्रवणमस्ति ।
इह हि द्युलोकप्रभृतयः पञ्चाग्नयः पञ्चानामाहुतीनामादारत्वेनाधीताः ।
तेषां च प्रमुखे ऽअसौ वाव लोको गौतमाग्निःऽ (छा। ५।४।१) इत्युपक्रम्य ऽतस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वतिऽ (छा। ५।४।२)
इति श्रद्धा हौम्यद्रव्यत्वेनावेदिता ।
न तत्रापो हौम्यद्रव्यतया श्रुताः ।
यदि नाम पर्जन्यादिषूत्तरेषु चतुर्ष्वग्निष्वपां हौम्यद्रव्यता परिकल्प्येत परिकल्प्यतां नाम ।
तेषु होतव्यतयोपात्तानां सोमादीनामब्बहुलत्वोपपत्तेः ।
प्रथमे त्वग्नौ श्रुतां श्रद्धां परित्यज्याश्रुता आपः परिकल्प्यन्त इति साहसमेतत् ।
श्रद्धा च नाम प्रत्ययविशेषः प्रसिद्धिसामर्थ्यात् ।
तस्मादयुक्तः पञ्चम्याहुतावपां पुरुषभाव इति चेत् ।
नैष दोषः ।
यतस्तत्रापि प्रथमे ऽग्नौ ता एवापः श्रद्धाशब्देनाभिप्रेयन्ते ।
कुतः उपपत्तेः ।
एवंह्यादिमध्यावसानसंगानादनाकुलमेतदेकवाक्यमुपपद्यते ।
इतरथा पुनः पञ्चम्यामाहुतावपां पुरुषवचस्त्वप्रकारे पृष्टे प्रतिवचनावसरे प्रथमाहुतिस्थाने यद्यनपो हौम्यद्रव्यं श्रद्धां नामावतारयेत्ततो ऽन्यथा प्रश्नो ऽन्यथा प्रतिवचनमित्येकवाक्यता न स्यात् ।
ऽइति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तिऽ इति चोपसंहरन्नेतदेव दर्शयति ।
श्रद्धाकार्यं च सोमवृष्ट्यादि स्थूलीभवदब्बहुलं लक्ष्यते ।
सा च श्रद्धाया अप्त्वे युक्तिः ।
कारणानुरूपं हि कार्यं भवति ।
नच श्रद्धाख्यः प्रत्ययो मनसो जीवस्य वा धर्मः सन्धर्मिणो निष्कृष्य होमायोषादातुं शक्यते पश्वादिभ्य इव हृदयादीनित्याप एव श्रद्धाशब्दा भवेयुः ।
श्रद्धाशब्दश्चाप्सूपपद्यते, वैदिकप्रयोगदर्शनात् ऽश्रद्धा वा आपःऽ इति ।
तनुत्वं श्रद्धासारूप्यं गच्छन्त्य आपो देहबीजभूता इत्यतः श्रद्धाशब्दाः स्युः ।
यथा सिंहपराक्रमो नरः सिंहशब्दो भवति ।
श्रद्धापूर्वककर्मसमवायाच्चाप्सु श्रद्धाशब्द उपपद्यते, मञ्चशब्द इव पुरुषेषु ।
श्रद्धाहेतुत्वाच्च श्रद्धाशब्दोपपत्तिः ऽअपो हास्मै श्रद्धां संनमन्ते पुण्याय कर्मणेऽ इति श्रुतेः ॥ ५ ॥
----------------------
फ़्न्: संगानं तमुत्क्रामन्तमित्यादौ ।
अनपः अब्द्यो ऽन्यतः ।
अस्मै यजमानाय ।
संनमन्ते जनयन्ति ।
prathame 'śravaṇād iti cen na tā eva hy upapatteḥ
syādetat /
kathaṃ punaḥ 'pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' (chā. 5.3.3) ityetannirdhārayituṃ pāryate /
yāvatā naiva prathame 'gnāvapāṃ śravaṇamasti /
iha hi dyulokaprabhṛtayaḥ pañcāgnayaḥ pañcānāmāhutīnāmādāratvenādhītāḥ /
teṣāṃ ca pramukhe 'asau vāva loko gautamāgniḥ' (chā. 5.4.1) ityupakramya 'tasminnetasminnagnau devāḥ śraddhāṃ juhvati' (chā. 5.4.2)
iti śraddhā haumyadravyatvenāveditā /
na tatrāpo haumyadravyatayā śrutāḥ /
yadi nāma parjanyādiṣūttareṣu caturṣvagniṣvapāṃ haumyadravyatā parikalpyeta parikalpyatāṃ nāma /
teṣu hotavyatayopāttānāṃ somādīnāmabbahulatvopapatteḥ /
prathame tvagnau śrutāṃ śraddhāṃ parityajyāśrutā āpaḥ parikalpyanta iti sāhasametat /
śraddhā ca nāma pratyayaviśeṣaḥ prasiddhisāmarthyāt /
tasmādayuktaḥ pañcamyāhutāvapāṃ puruṣabhāva iti cet /
naiṣa doṣaḥ /
yatastatrāpi prathame 'gnau tā evāpaḥ śraddhāśabdenābhipreyante /
kutaḥ upapatteḥ /
evaṃhyādimadhyāvasānasaṃgānādanākulametadekavākyamupapadyate /
itarathā punaḥ pañcamyāmāhutāvapāṃ puruṣavacastvaprakāre pṛṣṭe prativacanāvasare prathamāhutisthāne yadyanapo haumyadravyaṃ śraddhāṃ nāmāvatārayettato 'nyathā praśno 'nyathā prativacanamityekavākyatā na syāt /
'iti tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' iti copasaṃharannetadeva darśayati /
śraddhākāryaṃ ca somavṛṣṭyādi sthūlībhavadabbahulaṃ lakṣyate /
sā ca śraddhāyā aptve yuktiḥ /
kāraṇānurūpaṃ hi kāryaṃ bhavati /
naca śraddhākhyaḥ pratyayo manaso jīvasya vā dharmaḥ sandharmiṇo niṣkṛṣya homāyoṣādātuṃ śakyate paśvādibhya iva hṛdayādīnityāpa eva śraddhāśabdā bhaveyuḥ /
śraddhāśabdaścāpsūpapadyate, vaidikaprayogadarśanāt 'śraddhā vā āpaḥ' iti /
tanutvaṃ śraddhāsārūpyaṃ gacchantya āpo dehabījabhūtā ityataḥ śraddhāśabdāḥ syuḥ /
yathā siṃhaparākramo naraḥ siṃhaśabdo bhavati /
śraddhāpūrvakakarmasamavāyāccāpsu śraddhāśabda upapadyate, mañcaśabda iva puruṣeṣu /
śraddhāhetutvācca śraddhāśabdopapattiḥ 'apo hāsmai śraddhāṃ saṃnamante puṇyāya karmaṇe' iti śruteḥ // 5 //
----------------------
FN: saṃgānaṃ tamutkrāmantamityādau /
anapaḥ abdyo 'nyataḥ /
asmai yajamānāya /
saṃnamante janayanti /
Sanskrit only: no published translation is held for this verse.
अश्रुतत्वाद् इति चेन् नेष्टादिकारिणां प्रतीतेः
अथापि स्यात्प्रतिवचनाभ्यां नामापः श्रद्धादिक्रमेण पञ्चम्यामाहुतौ पुरुषाकारं प्रतिपद्येरन् ।
नतु तत्संपरिष्वक्ता जीवा रंहेयुः ।
अश्रुतत्वात् ।
नह्यत्रापामिव जीवानां श्रावयिता कश्चिच्छब्दो ऽस्ति ।
तस्माद्रंहति संपरिष्वक्त इत्ययुक्तमिति चेत् ।
नैष दोषः ।
कुतः - इष्टादिकारिणां प्रतीतेः ।
ऽअथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्तिऽ (छा। ५।१०।६) इत्युपक्रम्येष्टादिकारिणां धूमादिना पितृयाणेन पथा चन्द्रप्राप्तिं कथयति- ऽआकाशाच्चन्द्रमसमेष सोमो राजाऽ (छा। ५।१०।४) इति ।
त एवेहापि प्रतीयन्ते ऽतस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा संभवतिऽ (छा। ५।४।२) इति श्रुतिसामान्यात् ।
तेषां चाग्निहोत्रादर्शपूर्णमासादिकर्मसाधनभूता दधिपयःप्रभृतयो द्रवद्रव्यभूयस्त्वात्प्रत्यक्षमेवापः सन्ति ।
तां आहवनीये हुताः सूक्ष्मा आहुत्यो ऽपूर्वरूपाः सत्यस्तानिष्टादिकारिण आश्रयन्ति ।
तेषां च शरीरं नैधनेन विधानेनान्त्ये ऽग्रावृत्विजो जुह्वति ऽअसौ स्वर्गाय लोकाय स्वाहाऽ इति ।
ततस्ताः श्रद्धापूर्वककर्मसमवायिन्य आहुतिमय्य आपो ऽपूर्वरूपाः सत्यस्तानिष्टादिकारिणो जीवान्परिवेष्टयामुं लोकं फलदानाय नयन्तीति यत्तदत्र जुहोतिनाभिधीयते- ऽश्रद्धां जुह्वतिऽ (बृ। ६।२।९) इति ।
तथाचाग्निहोत्रे षट्प्रश्नीनिर्वचनरूपेण वाक्यशेषेण ऽते वा एते आहुती हुते उत्क्रामतःऽ इत्येवमादिनाग्निहोत्राहुत्योः फलारम्भाय लोकान्तरप्राप्तिः प्रदर्शिता ।
तस्मादाहुतीमयीभिरद्भिः संपरिष्वक्ता जीवा रंहन्ति स्वकर्मफलोपभोगायेति श्लिष्यते ॥ ६ ॥
----------------------
फ़्न्: नैधनेन अन्त्येष्ट्याख्येन ।
असौ स्वर्गाय गच्छत्विति मन्त्रार्थः ।
कथं पुनरिदमिष्टादिकारिणां स्वकर्मफलोपभोगाय रंहणं प्रतिज्ञायते ।
यावता तेषां धूमप्रतीकेन वर्त्मना चन्द्रमसमधिरूढानामन्नभावं दर्शयति- ऽएष सोमो राजा तद्देवानामन्नं ते देवा भक्षयन्तिऽ (छा। ५।१०।४) इति ऽते चन्द्रं प्राप्यान्नं भवन्ति तांस्तत्र देवा यथा सोमं राजानमप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्तिऽ (बृ। ६।२।१६) इति च समानविषयं श्रुत्यन्तरम् ।
नच व्याघ्रादिभिरिव देवैर्भक्ष्यमाणानामुपभोगः संभवतीति ।
अत उत्तरं पठति-
aśrutatvād iti cen neṣṭādikāriṇāṃ pratīteḥ
athāpi syātprativacanābhyāṃ nāmāpaḥ śraddhādikrameṇa pañcamyāmāhutau puruṣākāraṃ pratipadyeran /
natu tatsaṃpariṣvaktā jīvā raṃheyuḥ /
aśrutatvāt /
nahyatrāpāmiva jīvānāṃ śrāvayitā kaścicchabdo 'sti /
tasmādraṃhati saṃpariṣvakta ityayuktamiti cet /
naiṣa doṣaḥ /
kutaḥ - iṣṭādikāriṇāṃ pratīteḥ /
'atha ya ime grāma iṣṭāpūrte dattamityupāsate te dhūmamabhisaṃbhavanti' (chā. 5.10.6) ityupakramyeṣṭādikāriṇāṃ dhūmādinā pitṛyāṇena pathā candraprāptiṃ kathayati- 'ākāśāccandramasameṣa somo rājā' (chā. 5.10.4) iti /
ta evehāpi pratīyante 'tasminnetasminnagnau devāḥ śraddhāṃ juhvati tasyā āhuteḥ somo rājā saṃbhavati' (chā. 5.4.2) iti śrutisāmānyāt /
teṣāṃ cāgnihotrādarśapūrṇamāsādikarmasādhanabhūtā dadhipayaḥprabhṛtayo dravadravyabhūyastvātpratyakṣamevāpaḥ santi /
tāṃ āhavanīye hutāḥ sūkṣmā āhutyo 'pūrvarūpāḥ satyastāniṣṭādikāriṇa āśrayanti /
teṣāṃ ca śarīraṃ naidhanena vidhānenāntye 'grāvṛtvijo juhvati 'asau svargāya lokāya svāhā' iti /
tatastāḥ śraddhāpūrvakakarmasamavāyinya āhutimayya āpo 'pūrvarūpāḥ satyastāniṣṭādikāriṇo jīvānpariveṣṭayāmuṃ lokaṃ phaladānāya nayantīti yattadatra juhotinābhidhīyate- 'śraddhāṃ juhvati' (bṛ. 6.2.9) iti /
tathācāgnihotre ṣaṭpraśnīnirvacanarūpeṇa vākyaśeṣeṇa 'te vā ete āhutī hute utkrāmataḥ' ityevamādināgnihotrāhutyoḥ phalārambhāya lokāntaraprāptiḥ pradarśitā /
tasmādāhutīmayībhiradbhiḥ saṃpariṣvaktā jīvā raṃhanti svakarmaphalopabhogāyeti śliṣyate // 6 //
----------------------
FN: naidhanena antyeṣṭyākhyena /
asau svargāya gacchatviti mantrārthaḥ /
kathaṃ punaridamiṣṭādikāriṇāṃ svakarmaphalopabhogāya raṃhaṇaṃ pratijñāyate /
yāvatā teṣāṃ dhūmapratīkena vartmanā candramasamadhirūḍhānāmannabhāvaṃ darśayati- 'eṣa somo rājā taddevānāmannaṃ te devā bhakṣayanti' (chā. 5.10.4) iti 'te candraṃ prāpyānnaṃ bhavanti tāṃstatra devā yathā somaṃ rājānamapyāyasvāpakṣīyasvetyevamenāṃstatra bhakṣayanti' (bṛ. 6.2.16) iti ca samānaviṣayaṃ śrutyantaram /
naca vyāghrādibhiriva devairbhakṣyamāṇānāmupabhogaḥ saṃbhavatīti /
ata uttaraṃ paṭhati-
Sanskrit only: no published translation is held for this verse.
भाक्तं वानात्मवित्त्वात् तथा हि दर्शयति
वाशब्दश्चोदितदोषव्यावर्तनार्थः ।
भाक्तमेषामन्नत्वं न मुख्यम् ।
मुख्ये ह्यन्नत्वे स्वर्गकामो यजेत इत्येवञ्जातीयकाधिकारश्रुतिरुपपध्येत ।
चन्द्रमण्डले चेदिष्टादिकारिणामुपभोगो न स्यात्किमर्थमधिकारिण इष्टाद्यायासबहुलं कर्म कुर्युः ।
अन्नशब्दश्चोपभोगहेतुत्वसामान्यादन्ने ऽप्युपचर्यमाणो दृश्यते ।
यथा विशो ऽन्नं राज्ञां पशवो ऽन्नं विशामिति ।
तस्मादिष्टस्त्रीपुत्रमित्रभृत्यादिभिरिव गुणभावोपगतैरिष्टादिकारिभिर्यत्सुखविहरणं देवानां तदैवेषां भक्षणमभिप्रेतं न मोदकादिवच्चर्वणं निगरणं वा ।
ऽन ह वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्तिऽ (छा। ३।६।१) इति च देवानां चर्वणादिव्यापारं वारयति ।
तेषां चेष्टादिकारिणां देवान्प्रति गुणभावोपगतानामप्युपभोग उपपद्यते राजोपजीविनामिव परिजनानाम् ।
अनात्मवित्त्वाच्चेष्टादिकारिणां देवोपभोग्यभाव उपपद्यते ।
तथाहि श्रुतिरनात्मविदां देवोपभोग्यतां दर्शयति- ऽअथ यो ऽन्यां देवतामुपास्ते ऽन्यो ऽसावन्यो ऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम्ऽ (बृ। १।४।१०) इति ।
स चास्मिन्नपि लोक इष्टादिभिः कर्मभिः प्रीमन्पशुवद्देवानामुपकरोतीति लोके तदुपजीवी तदादिष्टं फलमुपभुञ्जानः पशुवद्देवानामुपकरोतीति गम्यते ॥
अनात्मवित्त्वात्तथाहि दर्शयतीत्यस्यापरा व्याख्या- अनात्मविदो ह्येते केवलकर्मिणैष्टादिकारिणो न ज्ञानकर्मसमुच्चयानुष्ठायिनः ।
पञ्चाग्निविद्यामिहात्मविद्येत्युपचरन्ति प्रकरणात् ।
पञ्चाग्निविज्ञानविहीनत्वाच्चेदमिष्टादिकारिणां गुणवादेनान्नत्वमुद्भाव्यते पञ्चाग्निविज्ञानप्रशंसायै ।
पञ्चाग्निविद्या हीह विधित्सिता ।
वाक्यतात्पर्यावगमात् ।
तथाहि श्रुत्यन्तरं चन्द्रमण्डले भोगसद्भावं दर्शयति- ऽस सोमलोके विभूतिमनुभूय पुनरावर्ततेऽ (प्र। ५।४) इति ।
तथान्यदपि श्रुत्यन्तरम् ऽअथ ये शतं पितृणां जितलोलोकानामानन्दाः स एकः कर्मदेवनामानन्दो ये कर्मणा देवत्वमभिसंपद्यतेऽ (बृ। ४।३।३३) इतीष्टादिकारिणां देवैः संवसतां भोगप्राप्तिं दर्शयति ।
एवं भाक्तत्वादन्नभाववचनस्येष्टादिकारिणो ऽत्र जीवारंहन्तीति प्रतीयते ।
तस्माद्रंहति संपरिष्वक्त इति युक्तमेवोक्तम् ॥ ७ ॥
----------------------
फ़्न्: अधिक्रियते पुरुषो विधिना संबध्यते ऽनेनेत्यधिकारः फलकामना ।
यथा पशुर्भोग्य एवमज्ञः न भेदधीमान्देवानां भोग्य इत्यर्थः ।
२ कृतात्ययाधिकरणम् । सू। ८-११
bhāktaṃ vānātmavittvāt tathā hi darśayati
vāśabdaścoditadoṣavyāvartanārthaḥ /
bhāktameṣāmannatvaṃ na mukhyam /
mukhye hyannatve svargakāmo yajeta ityevañjātīyakādhikāraśrutirupapadhyeta /
candramaṇḍale cediṣṭādikāriṇāmupabhogo na syātkimarthamadhikāriṇa iṣṭādyāyāsabahulaṃ karma kuryuḥ /
annaśabdaścopabhogahetutvasāmānyādanne 'pyupacaryamāṇo dṛśyate /
yathā viśo 'nnaṃ rājñāṃ paśavo 'nnaṃ viśāmiti /
tasmādiṣṭastrīputramitrabhṛtyādibhiriva guṇabhāvopagatairiṣṭādikāribhiryatsukhaviharaṇaṃ devānāṃ tadaiveṣāṃ bhakṣaṇamabhipretaṃ na modakādivaccarvaṇaṃ nigaraṇaṃ vā /
'na ha vai devā aśnanti na pibantyetadevāmṛtaṃ dṛṣṭvā tṛpyanti' (chā. 3.6.1) iti ca devānāṃ carvaṇādivyāpāraṃ vārayati /
teṣāṃ ceṣṭādikāriṇāṃ devānprati guṇabhāvopagatānāmapyupabhoga upapadyate rājopajīvināmiva parijanānām /
anātmavittvācceṣṭādikāriṇāṃ devopabhogyabhāva upapadyate /
tathāhi śrutiranātmavidāṃ devopabhogyatāṃ darśayati- 'atha yo 'nyāṃ devatāmupāste 'nyo 'sāvanyo 'hamasmīti na sa veda yathā paśurevaṃ sa devānām' (bṛ. 1.4.10) iti /
sa cāsminnapi loka iṣṭādibhiḥ karmabhiḥ prīmanpaśuvaddevānāmupakarotīti loke tadupajīvī tadādiṣṭaṃ phalamupabhuñjānaḥ paśuvaddevānāmupakarotīti gamyate //
anātmavittvāttathāhi darśayatītyasyāparā vyākhyā- anātmavido hyete kevalakarmiṇaiṣṭādikāriṇo na jñānakarmasamuccayānuṣṭhāyinaḥ /
pañcāgnividyāmihātmavidyetyupacaranti prakaraṇāt /
pañcāgnivijñānavihīnatvāccedamiṣṭādikāriṇāṃ guṇavādenānnatvamudbhāvyate pañcāgnivijñānapraśaṃsāyai /
pañcāgnividyā hīha vidhitsitā /
vākyatātparyāvagamāt /
tathāhi śrutyantaraṃ candramaṇḍale bhogasadbhāvaṃ darśayati- 'sa somaloke vibhūtimanubhūya punarāvartate' (pra. 5.4) iti /
tathānyadapi śrutyantaram 'atha ye śataṃ pitṛṇāṃ jitalolokānāmānandāḥ sa ekaḥ karmadevanāmānando ye karmaṇā devatvamabhisaṃpadyate' (bṛ. 4.3.33) itīṣṭādikāriṇāṃ devaiḥ saṃvasatāṃ bhogaprāptiṃ darśayati /
evaṃ bhāktatvādannabhāvavacanasyeṣṭādikāriṇo 'tra jīvāraṃhantīti pratīyate /
tasmādraṃhati saṃpariṣvakta iti yuktamevoktam // 7 //
----------------------
FN: adhikriyate puruṣo vidhinā saṃbadhyate 'nenetyadhikāraḥ phalakāmanā /
yathā paśurbhogya evamajñaḥ na bhedadhīmāndevānāṃ bhogya ityarthaḥ /
2 kṛtātyayādhikaraṇam / sū. 8-11
Sanskrit only: no published translation is held for this verse.
कृतात्यये ऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं च
इष्टादिकारिणां धूमादिना वर्त्मना चन्द्रमण्डलमधिरूढानां भुक्तभोगानां ततः प्रत्यवरोह आम्नायते- ऽतस्मिन्यावत्संपातमुषित्वाथैतमेवाध्वां पुनर्निवर्तन्ते तथेतम्ऽ (छा। ५।१०।५) इत्यारभ्य यावद्रमणीयचरणा ब्राह्मणादियोनिमापद्यन्ते कपूयचरणाः श्वादियोनिमिति ।
तत्रेदं विचार्यते- किं निरनुशया भुक्तकृत्स्नकर्माणो ऽवरोहन्त्याहोस्वित्सानुशया इति ।
किं तावत्प्राप्तम् ।
निरनुशया इति ।
कुतः - यावत्संपातमिति विशेषणात् ।
संपातशब्देनात्र कर्माशय उच्यते- संपतन्त्यनेनास्माल्लोकादमुं लोकं फलोपभोगायेति ।
यावत्संपातमुषित्वेति च कृत्स्नस्य तस्य कृतस्य तत्रैव भुक्ततां दर्शयति ।
तेषां यदा तत्पर्यवेतिऽ (बृ। ६।२।१६) इति च श्रुत्यन्तरेणैव एवार्थः प्रदर्श्यते ।
स्यादेतत् ।
यावदमुष्मिंल्लोक उपभोक्तव्यं कर्म तावदुपभुङ् क्त इति कल्पयिष्यामीति ।
नैवं कल्पयितुं शक्यते यत्किञ्चेत्यन्यत्र परामर्शात् ।
प्राप्यन्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् ।
तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणे (बृ। ४।४।६) इति ह्यपरा श्रुतिर्यत्किञ्चेत्यविशेषपरामर्शेन कृत्स्नस्येह कृतस्य कर्मणस्तत्र क्षयितां दर्शयति ।
अपिच प्रायणमनारब्धफलस्य कर्मणो ऽभिव्यञ्जकम् ।
प्राक्प्रायणादारब्धफलेन कर्मणा प्रतिबद्धस्याभिव्यक्त्यनुपपत्तेः ।
तच्चाविशेषाद्यावत्किञ्चिदनारब्धफलं तस्य सर्वस्याभिव्यञ्जकम् ।
नहि साधारणे निमित्ते नैमित्तिकमसाधारणं भवितुमर्हति ।
न ह्यविशिष्टे प्रदीपसंनिधौ धटो ऽभिव्यज्यते न पट इत्युपपद्यते ।
तस्मान्निरनुशया अवरोहन्तीत्येवं प्राप्ते ब्रूमः कृतात्यये ऽनुशयवानिति ।
येन कर्मवृन्देन चन्द्रमसमारूढाः फलोपभोगाय तस्मिन्नुपभोगेन क्षीयते तेषां यदंमयं शरीरं चन्द्रमस्युपभोगायारब्धं तदुपभोगक्षयदर्शनशोकाग्निसंपर्कादिव च घृतकाठिन्यम् ।
ततः कृतात्यये कृतस्येष्टादेः कर्मणः फलोपभोगेनोपक्षये सति सानुशया एवेममवरोहन्ति ।
केन हेतुना ।
दृष्टस्मृतिभ्यामित्याह ।
तथाहि प्रत्यक्षा श्रुतिः सानुशयानामवरोहं दर्शयति- ऽतद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वाथ यैह क पूयचरणां अभ्याशो ह यत्ते कपूयां योनिमापद्येरञ्श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वाऽ (छा। ५।१०।७) इति ।
चरणशब्देनानुशयः सूच्यत इति वर्णयिष्यति ।
दृष्टश्चायं जन्मनैव प्रतिपण्युच्चावचरूप उपभोगः प्रविभज्यमान ।
आकस्मिकत्वासंभवादनुशयसद्भावं सूचयति, अभ्युदयप्रत्यवाययोः सुकृतदुष्कृतहेतुत्वस्य सामान्यतः शास्त्रेणावगमित्वात् ।
स्मृतिरपि ऽवर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्रुतवृत्तसुखमेधसो जन्म प्रतिपद्यन्तेऽ इति सानुशयानामेवावरोहं दर्शयति - कः पुनरनुशयो नामेति ।
केचित्तावदाहुः - स्वर्गार्थस्य कर्मणो भुक्तफलस्यावशेषः कश्चिदनुशयो नाम भाण्डानुसारिस्नेहवत् ।
यथाहि स्नेहभाण्डं रिच्यमानं न सर्वात्मना रिच्यते भाण्डानुसार्येव कश्चित्स्नेहशेषो ऽवतिष्ठते तथानुशयो ऽपीति ।
ननु कार्यविरोधित्वाददृष्टस्य न भुक्तफलस्यावशेषावस्थानं न्याय्यम् ।
नायं दोषः ।
नहि सर्वात्मना भुक्तफलत्वं कर्मणः प्रतिजानीमहे ।
ननु निरवशेषकर्मफलोपभोगाय चन्द्रमण्डलमारूढः ।
बाढम् ।
तथापि स्वल्पकर्मावशेषमात्रेण तत्रावस्थातुं न लभ्यते ।
यथा किल कश्चित्सेवकः सकलैः सेवोपकरणै राजकुलमुपसृपश्चिरप्रवासात्परिक्षीणवहूपकरणश्छत्रपादुकादिमात्रावशेषो न राजकुले ऽवस्थातुं शक्नोति ।
एवमनुशयमात्रपरिग्रहो न चन्द्रमण्डलो ऽवस्थातुं शक्नोतीति ।
नचैतद्युक्तमिव ।
नहि स्वर्गस्थस्य कर्मणो भुक्तफलस्यावशेषानुवृत्तिरुपपद्यते कार्यविरोधित्वादित्युक्तम् ।
नन्वेतदयुक्तम् ।
न स्वर्गफलस्य कर्मणो निखिलस्य भुक्तफलत्वं भविष्यतीति ।
तदेतदपेशलम् ।
स्वर्गार्थं किल कर्म स्वर्गस्थस्यैव स्वर्गफलं निखिलं न जनयति स्वग्रच्युतस्यापि कञ्चित्फललेशं जनयतीति ।
न शब्दप्रमाणकामानीदृशी कल्पनावकल्पते ।
स्नेहभाण्डे तु स्नेहलेशानुवृत्तिर्दृष्टत्वादुपपद्यते ।
तथा सेवकस्योपकरणलेशानुवृत्तिश्च दृश्यते ।
नत्विह तथा स्वर्गफलस्य कर्मणो लेशानुवृत्तिर्दृश्यते नापि कल्पयितुं शक्यते स्वर्गफलत्वशास्त्रविरोधात् ।
अवश्यं चैतदेवं विज्ञेयम् ।
न स्वर्गफलस्येष्टादेः कर्मणो भाण्डानुसारिस्नेहवदेकदेशो ऽनुवर्तमानो ऽनुशय इति ।
यदिहि येन सुकृतेन कर्मणेष्टादिना स्वर्गमन्वभूवंस्तस्यैव कश्चिदेकदेशो ऽनुशयः कल्प्येत ततो रमणीय एवैको ऽनुशयः स्यान्न विपरीतः ।
तत्रेयमनुशयविभागश्रुतिरुपरुध्येत- ऽतद्य इह रमणीयचरणा, अथ कपूयचरणाःऽ (छा। ५।१०।७) इति ।
तस्मादामुष्मिकफले कर्मजात उपभुक्ते ऽवशिष्टमैहिकफलं कर्मान्तरजातमनुशयस्तद्वन्तऽवरोहन्तीति ।
यदुक्तं यत्किञ्चेत्यविशेषपरामर्शात्सर्वस्येह कृतस्य कर्मणः फलोपभोगेनान्तं प्राप्य निरनुशया अवरोहन्तीति ।
नैतदेवम् ।
अनुशयसद्भावस्यावगमितत्वात् ।
यत्किञ्चिदिह कृतमामुष्मिकफलं कर्मारब्धभोगं तत्सर्वं फलोपभोगेन क्षपयित्वेति गम्यते ।
यदप्युक्तं प्रायणमविशेषादनारब्धफलं कृत्स्नमेव कर्माभिव्यनक्ति तत्र केनचित्कर्मणामुष्मिंल्लोके फलमारभ्यते केनचिदस्मिन्नित्यत्वं प्रत्युक्तम् ।
अपिचकेन हेतुना प्रायणमनारब्धफलस्य कर्मणो ऽभिव्यञ्जकं प्रतिज्ञायत इति वक्तव्यम् ।
यथैव तर्हि प्राक्प्रयाणादारब्धफलेन कर्मणा प्रतिबद्धस्येतरस्य वृत्त्युद्भवानुपपत्तिरित्येवं प्रायणकाले ऽपि विरुद्धफलस्यानेकस्य कर्मणो युगपत्फलारम्भासंभवाद्बलवता प्रतिबद्धस्य दुर्बलस्य वृत्त्युद्धवानुपपतितिरिति ।
नह्यनारब्धफलत्वसामान्येन जात्यन्तरोपभोग्यफलमप्यनेकं कर्मैकस्मिन्प्रायणे युगपदभिव्यक्तं सदेकां जातिमारभत इति शक्यं वक्तुं, प्रतिनियतफलत्वविरोधात् ।
नापि कस्यचित्कर्मणः प्रायणे ऽभिव्यक्तिः कस्यचिदुच्छेद इति शक्यते वक्तुम् ।
ऐकान्तिकफलत्वविरोधात् ।
नहि प्रायश्चित्तादिभिर्हेतुभिर्विना कर्मणामुच्छेदः संभाव्यते ।
स्मृतिरपि विरुद्धफलेन कर्मणा प्रतिबद्धस्य कर्मान्तरस्य चिरमवस्थानं दर्शयति- ऽकदाचित्सुकृतं कर्म कूचस्थमिह तिष्ठति ॥
मज्जमानस्य संसारे यावद्दुःखादिमुच्यते इत्येवञ्जातीयका ।
यदि च कृत्स्नमनारब्धफलं कर्मैकस्मिन्प्रायणे ऽभिव्यक्तं सदेकां जातिमारभेत ततः स्वर्गनरकतिर्यग्योनिष्वधिकारानवगमाद्धर्माधर्मानुत्पत्तौ निमित्ताभावान्नोत्तरा जातिरुपपद्येत ।
ब्रह्महत्यादीनां चैकैकस्य कर्मणो ऽनेकजन्मनिमित्तत्वं स्मर्यमाणमुपरुध्येत ।
नच धर्माधर्मयोः स्वरूपफलसाधनादिसमधिगमे शास्त्रादतिरिक्तं कारणं शक्यं संभावयतुम् ।
नच दृष्टफलस्य कर्मणः कारीर्यादेः प्रायणमभिव्यञ्जकं संभवतीत्यव्यापिकापीयं प्रायणस्याभिव्यञ्जकत्वकल्पना ।
प्रदीपोपन्यासो ऽपि कर्मबलाबलप्रदर्शनेनैव प्रतिनीतः ।
स्थूलसूक्ष्मरूपाभिव्क्त्यनभिव्यक्तिवच्चेदं द्रष्टव्यम् ।
यथाहि प्रदीपः समाने ऽपि संनिधाने स्थूलं रूपमभिव्यनक्ति न सूक्ष्मम् ।
एवं प्रायणं समाने ऽप्यनारब्धफलस्य कर्मजातस्य प्राप्तावसरत्वे बलवतः कर्मणो वृत्तिमुद्भावयति न दुर्बलस्येति ।
तस्माच्छ्रुतिस्मृतिन्यायविरोधादश्लिष्टो ऽयमशेषकर्माभिव्यक्त्यभ्युपगमः ।
शेषकर्मसद्भावे ऽनिर्मोक्षप्रसङ्गः इत्ययमप्यस्थाने संभ्रमः ।
सम्यग्दर्शनादशेषकर्मक्षयश्रुतेः ।
तस्मात्स्थितमेतदेवानुशयवन्तो ऽवरोहन्तीति ।
ते चावरोहन्तो यथेतमनेवं चावरोहन्ति ।
यथेतमिति यथागतमित्यर्थः ।
अनेवमिति तद्विपर्ययेणेत्यर्थः ।
धूमाकाशयोः पितृयाणे ऽध्वन्युपात्तयोरवरोहे संकीर्तनाद्यथेतंशब्दाच्च यथागतमिति प्रतीयते ।
रात्र्याद्यसंकीर्तनादभ्राद्युपसंख्यानाच्च विपर्ययो ऽपि प्रतीयते ॥ ८ ॥
----------------------
फ़्न्: अनुशयः कर्म ।
तत् कर्म ।
प्रत्यवैति परिक्षीणं भवति ।
अभिव्यक्तिः फलोन्मुखता ।
तत् तत्रावरोहतां जीवानां मध्ये इह कर्मभूमौ रमणीयचरणाः पुण्यकर्मणः इति यत् तत् आभ्याशोह अवश्यं हीत्यर्थः ।
कपूयं पापम् ।
रिच्यमानं वियुज्यमानम् ।
kṛtātyaye 'nuśayavān dṛṣṭasmṛtibhyāṃ yathetamanevaṃ ca
iṣṭādikāriṇāṃ dhūmādinā vartmanā candramaṇḍalamadhirūḍhānāṃ bhuktabhogānāṃ tataḥ pratyavaroha āmnāyate- 'tasminyāvatsaṃpātamuṣitvāthaitamevādhvāṃ punarnivartante tathetam' (chā. 5.10.5) ityārabhya yāvadramaṇīyacaraṇā brāhmaṇādiyonimāpadyante kapūyacaraṇāḥ śvādiyonimiti /
tatredaṃ vicāryate- kiṃ niranuśayā bhuktakṛtsnakarmāṇo 'varohantyāhosvitsānuśayā iti /
kiṃ tāvatprāptam /
niranuśayā iti /
kutaḥ - yāvatsaṃpātamiti viśeṣaṇāt /
saṃpātaśabdenātra karmāśaya ucyate- saṃpatantyanenāsmāllokādamuṃ lokaṃ phalopabhogāyeti /
yāvatsaṃpātamuṣitveti ca kṛtsnasya tasya kṛtasya tatraiva bhuktatāṃ darśayati /
teṣāṃ yadā tatparyaveti' (bṛ. 6.2.16) iti ca śrutyantareṇaiva evārthaḥ pradarśyate /
syādetat /
yāvadamuṣmiṃlloka upabhoktavyaṃ karma tāvadupabhuṅ kta iti kalpayiṣyāmīti /
naivaṃ kalpayituṃ śakyate yatkiñcetyanyatra parāmarśāt /
prāpyantaṃ karmaṇastasya yatkiñceha karotyayam /
tasmāllokātpunaraityasmai lokāya karmaṇe (bṛ. 4.4.6) iti hyaparā śrutiryatkiñcetyaviśeṣaparāmarśena kṛtsnasyeha kṛtasya karmaṇastatra kṣayitāṃ darśayati /
apica prāyaṇamanārabdhaphalasya karmaṇo 'bhivyañjakam /
prākprāyaṇādārabdhaphalena karmaṇā pratibaddhasyābhivyaktyanupapatteḥ /
taccāviśeṣādyāvatkiñcidanārabdhaphalaṃ tasya sarvasyābhivyañjakam /
nahi sādhāraṇe nimitte naimittikamasādhāraṇaṃ bhavitumarhati /
na hyaviśiṣṭe pradīpasaṃnidhau dhaṭo 'bhivyajyate na paṭa ityupapadyate /
tasmānniranuśayā avarohantītyevaṃ prāpte brūmaḥ kṛtātyaye 'nuśayavāniti /
yena karmavṛndena candramasamārūḍhāḥ phalopabhogāya tasminnupabhogena kṣīyate teṣāṃ yadaṃmayaṃ śarīraṃ candramasyupabhogāyārabdhaṃ tadupabhogakṣayadarśanaśokāgnisaṃparkādiva ca ghṛtakāṭhinyam /
tataḥ kṛtātyaye kṛtasyeṣṭādeḥ karmaṇaḥ phalopabhogenopakṣaye sati sānuśayā evemamavarohanti /
kena hetunā /
dṛṣṭasmṛtibhyāmityāha /
tathāhi pratyakṣā śrutiḥ sānuśayānāmavarohaṃ darśayati- 'tadya iha ramaṇīyacaraṇā abhyāśo ha yatte ramaṇīyāṃ yonimāpadyeranbrāhmaṇayoniṃ vā kṣatriyayoniṃ vā vaiśyayoniṃ vātha yaiha ka pūyacaraṇāṃ abhyāśo ha yatte kapūyāṃ yonimāpadyerañśvayoniṃ vā sūkarayoniṃ vā caṇḍālayoniṃ vā' (chā. 5.10.7) iti /
caraṇaśabdenānuśayaḥ sūcyata iti varṇayiṣyati /
dṛṣṭaścāyaṃ janmanaiva pratipaṇyuccāvacarūpa upabhogaḥ pravibhajyamāna /
ākasmikatvāsaṃbhavādanuśayasadbhāvaṃ sūcayati, abhyudayapratyavāyayoḥ sukṛtaduṣkṛtahetutvasya sāmānyataḥ śāstreṇāvagamitvāt /
smṛtirapi 'varṇā āśramāśca svakarmaniṣṭhāḥ pretya karmaphalamanubhūya tataḥ śeṣeṇa viśiṣṭadeśajātikularūpāyuḥśrutavṛttasukhamedhaso janma pratipadyante' iti sānuśayānāmevāvarohaṃ darśayati - kaḥ punaranuśayo nāmeti /
kecittāvadāhuḥ - svargārthasya karmaṇo bhuktaphalasyāvaśeṣaḥ kaścidanuśayo nāma bhāṇḍānusārisnehavat /
yathāhi snehabhāṇḍaṃ ricyamānaṃ na sarvātmanā ricyate bhāṇḍānusāryeva kaścitsnehaśeṣo 'vatiṣṭhate tathānuśayo 'pīti /
nanu kāryavirodhitvādadṛṣṭasya na bhuktaphalasyāvaśeṣāvasthānaṃ nyāyyam /
nāyaṃ doṣaḥ /
nahi sarvātmanā bhuktaphalatvaṃ karmaṇaḥ pratijānīmahe /
nanu niravaśeṣakarmaphalopabhogāya candramaṇḍalamārūḍhaḥ /
bāḍham /
tathāpi svalpakarmāvaśeṣamātreṇa tatrāvasthātuṃ na labhyate /
yathā kila kaścitsevakaḥ sakalaiḥ sevopakaraṇai rājakulamupasṛpaścirapravāsātparikṣīṇavahūpakaraṇaśchatrapādukādimātrāvaśeṣo na rājakule 'vasthātuṃ śaknoti /
evamanuśayamātraparigraho na candramaṇḍalo 'vasthātuṃ śaknotīti /
nacaitadyuktamiva /
nahi svargasthasya karmaṇo bhuktaphalasyāvaśeṣānuvṛttirupapadyate kāryavirodhitvādityuktam /
nanvetadayuktam /
na svargaphalasya karmaṇo nikhilasya bhuktaphalatvaṃ bhaviṣyatīti /
tadetadapeśalam /
svargārthaṃ kila karma svargasthasyaiva svargaphalaṃ nikhilaṃ na janayati svagracyutasyāpi kañcitphalaleśaṃ janayatīti /
na śabdapramāṇakāmānīdṛśī kalpanāvakalpate /
snehabhāṇḍe tu snehaleśānuvṛttirdṛṣṭatvādupapadyate /
tathā sevakasyopakaraṇaleśānuvṛttiśca dṛśyate /
natviha tathā svargaphalasya karmaṇo leśānuvṛttirdṛśyate nāpi kalpayituṃ śakyate svargaphalatvaśāstravirodhāt /
avaśyaṃ caitadevaṃ vijñeyam /
na svargaphalasyeṣṭādeḥ karmaṇo bhāṇḍānusārisnehavadekadeśo 'nuvartamāno 'nuśaya iti /
yadihi yena sukṛtena karmaṇeṣṭādinā svargamanvabhūvaṃstasyaiva kaścidekadeśo 'nuśayaḥ kalpyeta tato ramaṇīya evaiko 'nuśayaḥ syānna viparītaḥ /
tatreyamanuśayavibhāgaśrutiruparudhyeta- 'tadya iha ramaṇīyacaraṇā, atha kapūyacaraṇāḥ' (chā. 5.10.7) iti /
tasmādāmuṣmikaphale karmajāta upabhukte 'vaśiṣṭamaihikaphalaṃ karmāntarajātamanuśayastadvanta'varohantīti /
yaduktaṃ yatkiñcetyaviśeṣaparāmarśātsarvasyeha kṛtasya karmaṇaḥ phalopabhogenāntaṃ prāpya niranuśayā avarohantīti /
naitadevam /
anuśayasadbhāvasyāvagamitatvāt /
yatkiñcidiha kṛtamāmuṣmikaphalaṃ karmārabdhabhogaṃ tatsarvaṃ phalopabhogena kṣapayitveti gamyate /
yadapyuktaṃ prāyaṇamaviśeṣādanārabdhaphalaṃ kṛtsnameva karmābhivyanakti tatra kenacitkarmaṇāmuṣmiṃlloke phalamārabhyate kenacidasminnityatvaṃ pratyuktam /
apicakena hetunā prāyaṇamanārabdhaphalasya karmaṇo 'bhivyañjakaṃ pratijñāyata iti vaktavyam /
yathaiva tarhi prākprayāṇādārabdhaphalena karmaṇā pratibaddhasyetarasya vṛttyudbhavānupapattirityevaṃ prāyaṇakāle 'pi viruddhaphalasyānekasya karmaṇo yugapatphalārambhāsaṃbhavādbalavatā pratibaddhasya durbalasya vṛttyuddhavānupapatitiriti /
nahyanārabdhaphalatvasāmānyena jātyantaropabhogyaphalamapyanekaṃ karmaikasminprāyaṇe yugapadabhivyaktaṃ sadekāṃ jātimārabhata iti śakyaṃ vaktuṃ, pratiniyataphalatvavirodhāt /
nāpi kasyacitkarmaṇaḥ prāyaṇe 'bhivyaktiḥ kasyaciduccheda iti śakyate vaktum /
aikāntikaphalatvavirodhāt /
nahi prāyaścittādibhirhetubhirvinā karmaṇāmucchedaḥ saṃbhāvyate /
smṛtirapi viruddhaphalena karmaṇā pratibaddhasya karmāntarasya ciramavasthānaṃ darśayati- 'kadācitsukṛtaṃ karma kūcasthamiha tiṣṭhati //
majjamānasya saṃsāre yāvadduḥkhādimucyate ityevañjātīyakā /
yadi ca kṛtsnamanārabdhaphalaṃ karmaikasminprāyaṇe 'bhivyaktaṃ sadekāṃ jātimārabheta tataḥ svarganarakatiryagyoniṣvadhikārānavagamāddharmādharmānutpattau nimittābhāvānnottarā jātirupapadyeta /
brahmahatyādīnāṃ caikaikasya karmaṇo 'nekajanmanimittatvaṃ smaryamāṇamuparudhyeta /
naca dharmādharmayoḥ svarūpaphalasādhanādisamadhigame śāstrādatiriktaṃ kāraṇaṃ śakyaṃ saṃbhāvayatum /
naca dṛṣṭaphalasya karmaṇaḥ kārīryādeḥ prāyaṇamabhivyañjakaṃ saṃbhavatītyavyāpikāpīyaṃ prāyaṇasyābhivyañjakatvakalpanā /
pradīpopanyāso 'pi karmabalābalapradarśanenaiva pratinītaḥ /
sthūlasūkṣmarūpābhivktyanabhivyaktivaccedaṃ draṣṭavyam /
yathāhi pradīpaḥ samāne 'pi saṃnidhāne sthūlaṃ rūpamabhivyanakti na sūkṣmam /
evaṃ prāyaṇaṃ samāne 'pyanārabdhaphalasya karmajātasya prāptāvasaratve balavataḥ karmaṇo vṛttimudbhāvayati na durbalasyeti /
tasmācchrutismṛtinyāyavirodhādaśliṣṭo 'yamaśeṣakarmābhivyaktyabhyupagamaḥ /
śeṣakarmasadbhāve 'nirmokṣaprasaṅgaḥ ityayamapyasthāne saṃbhramaḥ /
samyagdarśanādaśeṣakarmakṣayaśruteḥ /
tasmātsthitametadevānuśayavanto 'varohantīti /
te cāvarohanto yathetamanevaṃ cāvarohanti /
yathetamiti yathāgatamityarthaḥ /
anevamiti tadviparyayeṇetyarthaḥ /
dhūmākāśayoḥ pitṛyāṇe 'dhvanyupāttayoravarohe saṃkīrtanādyathetaṃśabdācca yathāgatamiti pratīyate /
rātryādyasaṃkīrtanādabhrādyupasaṃkhyānācca viparyayo 'pi pratīyate // 8 //
----------------------
FN: anuśayaḥ karma /
tat karma /
pratyavaiti parikṣīṇaṃ bhavati /
abhivyaktiḥ phalonmukhatā /
tat tatrāvarohatāṃ jīvānāṃ madhye iha karmabhūmau ramaṇīyacaraṇāḥ puṇyakarmaṇaḥ iti yat tat ābhyāśoha avaśyaṃ hītyarthaḥ /
kapūyaṃ pāpam /
ricyamānaṃ viyujyamānam /
Sanskrit only: no published translation is held for this verse.
चरणाद् इति चेन् नोपलक्षणार्थेति कार्ष्णाजिनिः
अतापि स्यात् ।
या श्रुतिरनुशयसद्भावप्रतिपादनायोदाहृता- ऽतद्य इह रमणीयचरणाःऽ (छा। ५।१०।७) इति ।
सा खलु चरणाद्योन्यापत्तिं दर्शयति नानुशयात् ।
अन्यच्चरणमन्यो ऽनुशयः ।
चरणं चारित्रमाचारः शीलमित्यनर्थान्तरम् ।
अनुशयस्तु भुक्तफलात्कर्मणो ऽतिरिक्तं कर्माभिप्रेतम् ।
श्रुतिश्च कर्माचरणे भेदेन व्यपदिशति- ऽयथाकारी यथाचारी तथा भवतिऽ (बृ। ४।४।५) इति, ऽयान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि, यान्यस्माकं सुचरितानि तानि त्वयोपस्यानिऽ (तै। १।११।२) इति च ।
तस्माच्चरणाद्योन्यापत्तिश्रुतेर्नानुशयसिद्धिरितिचेत् ।
नैष दोषः ।
यतो ऽनुशयोपलक्षणार्थैवैषा चरणश्रुतिरिति कार्ष्णाजिनिराचार्यो मन्यते ॥ ९ ॥
caraṇād iti cen nopalakṣaṇārtheti kārṣṇājiniḥ
atāpi syāt /
yā śrutiranuśayasadbhāvapratipādanāyodāhṛtā- 'tadya iha ramaṇīyacaraṇāḥ' (chā. 5.10.7) iti /
sā khalu caraṇādyonyāpattiṃ darśayati nānuśayāt /
anyaccaraṇamanyo 'nuśayaḥ /
caraṇaṃ cāritramācāraḥ śīlamityanarthāntaram /
anuśayastu bhuktaphalātkarmaṇo 'tiriktaṃ karmābhipretam /
śrutiśca karmācaraṇe bhedena vyapadiśati- 'yathākārī yathācārī tathā bhavati' (bṛ. 4.4.5) iti, 'yānyanavadyāni karmāṇi tāni sevitavyāni no itarāṇi, yānyasmākaṃ sucaritāni tāni tvayopasyāni' (tai. 1.11.2) iti ca /
tasmāccaraṇādyonyāpattiśruternānuśayasiddhiriticet /
naiṣa doṣaḥ /
yato 'nuśayopalakṣaṇārthaivaiṣā caraṇaśrutiriti kārṣṇājinirācāryo manyate // 9 //
Sanskrit only: no published translation is held for this verse.
आनर्थक्यम् इति चेन् न तदपेक्षत्वात्
स्यादेतत् ।
कस्मात्पुनश्चरणशब्देन श्रौतं शीलं विहाय लाक्षणिको ऽनुशयः प्रत्याय्यते ।
ननु शीलस्यैव श्रौतस्य विहितप्रतिष्द्धस्य साध्वसाधुरूपस्य शुभाशुभयोन्यापत्तिः फलं भविष्यति ।
अवश्यं च शीलस्यापि किञ्चित्फलमभ्युपगन्तव्यम् ।
अन्यथा ह्यानर्थक्यमेव प्रसज्यतेति चेत् ।
नैष दोषः ।
कुतः - तदपेक्षितत्वात् ।
इष्टादि हि कर्मजातं चरणापेक्षम् ।
नहि सदाचारहीनः कश्चिदधिकृतः स्यात्- ऽआचारहीनं न पुनन्ति वेदाःऽ इत्यादिस्मृतिभ्यः पुरुषार्थत्वे ऽप्याचारस्य नानर्थक्यम् ।
इष्टादौ हि कर्मजाते फलमारभमाणे तदपेक्ष एवाचारस्तत्रैव कञ्चिदतिशयमारप्स्यते ।
कर्म च सर्वार्थकारीति श्रुतिस्मृतिप्रसिद्धिः ।
तस्मात्कर्मैव शीलोपलक्षितमनुशयभूतं योन्यापत्तौ कारणमिति कार्ष्णाजिनेर्मतम् ।
नहि कर्मणि संभवति शीलाद्योन्यापत्तिर्युक्ता ।
नहि पद्भ्यां पलायितुं पारयमाणो जानुभ्यां रंहितुमर्हतीति ॥ १० ॥
ānarthakyam iti cen na tadapekṣatvāt
syādetat /
kasmātpunaścaraṇaśabdena śrautaṃ śīlaṃ vihāya lākṣaṇiko 'nuśayaḥ pratyāyyate /
nanu śīlasyaiva śrautasya vihitapratiṣddhasya sādhvasādhurūpasya śubhāśubhayonyāpattiḥ phalaṃ bhaviṣyati /
avaśyaṃ ca śīlasyāpi kiñcitphalamabhyupagantavyam /
anyathā hyānarthakyameva prasajyateti cet /
naiṣa doṣaḥ /
kutaḥ - tadapekṣitatvāt /
iṣṭādi hi karmajātaṃ caraṇāpekṣam /
nahi sadācārahīnaḥ kaścidadhikṛtaḥ syāt- 'ācārahīnaṃ na punanti vedāḥ' ityādismṛtibhyaḥ puruṣārthatve 'pyācārasya nānarthakyam /
iṣṭādau hi karmajāte phalamārabhamāṇe tadapekṣa evācārastatraiva kañcidatiśayamārapsyate /
karma ca sarvārthakārīti śrutismṛtiprasiddhiḥ /
tasmātkarmaiva śīlopalakṣitamanuśayabhūtaṃ yonyāpattau kāraṇamiti kārṣṇājinermatam /
nahi karmaṇi saṃbhavati śīlādyonyāpattiryuktā /
nahi padbhyāṃ palāyituṃ pārayamāṇo jānubhyāṃ raṃhitumarhatīti // 10 //
Sanskrit only: no published translation is held for this verse.
सुकृतदुष्कृते एवेति तु बादरिः
बादरिस्त्वाचार्यः सुकृतदुष्कृते एव चरणशब्देन प्रत्याय्येते इति मन्यते ।
चरणमनुष्ठानं कर्मेत्यनर्थान्तरम् ।
तथाहि- अविशेषेण कर्ममात्रे चरतिः प्रयुज्यमानो दृश्यते ।
यो हीष्टादिलक्षणं पुण्यं कर्म करोति तं लौकिका आचक्षते धर्मं चरत्येष महात्मेति ।
आचारो ऽपि च धर्मविशेष एव ।
भेदव्यपदेशस्तु कर्मचरणयोर्बाह्मणपरिव्राजकन्यायेनाप्युपपद्यते ।
तस्माद्रमणीयचरणाः प्रशस्तकर्मणाः कपूयचरणा निन्दितकर्माण इति निर्णयः ॥ ११ ॥
----------------------
फ़्न्: गोबलीवर्दन्यायो ऽप्ययमेव ।
sukṛtaduṣkṛte eveti tu bādariḥ
bādaristvācāryaḥ sukṛtaduṣkṛte eva caraṇaśabdena pratyāyyete iti manyate /
caraṇamanuṣṭhānaṃ karmetyanarthāntaram /
tathāhi- aviśeṣeṇa karmamātre caratiḥ prayujyamāno dṛśyate /
yo hīṣṭādilakṣaṇaṃ puṇyaṃ karma karoti taṃ laukikā ācakṣate dharmaṃ caratyeṣa mahātmeti /
ācāro 'pi ca dharmaviśeṣa eva /
bhedavyapadeśastu karmacaraṇayorbāhmaṇaparivrājakanyāyenāpyupapadyate /
tasmādramaṇīyacaraṇāḥ praśastakarmaṇāḥ kapūyacaraṇā ninditakarmāṇa iti nirṇayaḥ // 11 //
----------------------
FN: gobalīvardanyāyo 'pyayameva /
Sanskrit only: no published translation is held for this verse.
अनिष्टादिकारिणाम् अपि च श्रुतम्
इष्टादिकारिणश्चन्द्रमसं गच्छतीत्युक्तम् ।
ये त्वितरे ऽनिष्टादिकारिणस्ते ऽपि किं चन्द्रमसं गच्छन्त्युत न गच्छन्तीति चिन्त्यते ।
तत्र तावदाहुः - इष्टादिकारिण एव चन्द्रमसं गच्छन्तीत्येतन्न ।
कस्मात् ।
यतो ऽनिष्टादिकारिणामपि चन्द्रमण्डलं गन्तव्यत्वेन श्रुतम् ।
एथाह्यविशेषेण कौषीतकिनः समामनन्ति- ऽये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तिऽ (कौषी। १।२) इति ।
पञ्चभ्यामाहुतावित्याहुतिसंख्यानियमात् ।
यस्मात्सर्व एव चन्द्रमसमासीदेयुः ।
इष्टादिकारिणामितरेषां च समानगतित्वं न युक्तमिति चेत् ।
न ।
इतरेषां चन्द्रमण्डले भोगाभावात् ॥ १२ ॥
aniṣṭādikāriṇām api ca śrutam
iṣṭādikāriṇaścandramasaṃ gacchatītyuktam /
ye tvitare 'niṣṭādikāriṇaste 'pi kiṃ candramasaṃ gacchantyuta na gacchantīti cintyate /
tatra tāvadāhuḥ - iṣṭādikāriṇa eva candramasaṃ gacchantītyetanna /
kasmāt /
yato 'niṣṭādikāriṇāmapi candramaṇḍalaṃ gantavyatvena śrutam /
ethāhyaviśeṣeṇa kauṣītakinaḥ samāmananti- 'ye vai ke cāsmāllokātprayanti candramasameva te sarve gacchanti' (kauṣī. 1.2) iti /
pañcabhyāmāhutāvityāhutisaṃkhyāniyamāt /
yasmātsarva eva candramasamāsīdeyuḥ /
iṣṭādikāriṇāmitareṣāṃ ca samānagatitvaṃ na yuktamiti cet /
na /
itareṣāṃ candramaṇḍale bhogābhāvāt // 12 //
Sanskrit only: no published translation is held for this verse.
संयमने त्व् अनुभूयेतरेषामारोहाव् अरोहौ तद्गतिदर्शनात्
तुशब्दः पक्षं व्यावर्तयति ।
नैतदस्ति सर्वे चन्द्रमसं गच्छन्तीति ।
एतत्कस्मात् ।
यतो भोगायैव चन्द्रारोहणं न निष्प्रयोजनम् ।
नापि प्रत्यवरोहायैव ।
यथा कश्चिद्वृक्षमारोहति पुष्पफलोपादानायैव न निष्प्रयोजनं नापि पतनायैव ।
भोगश्चानिष्टादिकारिणां चन्द्रमसि नास्तीत्युक्तम् ।
तस्मादिष्चादिकारिण एव चन्द्रमसमारोहन्ति नेतरे ।
ते तु संयमनं यमालयमवगाह्य स्वदुष्कृतानुरूपा यामीर्यातना अनुभूय पुनरेवेमं लोकं प्रत्यवरोन्ति ।
एवंभूतौ तेषामारोहावरोहौ भवतः ।
कुतः - तद्गतिदर्शनात् ।
तथाहि यमवचनसरूपा श्रुतिः प्रयतामनिष्टादिकारिणां यमवश्यतां दर्शयति- ऽन सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् ।
अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मेऽ (कठ। २।६) इति ।
ऽवैवस्वतं संगमनं जनानाम्ऽ इत्येवञ्जातीयकं च बह्वेव यमवश्यताप्राप्तिलिङ्गं भवति ॥ १३ ॥
saṃyamane tv anubhūyetareṣāmārohāv arohau tadgatidarśanāt
tuśabdaḥ pakṣaṃ vyāvartayati /
naitadasti sarve candramasaṃ gacchantīti /
etatkasmāt /
yato bhogāyaiva candrārohaṇaṃ na niṣprayojanam /
nāpi pratyavarohāyaiva /
yathā kaścidvṛkṣamārohati puṣpaphalopādānāyaiva na niṣprayojanaṃ nāpi patanāyaiva /
bhogaścāniṣṭādikāriṇāṃ candramasi nāstītyuktam /
tasmādiṣcādikāriṇa eva candramasamārohanti netare /
te tu saṃyamanaṃ yamālayamavagāhya svaduṣkṛtānurūpā yāmīryātanā anubhūya punarevemaṃ lokaṃ pratyavaronti /
evaṃbhūtau teṣāmārohāvarohau bhavataḥ /
kutaḥ - tadgatidarśanāt /
tathāhi yamavacanasarūpā śrutiḥ prayatāmaniṣṭādikāriṇāṃ yamavaśyatāṃ darśayati- 'na sāṃparāyaḥ pratibhāti bālaṃ pramādyantaṃ vittamohena mūḍham /
ayaṃ loko nāsti para iti mānī punaḥ punarvaśamāpadyate me' (kaṭha. 2.6) iti /
'vaivasvataṃ saṃgamanaṃ janānām' ityevañjātīyakaṃ ca bahveva yamavaśyatāprāptiliṅgaṃ bhavati // 13 //
Sanskrit only: no published translation is held for this verse.
स्मरन्ति च
अपिच मनुव्यासप्रभृतयः शिष्टाः संयमने पुरे यमायत्तं कपूयकर्मविपाकं स्मरन्ति नाचिकेतोपाख्यानादिषु ॥ १४ ॥
smaranti ca
apica manuvyāsaprabhṛtayaḥ śiṣṭāḥ saṃyamane pure yamāyattaṃ kapūyakarmavipākaṃ smaranti nāciketopākhyānādiṣu // 14 //
Sanskrit only: no published translation is held for this verse.
अपि च सप्त
अपिच सप्त नरका रौरवप्रमुखा दुष्कृतफलोपभोगभूमित्वेन स्मर्यन्ते पौराणिकैः ।
ताननिष्टादिकारिणः प्राप्नुवन्ति ।
कुतस्ते चन्द्रं प्राप्नुयुरित्यभिप्रायः ॥ १५ ॥
ननु विरुद्धमिदं यमायत्ता यातनाः पापकर्मणो ऽनुभवन्तीति ।
यावता तेषु रौरवादिष्वन्ये चित्रगुप्तादयो नानाधिष्ठातारः स्मर्यन्त इति ।
नेत्याह-
api ca sapta
apica sapta narakā rauravapramukhā duṣkṛtaphalopabhogabhūmitvena smaryante paurāṇikaiḥ /
tānaniṣṭādikāriṇaḥ prāpnuvanti /
kutaste candraṃ prāpnuyurityabhiprāyaḥ // 15 //
nanu viruddhamidaṃ yamāyattā yātanāḥ pāpakarmaṇo 'nubhavantīti /
yāvatā teṣu rauravādiṣvanye citraguptādayo nānādhiṣṭhātāraḥ smaryanta iti /
netyāha-
Sanskrit only: no published translation is held for this verse.
तत्रापि च तद्व्यापारादविरोधः
तेष्वपि सप्तसु नरकेषु तस्यैव यमस्याधिष्ठातृत्वव्यापाराभ्युपगमादविरोधः ।
यमप्रयुक्ता एव हि ते चित्रगुप्तादयो ऽधिष्ठातारः स्मर्यन्ते ॥ १६ ॥
tatrāpi ca tadvyāpārādavirodhaḥ
teṣvapi saptasu narakeṣu tasyaiva yamasyādhiṣṭhātṛtvavyāpārābhyupagamādavirodhaḥ /
yamaprayuktā eva hi te citraguptādayo 'dhiṣṭhātāraḥ smaryante // 16 //
Sanskrit only: no published translation is held for this verse.
विद्याकर्मणोर् इति तु प्रकृतत्वात्
पञ्चाग्निविद्यायाम् ऽवेत्थ यथासौ लोको न संपूर्यतेऽ (छा। ५।३।३) इत्यस्य प्रश्नस्य प्रतिवचनावसरे श्रूयते- ऽअथैतयोः पथोर्न कतरेणचन तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति ।
जायस्व म्रियस्वेत्येतत्तृतीयं स्थानं तेनासौ लोको न संपूर्यतेऽ (छा। ५।१०।८) इति ।
तत्रैतयोः पथोरिति विद्याकर्मणोरित्येतत् ।
कस्मात् ।
प्रकृतत्वात् ।
विद्याकर्मणी हि देवयानपितृयाणयोः पथोः प्रतिपत्तौ प्रकृते ।
ऽतद्य इत्थं विदुःऽ इति विद्या तया प्रतिपत्तव्यो देवयानः पन्थाः प्रकीर्तितः ।
ऽइष्टापूर्ते दत्तम्ऽ (छा। ५।१०।१,३) इति कर्म तेन प्रतिपत्तव्यः पितृयाणः पन्थाः प्रकीर्तितः ।
तत्प्पक्रियायाम्- ऽअथैतयोः पथोर्न कतरेणचनऽ इति श्रुतम् ।
एतदुक्तं भवति- ये न विद्यासाधनेन देवयाने पत्यधिकृता नापि कर्मणा पितृयाणे तेषामेष क्षुद्रजन्तुलक्षणो ऽसकृदावर्ती तृतीयः पन्था भवतीति ।
तस्मादपि नानिष्टादिकारिभिश्चन्द्रमाः प्राप्यते ।
स्यादेतत् ।
ते ऽपि चन्द्रबिम्बमारुह्य ततो ऽवरुह्य क्षुद्रजन्तुत्वं प्रतिपत्स्यन्त इति ।
तदपि नास्ति ।
आरोहानर्थक्यात् ।
अपिच सर्वेषु प्रयत्सु चन्द्रलोकं प्राप्नुवत्स्वसौ लोकः प्रयद्भिः संपूर्येतेत्यतः प्रश्नविरुद्धं प्रतिवचनं प्रसज्येत ।
तथाहि प्रतिवचनं दातव्यं यथासौ लोको न संपूर्यते ।
अवरोहाभ्युपगमादसंपूर्णोपपत्तिरिति चेत् ।
न ।
अश्रुतत्वात् ।
सत्यमवरोहादप्यसंपूरणमुपपद्यते ।
श्रुतिस्तु तृतीयस्थानसंकीर्तनेनासंपूरणं दर्शयति- ऽएतत्तृतीयं स्थानं तेनासौ लोको न संपूर्यतेऽ (छा। ५।१०।८) इति ।
तेनानारोहादेवासंपूरणमिति युक्तम् ।
अवरोहस्येष्टादिकारिष्वप्यविशिष्टत्वे सति तृतीयस्थानोक्त्यानर्थक्यप्रसङ्गात् ।
तुशब्दस्तु शाकान्तरीयवाक्यप्रभवामशेषगमनाशङ्कामुच्छिनत्ति ।
एवं सत्यधिकृतापेक्षः शाखान्तरीये वाक्ये सर्वशब्दो ऽवतिष्ठते ।
ये वै केचिदधिकृता अस्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तीति ॥ १७ ॥
यत्पुनरुक्तं देहलाभोपपत्तये सर्वे चन्द्रमसं गन्तुमर्हन्ति, पञ्चम्यामाहुतावित्याहुतिसंख्यानियमादिति ।
तत्प्रत्युच्यते-
vidyākarmaṇor iti tu prakṛtatvāt
pañcāgnividyāyām 'vettha yathāsau loko na saṃpūryate' (chā. 5.3.3) ityasya praśnasya prativacanāvasare śrūyate- 'athaitayoḥ pathorna katareṇacana tānīmāni kṣudrāṇyasakṛdāvartīni bhūtāni bhavanti /
jāyasva mriyasvetyetattṛtīyaṃ sthānaṃ tenāsau loko na saṃpūryate' (chā. 5.10.8) iti /
tatraitayoḥ pathoriti vidyākarmaṇorityetat /
kasmāt /
prakṛtatvāt /
vidyākarmaṇī hi devayānapitṛyāṇayoḥ pathoḥ pratipattau prakṛte /
'tadya itthaṃ viduḥ' iti vidyā tayā pratipattavyo devayānaḥ panthāḥ prakīrtitaḥ /
'iṣṭāpūrte dattam' (chā. 5.10.1,3) iti karma tena pratipattavyaḥ pitṛyāṇaḥ panthāḥ prakīrtitaḥ /
tatppakriyāyām- 'athaitayoḥ pathorna katareṇacana' iti śrutam /
etaduktaṃ bhavati- ye na vidyāsādhanena devayāne patyadhikṛtā nāpi karmaṇā pitṛyāṇe teṣāmeṣa kṣudrajantulakṣaṇo 'sakṛdāvartī tṛtīyaḥ panthā bhavatīti /
tasmādapi nāniṣṭādikāribhiścandramāḥ prāpyate /
syādetat /
te 'pi candrabimbamāruhya tato 'varuhya kṣudrajantutvaṃ pratipatsyanta iti /
tadapi nāsti /
ārohānarthakyāt /
apica sarveṣu prayatsu candralokaṃ prāpnuvatsvasau lokaḥ prayadbhiḥ saṃpūryetetyataḥ praśnaviruddhaṃ prativacanaṃ prasajyeta /
tathāhi prativacanaṃ dātavyaṃ yathāsau loko na saṃpūryate /
avarohābhyupagamādasaṃpūrṇopapattiriti cet /
na /
aśrutatvāt /
satyamavarohādapyasaṃpūraṇamupapadyate /
śrutistu tṛtīyasthānasaṃkīrtanenāsaṃpūraṇaṃ darśayati- 'etattṛtīyaṃ sthānaṃ tenāsau loko na saṃpūryate' (chā. 5.10.8) iti /
tenānārohādevāsaṃpūraṇamiti yuktam /
avarohasyeṣṭādikāriṣvapyaviśiṣṭatve sati tṛtīyasthānoktyānarthakyaprasaṅgāt /
tuśabdastu śākāntarīyavākyaprabhavāmaśeṣagamanāśaṅkāmucchinatti /
evaṃ satyadhikṛtāpekṣaḥ śākhāntarīye vākye sarvaśabdo 'vatiṣṭhate /
ye vai kecidadhikṛtā asmāllokātprayanti candramasameva te sarve gacchantīti // 17 //
yatpunaruktaṃ dehalābhopapattaye sarve candramasaṃ gantumarhanti, pañcamyāmāhutāvityāhutisaṃkhyāniyamāditi /
tatpratyucyate-
Sanskrit only: no published translation is held for this verse.
न तृतीये तथोपलब्धेः
न तृतीये स्थाने देहलाभाय पञ्चसंख्यानियम आहुतीनामादर्तव्यः ।
कुतः - तथोपलब्धेः ।
तथाह्यन्तरेणैवाहुतिसंख्यानियमं वर्णितेन प्रकारेण तृतीयस्थानप्राप्तिरुपलभ्यते ऽजायस्व म्रियस्वेत्येतत्तृतीयं स्थानम्ऽ (छा। ५।१०।८) इति ।
अपिच ऽपञ्चम्यामाहुतावापः पुरुषवचसो भवन्तिऽ (छा। ५।३।३) इति मनुष्यशरीरहेतुत्वेनाहुतिसंख्या संकीर्त्यते न कीटपतङ्गादिशरीरहेतुत्वेन, पुरुषशब्दस्य मनुष्यजातिवचनत्वात् ।
अपिच पञ्चम्यामाहुतावपां पुरुषवचस्त्वमुपदिश्यते नापञ्चम्यामाहुतौ पुरुषवचस्त्वं प्रतिषिध्यते, वाक्यस्य द्व्यर्थतादोषात् ।
तत्र येषामारोहावरोहौ संभवतस्तेषां पञ्चम्यामाहुतौ देह उद्भविष्यति ।
अन्येषां तु विनैवाहुतिसंख्यया भूतान्तरोपसृष्टाभिरद्भिर्देह आरभ्यते ॥ १८ ॥
na tṛtīye tathopalabdheḥ
na tṛtīye sthāne dehalābhāya pañcasaṃkhyāniyama āhutīnāmādartavyaḥ /
kutaḥ - tathopalabdheḥ /
tathāhyantareṇaivāhutisaṃkhyāniyamaṃ varṇitena prakāreṇa tṛtīyasthānaprāptirupalabhyate 'jāyasva mriyasvetyetattṛtīyaṃ sthānam' (chā. 5.10.8) iti /
apica 'pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti' (chā. 5.3.3) iti manuṣyaśarīrahetutvenāhutisaṃkhyā saṃkīrtyate na kīṭapataṅgādiśarīrahetutvena, puruṣaśabdasya manuṣyajātivacanatvāt /
apica pañcamyāmāhutāvapāṃ puruṣavacastvamupadiśyate nāpañcamyāmāhutau puruṣavacastvaṃ pratiṣidhyate, vākyasya dvyarthatādoṣāt /
tatra yeṣāmārohāvarohau saṃbhavatasteṣāṃ pañcamyāmāhutau deha udbhaviṣyati /
anyeṣāṃ tu vinaivāhutisaṃkhyayā bhūtāntaropasṛṣṭābhiradbhirdeha ārabhyate // 18 //
Sanskrit only: no published translation is held for this verse.
स्मर्यते ऽपि च लोके
अपिच स्मर्यते लोके ।
द्रोणधृष्टद्युम्नप्रभृतीनां सीताद्रौपदीप्रभृतीनां चायोनिजत्वम् ।
तत्र द्रोणादीनां योषिद्विषयैकाहुतिर्नास्ति ।
धृष्टद्युम्नादीनां तु योषित्पुरुषविषये द्वे अप्याहुती न स्तः ।
यथा च तत्राहुतिसंख्यानादरो भवत्येवमन्यत्रापि भविष्यति ।
बलाकाप्यन्तरेणैव रेतःसेकं गर्भं धत्त इति लोकरूढिः ॥ १९ ॥
smaryate 'pi ca loke
apica smaryate loke /
droṇadhṛṣṭadyumnaprabhṛtīnāṃ sītādraupadīprabhṛtīnāṃ cāyonijatvam /
tatra droṇādīnāṃ yoṣidviṣayaikāhutirnāsti /
dhṛṣṭadyumnādīnāṃ tu yoṣitpuruṣaviṣaye dve apyāhutī na staḥ /
yathā ca tatrāhutisaṃkhyānādaro bhavatyevamanyatrāpi bhaviṣyati /
balākāpyantareṇaiva retaḥsekaṃ garbhaṃ dhatta iti lokarūḍhiḥ // 19 //
Sanskrit only: no published translation is held for this verse.
दर्शनाच् च
अपिच चतुर्विधे भूतग्रामे जरायुजाण्डजस्वेदजोद्भिज्जलक्षणे स्वेदजोद्भिज्जयोरन्तरेणैव ग्राम्यधर्ममुत्पत्तिदर्शनादाहुतिसंख्यानादरो भवति ।
एवमन्यत्रापि भविष्यति ॥ २० ॥
----------------------
फ़्न्: जीवजं जरायुजम् , उद्भिज्जं वृक्षादि ।
ननु ऽतेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्ति अण्डजं जीवजमुद्भिज्जम्ऽ (छा। ६।३।१) इति ।
अत्र त्रिविध एव भूतग्रामः श्रूयते कथं चतुर्विधत्वं भूतग्रामस्य प्रतिज्ञातमिति ।
अत्रोच्यते-
darśanāc ca
apica caturvidhe bhūtagrāme jarāyujāṇḍajasvedajodbhijjalakṣaṇe svedajodbhijjayorantareṇaiva grāmyadharmamutpattidarśanādāhutisaṃkhyānādaro bhavati /
evamanyatrāpi bhaviṣyati // 20 //
----------------------
FN: jīvajaṃ jarāyujam , udbhijjaṃ vṛkṣādi /
nanu 'teṣāṃ khalveṣāṃ bhūtānāṃ trīṇyeva bījāni bhavanti aṇḍajaṃ jīvajamudbhijjam' (chā. 6.3.1) iti /
atra trividha eva bhūtagrāmaḥ śrūyate kathaṃ caturvidhatvaṃ bhūtagrāmasya pratijñātamiti /
atrocyate-
Sanskrit only: no published translation is held for this verse.
तृतीयशब्दावरोधः संशोकजस्य
ऽआण्डजं जीवजमुजद्भिजम्ऽ (छा। ६।३।१) इत्यत्र तृतीयेनोद्भिज्जशब्देनैव स्वेदजोपसंग्रहः कृतः प्रत्येतव्यः ।
उभयोरपि स्वेदजोद्भिज्जयोर्भूम्युदकोद्भेदप्रभवत्वस्य तुल्यत्वात् ।
स्थावरोद्भेदात्तु विलक्षणो जङ्गमोद्भेद इत्यन्यत्र स्वेदजोद्भिज्जयोर्भेदवाद इत्यविरोधः ॥ २१ ॥
----------------------
फ़्न्: संशोकजं स्वेदजम् ।
tṛtīyaśabdāvarodhaḥ saṃśokajasya
'āṇḍajaṃ jīvajamujadbhijam' (chā. 6.3.1) ityatra tṛtīyenodbhijjaśabdenaiva svedajopasaṃgrahaḥ kṛtaḥ pratyetavyaḥ /
ubhayorapi svedajodbhijjayorbhūmyudakodbhedaprabhavatvasya tulyatvāt /
sthāvarodbhedāttu vilakṣaṇo jaṅgamodbheda ityanyatra svedajodbhijjayorbhedavāda ityavirodhaḥ // 21 //
----------------------
FN: saṃśokajaṃ svedajam /
Sanskrit only: no published translation is held for this verse.
साभाव्यापत्तिरुपपत्तेः
इष्टादिकारिणश्चन्द्रमसमारुह्य तस्मिन्यावत्संपातमुषित्वा ततःसानुशया अवरोहन्तीत्युक्तम् ।
अतावरोहप्रकारः परीक्ष्यते ।
तत्रेयमवरोहश्रुतिर्भवति- ऽअथैचमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशमाकाशाद्वायुं वायिर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवत्यभ्रं भूत्वा मेघो भूत्वा प्रवर्षतिऽ (छा। ५।१०।५) इति ।
तत्र संशयः - किमाकाशादिस्वरूपमेवावारोहन्तः प्रतिपद्यन्ते किंवाकाशादिसाम्यमिति ।
तत्र प्राप्तं तावदाकाशादिस्वरूपमेव प्रतिपद्यन्त इति ।
कुतः एवं हि श्रुतिर्भवति ।
इतरथा लक्षणा स्यात् ।
श्रुतिलक्षमाविषये च श्रुतिर्न्याय्या न लक्षणा ।
तथाच वायुर्भूत्वा धूमो भवतीत्येवमादीन्यक्षराणि तत्तत्स्वरूपोपत्तावाञ्जस्येनावकल्पन्ते ।
तस्मादाकाशादिस्वरूपप्रतिपत्तिरिति ।
एवं प्राप्ते ब्रूमः - आकाशादिसाम्यं प्रतिपद्यन्त इति ।
चन्द्रमण्डले यदंमयं शरीरमुपभोगार्थमारब्धं तदुपभोगक्षये सति प्रविलीयमानं सूक्ष्ममाकाशसमं भवति ततो वायोर्वशमेति ततो धूमादिभिः संपृच्यत इति ।
तदेतदुच्यते- ऽयथेतमाकाशमाकाशाद्वायुम्ऽ (छा। ५।१०।५) इत्येवमादिना ।
कुत एतत् ।
उपपत्तेः ।
एवं ह्येतदुपपद्यते ।
नह्यन्यस्यान्यभावो मुख्य उपपद्यते ।
आकाशस्वरूपप्रतिपत्तौ च वाय्वादिक्रमेणावरोहो नोपपद्यते ।
विभुत्वाच्चाकाशेन नित्यसंबन्धवत्त्वान्न तत्सादृश्यापत्तेरन्यस्तत्संबन्धो घटते ।
श्रुत्यसंभवे च लक्षणाश्रयणं न्याय्यमेव ।
अत आकाशादितुल्यतापत्तिरेवात्राकाशादिभाव इत्युपचर्यते ॥ २२ ॥
५ नातिचिराधिकरणम् । सू। २३
sābhāvyāpattirupapatteḥ
iṣṭādikāriṇaścandramasamāruhya tasminyāvatsaṃpātamuṣitvā tataḥsānuśayā avarohantītyuktam /
atāvarohaprakāraḥ parīkṣyate /
tatreyamavarohaśrutirbhavati- 'athaicamevādhvānaṃ punarnivartante yathetamākāśamākāśādvāyuṃ vāyirbhūtvā dhūmo bhavati dhūmo bhūtvābhraṃ bhavatyabhraṃ bhūtvā megho bhūtvā pravarṣati' (chā. 5.10.5) iti /
tatra saṃśayaḥ - kimākāśādisvarūpamevāvārohantaḥ pratipadyante kiṃvākāśādisāmyamiti /
tatra prāptaṃ tāvadākāśādisvarūpameva pratipadyanta iti /
kutaḥ evaṃ hi śrutirbhavati /
itarathā lakṣaṇā syāt /
śrutilakṣamāviṣaye ca śrutirnyāyyā na lakṣaṇā /
tathāca vāyurbhūtvā dhūmo bhavatītyevamādīnyakṣarāṇi tattatsvarūpopattāvāñjasyenāvakalpante /
tasmādākāśādisvarūpapratipattiriti /
evaṃ prāpte brūmaḥ - ākāśādisāmyaṃ pratipadyanta iti /
candramaṇḍale yadaṃmayaṃ śarīramupabhogārthamārabdhaṃ tadupabhogakṣaye sati pravilīyamānaṃ sūkṣmamākāśasamaṃ bhavati tato vāyorvaśameti tato dhūmādibhiḥ saṃpṛcyata iti /
tadetaducyate- 'yathetamākāśamākāśādvāyum' (chā. 5.10.5) ityevamādinā /
kuta etat /
upapatteḥ /
evaṃ hyetadupapadyate /
nahyanyasyānyabhāvo mukhya upapadyate /
ākāśasvarūpapratipattau ca vāyvādikrameṇāvaroho nopapadyate /
vibhutvāccākāśena nityasaṃbandhavattvānna tatsādṛśyāpatteranyastatsaṃbandho ghaṭate /
śrutyasaṃbhave ca lakṣaṇāśrayaṇaṃ nyāyyameva /
ata ākāśāditulyatāpattirevātrākāśādibhāva ityupacaryate // 22 //
5 nāticirādhikaraṇam / sū. 23
Sanskrit only: no published translation is held for this verse.
नातिचिरेण विशेषात्
तत्राकाशादिप्रतिपत्तौ प्राग्विरीह्यादिप्रतिपत्तेर्भवति विशयः ।
किं दीर्घं कालं पूर्वपूर्वसादृश्येनावस्थायोत्तरसादृश्यं गच्छन्त्युताल्पमिति ।
तत्रानियमो नियमकारिणः शास्त्रस्याभावादिति ।
एवं प्राप्त इदमाह- नातिचिरेणेति ।
अल्पमल्पं कालमाकाशादिभावेनावस्थाय वर्षधाराभिः सहेमां भुवमापतन्ति ।
कुत एतत् ।
विशेषदर्शनात् ।
तथाहि व्रीह्यादिभावापत्तेरनन्तरं विशिनष्टि- ऽअतो वै खलु दुर्निष्प्रपतरम्ऽ
(छा। ५।१०।६) इति ।
तकार एतश्चन्दस्यां प्रक्रियायां लुप्तो मन्तव्यः ।
दुर्निप्रपततरं दुर्निष्क्रमतरं दुःखतरमस्माद्व्रीह्यादिभावान्निःसरणं भवतीत्यर्थः ।
तदत्र दुःखं निष्प्रपतनं प्रदर्शयन्पूर्वेषु सुखं निष्प्रपतनं दर्शयति ।
सुखदुःखताविशेषश्चायं निष्प्रपतनस्य कालाल्पत्वदीर्घत्वनिमित्तः ।
तस्मिन्नवधौ शरीरानिष्पत्तेरुपभोगासंभवात् ।
तस्माद्व्रीह्यादिभावापत्तेः प्रागल्पेनैव कालेनावरोहः स्यादिति ॥ २३ ॥
६ अन्याधिष्ठिताधिकरणम् । सू। २४-२७
nāticireṇa viśeṣāt
tatrākāśādipratipattau prāgvirīhyādipratipatterbhavati viśayaḥ /
kiṃ dīrghaṃ kālaṃ pūrvapūrvasādṛśyenāvasthāyottarasādṛśyaṃ gacchantyutālpamiti /
tatrāniyamo niyamakāriṇaḥ śāstrasyābhāvāditi /
evaṃ prāpta idamāha- nāticireṇeti /
alpamalpaṃ kālamākāśādibhāvenāvasthāya varṣadhārābhiḥ sahemāṃ bhuvamāpatanti /
kuta etat /
viśeṣadarśanāt /
tathāhi vrīhyādibhāvāpatteranantaraṃ viśinaṣṭi- 'ato vai khalu durniṣprapataram'
(chā. 5.10.6) iti /
takāra etaścandasyāṃ prakriyāyāṃ lupto mantavyaḥ /
durniprapatataraṃ durniṣkramataraṃ duḥkhataramasmādvrīhyādibhāvānniḥsaraṇaṃ bhavatītyarthaḥ /
tadatra duḥkhaṃ niṣprapatanaṃ pradarśayanpūrveṣu sukhaṃ niṣprapatanaṃ darśayati /
sukhaduḥkhatāviśeṣaścāyaṃ niṣprapatanasya kālālpatvadīrghatvanimittaḥ /
tasminnavadhau śarīrāniṣpatterupabhogāsaṃbhavāt /
tasmādvrīhyādibhāvāpatteḥ prāgalpenaiva kālenāvarohaḥ syāditi // 23 //
6 anyādhiṣṭhitādhikaraṇam / sū. 24-27
Sanskrit only: no published translation is held for this verse.
अन्याधिष्ठितेषु पूर्ववदभिलापात्
तस्मिन्नेवारोहे प्रवर्षणानन्तरं पठ्यते- ऽत इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्तेऽ (छा। ५।१०।६)
इति ।
तत्र संशयः - किमस्मिन्नवधौ स्थावरजात्यापन्नाः स्थावरसुखदुःखभाजो ऽनुशायिनो भवत्याहोस्वित्क्षेत्रज्ञान्तराधिष्ठितेषु स्थावरशरीरेषु संश्लेषमात्रं गच्छन्तीति ।
किं तावत्प्राप्तम् ।
स्थावरजात्यापन्नास्तत्सुखदुःखभाजो ऽनुशयिनो भवन्तीति ।
कुत एतत् ।
जनेर्मुख्यार्थत्वोपपत्तेः स्थावरभावस्य च श्रुतिस्मृत्योरुपभोगस्थानत्वप्रसिद्धेः ।
पशुहिंसादियोगाच्चेष्टादेः कर्मजातस्यानिष्टफलत्वोपपत्तेः ।
तस्मान्मुख्यमेवेदमनुशयिनां व्रीह्यादिजन्म ।
श्वादिजन्मवत् ।
यथा श्वयोनिं वा सूकरयोनिं वा चम्डालयोनिं वेति मुख्यमेवानुशयिनां श्वादिजन्म तत्सुखदुःखान्वितं भवति ।
एवं व्रीह्यादिषु संसर्गमात्रमनुशयिनः प्रतिपद्यन्ते न तत्सुखदुःखान्वितं भवति ।
एवं व्रीह्यादिजन्मापीति ।
एवं प्राप्ते ब्रूमः अन्यैर्जीवैरधिष्ठितेषु व्रीह्यादिषु संसर्गमात्रमनुशयिनः प्रतिपद्यन्ते न तत्सुखदुःखभाजो भवन्ति ।
पूर्ववत् ।
यथा वायुधूमादिभावो ऽनुशयिनां तत्संश्लेषमात्रम् ।
एवं व्रीह्यादिभावो ऽपि जातिस्थावरैः संश्लेषमात्रम् ।
कुत एतत् ।
तद्वदेवेहाप्यभिलापात् ।
को ऽभिलापस्य तद्वद्भावः ।
कर्मव्यापारमन्तरेण संकीर्तनम् ।
यथाकाशादिषु प्रवर्षणान्तेषु न कञ्चित्कर्मव्यापारं परामृशत्येवं व्रीह्यादिजन्मन्यपि ।
तस्मान्नास्त्यत्र सुखदुःखभाक्त्वमनुशयिनाम् ।
यत्र तु सुखदुःखभाक्त्वमभिप्रैति परामृशति तत्र कर्मव्यापारं रमणीयचरणाः कपूयचरणा इति च ।
अपिच मुख्ये ऽनुशयिनां व्रीह्यादिजन्मनि व्रीह्यादिषु लूयमानेषु कण्ड्यमानेषु पच्यमानेषु भक्ष्यमाणेषु च तदभिमानिनो ऽनुशयिनः प्रवसेयुः ।
यो हि जीवो यच्छरीरमभिमन्यते स तस्मिन्पीड्यमाने प्रवसतीति प्रसिद्धम् ।
तत्र व्रीह्यादिभावाद्रेतःसिग्भावो ऽनुशयिनां नाभिलप्येत ।
अतः संसर्गमात्रमनुशयिनामन्याधिष्ठितेषु व्रीह्यादिषु भवति ।
एतेन जनेर्मुख्यार्थत्वं प्रतिब्रूयादुपभोगस्थानत्वं च स्थावरभावस्य ।
नच वयमुपभोगस्थानत्वं स्थावरभावस्यावजानीमहे ।
भवत्वन्येषां जन्तूनामपुण्यसामर्थ्येन स्थावरभावमुपगतानामेतदुपभोगस्थानम् ।
चन्द्रमसस्त्ववरोहन्तो ऽनुशयिनो न स्थावरभावमुपभुञ्जत इत्याचक्ष्महे ॥ २४ ॥
anyādhiṣṭhiteṣu pūrvavadabhilāpāt
tasminnevārohe pravarṣaṇānantaraṃ paṭhyate- 'ta iha vrīhiyavā oṣadhivanaspatayastilamāṣā iti jāyante' (chā. 5.10.6)
iti /
tatra saṃśayaḥ - kimasminnavadhau sthāvarajātyāpannāḥ sthāvarasukhaduḥkhabhājo 'nuśāyino bhavatyāhosvitkṣetrajñāntarādhiṣṭhiteṣu sthāvaraśarīreṣu saṃśleṣamātraṃ gacchantīti /
kiṃ tāvatprāptam /
sthāvarajātyāpannāstatsukhaduḥkhabhājo 'nuśayino bhavantīti /
kuta etat /
janermukhyārthatvopapatteḥ sthāvarabhāvasya ca śrutismṛtyorupabhogasthānatvaprasiddheḥ /
paśuhiṃsādiyogācceṣṭādeḥ karmajātasyāniṣṭaphalatvopapatteḥ /
tasmānmukhyamevedamanuśayināṃ vrīhyādijanma /
śvādijanmavat /
yathā śvayoniṃ vā sūkarayoniṃ vā camḍālayoniṃ veti mukhyamevānuśayināṃ śvādijanma tatsukhaduḥkhānvitaṃ bhavati /
evaṃ vrīhyādiṣu saṃsargamātramanuśayinaḥ pratipadyante na tatsukhaduḥkhānvitaṃ bhavati /
evaṃ vrīhyādijanmāpīti /
evaṃ prāpte brūmaḥ anyairjīvairadhiṣṭhiteṣu vrīhyādiṣu saṃsargamātramanuśayinaḥ pratipadyante na tatsukhaduḥkhabhājo bhavanti /
pūrvavat /
yathā vāyudhūmādibhāvo 'nuśayināṃ tatsaṃśleṣamātram /
evaṃ vrīhyādibhāvo 'pi jātisthāvaraiḥ saṃśleṣamātram /
kuta etat /
tadvadevehāpyabhilāpāt /
ko 'bhilāpasya tadvadbhāvaḥ /
karmavyāpāramantareṇa saṃkīrtanam /
yathākāśādiṣu pravarṣaṇānteṣu na kañcitkarmavyāpāraṃ parāmṛśatyevaṃ vrīhyādijanmanyapi /
tasmānnāstyatra sukhaduḥkhabhāktvamanuśayinām /
yatra tu sukhaduḥkhabhāktvamabhipraiti parāmṛśati tatra karmavyāpāraṃ ramaṇīyacaraṇāḥ kapūyacaraṇā iti ca /
apica mukhye 'nuśayināṃ vrīhyādijanmani vrīhyādiṣu lūyamāneṣu kaṇḍyamāneṣu pacyamāneṣu bhakṣyamāṇeṣu ca tadabhimānino 'nuśayinaḥ pravaseyuḥ /
yo hi jīvo yaccharīramabhimanyate sa tasminpīḍyamāne pravasatīti prasiddham /
tatra vrīhyādibhāvādretaḥsigbhāvo 'nuśayināṃ nābhilapyeta /
ataḥ saṃsargamātramanuśayināmanyādhiṣṭhiteṣu vrīhyādiṣu bhavati /
etena janermukhyārthatvaṃ pratibrūyādupabhogasthānatvaṃ ca sthāvarabhāvasya /
naca vayamupabhogasthānatvaṃ sthāvarabhāvasyāvajānīmahe /
bhavatvanyeṣāṃ jantūnāmapuṇyasāmarthyena sthāvarabhāvamupagatānāmetadupabhogasthānam /
candramasastvavarohanto 'nuśayino na sthāvarabhāvamupabhuñjata ityācakṣmahe // 24 //
Sanskrit only: no published translation is held for this verse.
अशुद्धम् इति चेन् न शब्दात्
यत्पुनरुक्तं पशुहिंसादियोगादशुद्धमाध्वरिकं कर्म तस्यानिष्टमपि फलमवकल्पत इत्यतो मुख्यमेवानुशयिनां व्रीह्यादिजन्मास्तु तत्र गौणी कल्पनानर्थिकेति तत्परिह्रियते ।
न, शास्त्रहेतुत्वाद्धर्माधर्मविज्ञानस्य ।
अयं धर्मो ऽयमधर्म इति शास्त्रमेव विज्ञाने कारणम् ।
अतीन्द्रियत्वात्तयोः अनियतदेशकालनिमित्तत्वाच्च ।
यस्मिन्देशे काले निमित्ते च यो धर्मो ऽनुष्ठीयते स एव देशकालनिमित्तान्तरेष्वधर्मो भवति ।
तेन शास्त्रादृते धर्माधर्मविषयं विज्ञानं न कस्यचिदस्ति ।
शास्त्राच्च हिंसानुग्रहाद्यात्मको ज्योतिष्टोमो धर्म इत्यवधारितः स कथमशुद्ध इति शक्यते वक्तुम् ।
ननु ऽन हिंस्यात्सर्वा भूतानिऽ इति शास्त्रमेव भूतविषयां हिंसामधर्म इत्यवगमयति ।
बाढम् ।
उत्सर्गस्तु सः ।
अपवादः ऽअग्नीषोमीयं पशुमालभेतऽ इति ।
उत्सर्गापवादयोश्च व्यवस्थितविषयत्वम् ।
तस्माद्विशुद्धं कर्म वैदिकं, शिष्टैरनुष्ठीयमानत्वादनिन्द्यमानत्वाच्च ।
तेन न तस्य प्रतिरूपं फलं जातिस्थावरत्वम् ।
नच श्वादिजन्मादिवदपि व्रीह्यादिजन्म भवितुमर्हति ।
तद्धि कपूयतरणानधिकृत्योच्यते नैवमिह वैशेषिकः कश्चिदधिकारो ऽस्ति ।
अतश्चन्द्रमण्डलस्खलितानामनुशायिनां व्रीह्यादिसंश्लेषमात्रं तद्भाव इत्युपचर्यते ॥ २५ ॥
aśuddham iti cen na śabdāt
yatpunaruktaṃ paśuhiṃsādiyogādaśuddhamādhvarikaṃ karma tasyāniṣṭamapi phalamavakalpata ityato mukhyamevānuśayināṃ vrīhyādijanmāstu tatra gauṇī kalpanānarthiketi tatparihriyate /
na, śāstrahetutvāddharmādharmavijñānasya /
ayaṃ dharmo 'yamadharma iti śāstrameva vijñāne kāraṇam /
atīndriyatvāttayoḥ aniyatadeśakālanimittatvācca /
yasmindeśe kāle nimitte ca yo dharmo 'nuṣṭhīyate sa eva deśakālanimittāntareṣvadharmo bhavati /
tena śāstrādṛte dharmādharmaviṣayaṃ vijñānaṃ na kasyacidasti /
śāstrācca hiṃsānugrahādyātmako jyotiṣṭomo dharma ityavadhāritaḥ sa kathamaśuddha iti śakyate vaktum /
nanu 'na hiṃsyātsarvā bhūtāni' iti śāstrameva bhūtaviṣayāṃ hiṃsāmadharma ityavagamayati /
bāḍham /
utsargastu saḥ /
apavādaḥ 'agnīṣomīyaṃ paśumālabheta' iti /
utsargāpavādayośca vyavasthitaviṣayatvam /
tasmādviśuddhaṃ karma vaidikaṃ, śiṣṭairanuṣṭhīyamānatvādanindyamānatvācca /
tena na tasya pratirūpaṃ phalaṃ jātisthāvaratvam /
naca śvādijanmādivadapi vrīhyādijanma bhavitumarhati /
taddhi kapūyataraṇānadhikṛtyocyate naivamiha vaiśeṣikaḥ kaścidadhikāro 'sti /
ataścandramaṇḍalaskhalitānāmanuśāyināṃ vrīhyādisaṃśleṣamātraṃ tadbhāva ityupacaryate // 25 //
Sanskrit only: no published translation is held for this verse.
रेतःसिग्योगो ऽथ
इतश्च व्रीह्यादिसंश्लेषमात्रं तद्भावो यत्कारणं व्रीह्यादिभावस्यानन्तरमनुशयिनां रेतःसिग्भाव आम्नायते - ऽयो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवतिऽ (छा। ५।१०।६) इति ।
नचात्र मुख्यो रेतःसिग्भावः संभवति ।
चिरजातो हि प्राप्तयौवनो रेतःसिग्भवति ।
कथमिवानुपचरितं तद्भावमद्यमानान्नानुगतो ऽनुशयी प्रतिपद्यते ।
तत्र तावदवश्यं रेतःसिग्योग एव रेतःसिग्भावो ऽभ्युपगन्तव्यः ।
तद्वद्व्रीह्यादिभावो ऽपि व्रीह्यादियोग एवेत्यविरोधः ॥ २६ ॥
retaḥsigyogo 'tha
itaśca vrīhyādisaṃśleṣamātraṃ tadbhāvo yatkāraṇaṃ vrīhyādibhāvasyānantaramanuśayināṃ retaḥsigbhāva āmnāyate - 'yo yo hyannamatti yo retaḥ siñcati tadbhūya eva bhavati' (chā. 5.10.6) iti /
nacātra mukhyo retaḥsigbhāvaḥ saṃbhavati /
cirajāto hi prāptayauvano retaḥsigbhavati /
kathamivānupacaritaṃ tadbhāvamadyamānānnānugato 'nuśayī pratipadyate /
tatra tāvadavaśyaṃ retaḥsigyoga eva retaḥsigbhāvo 'bhyupagantavyaḥ /
tadvadvrīhyādibhāvo 'pi vrīhyādiyoga evetyavirodhaḥ // 26 //
Sanskrit only: no published translation is held for this verse.
योनेः शरीरम्
अथ रेतःसिग्भावस्यानन्तरं योनौ निषिक्ते रेतसि योनेरधिकशरीरमनुशयिनामनुशयफलोपभोगाय जायत इत्याह शास्त्रम् - ऽऽतद्य इह रमणीयचरणाःऽ (छाय ५।१०।७) इत्यादि ।
तस्मादप्यवगम्यते नावरोहे व्रीह्यादिभावावसरे तच्छरीरमेव सुखदुःकान्वितं भवतीति ।
तस्माद्व्रीह्यादिसंश्लेषमात्रमनुशयिनां तज्जन्मेति सिद्धम् ॥ २७ ॥
इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्करभगवत्पूज्यपादकृतौ शारीरकमीमांसाभाष्ये तृतीयाध्यायस्य प्रथमः पादः ॥ १ ॥
____________________________________________________________________________________________ ____________________________________________________________________________________________
तृतीयाध्याये द्वितीयः पादः ।
[अत्रपादे तत्त्वंपदार्थपरिशोधनविचारः]
१ संध्याधिकरणम् । सू। १-६
yoneḥ śarīram
atha retaḥsigbhāvasyānantaraṃ yonau niṣikte retasi yoneradhikaśarīramanuśayināmanuśayaphalopabhogāya jāyata ityāha śāstram - ''tadya iha ramaṇīyacaraṇāḥ' (chāya 5.10.7) ityādi /
tasmādapyavagamyate nāvarohe vrīhyādibhāvāvasare taccharīrameva sukhaduḥkānvitaṃ bhavatīti /
tasmādvrīhyādisaṃśleṣamātramanuśayināṃ tajjanmeti siddham // 27 //
iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpūjyapādakṛtau śārīrakamīmāṃsābhāṣye tṛtīyādhyāyasya prathamaḥ pādaḥ // 1 //
____________________________________________________________________________________________ ____________________________________________________________________________________________
tṛtīyādhyāye dvitīyaḥ pādaḥ /
[atrapāde tattvaṃpadārthapariśodhanavicāraḥ]
1 saṃdhyādhikaraṇam / sū. 1-6
Sanskrit only: no published translation is held for this verse.
सन्ध्ये सृष्टिराह हि
अतिक्रीन्ते पादे पञ्चाग्निविद्यामुदाहृत्य जीवस्य संसारगतिप्रभेदः प्रपञ्चितः ।
इदानीं तु तस्यैवावस्थाभेदः प्रपञ्च्यते ।
इदमामनन्ति- ऽस यत्र प्रस्वपितिऽ (बृ। ४।३।९) इत्युपक्रम्य ऽन तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथः सृजतेऽ (बृ। ४।३।१०) इत्यादि ।
तत्र संशयः - किं प्रबोध इव स्वप्ने ऽपि पारमार्थिकी सृष्टिराहोस्विन्मायामयीति ।
तत्र तावत्प्रतिपद्यते संध्ये तथ्यरूपा सृष्टिरिति ।
संध्यमिति स्वप्नानमाचष्टे, वेदे प्रयोगदर्शनात् ऽसंध्यं तृतीयं स्वप्नस्थानम्ऽ (बृ। ४।३।९) इति ।
द्वयोर्लोकस्थानयोः प्रबोधसंप्रसादस्थानयोर्वा संधौ भवतीति संध्यम् ।
तस्मिन्संध्ये स्थाने तथ्यरूपैव सृष्टिर्भवितुमर्हति ।
कुतः - यतः प्रमाणभूता श्रुतिरेवमाह ऽअथ रथान्नथयोगान्पथः सृजतेऽ (बृ। ४,३।१०) इत्यादि ।
स हि कर्तेति चोपसंहारादेवमेवावगम्यते ॥ १ ॥
sandhye sṛṣṭirāha hi
atikrīnte pāde pañcāgnividyāmudāhṛtya jīvasya saṃsāragatiprabhedaḥ prapañcitaḥ /
idānīṃ tu tasyaivāvasthābhedaḥ prapañcyate /
idamāmananti- 'sa yatra prasvapiti' (bṛ. 4.3.9) ityupakramya 'na tatra rathā na rathayogā na panthāno bhavantyatha rathānrathayogānpathaḥ sṛjate' (bṛ. 4.3.10) ityādi /
tatra saṃśayaḥ - kiṃ prabodha iva svapne 'pi pāramārthikī sṛṣṭirāhosvinmāyāmayīti /
tatra tāvatpratipadyate saṃdhye tathyarūpā sṛṣṭiriti /
saṃdhyamiti svapnānamācaṣṭe, vede prayogadarśanāt 'saṃdhyaṃ tṛtīyaṃ svapnasthānam' (bṛ. 4.3.9) iti /
dvayorlokasthānayoḥ prabodhasaṃprasādasthānayorvā saṃdhau bhavatīti saṃdhyam /
tasminsaṃdhye sthāne tathyarūpaiva sṛṣṭirbhavitumarhati /
kutaḥ - yataḥ pramāṇabhūtā śrutirevamāha 'atha rathānnathayogānpathaḥ sṛjate' (bṛ. 4,3.10) ityādi /
sa hi karteti copasaṃhārādevamevāvagamyate // 1 //
Sanskrit only: no published translation is held for this verse.
निर्मातारं चैके पुत्रादयश् च
अपिचैके शाखिनो ऽस्मिन्नेव संध्ये स्थाने कामानां निर्मातारमात्मानमामनन्ति- ऽय एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणःऽ (क। ५।८) इति ।
पुत्रादयश्च तत्र कामा अभिप्रेयन्ते काम्यन्त इति ।
ननु कामशब्देनेच्छाविशेषा एवोच्येरन् ।
न ।
ऽशतायुषः पुत्रपौत्रान्वृणीष्वऽ (क। १।२३) इति प्रकृत्यान्ते ऽकामानां त्वा कामभाजं करोमिऽ (क। १।२४) इति प्रकृतेषु तत्र तत्र पुत्रादिषु कामशब्दस्य प्रयुक्तत्वात् ।
प्राज्ञं चैनं निर्मितारं प्रकरणवाक्यशेषाभ्यां प्रतीमः ।
प्राज्ञस्य हीदं करणम् ऽअन्यत्र धर्मादन्यत्राधर्मात्ऽ (क। २।२४) इत्यादि, तद्विषय एव च वाक्यशेषो ऽपि- ऽतदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।
तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चनऽऽ (क। ५।८) इति ।
प्राज्ञकर्तृका च सृष्टिस्तथ्यरूपा समधिगता जागरिताश्रया तथा स्वप्नाश्रयापि सृष्टिर्भवितुमर्हति ।
तथाच श्रुतिः - अथो खल्वाहुर्जागरितदेश एवास्यैष इति यानि ह्येव जाग्रत्पश्यति तानि सुप्तः (बृ। ४।३।१४) इति स्वप्नजागरितयोः समानन्यायतां श्रावयति ।
तस्मात्तथ्यरूपैव संध्ये सृष्टरिति ॥ २ ॥
एवं प्राप्ते प्रत्याह-
nirmātāraṃ caike putrādayaś ca
apicaike śākhino 'sminneva saṃdhye sthāne kāmānāṃ nirmātāramātmānamāmananti- 'ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ' (ka. 5.8) iti /
putrādayaśca tatra kāmā abhipreyante kāmyanta iti /
nanu kāmaśabdenecchāviśeṣā evocyeran /
na /
'śatāyuṣaḥ putrapautrānvṛṇīṣva' (ka. 1.23) iti prakṛtyānte 'kāmānāṃ tvā kāmabhājaṃ karomi' (ka. 1.24) iti prakṛteṣu tatra tatra putrādiṣu kāmaśabdasya prayuktatvāt /
prājñaṃ cainaṃ nirmitāraṃ prakaraṇavākyaśeṣābhyāṃ pratīmaḥ /
prājñasya hīdaṃ karaṇam 'anyatra dharmādanyatrādharmāt' (ka. 2.24) ityādi, tadviṣaya eva ca vākyaśeṣo 'pi- 'tadeva śukraṃ tadbrahma tadevāmṛtamucyate /
tasmiṃllokāḥ śritāḥ sarve tadu nātyeti kaścana'' (ka. 5.8) iti /
prājñakartṛkā ca sṛṣṭistathyarūpā samadhigatā jāgaritāśrayā tathā svapnāśrayāpi sṛṣṭirbhavitumarhati /
tathāca śrutiḥ - atho khalvāhurjāgaritadeśa evāsyaiṣa iti yāni hyeva jāgratpaśyati tāni suptaḥ (bṛ. 4.3.14) iti svapnajāgaritayoḥ samānanyāyatāṃ śrāvayati /
tasmāttathyarūpaiva saṃdhye sṛṣṭariti // 2 //
evaṃ prāpte pratyāha-
Sanskrit only: no published translation is held for this verse.
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात्
तुशब्दः पक्षं व्यवर्तयति ।
नैतदस्ति यदुक्तं संध्ये सृष्टिः पारमार्थिकीति ।
मायैव संध्ये सृष्टिर्न पारमार्थगन्धो ऽप्यस्ति ।
कुतः - कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ।
नहि कार्त्स्न्येनपारमार्थवस्तुधर्मेणाभिव्यक्तस्वरूपः स्वप्नः ।
किं पुनरत्र कार्त्स्न्यमभिप्रेतं देशकालनिमित्तान्यबाधश्च ।
नहि परमार्थवस्तुविषयाणि देशकालनिमित्तान्यबाधाश्च स्वप्ने संभाव्यन्ते ।
न तावत्स्वप्ने रथादीनामुचितो देशः संभवति ।
नहि संवृते देहदेशेरथादयो ऽवकाशं लभेरन् ।
स्यादेतत् ।
बहिर्देहात्स्वप्नम् द्रक्ष्यति देशान्तरितद्रव्यग्रहणात् ।
दर्शयति च श्रुतिर्बहिर्देहात्स्वप्नम्- ऽबहिष्कुलायादमृतश्चरित्वा ।
स ईयते ऽमृतो यत्र कामम्ऽ (बृ। ४।३।१२) इति स्थितिगतिप्रत्ययभेदश्च नानिष्क्रान्ते जन्तौ सामञ्जस्यामश्नुवीतेति ।
नेत्युच्यते ।
नहि सुप्तस्य जन्तोः क्षणमात्रेण योजनशतान्तरितं देशं पर्येतुं विपर्येतुं च ततः सामर्थ्यं संभाव्यते ।
क्वचिच्च प्रत्यागमनवर्जितं स्वप्नं श्रावयति कुरुष्वहमद्य शयानो निद्रयाभिप्लुतः स्वप्ने पञ्चालानभिगतश्चास्मिन्प्रतिबुद्धश्चेति ।
देहाच्चेदपेयात्पञ्चालेषु प्रतिहुध्येत न तानसावभिगत इति कुरुष्वेव तु प्रतिबुध्यते ।
येन चायं देहेन देशान्तरमश्नुवानो मन्यते तमन्ये पार्श्वस्थाः शयनदेश एव पश्यन्ति ।
यथाभूतानि चायं देशान्तराणि स्वप्ने पश्यति न तानि तथाभूतान्येव भवन्ति ।
परिधावंश्चेत्पश्येज्जाग्रद्वद्वस्तुभूतमार अथमाकलयेत् ।
दर्शयति च श्रुतिरन्तरेव देहे स्वप्नम्- ऽस यत्रैतत्स्वप्न्यया चरतिऽ इत्युपक्रम्य ऽस्वे शरीरे यथाकामं परिवर्ततेऽ (बृ। २।१।१८) इति ।
अतश्च श्रुत्युपपत्तिविरोधाद्बहिष्कुलायश्रुतिर्गौणी व्याख्यातव्यया बहिरिव कुलायादमृतश्चरित्वेति ।
यो हि वसन्नपि शरीरे न तेन प्रयोजनं करोति स बहिरिव शरीराद्भवतीति ।
स्थितिगतिप्रत्ययभेदो ऽप्येवं सति विप्रलम्भ एवाभ्युपगन्तव्यः ।
कालविसंवादो ऽपि च स्वप्ने भवति रजन्यां सुप्तो वासरं भारते वर्षे मन्यते ।
तथा मुहूर्तमात्रवर्तिनि स्वप्ने कदाचिद्बहुवर्षपूगानतिवाहयति ।
निमित्तान्यपि च स्वप्ने न बुद्धये कर्मणे वोचितानि विद्यन्ते ।
करणोसंहाराद्धि नास्य रथादिग्रहणाय चक्षुरादीनि सन्ति ।
रथादिनिर्वर्तने ऽपि कुतो ऽस्य निमेषमात्रेण सामर्थ्यं दारुणी वा ।
बाध्यन्ते चैते रथादयः स्वप्नदृष्टाः प्रबोधे ।
स्वप्न एव चैते सुलभबाधा भवन्ति ।
आद्यन्तयोर्व्यभिचारदर्शनात् ।
रथो ऽयमिति हि कदाचित्स्वप्ने निर्धारितः क्षणेन मनुष्यः संपद्यते मनुष्यो ऽयमिति निर्धारितः क्षणेन वृक्षः ।
स्पष्टं चाभावं रथादीनां स्वप्ने श्रावयति शास्त्रम् - ऽऽन तत्र रथा न रथयोगा न पन्थानो भवन्तिऽ (बृ। ४।३।१०) इत्यादि ।
तस्मान्मायामात्रं स्वप्नदर्शनम् ॥ ३ ॥
----------------------
फ़्न्: संवृते संकीर्णः ।
पर्येतुं गन्तुम् ।
विपर्येतुं आगन्तुम् ।
māyāmātraṃ tu kārtsnyenānabhivyaktasvarūpatvāt
tuśabdaḥ pakṣaṃ vyavartayati /
naitadasti yaduktaṃ saṃdhye sṛṣṭiḥ pāramārthikīti /
māyaiva saṃdhye sṛṣṭirna pāramārthagandho 'pyasti /
kutaḥ - kārtsnyenānabhivyaktasvarūpatvāt /
nahi kārtsnyenapāramārthavastudharmeṇābhivyaktasvarūpaḥ svapnaḥ /
kiṃ punaratra kārtsnyamabhipretaṃ deśakālanimittānyabādhaśca /
nahi paramārthavastuviṣayāṇi deśakālanimittānyabādhāśca svapne saṃbhāvyante /
na tāvatsvapne rathādīnāmucito deśaḥ saṃbhavati /
nahi saṃvṛte dehadeśerathādayo 'vakāśaṃ labheran /
syādetat /
bahirdehātsvapnam drakṣyati deśāntaritadravyagrahaṇāt /
darśayati ca śrutirbahirdehātsvapnam- 'bahiṣkulāyādamṛtaścaritvā /
sa īyate 'mṛto yatra kāmam' (bṛ. 4.3.12) iti sthitigatipratyayabhedaśca nāniṣkrānte jantau sāmañjasyāmaśnuvīteti /
netyucyate /
nahi suptasya jantoḥ kṣaṇamātreṇa yojanaśatāntaritaṃ deśaṃ paryetuṃ viparyetuṃ ca tataḥ sāmarthyaṃ saṃbhāvyate /
kvacicca pratyāgamanavarjitaṃ svapnaṃ śrāvayati kuruṣvahamadya śayāno nidrayābhiplutaḥ svapne pañcālānabhigataścāsminpratibuddhaśceti /
dehāccedapeyātpañcāleṣu pratihudhyeta na tānasāvabhigata iti kuruṣveva tu pratibudhyate /
yena cāyaṃ dehena deśāntaramaśnuvāno manyate tamanye pārśvasthāḥ śayanadeśa eva paśyanti /
yathābhūtāni cāyaṃ deśāntarāṇi svapne paśyati na tāni tathābhūtānyeva bhavanti /
paridhāvaṃścetpaśyejjāgradvadvastubhūtamāra athamākalayet /
darśayati ca śrutirantareva dehe svapnam- 'sa yatraitatsvapnyayā carati' ityupakramya 'sve śarīre yathākāmaṃ parivartate' (bṛ. 2.1.18) iti /
ataśca śrutyupapattivirodhādbahiṣkulāyaśrutirgauṇī vyākhyātavyayā bahiriva kulāyādamṛtaścaritveti /
yo hi vasannapi śarīre na tena prayojanaṃ karoti sa bahiriva śarīrādbhavatīti /
sthitigatipratyayabhedo 'pyevaṃ sati vipralambha evābhyupagantavyaḥ /
kālavisaṃvādo 'pi ca svapne bhavati rajanyāṃ supto vāsaraṃ bhārate varṣe manyate /
tathā muhūrtamātravartini svapne kadācidbahuvarṣapūgānativāhayati /
nimittānyapi ca svapne na buddhaye karmaṇe vocitāni vidyante /
karaṇosaṃhārāddhi nāsya rathādigrahaṇāya cakṣurādīni santi /
rathādinirvartane 'pi kuto 'sya nimeṣamātreṇa sāmarthyaṃ dāruṇī vā /
bādhyante caite rathādayaḥ svapnadṛṣṭāḥ prabodhe /
svapna eva caite sulabhabādhā bhavanti /
ādyantayorvyabhicāradarśanāt /
ratho 'yamiti hi kadācitsvapne nirdhāritaḥ kṣaṇena manuṣyaḥ saṃpadyate manuṣyo 'yamiti nirdhāritaḥ kṣaṇena vṛkṣaḥ /
spaṣṭaṃ cābhāvaṃ rathādīnāṃ svapne śrāvayati śāstram - ''na tatra rathā na rathayogā na panthāno bhavanti' (bṛ. 4.3.10) ityādi /
tasmānmāyāmātraṃ svapnadarśanam // 3 //
----------------------
FN: saṃvṛte saṃkīrṇaḥ /
paryetuṃ gantum /
viparyetuṃ āgantum /
Sanskrit only: no published translation is held for this verse.
सूचकश्च हि श्रुतेर् आचक्षते च तद्विदः
मायामात्रत्वात्तर्हि न कश्चित्स्वप्ने परमार्थगन्धो ऽस्तीति ।
नेत्युच्यते ।
सूचकश्च हि स्वप्नो भवति भविष्यतोःसाध्वसाधुनोः ।
तथाहि श्रूयते - ऽयदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति ।
समृद्धिं तत्र जानीयात्तस्मिन्स्वप्नदर्शनेऽ (छा। ५।२।९) तथा पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति इत्येवमादिभिः स्वप्नैरचिरजीवित्वमावेद्यत इति श्रावयति ।
आचक्षते च स्वप्नाध्यायविदः - ऽकुञ्जरारोहणादीनि स्वप्ने धन्यानि खरयानादीन्यधन्यानिऽ इति ।
मन्त्रदेवताद्रव्यविशेषनिमित्ताश्च केचित्स्वप्नाः सत्यार्थगन्धिनो भवन्तीति मन्यन्ते ।
तत्रापि भवतु नाम सूच्यमानस्य वस्तुनः सत्यत्वं, सूचकस्य तु स्त्रीदर्शनादेर्भवत्येव वैतथ्यं बाध्यमानत्वादित्यभिप्रायः ।
तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम् ।
यदुक्तम् ऽआह हिऽ इति तदेवं सति भाक्तं व्याख्यातव्यम् ।
यथा लाङ्गलं गवादीनुद्वहतीति निमित्तमात्रत्वादेवमुच्यते, नतु प्रत्यक्षमेव लाङ्गलं गवादीनुद्वहति ।
एवं निमित्तमात्रत्वादेवात्सुप्तो रथादीन्सृजते स हि कर्तेति चोच्यते, नतु प्रत्यक्षमेव सुप्तो रथादीन्सृजति ।
निमित्त्त्वं त्वस्य रथादिप्रतिभाननिमित्तमोदत्रासादिदर्शनात्तन्निमित्तभूतयोः सुकृतदुष्कृतयोः कर्तृत्वेनेति वक्तव्यम् ।
अपिच जागरिते विषयेन्द्रियसंयोगादादित्यादिज्योतिर्व्यतिकराच्चात्मनः स्वयञ्ज्योतिष्ट्वं दुर्विवेचनमिति तद्विवेचनाय स्वप्न उपन्यस्तः ।
तत्र यदि रथादिसृष्चिवचनं श्रुत्या नीयेत तदा स्वयञ्ज्योतिष्ट्वं न निर्णीतं स्यात् ।
तस्माद्रथाद्यभाववचनं श्रुत्या रथादिसृष्टिवचनं तु भक्त्येति व्याख्येयम् ।
एतेन निर्माणश्रवणं व्याख्यातम् ।
यदप्युक्तम् - ऽप्राज्ञमेनं निर्मातारमामनन्तिऽ इति ।
तदप्यसत् ।
श्रुत्यन्तरे ऽस्वयं विहत्य स्वयं निर्माय स्वेन भासा ज्योतिषा प्रस्वपितिऽ (बृ। ४।३।९) इति जीवव्यापारश्रवणात् ।
इहापि ऽय एष सुप्तेषु जागर्तिऽ (क। ५।८) इति प्रसिद्धानुवज्जीव एवायं कामानां निर्माता संकीर्त्यते ।
तस्य तु वाक्यशेषेण तदेव शुक्रं तद्ब्रह्मेति जीवभावं व्यावर्त्य ब्रह्मभाव उपदिश्यते - ऽतत्त्वमसिऽ (छा। ६।९।४) इत्यादिवदिति न ब्रह्मप्रकरणं विरुध्यते ।
नचास्माभिः स्वप्ने ऽपि प्राज्ञव्यवहारः प्रतिषिध्यते ।
तस्य सर्वेश्वरत्वात्सर्वास्ववस्थाधिष्ठातृत्वोपपत्तेः ।
पारमार्थिकस्तु नायं संध्याश्रयः सर्गो वियदादिसर्गवदित्येतावत्प्रतिपाद्यते ।
नच वियदादिसर्गस्याप्यात्यन्तिकं सत्यत्वमस्ति ।
प्रतिपादितं हि ऽतदनन्यत्वमारम्भणशब्दादिभ्यःऽ (ब्र। सू। २।१।१४) इत्यत्र समस्तस्य प्रपञ्चस्य मायामात्रत्वम् ।
प्राक्तु ब्रह्मात्मत्वदर्शनाद्वियदादिप्रपञ्चो व्यवस्थितरूपो भवति ।
संध्याश्रयस्तु प्रपञ्चः प्रतिदिनं बाध्यत इति ।
अतो वैशेषिकमिदं संध्यस्य मायामत्रत्वमुदितम् ॥ ४ ॥
sūcakaśca hi śruter ācakṣate ca tadvidaḥ
māyāmātratvāttarhi na kaścitsvapne paramārthagandho 'stīti /
netyucyate /
sūcakaśca hi svapno bhavati bhaviṣyatoḥsādhvasādhunoḥ /
tathāhi śrūyate - 'yadā karmasu kāmyeṣu striyaṃ svapneṣu paśyati /
samṛddhiṃ tatra jānīyāttasminsvapnadarśane' (chā. 5.2.9) tathā puruṣaṃ kṛṣṇaṃ kṛṣṇadantaṃ paśyati sa enaṃ hanti ityevamādibhiḥ svapnairacirajīvitvamāvedyata iti śrāvayati /
ācakṣate ca svapnādhyāyavidaḥ - 'kuñjarārohaṇādīni svapne dhanyāni kharayānādīnyadhanyāni' iti /
mantradevatādravyaviśeṣanimittāśca kecitsvapnāḥ satyārthagandhino bhavantīti manyante /
tatrāpi bhavatu nāma sūcyamānasya vastunaḥ satyatvaṃ, sūcakasya tu strīdarśanāderbhavatyeva vaitathyaṃ bādhyamānatvādityabhiprāyaḥ /
tasmādupapannaṃ svapnasya māyāmātratvam /
yaduktam 'āha hi' iti tadevaṃ sati bhāktaṃ vyākhyātavyam /
yathā lāṅgalaṃ gavādīnudvahatīti nimittamātratvādevamucyate, natu pratyakṣameva lāṅgalaṃ gavādīnudvahati /
evaṃ nimittamātratvādevātsupto rathādīnsṛjate sa hi karteti cocyate, natu pratyakṣameva supto rathādīnsṛjati /
nimitttvaṃ tvasya rathādipratibhānanimittamodatrāsādidarśanāttannimittabhūtayoḥ sukṛtaduṣkṛtayoḥ kartṛtveneti vaktavyam /
apica jāgarite viṣayendriyasaṃyogādādityādijyotirvyatikarāccātmanaḥ svayañjyotiṣṭvaṃ durvivecanamiti tadvivecanāya svapna upanyastaḥ /
tatra yadi rathādisṛṣcivacanaṃ śrutyā nīyeta tadā svayañjyotiṣṭvaṃ na nirṇītaṃ syāt /
tasmādrathādyabhāvavacanaṃ śrutyā rathādisṛṣṭivacanaṃ tu bhaktyeti vyākhyeyam /
etena nirmāṇaśravaṇaṃ vyākhyātam /
yadapyuktam - 'prājñamenaṃ nirmātāramāmananti' iti /
tadapyasat /
śrutyantare 'svayaṃ vihatya svayaṃ nirmāya svena bhāsā jyotiṣā prasvapiti' (bṛ. 4.3.9) iti jīvavyāpāraśravaṇāt /
ihāpi 'ya eṣa supteṣu jāgarti' (ka. 5.8) iti prasiddhānuvajjīva evāyaṃ kāmānāṃ nirmātā saṃkīrtyate /
tasya tu vākyaśeṣeṇa tadeva śukraṃ tadbrahmeti jīvabhāvaṃ vyāvartya brahmabhāva upadiśyate - 'tattvamasi' (chā. 6.9.4) ityādivaditi na brahmaprakaraṇaṃ virudhyate /
nacāsmābhiḥ svapne 'pi prājñavyavahāraḥ pratiṣidhyate /
tasya sarveśvaratvātsarvāsvavasthādhiṣṭhātṛtvopapatteḥ /
pāramārthikastu nāyaṃ saṃdhyāśrayaḥ sargo viyadādisargavadityetāvatpratipādyate /
naca viyadādisargasyāpyātyantikaṃ satyatvamasti /
pratipāditaṃ hi 'tadananyatvamārambhaṇaśabdādibhyaḥ' (bra. sū. 2.1.14) ityatra samastasya prapañcasya māyāmātratvam /
prāktu brahmātmatvadarśanādviyadādiprapañco vyavasthitarūpo bhavati /
saṃdhyāśrayastu prapañcaḥ pratidinaṃ bādhyata iti /
ato vaiśeṣikamidaṃ saṃdhyasya māyāmatratvamuditam // 4 //
Sanskrit only: no published translation is held for this verse.
पराभिध्यानात् तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ
अथापि स्यात्परस्यैव तावदात्मन्ॐऽशो जीवो ऽग्निरिव विस्फुलिङ्गः ।
तत्रैवं सति यथाग्निविस्फुलिङ्गयोः समाने दहनप्रकाशनशक्ती भवत एवं जीवेश्वरयोरपि ज्ञानैश्वर्यशक्ती, ततश्च जीवस्य ज्ञानैश्वर्यवशात्सांकल्पिकी स्वप्ने रथादिसृष्टिर्भविष्यतीति ।
अत्रोच्यते- सत्यपि जीवेश्वरयोरंशांशिभावे प्रत्यक्षमेव जीवस्येश्वरविपरीतधर्मत्वम् ।
किं पुनर्जीवस्येश्वरसमानधर्मत्वं नास्त्येव ।
न नास्त्येव ।
विद्यमानमपि तत्तिरोहितमविद्यादिव्यवधानात् ।
तत्पुनस्तिरोहितं सत्परमेश्वरमभिध्यायतो यतमानस्य जन्तोर्विधूतध्वान्तस्य तिमिरतिरस्कृतेव दृक्शक्तिरौषधवीर्यादीश्वरप्रसादात्संसिद्धस्य कस्यचिदेवाविर्भवति न स्वभावत एव सर्वेषां जन्तूनाम् ।
कुतः - ततो हीश्वराद्धेतोरस्य जीवस्य बन्धमोक्षौ भवतः ।
ईश्वरस्वरूपापरिज्ञानाद्बन्धस्तत्स्वरूपपरिज्ञानात्तु मोक्षः ।
तथाच श्रुतिः - ऽज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः ।
तस्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकामःऽ (श्वे। १।११) इत्येवमाद्या ॥ ५ ॥
parābhidhyānāt tu tirohitaṃ tato hyasya bandhaviparyayau
athāpi syātparasyaiva tāvadātmanoṃ'śo jīvo 'gniriva visphuliṅgaḥ /
tatraivaṃ sati yathāgnivisphuliṅgayoḥ samāne dahanaprakāśanaśaktī bhavata evaṃ jīveśvarayorapi jñānaiśvaryaśaktī, tataśca jīvasya jñānaiśvaryavaśātsāṃkalpikī svapne rathādisṛṣṭirbhaviṣyatīti /
atrocyate- satyapi jīveśvarayoraṃśāṃśibhāve pratyakṣameva jīvasyeśvaraviparītadharmatvam /
kiṃ punarjīvasyeśvarasamānadharmatvaṃ nāstyeva /
na nāstyeva /
vidyamānamapi tattirohitamavidyādivyavadhānāt /
tatpunastirohitaṃ satparameśvaramabhidhyāyato yatamānasya jantorvidhūtadhvāntasya timiratiraskṛteva dṛkśaktirauṣadhavīryādīśvaraprasādātsaṃsiddhasya kasyacidevāvirbhavati na svabhāvata eva sarveṣāṃ jantūnām /
kutaḥ - tato hīśvarāddhetorasya jīvasya bandhamokṣau bhavataḥ /
īśvarasvarūpāparijñānādbandhastatsvarūpaparijñānāttu mokṣaḥ /
tathāca śrutiḥ - 'jñātvā devaṃ sarvapāśāpahāniḥ kṣīṇaiḥ kleśairjanmamṛtyuprahāṇiḥ /
tasyābhidhyānāttṛtīyaṃ dehabhede viśvaiśvaryaṃ kevala āptakāmaḥ' (śve. 1.11) ityevamādyā // 5 //
Sanskrit only: no published translation is held for this verse.
देहयोगाद्वा सो ऽपि
कस्मात्पुनर्जीवः परमात्मांश एव संस्तिरस्कृतज्ञानैश्वर्यो भवति ।
युक्तं तु ज्ञानैश्वर्ययोरतिरस्कृतत्वं विस्फुलिङ्गस्येव दहनप्रकाशनयोरिति ।
उच्यते ।
सत्यमेवैतत् ।
सो ऽपि तु जीवस्य ज्ञानैश्वर्यतिरोभावो देहयोगाद्देहेन्द्रियमनोबुद्धिविषयवेदनादियोगाद्भवति ।
अस्ति चात्रोपमा यथाग्नेर्दहनप्रकाशनसंपन्नस्याप्यरणितस्य दहनप्रकाशने तिरोहिते भवतो यथा वा भस्मच्छन्नस्य ।
एवमविद्याप्रत्युपस्थापितनामरूपकृतदेहाद्युपाधियोगात्तदविवेकभ्रमकृतो जीवस्य ज्ञानैश्वर्यतिरोभावः ।
वाशब्दो जीवेश्वरयोरन्यत्वाशङ्काव्यावृत्त्यर्थः ।
नन्वस्य एव जीव ईश्वरादस्तु तिरस्कृतज्ञानैश्वर्यत्वात्किं देहयोगकल्पनया ।
नेत्युच्यते ।
नह्यन्यत्वं जीवस्येश्वरादुपपद्यते ऽसेयं देवतैक्षतऽ (छा। ६।३।२) इत्युपक्रम्य ऽअनेन जीवेनात्मनानुप्रविश्यऽ (छा। ६।३।२) इत्यात्मशब्देन जीवस्य परामर्शात् ।
ऽतत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतोऽ (छा। ६।९।४) इति च जीवायोपदिशतीश्वरात्मत्वम् ।
अतो ऽनन्य एवेश्वराज्जीवः सेदेहयोगात्तिरोहितज्ञानैश्वर्यो भवति ।
अतश्च न सांकल्पिकी जीवस्य स्वप्ने रथादिसृष्टिर्घटते ।
यदि च सांकल्पिकी स्वप्ने रथादिसृष्टिः स्यान्नैवानिष्टं कश्चित्स्वप्नं पश्येत् ।
नहि कश्चिदनिष्टं संकल्प्यते ।
यत्पुनरुक्तं जागरितदेशश्रुतिः स्वप्नस्य सत्यत्वं स्थापयतीति न तत्साम्यवचनं सत्यत्वाभिप्रायं स्वयञ्ज्योतिष्ट्वविरोधात् ।
श्रुत्यैव च स्वप्ने रथाद्यभावस्य दर्शितत्वात् ।
जागरितप्रभववासनानिर्मितत्वात्तु स्वप्नस्य तत्तुल्यनिर्भासत्वाभिप्रायं तत् ।
तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम् ॥ ६ ॥
२ तदभावाधिकरणम् । सू। ७-८
dehayogādvā so 'pi
kasmātpunarjīvaḥ paramātmāṃśa eva saṃstiraskṛtajñānaiśvaryo bhavati /
yuktaṃ tu jñānaiśvaryayoratiraskṛtatvaṃ visphuliṅgasyeva dahanaprakāśanayoriti /
ucyate /
satyamevaitat /
so 'pi tu jīvasya jñānaiśvaryatirobhāvo dehayogāddehendriyamanobuddhiviṣayavedanādiyogādbhavati /
asti cātropamā yathāgnerdahanaprakāśanasaṃpannasyāpyaraṇitasya dahanaprakāśane tirohite bhavato yathā vā bhasmacchannasya /
evamavidyāpratyupasthāpitanāmarūpakṛtadehādyupādhiyogāttadavivekabhramakṛto jīvasya jñānaiśvaryatirobhāvaḥ /
vāśabdo jīveśvarayoranyatvāśaṅkāvyāvṛttyarthaḥ /
nanvasya eva jīva īśvarādastu tiraskṛtajñānaiśvaryatvātkiṃ dehayogakalpanayā /
netyucyate /
nahyanyatvaṃ jīvasyeśvarādupapadyate 'seyaṃ devataikṣata' (chā. 6.3.2) ityupakramya 'anena jīvenātmanānupraviśya' (chā. 6.3.2) ityātmaśabdena jīvasya parāmarśāt /
'tatsatyaṃ sa ātmā tattvamasi śvetaketo' (chā. 6.9.4) iti ca jīvāyopadiśatīśvarātmatvam /
ato 'nanya eveśvarājjīvaḥ sedehayogāttirohitajñānaiśvaryo bhavati /
ataśca na sāṃkalpikī jīvasya svapne rathādisṛṣṭirghaṭate /
yadi ca sāṃkalpikī svapne rathādisṛṣṭiḥ syānnaivāniṣṭaṃ kaścitsvapnaṃ paśyet /
nahi kaścidaniṣṭaṃ saṃkalpyate /
yatpunaruktaṃ jāgaritadeśaśrutiḥ svapnasya satyatvaṃ sthāpayatīti na tatsāmyavacanaṃ satyatvābhiprāyaṃ svayañjyotiṣṭvavirodhāt /
śrutyaiva ca svapne rathādyabhāvasya darśitatvāt /
jāgaritaprabhavavāsanānirmitatvāttu svapnasya tattulyanirbhāsatvābhiprāyaṃ tat /
tasmādupapannaṃ svapnasya māyāmātratvam // 6 //
2 tadabhāvādhikaraṇam / sū. 7-8
Sanskrit only: no published translation is held for this verse.
तदभावो नाडीषु तच्छ्रुतेर् आत्मनि च
स्वप्नावस्था परीक्षिता सुषुप्तावस्थेदानीं परीक्ष्यते ।
तत्रैताः सुषुप्तिविषयाः श्रुतयो भवन्ति ।
क्वचिच्छ्रूयते- ऽतद्यत्रैतत्सुप्तः समस्तः स्वप्नं न विजानात्यासु तदा नाडीषु सृपो भवतिऽ (छा। ८।६।३) इति ।
अन्यत्र तु नाडीरेवानुक्रम्य श्रूयते - ऽताभिः प्रत्यवसृप्य पुरीतति शेतेऽ (बृ। २।१।१९) इति ।
तथान्यत्र नाडीरेवानुक्रम्य ऽतासु तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवतिऽ (कौषी। ४।१९) इति ।
तथान्यत्र ऽय एषो ऽन्तर्हृदय आकाशस्तस्मिञ्छेतेऽ (बृ। २।१।१७) इति ।
तथान्यत्र ऽसता सोम्य तदा संपन्नो भवति स्वमपीतो भवतिऽ (छा। ६।८।१) इति ।
ऽप्राज्ञेनात्मना संपरिश्वक्तो न बाह्यं किञ्चन वेद नान्तरम्ऽ (बृ। ४।३।२१) इति च ।
तत्र संशयः - किमेतानि नाड्यादीनि परस्परनिरपेक्षाणि भिन्नानि सुषुप्तिस्थानान्याहोस्वित्परस्परापेक्षयैकं सुषुप्तिस्थानमस्ति ।
किं तावत्प्राप्तं भिन्नानीति ।
कुतः - एकार्थत्वात् ।
नह्येकार्थानीं क्वचित्परस्परापेक्षत्वं दृश्यते व्रीहियवादीनाम् ।
नाड्यादीनां त्वेकार्थता सुषुप्तौ दृश्यते - ऽनाडीशु सृप्तो भवतिऽ (छा। ८।६।३) ऽपुरीतति शेतेऽ
(बृ। २।१।१९) इति च तत्र तत्र सप्तमीनिर्देशस्य तुल्यत्वात् ।
ननु नैवं सति सप्तमीनिर्देशो दृश्यते - ऽसता सोम्य तदा संपन्नो भवतिऽ (छा। ६।८।१) इति ।
नैष दोषः ।
तत्रापि सप्तम्यर्थस्य गम्यमानत्वात् ।
वाक्यशेषो हि तत्रायतनैषी जीवः सदुपसर्पतीत्याह - ऽअन्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयतेऽ (छा। ६।८।२) इति प्राणशब्देन तत्र प्रकृतस्य सत उपादनात् ।
आयतनं च सप्तम्यर्थः ।
सप्तमीनिर्देशो ऽपि तत्र वाक्यशेषे दृश्यते - ऽसति संपद्य न विदुः सति संपद्यामहेऽ (छा। ६।९।२) इति ।
सर्वत्र च विशेषविज्ञानोपरमलक्षणं सुषुप्तं न विशिष्यते ।
तस्मादेकार्तत्वान्नाड्यादीनां विकल्पेन कदाचित्किञ्चित्स्थानं स्वापायोपसर्पतीति ।
एवं प्राप्ते प्रतिपाद्यते - तदभावो नाडीष्वात्नि चेति ।
तदभाव इति तस्य प्रकृतस्य स्वप्नदर्शनस्याभावः सुषुप्तमित्यर्थः ।
नाडीष्वात्मनि चेति समुच्चयेनैतानि नाड्यादीनि स्वापायोपैति न विकल्पेनेत्यर्थः ।
कुतः - तच्छ्रुतेः ।
तथाहि - सर्वेषामेव नाड्यादीनां तत्र तत्र सुषुप्तिस्थानत्वं श्रूयते तच्च मसुच्चये संगृहीतं भवति ।
विकल्पे ह्येषां पक्षे बाधः स्यात् ।
नन्वेकार्थत्वाद्विकल्पो नाड्यादीनां व्रीहियवादिवत्युक्तम् ।
नेत्युच्यते ।
नह्येकविभक्तिनिर्देशमात्रेणैकार्थत्वं विकल्पश्चापतति ।
नानार्थत्वसमुच्चययोरप्येकविभक्तिनिर्देशदर्शनाप्रासादे शेते पर्यङ् के शेत इत्येवमादिषु ।
तथेहापि नाडीषु पुरीतति ब्रह्मणि च स्वपितीत्येतदुपपद्यते समुच्चयः ।
तथाच श्रुतिः - ऽतासु तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवतिऽ (कौषी। ४।१९) इति समुच्चयं नाडीनां प्राणस्य च सुषुप्तौ श्रावयत्येकवाक्योपादानात् ।
प्राणस्य च ब्रह्मत्वं समधिगतम् - ऽप्राणस्तथानुगमात्ऽ (ब्रसू। १।१।२८) इत्यत्र ।
यत्रापि निरपेक्षा इव नाडीः सुप्तिस्थानत्वेन श्रावयति - ऽआसु तदा नाडीषु सृप्तो भवतिऽ (छा। ८।६।३) इति ।
तत्रापि प्रदेशान्तरप्रसिद्धस्य ब्रह्मणो ऽप्रतिषेधान्नाडीद्वारेणैव ब्रह्मण्येवावतिष्ठत इति प्रतीयते ।
नचैवमपि नाडीषु सप्तमी विरुध्यते ।
नाडीद्वारापि ब्रह्मोपसर्पन्सृप्त एव नाडीषु भवति ।
यो हि गङ्गया सागरं गच्छति गत एव स गङ्गायां भवति ।
अपिचात्र रश्मीनाडीद्वारात्मकस्य ब्रह्मलोकमार्गस्य विवक्षितत्वान्नाडीस्तुत्यर्थं सृप्तिसंकीर्तनम् ।
ऽनाडीषु सृप्तो भवतिऽ (छा। ८।६।३) इत्युक्त्वा ऽतं न कश्चन पाप्मा स्पृशतिऽ (छा। ८।६।३) इति ब्रुवन्नाडीः प्रशंसति ।
ब्रवीति च पाप्मस्पर्शाभावे हेतुम् - तेजसा नाडीगतेन पित्ताख्येनाभिव्याप्तकरणो न बाह्यान्विषयानीक्षत इत्यर्थः ।
अथवा तेजसेति ब्रह्मण एवायं निर्देशः ।
श्रुत्यन्तरे -ऽ ब्रह्मैव तेज एवऽ (बृ। ४।४।७) इति तेजः शब्दस्य ब्रह्मणि प्रत्युक्तत्वात् ।
ब्रह्मणा हि तदा संपन्नो भवति नाडीद्वारेणातस्तं न कश्चन पाप्मान स्पृशतीत्यर्थः ।
ब्रह्मसमपत्तिश्च पाप्मस्पर्शाभावे हेतुः समधिगतः - ऽसर्वे पाप्मानो ऽत निवर्तन्ते ऽपहतपाप्मा ह्येष ब्रह्मलोकःऽ (छा।
८।४।२) इत्यादिश्रुतिभ्यः ।
एवञ्च सति प्रदेशान्तरप्रसिद्धेन ब्रह्मणा सुषुप्तिस्थानेनानुगतो नाडीनां समुच्चयः समधिगतो भवति ।
तथा पुरीततो ऽपि ब्रह्मप्रक्रियायां संकीर्तनात्तदनुगुणमेव सुप्तिस्थानत्वं विज्ञायते - ऽय एषो ऽन्तर्हृदय आकाशस्तस्मिञ्छेतेऽ (बृ। २।१।१७) इति हृदयाकाशे सुप्तिस्थाने प्रकृत इदमुच्यते ऽपुरीतति शेतेऽ (बृ। २।१।१९) इति ।
पुरीतदिति हृदयपरिवेष्टनमुच्यते ।
तदन्तर्वर्तिन्यापि हृदयाकाशे शयानः शक्यते पुरीतति शेत इति वक्तुम् ।
प्राकारपरिक्षिप्ते ऽपि पुरे वर्तमानः प्राकारे वर्तत इत्युच्यते ।
हृदयाकाशस्य च ब्रह्मत्वं समधिगतम् - ऽदहर उत्तरेभ्यःऽ (ब्रसू। १।३।१४) इत्यत्र ।
तथा नाडीपुरीतत्समुच्चयो ऽपि - ऽताभिः प्रत्यवसृत्य पुरीतति शेतेऽ (बृ। २।१।१९) इत्येकवाक्योपादानादवगम्यते ।
सत्प्राज्ञयोश्च प्रसिद्धमेव ब्रह्मत्वम् ।
एवमेतासु श्रुतिषु त्रीण्येव सुषुप्तिस्थानानि संकीर्तितानि नाड्यः पुरीतद्ब्रह्म चेति ।
तत्रापि द्वारमात्रं नाड्यः पुरीतच्च, ब्रह्मैव त्वेकं सुषुप्ति स्थानम् ।
अपिच नाड्यः पुरीतद्वा जीवस्योपाध्याधार एव भवति तत्रास्य करणानि वर्तन्त इति ।
नह्युपाधिसंबन्धमन्तरेण स्वत एव जीवस्याधारः कश्चित्संभवति, ब्रह्माव्यतिरेकेण स्वमहिमप्रतिष्ठितत्वात् ।
ब्रह्माधारत्वमप्यस्य सुषुप्ते नैवाधाराधेयभेदाभिप्रायेणोच्यते कथं तर्हि तादात्म्याभिप्रायेण ।
यत आह - ऽसता सोम्य तदा संपन्नो भवति स्वमपीतो भवतिऽ (छा। ६।८।१) इति ।
स्वशब्देनात्माभिलप्यते, स्वरूपमापन्नः सुप्तो भवतीत्यर्थः ।
अपिच न कदाचिज्जीवस्य ब्रह्मणा संपत्तिर्नास्ति स्वरूपस्यानपायित्वात् ।
स्वप्नजागरितयोस्तूपाधिसंपर्कवशात्पररूपापत्तिमिवापेक्ष्य तदुपशमात्सुषुप्तेः स्वरूपापत्तिर्वक्ष्यते ।
अतश्च सुप्तावस्थायां कदाचित्सतां संपद्यते कदाचिन्न संपद्यत इत्ययुक्तम् ।
अपिच स्थानविकल्पाभ्युपगमे ऽपि विशेषविज्ञानोपलक्षणं तावत्सुषुप्तं न क्वचिद्विशिष्यते ।
तत्र सति संपन्नस्तावत्तदेकत्वान्न विजानतीति युक्तम् ।
ऽत्तकेन कं विजानीयात् ।
ऽ (बृ। २।४।१४) इति श्रुतेः ।
नाडीषु पुरतीति च शयानस्य न किञ्चिदविज्ञाने कारणं शक्यं विज्ञातुं, भेदविषयत्वात् ऽयत्र वा अन्यदिव स्यात्तत्रान्यो ऽन्यत्पश्येत्ऽ (बृ। ४।३।३१) इति श्रुतेः ।
ननु भेदविषयस्याप्यतिदूरादिकारणमविज्ञाने स्यात् ।
बाढम् ।
एवं स्याद्यदि जीवः स्वतःपरिच्छिन्नो ऽभ्युपगम्यते, यथा विष्णुमित्रः प्रवासी स्वगृहं न पश्यति ।
नतु जीवस्योपाधिव्यतिरेकेण परिच्छेदो विद्यते ।
उपाधिगतमेवातिदूरादिकारणमविज्ञान इति यद्युच्येत तथाप्युपाधेरुपशान्तत्वात्सत्येव संपन्नो न विजानतीति युक्तम् ।
नच वयमिह तुल्यवन्नाड्यादिसमुच्चयं प्रतिपादयामः ।
नहि नाड्यः सुप्तिस्थानं पुरीतद्वेत्यनेन विज्ञानेन किञ्चित्प्रयोजनमस्ति ।
नह्येतद्विज्ञानप्रतिबद्धं किञ्चित्फलं श्रूयते ।
नाप्येतद्विज्ञानं फलवतः कस्यचिदङ्गमुपदिश्यते ।
ब्रह्म त्वनपायि सुप्तिस्थानमित्येतत्प्रतिपादयामः ।
तेन तु विज्ञानेन प्रयोजनमस्ति जीवस्य ब्रह्मात्मत्वावधारणं स्वप्नजागरितव्यवहारविमुक्तत्वावधारणं च ।
तस्मादात्मैव सुप्तिस्थानम् ।
tadabhāvo nāḍīṣu tacchruter ātmani ca
svapnāvasthā parīkṣitā suṣuptāvasthedānīṃ parīkṣyate /
tatraitāḥ suṣuptiviṣayāḥ śrutayo bhavanti /
kvacicchrūyate- 'tadyatraitatsuptaḥ samastaḥ svapnaṃ na vijānātyāsu tadā nāḍīṣu sṛpo bhavati' (chā. 8.6.3) iti /
anyatra tu nāḍīrevānukramya śrūyate - 'tābhiḥ pratyavasṛpya purītati śete' (bṛ. 2.1.19) iti /
tathānyatra nāḍīrevānukramya 'tāsu tadā bhavati yadā suptaḥ svapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati' (kauṣī. 4.19) iti /
tathānyatra 'ya eṣo 'ntarhṛdaya ākāśastasmiñchete' (bṛ. 2.1.17) iti /
tathānyatra 'satā somya tadā saṃpanno bhavati svamapīto bhavati' (chā. 6.8.1) iti /
'prājñenātmanā saṃpariśvakto na bāhyaṃ kiñcana veda nāntaram' (bṛ. 4.3.21) iti ca /
tatra saṃśayaḥ - kimetāni nāḍyādīni parasparanirapekṣāṇi bhinnāni suṣuptisthānānyāhosvitparasparāpekṣayaikaṃ suṣuptisthānamasti /
kiṃ tāvatprāptaṃ bhinnānīti /
kutaḥ - ekārthatvāt /
nahyekārthānīṃ kvacitparasparāpekṣatvaṃ dṛśyate vrīhiyavādīnām /
nāḍyādīnāṃ tvekārthatā suṣuptau dṛśyate - 'nāḍīśu sṛpto bhavati' (chā. 8.6.3) 'purītati śete'
(bṛ. 2.1.19) iti ca tatra tatra saptamīnirdeśasya tulyatvāt /
nanu naivaṃ sati saptamīnirdeśo dṛśyate - 'satā somya tadā saṃpanno bhavati' (chā. 6.8.1) iti /
naiṣa doṣaḥ /
tatrāpi saptamyarthasya gamyamānatvāt /
vākyaśeṣo hi tatrāyatanaiṣī jīvaḥ sadupasarpatītyāha - 'anyatrāyatanamalabdhvā prāṇamevopaśrayate' (chā. 6.8.2) iti prāṇaśabdena tatra prakṛtasya sata upādanāt /
āyatanaṃ ca saptamyarthaḥ /
saptamīnirdeśo 'pi tatra vākyaśeṣe dṛśyate - 'sati saṃpadya na viduḥ sati saṃpadyāmahe' (chā. 6.9.2) iti /
sarvatra ca viśeṣavijñānoparamalakṣaṇaṃ suṣuptaṃ na viśiṣyate /
tasmādekārtatvānnāḍyādīnāṃ vikalpena kadācitkiñcitsthānaṃ svāpāyopasarpatīti /
evaṃ prāpte pratipādyate - tadabhāvo nāḍīṣvātni ceti /
tadabhāva iti tasya prakṛtasya svapnadarśanasyābhāvaḥ suṣuptamityarthaḥ /
nāḍīṣvātmani ceti samuccayenaitāni nāḍyādīni svāpāyopaiti na vikalpenetyarthaḥ /
kutaḥ - tacchruteḥ /
tathāhi - sarveṣāmeva nāḍyādīnāṃ tatra tatra suṣuptisthānatvaṃ śrūyate tacca masuccaye saṃgṛhītaṃ bhavati /
vikalpe hyeṣāṃ pakṣe bādhaḥ syāt /
nanvekārthatvādvikalpo nāḍyādīnāṃ vrīhiyavādivatyuktam /
netyucyate /
nahyekavibhaktinirdeśamātreṇaikārthatvaṃ vikalpaścāpatati /
nānārthatvasamuccayayorapyekavibhaktinirdeśadarśanāprāsāde śete paryaṅ ke śeta ityevamādiṣu /
tathehāpi nāḍīṣu purītati brahmaṇi ca svapitītyetadupapadyate samuccayaḥ /
tathāca śrutiḥ - 'tāsu tadā bhavati yadā suptaḥ svapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati' (kauṣī. 4.19) iti samuccayaṃ nāḍīnāṃ prāṇasya ca suṣuptau śrāvayatyekavākyopādānāt /
prāṇasya ca brahmatvaṃ samadhigatam - 'prāṇastathānugamāt' (bra.sū. 1.1.28) ityatra /
yatrāpi nirapekṣā iva nāḍīḥ suptisthānatvena śrāvayati - 'āsu tadā nāḍīṣu sṛpto bhavati' (chā. 8.6.3) iti /
tatrāpi pradeśāntaraprasiddhasya brahmaṇo 'pratiṣedhānnāḍīdvāreṇaiva brahmaṇyevāvatiṣṭhata iti pratīyate /
nacaivamapi nāḍīṣu saptamī virudhyate /
nāḍīdvārāpi brahmopasarpansṛpta eva nāḍīṣu bhavati /
yo hi gaṅgayā sāgaraṃ gacchati gata eva sa gaṅgāyāṃ bhavati /
apicātra raśmīnāḍīdvārātmakasya brahmalokamārgasya vivakṣitatvānnāḍīstutyarthaṃ sṛptisaṃkīrtanam /
'nāḍīṣu sṛpto bhavati' (chā. 8.6.3) ityuktvā 'taṃ na kaścana pāpmā spṛśati' (chā. 8.6.3) iti bruvannāḍīḥ praśaṃsati /
bravīti ca pāpmasparśābhāve hetum - tejasā nāḍīgatena pittākhyenābhivyāptakaraṇo na bāhyānviṣayānīkṣata ityarthaḥ /
athavā tejaseti brahmaṇa evāyaṃ nirdeśaḥ /
śrutyantare -' brahmaiva teja eva' (bṛ. 4.4.7) iti tejaḥ śabdasya brahmaṇi pratyuktatvāt /
brahmaṇā hi tadā saṃpanno bhavati nāḍīdvāreṇātastaṃ na kaścana pāpmāna spṛśatītyarthaḥ /
brahmasamapattiśca pāpmasparśābhāve hetuḥ samadhigataḥ - 'sarve pāpmāno 'ta nivartante 'pahatapāpmā hyeṣa brahmalokaḥ' (chā.
8.4.2) ityādiśrutibhyaḥ /
evañca sati pradeśāntaraprasiddhena brahmaṇā suṣuptisthānenānugato nāḍīnāṃ samuccayaḥ samadhigato bhavati /
tathā purītato 'pi brahmaprakriyāyāṃ saṃkīrtanāttadanuguṇameva suptisthānatvaṃ vijñāyate - 'ya eṣo 'ntarhṛdaya ākāśastasmiñchete' (bṛ. 2.1.17) iti hṛdayākāśe suptisthāne prakṛta idamucyate 'purītati śete' (bṛ. 2.1.19) iti /
purītaditi hṛdayapariveṣṭanamucyate /
tadantarvartinyāpi hṛdayākāśe śayānaḥ śakyate purītati śeta iti vaktum /
prākāraparikṣipte 'pi pure vartamānaḥ prākāre vartata ityucyate /
hṛdayākāśasya ca brahmatvaṃ samadhigatam - 'dahara uttarebhyaḥ' (bra.sū. 1.3.14) ityatra /
tathā nāḍīpurītatsamuccayo 'pi - 'tābhiḥ pratyavasṛtya purītati śete' (bṛ. 2.1.19) ityekavākyopādānādavagamyate /
satprājñayośca prasiddhameva brahmatvam /
evametāsu śrutiṣu trīṇyeva suṣuptisthānāni saṃkīrtitāni nāḍyaḥ purītadbrahma ceti /
tatrāpi dvāramātraṃ nāḍyaḥ purītacca, brahmaiva tvekaṃ suṣupti sthānam /
apica nāḍyaḥ purītadvā jīvasyopādhyādhāra eva bhavati tatrāsya karaṇāni vartanta iti /
nahyupādhisaṃbandhamantareṇa svata eva jīvasyādhāraḥ kaścitsaṃbhavati, brahmāvyatirekeṇa svamahimapratiṣṭhitatvāt /
brahmādhāratvamapyasya suṣupte naivādhārādheyabhedābhiprāyeṇocyate kathaṃ tarhi tādātmyābhiprāyeṇa /
yata āha - 'satā somya tadā saṃpanno bhavati svamapīto bhavati' (chā. 6.8.1) iti /
svaśabdenātmābhilapyate, svarūpamāpannaḥ supto bhavatītyarthaḥ /
apica na kadācijjīvasya brahmaṇā saṃpattirnāsti svarūpasyānapāyitvāt /
svapnajāgaritayostūpādhisaṃparkavaśātpararūpāpattimivāpekṣya tadupaśamātsuṣupteḥ svarūpāpattirvakṣyate /
ataśca suptāvasthāyāṃ kadācitsatāṃ saṃpadyate kadācinna saṃpadyata ityayuktam /
apica sthānavikalpābhyupagame 'pi viśeṣavijñānopalakṣaṇaṃ tāvatsuṣuptaṃ na kvacidviśiṣyate /
tatra sati saṃpannastāvattadekatvānna vijānatīti yuktam /
'ttakena kaṃ vijānīyāt /
' (bṛ. 2.4.14) iti śruteḥ /
nāḍīṣu puratīti ca śayānasya na kiñcidavijñāne kāraṇaṃ śakyaṃ vijñātuṃ, bhedaviṣayatvāt 'yatra vā anyadiva syāttatrānyo 'nyatpaśyet' (bṛ. 4.3.31) iti śruteḥ /
nanu bhedaviṣayasyāpyatidūrādikāraṇamavijñāne syāt /
bāḍham /
evaṃ syādyadi jīvaḥ svataḥparicchinno 'bhyupagamyate, yathā viṣṇumitraḥ pravāsī svagṛhaṃ na paśyati /
natu jīvasyopādhivyatirekeṇa paricchedo vidyate /
upādhigatamevātidūrādikāraṇamavijñāna iti yadyucyeta tathāpyupādherupaśāntatvātsatyeva saṃpanno na vijānatīti yuktam /
naca vayamiha tulyavannāḍyādisamuccayaṃ pratipādayāmaḥ /
nahi nāḍyaḥ suptisthānaṃ purītadvetyanena vijñānena kiñcitprayojanamasti /
nahyetadvijñānapratibaddhaṃ kiñcitphalaṃ śrūyate /
nāpyetadvijñānaṃ phalavataḥ kasyacidaṅgamupadiśyate /
brahma tvanapāyi suptisthānamityetatpratipādayāmaḥ /
tena tu vijñānena prayojanamasti jīvasya brahmātmatvāvadhāraṇaṃ svapnajāgaritavyavahāravimuktatvāvadhāraṇaṃ ca /
tasmādātmaiva suptisthānam /
Sanskrit only: no published translation is held for this verse.
अतः प्रबोधो ऽस्मात्
यस्माच्चात्मैव सुप्तिस्थानमत एव च कारणान्नित्यवदेवास्मादात्मनः प्रबोधः स्वापाधिकारे शिष्यते - ऽकुत एतदागात्ऽ (बृ। २।१।१६) इत्यस्य प्रश्नस्य प्रतिवचनावसरे ऽयथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चारन्त्येवमेवैतस्मादात्मनः सर्वे प्राणाःऽ (बृ। २।१।२०) इत्यादिना ।
ऽसत आगम्य न विदुः सत आगच्छामहेऽ (छा। ६।१०।२) इति च ।
विकल्प्यमानेषु तु सुषुप्तिस्थानेषु कदाचिन्नाडीभ्यः प्रतिबुध्यते कदाचित्पुरीततः कदाचिदात्मन इत्यशासिष्यत् ।
तस्मादप्यात्मैव सुप्तिस्थानमिति ॥ ८ ॥
ataḥ prabodho 'smāt
yasmāccātmaiva suptisthānamata eva ca kāraṇānnityavadevāsmādātmanaḥ prabodhaḥ svāpādhikāre śiṣyate - 'kuta etadāgāt' (bṛ. 2.1.16) ityasya praśnasya prativacanāvasare 'yathāgneḥ kṣudrā visphuliṅgā vyuccārantyevamevaitasmādātmanaḥ sarve prāṇāḥ' (bṛ. 2.1.20) ityādinā /
'sata āgamya na viduḥ sata āgacchāmahe' (chā. 6.10.2) iti ca /
vikalpyamāneṣu tu suṣuptisthāneṣu kadācinnāḍībhyaḥ pratibudhyate kadācitpurītataḥ kadācidātmana ityaśāsiṣyat /
tasmādapyātmaiva suptisthānamiti // 8 //
Sanskrit only: no published translation is held for this verse.
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः
तस्याः पुनः सत्संपत्तेः प्रतिबुध्यमानः किं य एव सतसंपन्नः स एव प्रतिबुध्यत उत स वान्यो वेति चिन्त्यते ।
तत्र प्राप्तं तावदनियम इति ।
कुतः - यदा हि जलराशौ कश्चिज्जलबिन्दुः प्रक्षिप्यते जलराशिरेव स तदा भवति पुनरुद्धरणे च स एव जलबिन्दुर्भवतीति दुःसंपादम् ।
तद्वत्सुप्तः परेणैकत्मापन्नः संप्रसीदततीति न स एव पुनरुत्थातुमर्हति ।
तस्मात्स एवेश्वरो वान्यो वा जीवः प्रतिबुध्यत इत्येवं प्राप्त इदमाह - स एव तु जीवः लुप्तः स्वास्थ्यं गतः पुनरुत्तिष्ठति नान्यः ।
कस्मात् ।
कर्मानुस्मृतिशब्दविधिभ्यः ।
विभज्य हेतुं दर्शयिष्यामि ।
कर्मशेषानुष्ठानदर्शनात्तावत्स एवोत्थातुमर्हति नान्यः ।
तथाहि - पूर्वेद्युरनुष्ठितस्य कर्मणो ऽपरेद्युः शेषमनुतिष्ठन्दृश्यते ।
नचान्येन सामिकृतस्य कर्मणो ऽन्यः शेषक्रियायां प्रवरितितुमर्हति ।
अतिप्रसङ्गात् ।
तस्मादेक एव पूर्वेद्युरपरेद्युश्चैकस्य कर्मणः कर्तेति गम्यते ।
इतश्च स एवोत्तिष्ठति यत्कारणमतीते ऽहन्यहमदो ऽद्राक्षमिति पूर्वानुभूतस्य पश्चात्स्मरणमन्यस्योत्थाने नोपपद्यते ।
नह्यन्यदृष्टमन्यो ऽनुस्मर्तुमर्हति ।
सो ऽहमस्मीति चात्मानुस्मरणमात्मान्तरोत्थाने नावकल्पते ।
शब्देभ्यश्च तस्यैवोत्थानमवगम्यते ।
तथाहि - ऽपुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैवऽ (बृ। ४।३।१६) ऽसर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्तिऽ (छा। ८।३।२) ऽत इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तदाभवन्तिऽ
(छा। ६।९।३) इत्येवमादयः शब्दाः स्वापप्रबोधाधिकारे पठिता नात्मान्तरोत्थाने सामञ्जस्यमीयुः ।
कर्मविद्याविधिभ्यश्चैवमेवावगम्यते ।
अन्यथा हि कर्मविद्याविधयो ऽनर्थकाः स्युः ।
अन्योत्थानपक्षे हि सुप्तमात्रो मुच्यत इत्यापद्येत ।
एवं चेत्स्याद्वद किं कालान्तरफलेन कर्मणा विद्यया वा कृतं स्यात् ।
अपिचान्योत्थानपक्षे यदि तावच्छरीरान्तरे व्यवहरणमाणो जीव उत्तिष्ठेत्तत्रत्यव्यवहारलोपप्रसङ्गः स्यात् ।
अथ तत्र सुप्त उत्तिष्ठेत्कल्पनानर्थक्यं स्यात् ।
योहि यस्मिञ्शरीरे सुप्तः स तस्मिन्नोतिष्ठत्यन्यस्मिञ्शरीरे सुप्तो ऽन्यस्मिन्नुत्तिष्ठतीति को ऽस्यां कल्पनायां लाभः स्यात् ।
अथ मुक्त उत्तिष्ठेदन्तवान्मोक्ष आपद्येत ।
निवृत्ताविद्यस्य च पुनरुत्थानमुपपन्नम् ।
एतेनेश्वरस्योत्थानं प्रत्युक्तम् ।
नित्यनिवृत्ताविद्यत्वात् ।
अकृताभ्यागमकृतविप्रणाशौ च दुर्निवारवन्योत्थानपक्षे स्याताम् ।
तस्मात्स एवोत्तिष्ठति नान्य इति ।
यत्पुनरुक्तं यथा जलराशौ प्रक्षिप्तो जलबिन्दुर्नोद्धर्तुं शक्यत एवं सति संपन्नो जीवो नोत्पत्पतितुमर्हतीति, तत्परिह्रियते ।
युक्तं तत्र विवेककारणाभावाज्जलबिन्दोरनुद्धरणम् ।
इह तु विद्यते विवेककारणं कर्म चाविद्या चेति वैषम्यम् ।
दृश्यते च दुर्विवेचयोरप्यस्मज्जातीयैः क्षीरोदकयोः संसृष्टयोर्हंसेन विवेचनम् ।
अपिच न जीवो नाम कश्चित्परस्मादन्यो विद्यते यो जलबिन्दुरिव जलराशेः सतो विविच्येत ।
सदेव तूपाधिसंपर्काज्जीव इत्यसकृत्प्रपञ्चितम् ।
एवं सति यावदेकोपाधिगता बन्धानुवृत्तिस्तावदेकजीवव्यवहारः ।
उपाध्यन्तरगतायां तु बन्धानुवृत्तौ जीवान्चतरव्यवहारः ।
स एवायमुपाधिः स्वापप्रबोधयोर्बीजाङ् कुरन्यायेनेत्यतः स एव जीवः प्रतिबुध्यत इति युक्तम् ॥ ९ ॥
sa eva tu karmānusmṛtiśabdavidhibhyaḥ
tasyāḥ punaḥ satsaṃpatteḥ pratibudhyamānaḥ kiṃ ya eva satasaṃpannaḥ sa eva pratibudhyata uta sa vānyo veti cintyate /
tatra prāptaṃ tāvadaniyama iti /
kutaḥ - yadā hi jalarāśau kaścijjalabinduḥ prakṣipyate jalarāśireva sa tadā bhavati punaruddharaṇe ca sa eva jalabindurbhavatīti duḥsaṃpādam /
tadvatsuptaḥ pareṇaikatmāpannaḥ saṃprasīdatatīti na sa eva punarutthātumarhati /
tasmātsa eveśvaro vānyo vā jīvaḥ pratibudhyata ityevaṃ prāpta idamāha - sa eva tu jīvaḥ luptaḥ svāsthyaṃ gataḥ punaruttiṣṭhati nānyaḥ /
kasmāt /
karmānusmṛtiśabdavidhibhyaḥ /
vibhajya hetuṃ darśayiṣyāmi /
karmaśeṣānuṣṭhānadarśanāttāvatsa evotthātumarhati nānyaḥ /
tathāhi - pūrvedyuranuṣṭhitasya karmaṇo 'paredyuḥ śeṣamanutiṣṭhandṛśyate /
nacānyena sāmikṛtasya karmaṇo 'nyaḥ śeṣakriyāyāṃ pravarititumarhati /
atiprasaṅgāt /
tasmādeka eva pūrvedyuraparedyuścaikasya karmaṇaḥ karteti gamyate /
itaśca sa evottiṣṭhati yatkāraṇamatīte 'hanyahamado 'drākṣamiti pūrvānubhūtasya paścātsmaraṇamanyasyotthāne nopapadyate /
nahyanyadṛṣṭamanyo 'nusmartumarhati /
so 'hamasmīti cātmānusmaraṇamātmāntarotthāne nāvakalpate /
śabdebhyaśca tasyaivotthānamavagamyate /
tathāhi - 'punaḥ pratinyāyaṃ pratiyonyādravati buddhāntāyaiva' (bṛ. 4.3.16) 'sarvāḥ prajā aharahargacchantya etaṃ brahmalokaṃ na vindanti' (chā. 8.3.2) 'ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yadyadbhavanti tadābhavanti'
(chā. 6.9.3) ityevamādayaḥ śabdāḥ svāpaprabodhādhikāre paṭhitā nātmāntarotthāne sāmañjasyamīyuḥ /
karmavidyāvidhibhyaścaivamevāvagamyate /
anyathā hi karmavidyāvidhayo 'narthakāḥ syuḥ /
anyotthānapakṣe hi suptamātro mucyata ityāpadyeta /
evaṃ cetsyādvada kiṃ kālāntaraphalena karmaṇā vidyayā vā kṛtaṃ syāt /
apicānyotthānapakṣe yadi tāvaccharīrāntare vyavaharaṇamāṇo jīva uttiṣṭhettatratyavyavahāralopaprasaṅgaḥ syāt /
atha tatra supta uttiṣṭhetkalpanānarthakyaṃ syāt /
yohi yasmiñśarīre suptaḥ sa tasminnotiṣṭhatyanyasmiñśarīre supto 'nyasminnuttiṣṭhatīti ko 'syāṃ kalpanāyāṃ lābhaḥ syāt /
atha mukta uttiṣṭhedantavānmokṣa āpadyeta /
nivṛttāvidyasya ca punarutthānamupapannam /
eteneśvarasyotthānaṃ pratyuktam /
nityanivṛttāvidyatvāt /
akṛtābhyāgamakṛtavipraṇāśau ca durnivāravanyotthānapakṣe syātām /
tasmātsa evottiṣṭhati nānya iti /
yatpunaruktaṃ yathā jalarāśau prakṣipto jalabindurnoddhartuṃ śakyata evaṃ sati saṃpanno jīvo notpatpatitumarhatīti, tatparihriyate /
yuktaṃ tatra vivekakāraṇābhāvājjalabindoranuddharaṇam /
iha tu vidyate vivekakāraṇaṃ karma cāvidyā ceti vaiṣamyam /
dṛśyate ca durvivecayorapyasmajjātīyaiḥ kṣīrodakayoḥ saṃsṛṣṭayorhaṃsena vivecanam /
apica na jīvo nāma kaścitparasmādanyo vidyate yo jalabinduriva jalarāśeḥ sato vivicyeta /
sadeva tūpādhisaṃparkājjīva ityasakṛtprapañcitam /
evaṃ sati yāvadekopādhigatā bandhānuvṛttistāvadekajīvavyavahāraḥ /
upādhyantaragatāyāṃ tu bandhānuvṛttau jīvāncataravyavahāraḥ /
sa evāyamupādhiḥ svāpaprabodhayorbījāṅ kuranyāyenetyataḥ sa eva jīvaḥ pratibudhyata iti yuktam // 9 //
Sanskrit only: no published translation is held for this verse.
मुग्धेर्ऽधसंपत्तिः परिशेषात्
अस्ति मुग्धो नाम यं मूर्छित इति लौकिकाः कथयन्ति ।
सतु किमवस्थ इति परीक्षायामुच्यते ।
तिस्रस्तावदवस्थाः शरीरस्थस्य जीवस्य प्रसिद्धा जागरितं स्वप्नः सुषुप्तिरिति ।
चतुर्थी शरीरादपसृप्तिः ।
नतु पञ्चमीकाचिदवस्था जीवस्य श्रुतौ स्मृतौ वा प्रसिद्धास्ति ।
तस्माच्चतसृणामेवावस्थानामन्यतमावस्था मूर्छेत्येवं प्राप्ते ब्रूमः- न तावन्मुग्धो जागरितावस्थो भवितुमर्हति ।
नह्ययमिन्द्रियैर्विषयानीक्षते ।
स्यादेतत् ।
इषुकारन्यायेन मुग्धो भविष्यति ।
यथेषुकारो जाग्रदपीष्वासक्तमनस्तया नान्यान्विषयानीक्षत एवं मुग्धो मुसलसंपातादिजनितदुःखानुभवव्यग्रमनस्तया जाग्रदपि नान्यान्विषयानीक्षत इति ।
न ।
अचेतयमानत्वात् ।
इषुकारो हि व्यापृतमना ब्रवीतीषुमेवाहमेतावन्तं कालमुपलभमानो ऽभूवमिति ।
मुग्धस्तु लब्धसंज्ञो ब्रवीत्यन्धे तमस्यहमेतावन्तं कालं प्रक्षिप्तो ऽभूवं न किञ्चिन्मया चेतितमिति ।
जाग्रतश्चैकविषयविषक्तचेतसो ऽपि देहो विध्रियते ।
मुग्धस्य तु देहो धरण्यां पतति ।
तस्मान्न जागर्ति नापि स्वप्नान्पश्यति निःसंज्ञकत्वात् ।
नापि मृतः प्राणोष्मणोर्भावात् ।
मुग्धे हि जन्तौ मृतो ऽयं स्यान्न वा मृत इति संशयाना ऊष्मास्ति नास्तीति हृदयदेशमालभन्ते निश्चयार्थं प्राणो ऽस्ति नास्तीति च नासिकादेशम् ।
यदि प्राणोष्मणोरस्तित्वं नावगच्छन्ति ततो मृतो ऽयमित्यध्यवसाय दहनायारण्यं नयन्ति ।
अथ तु प्राणमूष्माणं वा प्रतिपद्यन्ते ततो नायं मृत इत्यध्यवसाय संज्ञालाभाय भिषज्यन्ति ।
पुनरुत्थानाच्च न दिष्टं गतः ।
नहि यमराष्ट्रात्प्रत्यागच्छति ।
अस्तु तर्हि सुषुप्तो निःसंज्ञत्वादमृतत्वाच्च ।
न ।
वैलक्षण्यात् ।
मुग्धः कदाचिच्चिरमपि नोच्छ्वसिति सवेपथुरस्य देहो भवति भयानकं च वदनं विस्फारिते नेत्रे ।
सुषुप्तस्तु प्रसन्नवदनस्तुल्यकालं पुनः पुनरुच्छ्वसिति निमीलिते अस्य नेत्रे भवतः ।
नचास्य देहो वेपते ।
पाणिपेषणमात्रेण च सुषुप्तमुत्थापयन्ति नतु मुग्धं मुद्गरघातेनापि ।
निमित्तभेदश्च भवति मोहस्वापयोः ।
मुसलसंपातादिनिमित्तत्वान्मोहस्य, श्रमादिनिमित्तत्वाच्च स्वापस्य ।
नच लोके ऽस्ति प्रसिद्धिर्मुग्धः सुप्त इति ।
परिशेषादर्धसंपत्तिर्मुग्धतेत्यवगच्छामः ।
नीःसंज्ञत्वात्संपन्न इतरस्माद्वैलक्षण्यादसंपन्न इति ।
कथं पुनरर्धसंपत्तिर्मुग्धतेति शक्यते वक्तुम् ।
यावता सुप्तं प्रति तावदुक्तं श्रुत्या - ऽसता सोम्य तदा संपन्नो भवतिऽ (छा। ६।८।१) इति ऽअत्र स्तेनो ऽस्तेनो भवतिऽ (बृ। ४।३।२२) ऽनैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दृष्कृतम्ऽ (छा। ८।४।१) इत्यादि ।
जीवे हि सुकृतदुष्कृतयोः प्राप्तिः सुखित्वदुःखित्वप्रत्ययोत्पादनेन भवति ।
नच सुखित्वप्रत्ययो दुःखित्वप्रत्ययो वा सुषुप्ते विद्यते, मुग्धे ऽपि तौ प्रत्ययौ नैव विद्येते ।
तस्मादुपाध्युपशमात्सुषुप्तवन्मुग्धे ऽपि कत्स्नसंपत्तिरेव भवितुमर्हति नार्धसंपत्तिरिति ।
अत्रोच्यते - न ब्रूमो मुग्धेर्ऽधसंपत्तिर्जीवस्य ब्रह्मणा भवतीति ।
किं तर्ह्यर्धेन सुषुप्तपक्षस्य भवति मुग्धत्वमर्धेनावस्थान्तरपक्षस्येति ब्रूमः ।
दर्शिते च मोहस्य स्वापेन साम्यवैषम्ये ।
द्वारं चैतन्मरणस्य ।
यदास्य सावशेषं कर्म भवति तदा वाङ्मनसे प्रत्यागच्छतः ।
यदा तु निरवशेषं कर्म भवति तदा प्राणोष्माणावपगच्छतः ।
तस्मादर्धसंपत्तिं ब्रह्मविद इच्छन्ति ।
यत्तूक्तं न पञ्चमी काचिदवस्था प्रसिद्धास्तीति ।
नैष दोषः ।
कदाचित्कीयमवस्थेति न प्रसिद्धा स्यात् ।
प्रसिद्धा चैषा लोकायुर्वेदयोः ।
अर्धसंपत्त्यभ्युपगमाच्च न पञ्चमी गण्यत इत्यनवद्यम् ॥ १० ॥
५ उभयलिङ्गाधिकरणम् । सू। ११-२१
mugdher'dhasaṃpattiḥ pariśeṣāt
asti mugdho nāma yaṃ mūrchita iti laukikāḥ kathayanti /
satu kimavastha iti parīkṣāyāmucyate /
tisrastāvadavasthāḥ śarīrasthasya jīvasya prasiddhā jāgaritaṃ svapnaḥ suṣuptiriti /
caturthī śarīrādapasṛptiḥ /
natu pañcamīkācidavasthā jīvasya śrutau smṛtau vā prasiddhāsti /
tasmāccatasṛṇāmevāvasthānāmanyatamāvasthā mūrchetyevaṃ prāpte brūmaḥ- na tāvanmugdho jāgaritāvastho bhavitumarhati /
nahyayamindriyairviṣayānīkṣate /
syādetat /
iṣukāranyāyena mugdho bhaviṣyati /
yatheṣukāro jāgradapīṣvāsaktamanastayā nānyānviṣayānīkṣata evaṃ mugdho musalasaṃpātādijanitaduḥkhānubhavavyagramanastayā jāgradapi nānyānviṣayānīkṣata iti /
na /
acetayamānatvāt /
iṣukāro hi vyāpṛtamanā bravītīṣumevāhametāvantaṃ kālamupalabhamāno 'bhūvamiti /
mugdhastu labdhasaṃjño bravītyandhe tamasyahametāvantaṃ kālaṃ prakṣipto 'bhūvaṃ na kiñcinmayā cetitamiti /
jāgrataścaikaviṣayaviṣaktacetaso 'pi deho vidhriyate /
mugdhasya tu deho dharaṇyāṃ patati /
tasmānna jāgarti nāpi svapnānpaśyati niḥsaṃjñakatvāt /
nāpi mṛtaḥ prāṇoṣmaṇorbhāvāt /
mugdhe hi jantau mṛto 'yaṃ syānna vā mṛta iti saṃśayānā ūṣmāsti nāstīti hṛdayadeśamālabhante niścayārthaṃ prāṇo 'sti nāstīti ca nāsikādeśam /
yadi prāṇoṣmaṇorastitvaṃ nāvagacchanti tato mṛto 'yamityadhyavasāya dahanāyāraṇyaṃ nayanti /
atha tu prāṇamūṣmāṇaṃ vā pratipadyante tato nāyaṃ mṛta ityadhyavasāya saṃjñālābhāya bhiṣajyanti /
punarutthānācca na diṣṭaṃ gataḥ /
nahi yamarāṣṭrātpratyāgacchati /
astu tarhi suṣupto niḥsaṃjñatvādamṛtatvācca /
na /
vailakṣaṇyāt /
mugdhaḥ kadācicciramapi nocchvasiti savepathurasya deho bhavati bhayānakaṃ ca vadanaṃ visphārite netre /
suṣuptastu prasannavadanastulyakālaṃ punaḥ punarucchvasiti nimīlite asya netre bhavataḥ /
nacāsya deho vepate /
pāṇipeṣaṇamātreṇa ca suṣuptamutthāpayanti natu mugdhaṃ mudgaraghātenāpi /
nimittabhedaśca bhavati mohasvāpayoḥ /
musalasaṃpātādinimittatvānmohasya, śramādinimittatvācca svāpasya /
naca loke 'sti prasiddhirmugdhaḥ supta iti /
pariśeṣādardhasaṃpattirmugdhatetyavagacchāmaḥ /
nīḥsaṃjñatvātsaṃpanna itarasmādvailakṣaṇyādasaṃpanna iti /
kathaṃ punarardhasaṃpattirmugdhateti śakyate vaktum /
yāvatā suptaṃ prati tāvaduktaṃ śrutyā - 'satā somya tadā saṃpanno bhavati' (chā. 6.8.1) iti 'atra steno 'steno bhavati' (bṛ. 4.3.22) 'naitaṃ setumahorātre tarato na jarā na mṛtyurna śoko na sukṛtaṃ na dṛṣkṛtam' (chā. 8.4.1) ityādi /
jīve hi sukṛtaduṣkṛtayoḥ prāptiḥ sukhitvaduḥkhitvapratyayotpādanena bhavati /
naca sukhitvapratyayo duḥkhitvapratyayo vā suṣupte vidyate, mugdhe 'pi tau pratyayau naiva vidyete /
tasmādupādhyupaśamātsuṣuptavanmugdhe 'pi katsnasaṃpattireva bhavitumarhati nārdhasaṃpattiriti /
atrocyate - na brūmo mugdher'dhasaṃpattirjīvasya brahmaṇā bhavatīti /
kiṃ tarhyardhena suṣuptapakṣasya bhavati mugdhatvamardhenāvasthāntarapakṣasyeti brūmaḥ /
darśite ca mohasya svāpena sāmyavaiṣamye /
dvāraṃ caitanmaraṇasya /
yadāsya sāvaśeṣaṃ karma bhavati tadā vāṅmanase pratyāgacchataḥ /
yadā tu niravaśeṣaṃ karma bhavati tadā prāṇoṣmāṇāvapagacchataḥ /
tasmādardhasaṃpattiṃ brahmavida icchanti /
yattūktaṃ na pañcamī kācidavasthā prasiddhāstīti /
naiṣa doṣaḥ /
kadācitkīyamavastheti na prasiddhā syāt /
prasiddhā caiṣā lokāyurvedayoḥ /
ardhasaṃpattyabhyupagamācca na pañcamī gaṇyata ityanavadyam // 10 //
5 ubhayaliṅgādhikaraṇam / sū. 11-21
Sanskrit only: no published translation is held for this verse.
न स्थानतो ऽपि परस्योभयलिङ्गं सर्वत्र हि
येन ब्रह्मणा सुषुप्त्यादिषु जीव उपाध्युपशमात्संपद्यते तस्येदानीं स्वरूपं श्रुतिवशेन निर्धार्यते ।
सन्त्युभयलिङ्गाः श्रुतयो ब्रह्मविषयाः ऽसर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसःऽ (छा। ३।१४।२) इत्येलमादायाः सविशेषलिङ्गाः ।
ऽअस्थूलमनण्वर्ह्रस्वमदीर्धम्ऽ (बृ। ३।८।८) इत्येवमाद्याश्च निर्विशेषलिङ्गाः ।
किमासु श्रुतिषूभयलिङ्गं ब्रह्मप्रतिपत्तव्यमुतान्यतरलिङ्गम् ।
यदाप्यन्यतरलिङ्गं तदापि किं सविशेषमुत निर्विशेषमिति मीमांस्यते ।
तत्रोभयलिङ्गश्रुत्यनुग्रहादुभयलिङ्गमेव ब्रह्मेत्येवं प्राप्ते ब्रूमः - न तावत्स्वत एव परस्य ब्रह्मण उभयलिङ्गत्वमुपपद्यते ।
नह्येकं वस्तु स्वत एव रूपादिविशेषोपेतं तद्विपरीतं चेत्याधारयितुं शक्यं विरोधात् ।
अस्तु तर्हि स्थानतः पृथिव्याद्युपाधियोगादिति ।
तदपि नोपपद्यते ।
नह्युपाधियोगादप्यन्यादृशस्य वस्तुनो ऽन्यादृशः स्वभावः संभवति ।
नहि स्वच्छः सन्स्फटिको ऽलक्तकाद्युपाधियोगादस्वच्छो भवति भ्रममात्रत्वादस्वच्छताभिनिवेशस्य ।
उपाधीनां चाविद्याप्रत्युपस्थापितत्वात् ।
अतश्चान्यतरलिङ्गपरिग्रहे ऽपि समस्तविशेषरहितं निर्विकल्पमेव ब्रह्म प्रतिपत्तव्यं न तद्विपरीतम् ।
सर्वत्र हि ब्रह्मस्वरूपप्रतिपादनपरेषु वाक्येषु ऽअशब्दमस्पर्शमरूपमव्ययम्ऽ (क। ३।१५ ।
मुक्तिको। २।७२) इत्येवमादिष्वपास्तसमस्तविशेषमेव ब्रह्मोपदिश्यते ॥ ११ ॥
----------------------
फ़्न्: स्थानं उपाधिस्तद्योगात् ।
na sthānato 'pi parasyobhayaliṅgaṃ sarvatra hi
yena brahmaṇā suṣuptyādiṣu jīva upādhyupaśamātsaṃpadyate tasyedānīṃ svarūpaṃ śrutivaśena nirdhāryate /
santyubhayaliṅgāḥ śrutayo brahmaviṣayāḥ 'sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ' (chā. 3.14.2) ityelamādāyāḥ saviśeṣaliṅgāḥ /
'asthūlamanaṇvarhrasvamadīrdham' (bṛ. 3.8.8) ityevamādyāśca nirviśeṣaliṅgāḥ /
kimāsu śrutiṣūbhayaliṅgaṃ brahmapratipattavyamutānyataraliṅgam /
yadāpyanyataraliṅgaṃ tadāpi kiṃ saviśeṣamuta nirviśeṣamiti mīmāṃsyate /
tatrobhayaliṅgaśrutyanugrahādubhayaliṅgameva brahmetyevaṃ prāpte brūmaḥ - na tāvatsvata eva parasya brahmaṇa ubhayaliṅgatvamupapadyate /
nahyekaṃ vastu svata eva rūpādiviśeṣopetaṃ tadviparītaṃ cetyādhārayituṃ śakyaṃ virodhāt /
astu tarhi sthānataḥ pṛthivyādyupādhiyogāditi /
tadapi nopapadyate /
nahyupādhiyogādapyanyādṛśasya vastuno 'nyādṛśaḥ svabhāvaḥ saṃbhavati /
nahi svacchaḥ sansphaṭiko 'laktakādyupādhiyogādasvaccho bhavati bhramamātratvādasvacchatābhiniveśasya /
upādhīnāṃ cāvidyāpratyupasthāpitatvāt /
ataścānyataraliṅgaparigrahe 'pi samastaviśeṣarahitaṃ nirvikalpameva brahma pratipattavyaṃ na tadviparītam /
sarvatra hi brahmasvarūpapratipādanapareṣu vākyeṣu 'aśabdamasparśamarūpamavyayam' (ka. 3.15 /
muktiko. 2.72) ityevamādiṣvapāstasamastaviśeṣameva brahmopadiśyate // 11 //
----------------------
FN: sthānaṃ upādhistadyogāt /
Sanskrit only: no published translation is held for this verse.
न भेदाद् इति चेन् न प्रत्येकमतद्वचनात्
अथापि स्याद्यदुक्तं निर्विकल्पमेकलिङ्गमेव ब्रह्म नास्य स्वतः स्थानतो वोभयलिङ्गत्वमस्तीति ।
तन्नोपपद्यते ।
कस्मात् ।
भेदात् ।
भिन्ना हि प्रतिविद्यं ब्रह्मण आकारा उपदिश्यन्ते ।
चतुष्पाद्ब्रह्म षोडशकलं ब्रह्म वामनीत्वादिलक्षणं ब्रह्म त्रैलोक्यशरीरवैश्वानरशब्दोदितं ब्रह्मेत्येवञ्जातीयकाः ।
तस्मात्सविशेषत्वमपि ब्रह्मणो ऽभ्युपगन्तव्यम् ।
ननूक्तं नोभयलिङ्गत्वं ब्रह्मणः संभवतीति ।
अयमप्यविरोधः ।
उपाधिकृतत्वादाकारभेदस्य ।
अन्यथा हि निर्विषयमेव भेदशास्त्रं प्रसज्येतेति चेत् ।
नेति ब्रूमः ।
कस्मात् ।
प्रत्येकमतद्वचनात् ।
प्रत्युपाधिभेदं ह्यभेदमेव ब्रह्मणः श्रावयति शास्त्रम् - ऽयश्चायमस्यां पृथिव्यां तेजोमयो ऽमृतमयः पुरुषो यश्चायमध्यात्मं शारीरस्तेजोमयो ऽमृतमयः पुरुषो ऽयमेव स यो ऽयमात्माऽ (बृ। २।५।१) इत्यादि ।
अतश्च न भिन्नाकारयोगो ब्रह्मणः शास्त्रीय इति शक्यते वक्तुम् ।
भेदस्योपासनार्थत्वादभेदे तात्पर्यात् ।
na bhedād iti cen na pratyekamatadvacanāt
athāpi syādyaduktaṃ nirvikalpamekaliṅgameva brahma nāsya svataḥ sthānato vobhayaliṅgatvamastīti /
tannopapadyate /
kasmāt /
bhedāt /
bhinnā hi pratividyaṃ brahmaṇa ākārā upadiśyante /
catuṣpādbrahma ṣoḍaśakalaṃ brahma vāmanītvādilakṣaṇaṃ brahma trailokyaśarīravaiśvānaraśabdoditaṃ brahmetyevañjātīyakāḥ /
tasmātsaviśeṣatvamapi brahmaṇo 'bhyupagantavyam /
nanūktaṃ nobhayaliṅgatvaṃ brahmaṇaḥ saṃbhavatīti /
ayamapyavirodhaḥ /
upādhikṛtatvādākārabhedasya /
anyathā hi nirviṣayameva bhedaśāstraṃ prasajyeteti cet /
neti brūmaḥ /
kasmāt /
pratyekamatadvacanāt /
pratyupādhibhedaṃ hyabhedameva brahmaṇaḥ śrāvayati śāstram - 'yaścāyamasyāṃ pṛthivyāṃ tejomayo 'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ śārīrastejomayo 'mṛtamayaḥ puruṣo 'yameva sa yo 'yamātmā' (bṛ. 2.5.1) ityādi /
ataśca na bhinnākārayogo brahmaṇaḥ śāstrīya iti śakyate vaktum /
bhedasyopāsanārthatvādabhede tātparyāt /
Sanskrit only: no published translation is held for this verse.
अपि चैवम् एके
अपिचैवं भेददर्सननिन्दापूर्वकमभेददर्शनमेवैके शाखिनः समामनन्ति - ऽमनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन ।
मृत्योः स मृत्युपमाप्नोति य इह नानेव पश्यतिऽ (क। ४।११) इति ।
तथान्येपि ऽभोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं त्रिविधं ब्रह्म मे तत्ऽ (श्वे। १।१२) इति समस्तस्य भोग्यभोक्तृनियन्तृलक्षणस्य प्रपञ्चस्य ब्रह्मैकस्वभावतामधीयते ॥ १३ ॥
कथं पुनराकारवदुपदेशिनीष्वनाकारोपदेशिनीषु च ब्रह्मविषयासु श्रुतिषु सतीष्वनाकारमेव ब्रह्मावधार्यते न पुनर्विपरीतम्ति ।
अत उत्तरं पठति -
api caivam eke
apicaivaṃ bhedadarsananindāpūrvakamabhedadarśanamevaike śākhinaḥ samāmananti - 'manasaivedamāptavyaṃ neha nānāsti kiñcana /
mṛtyoḥ sa mṛtyupamāpnoti ya iha nāneva paśyati' (ka. 4.11) iti /
tathānyepi 'bhoktā bhogyaṃ preritāraṃ ca matvā sarvaṃ trividhaṃ brahma me tat' (śve. 1.12) iti samastasya bhogyabhoktṛniyantṛlakṣaṇasya prapañcasya brahmaikasvabhāvatāmadhīyate // 13 //
kathaṃ punarākāravadupadeśinīṣvanākāropadeśinīṣu ca brahmaviṣayāsu śrutiṣu satīṣvanākārameva brahmāvadhāryate na punarviparītamti /
ata uttaraṃ paṭhati -
Sanskrit only: no published translation is held for this verse.
अरूपवदेव हि तत्प्रधानत्वात्
रूपाद्याकाररहितमेव ब्रह्मावधारयितव्यं न रूपादिमत् ।
कस्मात् ।
तत्प्रधानत्वात् ।
ऽऽअस्थूलमनण्वर्ह्रस्वमदीर्धम्ऽ (बृ। ३।८।८) ऽअशब्दमस्पर्शमरूपमव्ययम्ऽ (कठ। ३।१५ ।
मुक्ति। २।७२) ऽआकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्मऽ (छा। ८।१४।१) ऽदिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजःऽऽ (मुण्ड। २।१।२), ऽतदेतद्ब्रह्मापूर्वमनपरमनन्तरमब्रह्ममयमात्मा ब्रहग्म सर्वानभूःऽ (बृ। २।५।१९) इत्येवमादीनि वाक्यानि निष्प्रपञ्चब्रह्मात्मतत्त्वप्रधानानि नर्थान्तरप्रधानानीत्येतत्प्रतिष्ठापितं ऽतत्तु समन्वयात्ऽ (ब्रसू। १।१।४) इत्यत्र ।
तस्मादेवञ्जातीयकेषु वाक्येषु यथाश्रुतं निराकारमेव ब्रह्मावधारयितव्यम् ।
इतराणि त्वाकारपवद्ब्रह्मविषयाणि वाक्यानि न तत्प्रधानानि ।
उपासनाविधिप्रधानानि हि तानि तेष्वसति विरोधे यथाश्रुतमाश्रयितव्यम् ।
सति तु विरोधे तत्प्रधानान्यतत्प्रधानेभ्यो बलीयांसि भवन्तीति ।
एष विनिगमनायां हेतुः ।
येनोभयीष्वपि श्रुतिषु सतीष्वनाकारमेव ब्रह्मावधार्यते न पुनर्विपरीतमिति ॥ १४ ॥
का तर्ह्याकारवद्विषयाणां श्रुतीनां गतिरित्यत आह -
arūpavadeva hi tatpradhānatvāt
rūpādyākārarahitameva brahmāvadhārayitavyaṃ na rūpādimat /
kasmāt /
tatpradhānatvāt /
''asthūlamanaṇvarhrasvamadīrdham' (bṛ. 3.8.8) 'aśabdamasparśamarūpamavyayam' (kaṭha. 3.15 /
mukti. 2.72) 'ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma' (chā. 8.14.1) 'divyo hyamūrtaḥ puruṣaḥ sabāhyābhyantaro hyajaḥ'' (muṇḍa. 2.1.2), 'tadetadbrahmāpūrvamanaparamanantaramabrahmamayamātmā brahagma sarvānabhūḥ' (bṛ. 2.5.19) ityevamādīni vākyāni niṣprapañcabrahmātmatattvapradhānāni narthāntarapradhānānītyetatpratiṣṭhāpitaṃ 'tattu samanvayāt' (bra.sū. 1.1.4) ityatra /
tasmādevañjātīyakeṣu vākyeṣu yathāśrutaṃ nirākārameva brahmāvadhārayitavyam /
itarāṇi tvākārapavadbrahmaviṣayāṇi vākyāni na tatpradhānāni /
upāsanāvidhipradhānāni hi tāni teṣvasati virodhe yathāśrutamāśrayitavyam /
sati tu virodhe tatpradhānānyatatpradhānebhyo balīyāṃsi bhavantīti /
eṣa vinigamanāyāṃ hetuḥ /
yenobhayīṣvapi śrutiṣu satīṣvanākārameva brahmāvadhāryate na punarviparītamiti // 14 //
kā tarhyākāravadviṣayāṇāṃ śrutīnāṃ gatirityata āha -
Sanskrit only: no published translation is held for this verse.
प्रकाशवच्चावैयर्थ्यात्
यथा प्रकाशः सौरश्चान्द्रमसो वा वियद्व्याप्यावतिष्ठमानो ऽङ्गुल्याद्युपाधिसंबन्धात्तेष्वृजुवक्रादिभावं प्रतिपद्यमानेषु तद्भावमिव प्रतिपद्यते ।
एवं ब्रह्मापि पृथिव्याद्युपाधिसंबन्धात्तदाकारतामिव प्रतिपद्यते तदालम्बनो ब्रह्मण आकारविशेषोपदेश उपासनार्थो न विरुध्यते ।
एवमवैयर्थ्यमाकारवद्ब्रह्मविषयाणामपि वाक्यानां भविष्यति ।
नहि वेदवाक्यानां कस्यचिदर्थवत्त्वं कस्यचिदनर्थवत्त्वमिति युक्तं प्रतिपत्तुं प्रमाणत्वाविशेषात् ।
नन्वेवमपि यत्पुरस्तात्प्रतिज्ञातं नोपाधियोगादप्युभयलिङ्गत्वं ब्रह्मणो ऽस्तीति तद्विरुध्यते ।
नेति ब्रूमः ।
उपाधिनिमित्तस्य वस्तुधर्मत्वानुपपचत्तेः ।
उपाधीनां चाविद्याप्रत्युपस्थापितत्वात् ।
सत्यामेव च नैसर्गिक्यामविद्यायां लोकवेदव्यवहारावतार इति तत्र तत्रावोचाम ॥ १५ ॥
prakāśavaccāvaiyarthyāt
yathā prakāśaḥ sauraścāndramaso vā viyadvyāpyāvatiṣṭhamāno 'ṅgulyādyupādhisaṃbandhātteṣvṛjuvakrādibhāvaṃ pratipadyamāneṣu tadbhāvamiva pratipadyate /
evaṃ brahmāpi pṛthivyādyupādhisaṃbandhāttadākāratāmiva pratipadyate tadālambano brahmaṇa ākāraviśeṣopadeśa upāsanārtho na virudhyate /
evamavaiyarthyamākāravadbrahmaviṣayāṇāmapi vākyānāṃ bhaviṣyati /
nahi vedavākyānāṃ kasyacidarthavattvaṃ kasyacidanarthavattvamiti yuktaṃ pratipattuṃ pramāṇatvāviśeṣāt /
nanvevamapi yatpurastātpratijñātaṃ nopādhiyogādapyubhayaliṅgatvaṃ brahmaṇo 'stīti tadvirudhyate /
neti brūmaḥ /
upādhinimittasya vastudharmatvānupapacatteḥ /
upādhīnāṃ cāvidyāpratyupasthāpitatvāt /
satyāmeva ca naisargikyāmavidyāyāṃ lokavedavyavahārāvatāra iti tatra tatrāvocāma // 15 //
Sanskrit only: no published translation is held for this verse.
आह च तन्मात्रम्
आह च श्रुतिश्चैतन्यमात्रं विलक्षणरूपान्तररहितं निर्विशेषं ब्रह्म - ऽस यथा सैन्धवघनो ऽन्तरो ऽबाह्यः कृत्स्नो रसघन एवैवं वा अरे ऽयमात्मानन्तरो ऽबाह्यः कृत्स्नः प्रज्ञानघन एवऽ (बृ। ४।५।१३) इति ।
एतदुक्तं भवति - नास्यात्मनो ऽन्तर्बहिर्वा चैतन्यादन्यद्रूपमस्ति लवणरस एव निरन्तरो भवति न रसान्तरं तथैवेति ॥ १६ ॥
----------------------
फ़्न्: सैन्धवघनो लोहपिण्डः ।
āha ca tanmātram
āha ca śrutiścaitanyamātraṃ vilakṣaṇarūpāntararahitaṃ nirviśeṣaṃ brahma - 'sa yathā saindhavaghano 'ntaro 'bāhyaḥ kṛtsno rasaghana evaivaṃ vā are 'yamātmānantaro 'bāhyaḥ kṛtsnaḥ prajñānaghana eva' (bṛ. 4.5.13) iti /
etaduktaṃ bhavati - nāsyātmano 'ntarbahirvā caitanyādanyadrūpamasti lavaṇarasa eva nirantaro bhavati na rasāntaraṃ tathaiveti // 16 //
----------------------
FN: saindhavaghano lohapiṇḍaḥ /
Sanskrit only: no published translation is held for this verse.
दर्शयति चाथो अपि स्मर्यते
दर्शयति च श्रुतिः पररूपप्रतिषेधेनैव ब्रह्म निर्विशेषत्वात्- ऽअथात आदेशो नेति नेतिऽ (बृ। २।३।६) इति, ऽअन्यदेव तद्विदितादथो अविदितादधि (के। १।३) ऽयतो वाचो निवर्तन्ते अप्राप्य मनसा सहऽ (तै। २।४।१) इत्येवमाद्या ।
बाष्कलिना च बाध्वःपृष्टः सन्नवचनेनैव ब्रह्म प्रोवाचेति श्रूयते - ऽस होवाचाधीहि भो इति स तूष्णीं बभूव तं ह द्वितीये वा तृतीये वा वचन उवाच ब्रूमः खलु त्वं तु न विजानासि ।
उपशान्तो ऽयमात्माऽ इति ।
तथा स्मृतिष्वपि परप्रतिषेधेनैवोपदिश्यते - ऽज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यतेऽ (१३।१२) इत्येवमाद्यासु ।
तथा विश्वरूपधरो नारायणो नारदमुवाचेति स्मर्यते - ऽमाया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।
सर्वभूतगुणैर्युक्तं नैवं मां ज्ञातुमर्हसिऽ इति ।
----------------------
फ़्न्: अधि अन्यत् ।
उपशान्तो निरस्तद्वैतः ।
darśayati cātho api smaryate
darśayati ca śrutiḥ pararūpapratiṣedhenaiva brahma nirviśeṣatvāt- 'athāta ādeśo neti neti' (bṛ. 2.3.6) iti, 'anyadeva tadviditādatho aviditādadhi (ke. 1.3) 'yato vāco nivartante aprāpya manasā saha' (tai. 2.4.1) ityevamādyā /
bāṣkalinā ca bādhvaḥpṛṣṭaḥ sannavacanenaiva brahma provāceti śrūyate - 'sa hovācādhīhi bho iti sa tūṣṇīṃ babhūva taṃ ha dvitīye vā tṛtīye vā vacana uvāca brūmaḥ khalu tvaṃ tu na vijānāsi /
upaśānto 'yamātmā' iti /
tathā smṛtiṣvapi parapratiṣedhenaivopadiśyate - 'jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute /
anādimatparaṃ brahma na sattannāsaducyate' (13.12) ityevamādyāsu /
tathā viśvarūpadharo nārāyaṇo nāradamuvāceti smaryate - 'māyā hyeṣā mayā sṛṣṭā yanmāṃ paśyasi nārada /
sarvabhūtaguṇairyuktaṃ naivaṃ māṃ jñātumarhasi' iti /
----------------------
FN: adhi anyat /
upaśānto nirastadvaitaḥ /
Sanskrit only: no published translation is held for this verse.
अत एव चोपमा सूर्यकादिवत्
यत एव चायमात्मा चैतन्यरूपो निर्विशेषो वाङ्मनसातीतः परप्रतिषेधोपदेश्यो ऽत एव चास्योपाधिनिमित्तपारमार्थिकीं विशेषवत्ताभिप्रेत्य जलसूर्यकादिवदित्युपमोपादीयते मोक्षशास्त्रेषु - ऽयथा ह्यजं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैको ऽनुगच्छन् ।
उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोयमात्माऽ इति ।
ऽएक एव हि भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत्ऽ (ब्रबिं १२) इत्येवमादिषु ॥ १८ ॥
अत्र प्रत्यवस्थीयते -
ata eva copamā sūryakādivat
yata eva cāyamātmā caitanyarūpo nirviśeṣo vāṅmanasātītaḥ parapratiṣedhopadeśyo 'ta eva cāsyopādhinimittapāramārthikīṃ viśeṣavattābhipretya jalasūryakādivadityupamopādīyate mokṣaśāstreṣu - 'yathā hyajaṃ jyotirātmā vivasvānapo bhinnā bahudhaiko 'nugacchan /
upādhinā kriyate bhedarūpo devaḥ kṣetreṣvevamajoyamātmā' iti /
'eka eva hi bhūtātmā bhūte bhūte vyavasthitaḥ /
ekadhā bahudhā caiva dṛśyate jalacandravat' (bra.biṃ 12) ityevamādiṣu // 18 //
atra pratyavasthīyate -
Sanskrit only: no published translation is held for this verse.
अम्बुवदग्रहणात् तु न तथात्वम्
न जलसूर्यकादितुल्यत्वमिहोपपद्यते तद्वदग्रहणात् ।
सूर्यादिभ्यो हि मूर्तेभ्यः पृथग्भूतं विप्रकृष्टदेशं मूर्तं गृह्यते तत्र युक्तः सूर्यादिप्रतिबिम्बोदयः ।
नत्वात्मा मूर्तो नचास्मात्पृथग्भूता विप्रकृष्टदेशाश्चोपाधयः सर्वगतत्वात्सर्वानन्यत्वाच्च ।
तस्मादयुक्तो ऽयं दृष्टान्त इति ॥ १९ ॥
अत्र प्रतिविधीयते -
ambuvadagrahaṇāt tu na tathātvam
na jalasūryakāditulyatvamihopapadyate tadvadagrahaṇāt /
sūryādibhyo hi mūrtebhyaḥ pṛthagbhūtaṃ viprakṛṣṭadeśaṃ mūrtaṃ gṛhyate tatra yuktaḥ sūryādipratibimbodayaḥ /
natvātmā mūrto nacāsmātpṛthagbhūtā viprakṛṣṭadeśāścopādhayaḥ sarvagatatvātsarvānanyatvācca /
tasmādayukto 'yaṃ dṛṣṭānta iti // 19 //
atra pratividhīyate -
Sanskrit only: no published translation is held for this verse.
वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम्
युक्त एव त्वयं दृष्टान्तो विवक्षितांशसंभवात् ।
नहि दृष्टान्तदार्ष्ट्रान्तिकयोः क्वचित्कञ्चिद्विवक्षितांशं मुकत्त्वा सर्वसारूप्यं केनचिद्दर्शयितुं शक्यते ।
सर्वसारूप्ये हि दृष्टान्तदार्ष्ट्रान्तिकभावोच्छेद एव स्यात् ।
नचेदं स्वमनीषया जलसूर्यकाजदिदृष्टान्तप्रणयनम् ।
शास्त्रप्रणीतस्य त्वस्य प्रयोजनमात्रमुपन्यस्यते ।
किं पुनरत्र विवक्षितं सारूप्यमिति ।
तदुच्यते - वृद्धिह्रासभाक्त्वमिति ।
जलगतं हि सूर्यप्रतिबिम्बं जलवृद्धौ वर्धते जलह्रासे ह्रसति जलचलने चलति जलभेदे भिद्यत इत्येवं जलधर्मानुयायि भवति नतु परमार्थतः सूर्यस्य तथात्वमस्ति ।
एवं परमार्थतो ऽविकृतमेकरूपमपि सद्ब्रह्म देहाद्युपाध्यन्तर्भावाद्भजत इवोपादिधर्मान्वृद्धिर्ह्रासादीन् ।
एवमुभयोर्दृष्टान्तदार्ष्ट्रान्तिकयोः सामञ्जस्यादविरोधः ॥ २० ॥
vṛddhihrāsabhāktvamantarbhāvādubhayasāmañjasyādevam
yukta eva tvayaṃ dṛṣṭānto vivakṣitāṃśasaṃbhavāt /
nahi dṛṣṭāntadārṣṭrāntikayoḥ kvacitkañcidvivakṣitāṃśaṃ mukattvā sarvasārūpyaṃ kenaciddarśayituṃ śakyate /
sarvasārūpye hi dṛṣṭāntadārṣṭrāntikabhāvoccheda eva syāt /
nacedaṃ svamanīṣayā jalasūryakājadidṛṣṭāntapraṇayanam /
śāstrapraṇītasya tvasya prayojanamātramupanyasyate /
kiṃ punaratra vivakṣitaṃ sārūpyamiti /
taducyate - vṛddhihrāsabhāktvamiti /
jalagataṃ hi sūryapratibimbaṃ jalavṛddhau vardhate jalahrāse hrasati jalacalane calati jalabhede bhidyata ityevaṃ jaladharmānuyāyi bhavati natu paramārthataḥ sūryasya tathātvamasti /
evaṃ paramārthato 'vikṛtamekarūpamapi sadbrahma dehādyupādhyantarbhāvādbhajata ivopādidharmānvṛddhirhrāsādīn /
evamubhayordṛṣṭāntadārṣṭrāntikayoḥ sāmañjasyādavirodhaḥ // 20 //
Sanskrit only: no published translation is held for this verse.
दर्शनाच् च
दर्शयति च श्रुतिः परस्यैव ब्रह्मणो देहादिषूपाधिष्वन्तरनुप्रवेशम् - ऽपुरुश्चक्रे द्विपदः पुरुश्चक्रे चतुश्पदः ।
पुरः स पक्षी भूत्वा पुरः पुरुष आविशत्ऽ (बृ। २।५।१८) इति ।
ऽअनेन जीवेनात्मनानुप्रविश्यऽ (छा। ६।३।२) इति च ।
तस्माद्युक्तमेतत् - ऽअत एव चैपमा सूर्यकादिवत्ऽ (ब्रसू। ३।२।१८) इति ।
तस्मान्निर्विकल्पकैकलिङ्गमेव ब्रह्म नोभयलिङ्गं विपरीतलिङ्गं चेति सिद्धम् ।
अत्र केचिद्द्वे अधिकरणे कल्पयन्ति ।
प्रथमं तावत्- किं प्रत्यस्तमिताशेषप्रपञ्चमेकाकारं ब्रह्मोत प्रपञ्चवदनेकाकारोपेतमिति ।
द्वितीयं तु - स्थिते प्रत्यस्तमितप्रपञ्चत्वे किं सल्लक्षणं ब्रह्मोत बोधलक्षणमुतोभयलक्षणमिति ।
अत्र वयं वदामः - सर्वथाप्यानर्थक्यमधिकरणान्तरारम्भस्येति ।
यदि तावदनेकलिङ्गत्वं परस्यब्रह्मणो निराकर्तव्यमित्ययं प्रयासस्तत्पूर्वेणैव न स्थानतो ऽपि इत्यनेनाधिकरणेन निराकर्तव्यमित्ययमुत्तरमधिकरणं प्रकाशवच्च एतद्व्यर्थमेव भवेत् ।
नच सल्लक्षणमेव भ्म न बोधलक्षणमिति शक्यं वक्तुम् ।
विज्ञानघन एवेत्यादिश्रुतिवैयर्थ्यप्रसङ्गात् ।
कथं वा निरस्तचैतन्यं ब्रह्म चेतनस्य जीवस्यात्मत्वेनोपदिश्येत ।
नापि बोधलक्षणमेव ब्रह्म न सल्लक्षणमिति शक्यं वक्तुम् अस्तीत्येवोपलब्धव्यः (फ। ६।१३)
इत्यादिश्रुतिवैयर्थ्यप्रसङ्गात् ।
कथं वा निरस्तसत्ताको बोधो ऽभ्युपगम्येत ।
नाप्युभयलक्षणमेव ब्रह्मेति शक्यं वक्तुम् ।
पूर्वाभ्युपगमविरोधप्रसङ्गात् ।
सत्ताव्यावृत्तेन च बोधेन बोधव्यावृत्तया च सत्तयोपेतं ब्रह्म प्रतिजानानस्य तदेव पूर्वाधिकरणप्रतिषिद्धं सप्रपञ्चत्वं ब्रह्मणः प्रसज्येत ।
श्रुतत्वाददोष इति चेत् ।
न ।
एकस्यानेकस्वभावत्वानुपपत्तेः ।
अथ सत्तैव बोधो बोध एव च सत्ता नानयोः परस्परव्यावृत्तिरस्तीति यद्युच्येत तथापि किं सल्लक्षणं ब्रह्मोत बोधलक्षणमुतोभयलक्षणमित्येवं विकल्पो निरालम्बन एव स्यात् ।
सूत्राणि त्वेकाधिकरणत्वेनैवास्माभिर्नीतानि ।
अपिच ब्रह्मविषयासु श्रुतिष्वाकारवदनाकारप्रतिपादनेन विप्रतिपन्नस्वानाकारे ब्रह्मणि परिगृहीते ऽवश्यं वक्तव्येतरासां श्रुतीनां गतिः ।
तादर्थ्येन प्रकाशवच्चेत्यादीनि सूत्राण्यर्थवत्तराणि संपद्यन्ते ।
यद्यप्याहुराकारवादिन्यो ऽपि श्रुतयः प्रपञ्चप्रविलयमुखेनानाकारप्रतिपत्त्यर्था एव न पृथगर्था इति तदपि न समीचीनमिव लक्ष्यते ।
कथम् ।
ये हि परविद्याधिकारे केचित्प्रपञ्चा उच्यन्ते यथा - ऽयुक्ता ह्यस्य हरयः शता देशेत्यय वै हरयो ऽयं वै सहस्राणि बहूनि चानन्तानि चऽ (बृ। २।५।१९) इत्येवमादयस्ते भवन्ति प्रविलयार्थाः ऽतदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्ऽ (बृ। २।५।१९) इत्युपसंहारात् ।
ये पुनरुपासनाधिकारे प्रपञ्चा उच्यन्ते यथा ऽमनोमयः प्राणसीरो भारूपःऽ (छा। ३।१४।२) इत्येवमादयो न तेषां प्रविलयार्थत्वं न्याय्यम् ।
ऽस क्रतुं कुर्वीतऽ (छा। ३।१४।१) इत्येवञ्जातीयकेन प्रकृतेनैवोपासनविधिना तेषां संबन्धात् ।
श्रुत्या चैवञ्जातीयकानां गुणानामुपासनार्थत्वे ऽवकल्प्यमाने न लक्षणया प्रविलयार्तत्वमवकल्पते ।
सर्वेषां च साधारणे प्रविलयार्थत्वे सति ऽअरूपवदेव हि तत्प्रधानत्वात्ऽ (ब्र। सू। ३।२।१४) इति विनिगमनकारणवचनमनवकाशं स्यात् ।
फलमप्येषां यथोपदेशं क्वचिद्दुरितक्षयः क्वचिदैश्वर्यप्राप्तिः क्वचित्क्रममुक्तिरित्यवगम्यत एवेत्यतः पार्थगर्त्यमेवोपासनावाक्यानां ब्रह्मवाक्यानां च न्याय्यं नैकवाक्यत्वम् ।
कथं चैषामेकवाक्यतोत्प्रेक्ष्यत इति वक्तव्यम् ।
एकनियोगप्रतीतेः प्रयाजदर्शपूर्णमासवाक्यवदिति चेत् ।
न ।
ब्रह्मवाक्येषु नियोगाभावात् ।
वस्तुमात्रपर्यवसायीनि हि ब्रकह्मवाक्यानि न नियोगोपदेशीनीत्येतद्विस्तरे प्रतिष्ठापितं ऽतत्तु समन्वयात् (ब्र। सू। १।१।४) इत्यत्र ।
किंविषयश्चात्र नियोगो ऽभिप्रेयत इति वक्तव्यम् ।
पुरुषो हि नियुज्यमानः कुर्विति स्वव्यापारे कस्मिंश्चिन्नियुज्यते ।
ननु द्वैतप्रपञ्चविलयो न योगविषयो भविष्यति ।
अप्रविलापिते हि द्वैतप्रपञ्चे ब्रह्मतत्त्वावबोधो न भवत्यतो ब्रह्मतत्त्वावबोधप्रत्यनीकभूतो द्वैतप्रपञ्चः प्रविलाप्यः ।
यथा स्वर्गामस्य यागो ऽनुष्ठातव्य उपदिश्यत एवमपवर्गकामस्य प्रपञ्चप्रविलयः ।
यथाच तमसि व्यवस्थितं घटादितत्त्वमवबुभुत्समानेन तत्प्रत्यनीकभूतं तमः प्रविलाप्यत एवं ब्रह्मतत्तवमवबुभुत्समानेन तत्प्रत्यनीकभूतः प्रपञ्चः प्रविलापयितव्यः ।
ब्रह्मस्वभावो हि प्रपञ्चो न प्रपञ्चस्वभावं ब्रह्म, तेन नामरूपप्रपञ्चप्रविलापनेन ब्रह्मतत्त्वावबोधो भवतीति ।
अत्र वयं पृच्छामः - को ऽयं प्रपञ्चप्रविलयो नाम ।
किमग्निप्रतापसंपर्काद्घृतकाठिन्यप्रविलय इव प्पपञ्चप्रविलयः कर्तव्य आहोस्विदेकस्मिंश्चन्द्रे तिमिरकृतानेकचन्द्रप्रपञ्चवदविद्याकृतो ब्रह्मणि नामरूपप्रपञ्चो विद्यया प्रविलापितव्य इति ।
तत्र तावद्विद्यामनो ऽयं प्रपञ्चो देहादिलक्षण आध्यत्मिको बाह्यश्च पृथिव्यादिलक्षणः प्रविलापयितव्य इत्युच्येत स पुरुषमात्रेणाशक्यः प्रविलापयितुमिति तत्प्रविलयोपदेशो ऽशक्यविषय एव स्यात् ।
एकेन चादिमुक्तेन पृथिव्यादिप्रविलयः कृत इतीदानीं पृथिव्यादिशून्यं जगदभविष्यत् ।
अथाविद्याध्यस्तो ब्रह्मण्येकस्मिन्नयं प्रपञ्चो विद्यया प्रविलाप्यत इति ब्रूयात् ।
ततो ब्रह्मैवाविद्याध्यस्तप्रपञ्चप्रत्याख्यानेनावेदयितव्यम् एकमेवाद्वितीयं ब्रह्म, तत्सत्यं स आत्मा तत्वमसि (छा। ६।८।७) इति तस्मिन्नावेदिते विद्या स्वयमेवोत्पद्यते तया चाविद्या बाध्यते।
ततश्चाविद्यध्यस्तः सकलो ऽयं नामरूपप्रपञ्चः स्वप्नप्रपञ्चवत्प्रविलीयते ।
अनावेदिते तु ब्रह्मणि ब्रह्मविज्ञानं कुरु प्रपञ्चप्रविलयं चेति शतकृत्वो ऽप्युक्ते, न ब्रह्मविज्ञानं प्रपञ्पप्रविलयो वा जायते ।
नन्वावेदिते ब्रह्मणि तद्विज्ञानविषयः प्रपञ्चविलयविषयो वा नियोगः स्यात् ।
न ।
निष्प्रपञ्चब्रह्मात्मत्वावेदनेनैवोभयसिद्धेः ।
रज्जुस्वरूपप्रकाशनेनैव हि तत्स्वरूपविज्ञानमविद्याध्यस्तसर्पादिप्रपञ्चप्रविलयश्च भवति ।
नच कृतमेव पुनः क्रियते ।
नियोज्योञपि च प्रपञ्चावस्थायां यो ऽवगम्यते जीवो नाम स प्रपञ्चस्यैव वा स्याद्ब्रह्मपक्षस्यैव वा ।
प्रथमे विकल्पे निष्प्रपञ्चब्रह्मतत्त्वप्रतिपादनेन पृथिव्यादिवज्जीवस्यापि प्रविलापितत्वात्कस्य प्रपञ्चविलये नियोग उच्येत कस्य वा नियोगनिष्ठतया मोक्षो ऽवाप्तव्य उच्येत ।
द्वितीये ऽपि ब्रह्मैवानियोज्यस्वभावं जीवस्य स्वरूपं जीवत्वं त्वविद्याकृतमेवेति प्रतिपादिते ब्रह्मणि नियोज्याभावान्नियोगाभाव एव ।
द्रष्टव्यादिशब्दा अपि परविद्याधिकारपठितास्तत्त्वाभिमुखीकरणप्रधाना न तत्वावबोधविधिप्रधाना भवन्ति ।
लोके ऽपीदं पश्येदमाकार्णयेति चैवञ्जातीयकेषु निर्देशेषु प्रणिधानमात्रं कुर्वित्युच्यते न साक्षाज्ज्ञानमेव कुर्विति ।
ज्ञेयाभिमुखस्यापि ज्ञानं कदाचिज्जायते कदाचिन्न जायते तस्मात्तं प्रति ज्ञानविषय एव दर्शयितव्यो ज्ञापयितुकामेन ।
तस्मिन्दर्शिते स्वयमेव यथाविषयं यथाप्रमाणं च ज्ञानमुत्पद्यते ।
नच प्रमाणान्तरेणान्यथाप्रसिद्धेर्ऽथे ऽन्यथाज्ञानं नियुक्तस्याप्युपपद्यते ।
यदि पुनर्नियुक्तो ऽहमित्यन्यथा ज्ञानं कुर्यान्न तु तज्ज्ञानं किं तर्हि मानसी सा क्रिया ।
स्वयमेव चेदन्यथोत्पद्येत भ्रान्तिरेव स्यात् ।
ज्ञानं तु प्रमाणजन्यं यथाभूतविषयं च न तन्नियोगशतेनापि कारयितुं शक्यते ।
नच प्रतिषेधेनापि वारयितुं शक्यते ।
नहि तत्पुरुशतन्त्रं, वस्तुतन्त्रमेव हि तत् ।
अतो ऽपि नियोगाभावः ।
किञ्चान्यन्नियोगनिष्ठतयैव पर्यवस्याम्नाये यदभ्युपगतमनियोज्यब्रह्मात्मत्वं जीवस्य तदप्रमाणकमेव स्यात् ।
अथ शास्त्रमेवानियोज्यब्रह्मात्मत्वमप्याचक्षीत तदवबोधे च पुरुषं नियुञ्जीत ततो ब्रह्मशास्त्रस्यैकस्य द्व्यर्थपरता विरुद्धार्थपरता च प्रसज्येताम् ।
नियोगपरतायां च श्रुतहानिरश्रुतकल्पना कर्मफलवन्मोक्षस्यादृष्टफलत्वमनित्यत्वं चेत्येवमादयो दोषा न केनचित्परिहर्तुं शक्याः ।
तस्मादवगतनिष्ठान्येव ब्रह्मवाक्यानि न नियोगनिष्ठानि ।
अतश्चैकनियोगप्रतीतेरेकवाक्यतेत्ययुक्तम् ।
अभ्युपगम्यमाने ऽपि च ब्रह्मवाक्येछु नियोगसद्भावे तदेकत्वं निष्प्रपञ्चोपदेशेषु सप्रपञ्चोपजदेशेषु चासिद्धम् ।
नहि शब्दान्तरादिभिः प्रमाणैर्नियोगभेदे ऽवगम्यमाने सर्वत्रैका नियोग इति शक्यमाश्रयितुम् ।
प्रयाजदर्शपूर्णमासवाक्येछु त्वधिकारांशेनाभेदाद्युक्तमेकत्वम् ।
नत्विह सगुणनिर्गुणचोदनासु कश्चिदेकत्वाधिकीरांसो ऽस्ति ।
नहि भारूपतावादयो गुणाः प्रपञ्चप्रविलयोपकारिणः ।
नापि प्रपञ्चप्रविलयो भारूपत्वादिगुणोपकारी, परस्परविरोधित्वात् ।
नहि कृत्स्नप्रपञ्चप्रविलापनं प्रपञ्चैकदेशापेक्षणं चैकस्मिन्धर्मिणि युक्तं समावेशयितुम् ।
तस्मादस्मादुक्त एव विभाग आकारवदनाकारोपदेशानां युक्ततर इति ॥ २१ ॥
----------------------
फ़्न्: अस्य जीवभावं प्राप्तस्येश्वरस्य दश हरयो विषया इन्द्रियाणि वा ।
तं ज्ञानार्थिनम् ।
भिन्नवाक्यार्थविषयः शब्दः शब्दान्तरम् ।
६ प्रकृतैतावत्त्वाधिकरणम् । सू। २२-३०
darśanāc ca
darśayati ca śrutiḥ parasyaiva brahmaṇo dehādiṣūpādhiṣvantaranupraveśam - 'puruścakre dvipadaḥ puruścakre catuśpadaḥ /
puraḥ sa pakṣī bhūtvā puraḥ puruṣa āviśat' (bṛ. 2.5.18) iti /
'anena jīvenātmanānupraviśya' (chā. 6.3.2) iti ca /
tasmādyuktametat - 'ata eva caipamā sūryakādivat' (bra.sū. 3.2.18) iti /
tasmānnirvikalpakaikaliṅgameva brahma nobhayaliṅgaṃ viparītaliṅgaṃ ceti siddham /
atra keciddve adhikaraṇe kalpayanti /
prathamaṃ tāvat- kiṃ pratyastamitāśeṣaprapañcamekākāraṃ brahmota prapañcavadanekākāropetamiti /
dvitīyaṃ tu - sthite pratyastamitaprapañcatve kiṃ sallakṣaṇaṃ brahmota bodhalakṣaṇamutobhayalakṣaṇamiti /
atra vayaṃ vadāmaḥ - sarvathāpyānarthakyamadhikaraṇāntarārambhasyeti /
yadi tāvadanekaliṅgatvaṃ parasyabrahmaṇo nirākartavyamityayaṃ prayāsastatpūrveṇaiva na sthānato 'pi ityanenādhikaraṇena nirākartavyamityayamuttaramadhikaraṇaṃ prakāśavacca etadvyarthameva bhavet /
naca sallakṣaṇameva bhma na bodhalakṣaṇamiti śakyaṃ vaktum /
vijñānaghana evetyādiśrutivaiyarthyaprasaṅgāt /
kathaṃ vā nirastacaitanyaṃ brahma cetanasya jīvasyātmatvenopadiśyeta /
nāpi bodhalakṣaṇameva brahma na sallakṣaṇamiti śakyaṃ vaktum astītyevopalabdhavyaḥ (pha. 6.13)
ityādiśrutivaiyarthyaprasaṅgāt /
kathaṃ vā nirastasattāko bodho 'bhyupagamyeta /
nāpyubhayalakṣaṇameva brahmeti śakyaṃ vaktum /
pūrvābhyupagamavirodhaprasaṅgāt /
sattāvyāvṛttena ca bodhena bodhavyāvṛttayā ca sattayopetaṃ brahma pratijānānasya tadeva pūrvādhikaraṇapratiṣiddhaṃ saprapañcatvaṃ brahmaṇaḥ prasajyeta /
śrutatvādadoṣa iti cet /
na /
ekasyānekasvabhāvatvānupapatteḥ /
atha sattaiva bodho bodha eva ca sattā nānayoḥ parasparavyāvṛttirastīti yadyucyeta tathāpi kiṃ sallakṣaṇaṃ brahmota bodhalakṣaṇamutobhayalakṣaṇamityevaṃ vikalpo nirālambana eva syāt /
sūtrāṇi tvekādhikaraṇatvenaivāsmābhirnītāni /
apica brahmaviṣayāsu śrutiṣvākāravadanākārapratipādanena vipratipannasvānākāre brahmaṇi parigṛhīte 'vaśyaṃ vaktavyetarāsāṃ śrutīnāṃ gatiḥ /
tādarthyena prakāśavaccetyādīni sūtrāṇyarthavattarāṇi saṃpadyante /
yadyapyāhurākāravādinyo 'pi śrutayaḥ prapañcapravilayamukhenānākārapratipattyarthā eva na pṛthagarthā iti tadapi na samīcīnamiva lakṣyate /
katham /
ye hi paravidyādhikāre kecitprapañcā ucyante yathā - 'yuktā hyasya harayaḥ śatā deśetyaya vai harayo 'yaṃ vai sahasrāṇi bahūni cānantāni ca' (bṛ. 2.5.19) ityevamādayaste bhavanti pravilayārthāḥ 'tadetadbrahmāpūrvamanaparamanantaramabāhyam' (bṛ. 2.5.19) ityupasaṃhārāt /
ye punarupāsanādhikāre prapañcā ucyante yathā 'manomayaḥ prāṇasīro bhārūpaḥ' (chā. 3.14.2) ityevamādayo na teṣāṃ pravilayārthatvaṃ nyāyyam /
'sa kratuṃ kurvīta' (chā. 3.14.1) ityevañjātīyakena prakṛtenaivopāsanavidhinā teṣāṃ saṃbandhāt /
śrutyā caivañjātīyakānāṃ guṇānāmupāsanārthatve 'vakalpyamāne na lakṣaṇayā pravilayārtatvamavakalpate /
sarveṣāṃ ca sādhāraṇe pravilayārthatve sati 'arūpavadeva hi tatpradhānatvāt' (bra. sū. 3.2.14) iti vinigamanakāraṇavacanamanavakāśaṃ syāt /
phalamapyeṣāṃ yathopadeśaṃ kvacidduritakṣayaḥ kvacidaiśvaryaprāptiḥ kvacitkramamuktirityavagamyata evetyataḥ pārthagartyamevopāsanāvākyānāṃ brahmavākyānāṃ ca nyāyyaṃ naikavākyatvam /
kathaṃ caiṣāmekavākyatotprekṣyata iti vaktavyam /
ekaniyogapratīteḥ prayājadarśapūrṇamāsavākyavaditi cet /
na /
brahmavākyeṣu niyogābhāvāt /
vastumātraparyavasāyīni hi brakahmavākyāni na niyogopadeśīnītyetadvistare pratiṣṭhāpitaṃ 'tattu samanvayāt (bra. sū. 1.1.4) ityatra /
kiṃviṣayaścātra niyogo 'bhipreyata iti vaktavyam /
puruṣo hi niyujyamānaḥ kurviti svavyāpāre kasmiṃścinniyujyate /
nanu dvaitaprapañcavilayo na yogaviṣayo bhaviṣyati /
apravilāpite hi dvaitaprapañce brahmatattvāvabodho na bhavatyato brahmatattvāvabodhapratyanīkabhūto dvaitaprapañcaḥ pravilāpyaḥ /
yathā svargāmasya yāgo 'nuṣṭhātavya upadiśyata evamapavargakāmasya prapañcapravilayaḥ /
yathāca tamasi vyavasthitaṃ ghaṭāditattvamavabubhutsamānena tatpratyanīkabhūtaṃ tamaḥ pravilāpyata evaṃ brahmatattavamavabubhutsamānena tatpratyanīkabhūtaḥ prapañcaḥ pravilāpayitavyaḥ /
brahmasvabhāvo hi prapañco na prapañcasvabhāvaṃ brahma, tena nāmarūpaprapañcapravilāpanena brahmatattvāvabodho bhavatīti /
atra vayaṃ pṛcchāmaḥ - ko 'yaṃ prapañcapravilayo nāma /
kimagnipratāpasaṃparkādghṛtakāṭhinyapravilaya iva ppapañcapravilayaḥ kartavya āhosvidekasmiṃścandre timirakṛtānekacandraprapañcavadavidyākṛto brahmaṇi nāmarūpaprapañco vidyayā pravilāpitavya iti /
tatra tāvadvidyāmano 'yaṃ prapañco dehādilakṣaṇa ādhyatmiko bāhyaśca pṛthivyādilakṣaṇaḥ pravilāpayitavya ityucyeta sa puruṣamātreṇāśakyaḥ pravilāpayitumiti tatpravilayopadeśo 'śakyaviṣaya eva syāt /
ekena cādimuktena pṛthivyādipravilayaḥ kṛta itīdānīṃ pṛthivyādiśūnyaṃ jagadabhaviṣyat /
athāvidyādhyasto brahmaṇyekasminnayaṃ prapañco vidyayā pravilāpyata iti brūyāt /
tato brahmaivāvidyādhyastaprapañcapratyākhyānenāvedayitavyam ekamevādvitīyaṃ brahma, tatsatyaṃ sa ātmā tatvamasi (chā. 6.8.7) iti tasminnāvedite vidyā svayamevotpadyate tayā cāvidyā bādhyate.
tataścāvidyadhyastaḥ sakalo 'yaṃ nāmarūpaprapañcaḥ svapnaprapañcavatpravilīyate /
anāvedite tu brahmaṇi brahmavijñānaṃ kuru prapañcapravilayaṃ ceti śatakṛtvo 'pyukte, na brahmavijñānaṃ prapañpapravilayo vā jāyate /
nanvāvedite brahmaṇi tadvijñānaviṣayaḥ prapañcavilayaviṣayo vā niyogaḥ syāt /
na /
niṣprapañcabrahmātmatvāvedanenaivobhayasiddheḥ /
rajjusvarūpaprakāśanenaiva hi tatsvarūpavijñānamavidyādhyastasarpādiprapañcapravilayaśca bhavati /
naca kṛtameva punaḥ kriyate /
niyojyoñapi ca prapañcāvasthāyāṃ yo 'vagamyate jīvo nāma sa prapañcasyaiva vā syādbrahmapakṣasyaiva vā /
prathame vikalpe niṣprapañcabrahmatattvapratipādanena pṛthivyādivajjīvasyāpi pravilāpitatvātkasya prapañcavilaye niyoga ucyeta kasya vā niyoganiṣṭhatayā mokṣo 'vāptavya ucyeta /
dvitīye 'pi brahmaivāniyojyasvabhāvaṃ jīvasya svarūpaṃ jīvatvaṃ tvavidyākṛtameveti pratipādite brahmaṇi niyojyābhāvānniyogābhāva eva /
draṣṭavyādiśabdā api paravidyādhikārapaṭhitāstattvābhimukhīkaraṇapradhānā na tatvāvabodhavidhipradhānā bhavanti /
loke 'pīdaṃ paśyedamākārṇayeti caivañjātīyakeṣu nirdeśeṣu praṇidhānamātraṃ kurvityucyate na sākṣājjñānameva kurviti /
jñeyābhimukhasyāpi jñānaṃ kadācijjāyate kadācinna jāyate tasmāttaṃ prati jñānaviṣaya eva darśayitavyo jñāpayitukāmena /
tasmindarśite svayameva yathāviṣayaṃ yathāpramāṇaṃ ca jñānamutpadyate /
naca pramāṇāntareṇānyathāprasiddher'the 'nyathājñānaṃ niyuktasyāpyupapadyate /
yadi punarniyukto 'hamityanyathā jñānaṃ kuryānna tu tajjñānaṃ kiṃ tarhi mānasī sā kriyā /
svayameva cedanyathotpadyeta bhrāntireva syāt /
jñānaṃ tu pramāṇajanyaṃ yathābhūtaviṣayaṃ ca na tanniyogaśatenāpi kārayituṃ śakyate /
naca pratiṣedhenāpi vārayituṃ śakyate /
nahi tatpuruśatantraṃ, vastutantrameva hi tat /
ato 'pi niyogābhāvaḥ /
kiñcānyanniyoganiṣṭhatayaiva paryavasyāmnāye yadabhyupagatamaniyojyabrahmātmatvaṃ jīvasya tadapramāṇakameva syāt /
atha śāstramevāniyojyabrahmātmatvamapyācakṣīta tadavabodhe ca puruṣaṃ niyuñjīta tato brahmaśāstrasyaikasya dvyarthaparatā viruddhārthaparatā ca prasajyetām /
niyogaparatāyāṃ ca śrutahāniraśrutakalpanā karmaphalavanmokṣasyādṛṣṭaphalatvamanityatvaṃ cetyevamādayo doṣā na kenacitparihartuṃ śakyāḥ /
tasmādavagataniṣṭhānyeva brahmavākyāni na niyoganiṣṭhāni /
ataścaikaniyogapratīterekavākyatetyayuktam /
abhyupagamyamāne 'pi ca brahmavākyechu niyogasadbhāve tadekatvaṃ niṣprapañcopadeśeṣu saprapañcopajadeśeṣu cāsiddham /
nahi śabdāntarādibhiḥ pramāṇairniyogabhede 'vagamyamāne sarvatraikā niyoga iti śakyamāśrayitum /
prayājadarśapūrṇamāsavākyechu tvadhikārāṃśenābhedādyuktamekatvam /
natviha saguṇanirguṇacodanāsu kaścidekatvādhikīrāṃso 'sti /
nahi bhārūpatāvādayo guṇāḥ prapañcapravilayopakāriṇaḥ /
nāpi prapañcapravilayo bhārūpatvādiguṇopakārī, parasparavirodhitvāt /
nahi kṛtsnaprapañcapravilāpanaṃ prapañcaikadeśāpekṣaṇaṃ caikasmindharmiṇi yuktaṃ samāveśayitum /
tasmādasmādukta eva vibhāga ākāravadanākāropadeśānāṃ yuktatara iti // 21 //
----------------------
FN: asya jīvabhāvaṃ prāptasyeśvarasya daśa harayo viṣayā indriyāṇi vā /
taṃ jñānārthinam /
bhinnavākyārthaviṣayaḥ śabdaḥ śabdāntaram /
6 prakṛtaitāvattvādhikaraṇam / sū. 22-30
Sanskrit only: no published translation is held for this verse.
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः
ऽद्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं चऽ (बृ। २।३।१) इत्युपक्रम्य पञ्चमहाभूतानि द्वैराश्येन प्रविभज्यामबर्तरसस्य च पुरुषशब्दोदितस्य महारजनादीनि रूपाणि दर्शयित्वा पुनः पठ्यते - ऽअथात आदेशो नेति नेति नह्येतस्मादिति नेत्यन्यत्परमस्तिऽ (बृ। २।३।६) इति ।
तत्र को ऽस्यप्रतिषेधस्य विषय इति जिज्ञासामहे ।
नह्यत्रेदं तदिति विशेषितं किञ्चित्प्रतिषेध्यमुपलभ्यते ।
इतिशब्देन त्वत्र प्रतिषेध्यं किमपि समर्थ्यते नेति नेतीतिपरत्वान्नञ्प्रयोगस्य ।
इतिशब्दाश्रयं संनिहितालंबन एवंशब्दसमानवृत्तिः प्रयुज्यमानो दृश्यते इति ह स्मोपाध्यायः कथयति इत्येवमादिषु ।
संनिहितं चात्र प्रकरणसामर्थ्याद्रूपद्वयं सप्रपञ्चं ब्रह्मणस्तच्च ब्रह्मयस्यैते द्वे रूपे ।
तत्र नः संशय उपजायते - किमयं प्रतिषेधो रूपे रूपावच्चोभयमपि प्रतिषेधत्याहोस्विदेकतरम् ।
यदाप्येकतरं तदापि किं ब्रह्म प्रतिषेधति रूपे परिशिष्ट्याहोस्विद्रूपे प्रतिषेधति ब्रह्म परिशिनष्टीति ।
तत्र प्रकृतत्वाविशेषादुभयमपि प्रतिषेधतीत्याशङ्कामहे ।
द्वौ चैतौ प्रतिषेधौ द्विर्नेतिशब्दप्रयोगात् ।
तयोरेकेन सप्रपञ्चं ब्रह्मणो रूपं प्रतिषिध्यते ऽपरेण रूपवद्ब्रह्मेति भवति मतिः ।
अथवा ब्रह्मैव रूपवत्प्रतिषिध्यते तद्धि वाङ्मनसातीतत्वादसंभाव्यमानसद्भावं प्रतिषेधार्हम् ।
नतु रूपप्रपञ्चः प्रत्यक्षादिगोचरत्वात्प्रतिषेधार्हः ।
अभ्यासस्त्वादरार्थ इति ।
एवं प्राप्ते ब्रूमः ।
- न तावदुभयप्रतिषेध उपपद्यते शून्यवादप्रसङ्गात् ।
किञ्चिद्धि परमार्थमालम्ब्यार्थः प्रतिषिध्यते यथा रज्ज्वादिषु सर्पादयः ।
तच्च परिशिष्यमाणे कस्मिंश्चिद्भावे ऽवकल्पते ।
उभयप्रतिषेधे तु को ऽन्यो भावः परिशेष्यात् ।
अपरिशिष्यमाणे चान्यस्मिन्य इतरः प्रतिषेद्धुमारभ्यते प्रतिषेद्धुमशक्यत्वात्तस्यैव परमार्थत्वापत्तेः प्रतिषेधानुपपत्तिः ।
नापि ब्रह्मप्रतिषेध उपपद्यते ऽऽब्रह्म ते ब्रवाणिऽ (बृ। २।१।१) इत्याद्युपक्रमविरोधात् ।
ऽअसन्नेव स भवति ।
असद्ब्रह्मेति वेद चेत्ऽ (तैत्ति। २।६।१) इत्यादिनिन्दाविरोधात् ।
ऽअस्तीत्येवोपलब्धव्यःऽ (कठ। ६।१३) इत्यवधारणविरोधात् ।
सर्ववेदान्तव्याकोपप्रसङ्गाच्च ।
वाङ्मनसातीतत्वमपि ब्रह्मणो नाभावाभिप्रायेणाभिधीयते ।
नहि महता परिकरबन्धेन ऽब्रह्मविदाप्नोति परम्ऽ (तै। २।१।१), ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ (तै। २।१।१) इत्येवमादिना वेदान्तेषु ब्रह्मप्रतिपाद्य तस्यैव पुनरभावो ऽभिलप्येत ।
प्रक्षालनाद्धि पङ् कस्य दूरादस्पर्शं वरम् इति हि न्यायः ।
प्रतिपादनप्रक्रिया त्वेषा ऽयतो वाचो निवर्तन्ते ।
अप्राप्य मनसा सहऽ (तै। २।४।१) इति ।
एतदुक्तं भवति - वाङ्मनसातीतमविषयान्तःपाति प्रत्यगात्मभूतं नित्यशुद्धबुद्धमुक्तस्वभावं ब्रह्मेति ।
तस्माद्ब्रह्मणो रूपप्रपञ्चं प्रतिषेधति परिशिनष्टि ब्रह्मेत्यभ्युपगन्तव्यम् ।
तदेतदुच्यते प्रकृतैतावत्त्वं हि प्रतिषेधतीति ।
प्रकृतं यदेतावदियत्तापरिच्छिन्नं मूर्तामूर्तलक्षणं ब्रह्मणो रूपं तदेष शब्दः प्रतिषेधति ।
तद्धि प्रकृतं प्रपञ्चितं च पूर्वस्मिनग्रन्थे ऽधिदैवतमध्यात्मं च तज्जनितमेव च वासनालब्क्षणमपरं रूपममूर्तरसभूतं पुरुषशब्दोदितं लिङ्गात्मव्यपाश्रयं महाजनाद्युपमाभिर्दर्शितम् ।
अमूर्तरसस्य पुरुषस्य चक्षुर्ग्राह्यरूपयोगित्वानुपपत्तेः ।
तदेतत्सप्रपञ्चं ब्रह्मणो रूपं संनिहितालम्बनेनेतिकरणेन प्रतिषेधकं नञं प्रत्युपनीयत इति गम्यते ।
ब्रह्म तु रूपविशेषणत्वेन षष्ठ्या निर्दिष्टं पूर्वस्मिन्ग्रन्थे न स्वप्रधानत्वेन ।
प्रपञ्चिते च तदीये रूपद्वये रूपवतः स्वरूपजिज्ञासायामिदमुपक्रान्तम् ऽअथात आदेशो नेति नेतिऽऽ (बृ। २।३।६) इति ।
तत्र कल्पितरूपप्रत्याख्यानेन ब्रह्मणः स्वरूपावेदनमिदमिति निर्णीयते ।
तदास्पदं हीदं समस्तं कार्यं नेति नेतीति प्रतिषिद्धम् ।
युक्तं च कार्यस्य वाचारम्भणसब्धादिभ्यो ऽसत्त्वमिति नेति नेतीति प्रतिषेधनं न तु ब्रह्मणः ।
कर्वकल्पनामूलत्वात् ।
नचात्रेयमाशङ्का कर्तव्या - कथं हि शास्त्रं स्वयमेव रूपद्वयं दर्शयित्वा स्वयमेव पुनः प्रतिषेधति - ऽप्रक्षालनाद्धि पङ् कस्य दूरादस्पर्शनं वरम्ऽ इति ।
यतो नेदं शास्त्रं प्रतिपाद्यत्वेन ब्रह्मणो रूपद्वयं निर्दिशति, लोकप्रसिद्धं त्विदं रूपद्वयं ब्रह्मणि कल्पितं परामृशति प्रतिषेध्यत्वाय शुद्धब्रह्मस्वरूपप्रतिपादनाय चेति निरवद्यम् ।
द्वौ चैतौ प्रतिषेधौ यथासंख्यन्यायेन द्वे अपि मूर्तामूर्ते प्रतिषेधतः ।
यद्वा पूर्वः प्रतिषेधो भूतराशिं प्रतिषेधत्युत्तरो वासनाराशिम् ।
अथवा ऽनेति नेतिऽ (बृ। २।३।६) इति वीप्सेयमितीति यावत्किञ्चिदुत्प्रेक्ष्यते तत्सर्वं न भवतीत्यर्थः ।
परिगणितप्रतिषेधे हि क्रियमाणे यदि नैतद्ब्रह्म किमन्यद्ब्रह्म भवेदिति जिज्ञासा स्यात् ।
वाप्सायां तु सत्यां समस्तस्य विषयजातस्य प्रतिषेधादविषयः प्रत्यगात्मा ब्रह्मेति जिज्ञासा निवर्तते ।
तस्मात्प्रपञ्चमेव ब्रह्मणि कल्पितं प्रतिषेधति परिश्नष्टि ब्रह्मेति निर्णयः ।
इतश्चैष एव निर्णयः ।
यतस्ततः प्रतिषेधाद्भूयो ब्रवीति ऽअन्यत्परमस्तिऽ (बृ। २।३।६) इति ।
अभावावासने हि प्रतिषेधे क्रियमाणे किमन्यत्परमस्तीति ब्रूयात् ।
तत्रैषाक्षरयोजना - नेति नेतीति ब्रह्मादिश्य तमेवादेशं पुनर्निर्वक्ति ।
नेति नेतीत्यस्य कोर्ऽथः ।
नह्येतस्माद्ब्रह्मणो व्यतिरिक्तमस्तीत्यतो नेति नेतीत्युच्यते न पुनः स्वयमेव नास्तीत्यर्थः ।
तच्च दर्शयत्यन्यत्परमप्रतिषिद्धं ब्रह्मास्तीति ।
यदा पुनरेवमक्षराणि योज्यन्ते नह्येतस्मादिति नेति नेति ।
नहि प्रपञ्चप्रतिषेधरूपादादेशनादन्यत्परादेशनं ब्रह्मणो ऽस्तीति ।
तदा ततो ब्रवीति च भूय इत्येतन्नामधेयविषयं योजयितव्यम् ।
अथ नामधेयम् - ऽसत्यस्य सत्यमिति प्राण वै सत्यं तेषामेष सत्यम्ऽ (बृ। २।१।२०) इति हि ब्रवीतिति ।
तच्च ब्रह्मावसाने प्रतिषेधे समञ्जसं भवति ।
अभावावसाने तु प्रतिषेधे किं सत्यस्य सत्यमित्युच्येत ।
तस्माद्ब्रह्मावसानो ऽयं प्रतिषेधो नाभावावसान इत्यध्यवस्यामः ॥ २२ ॥
----------------------
फ़्न्: पृथिव्यप्तेजोरूपं भूतत्रयं मूर्तं, वाय्वाकाशरूपं चामूर्तमिति द्विराशित्वेन ।
महाराजनं हरिद्रा ।
prakṛtaitāvattvaṃ hi pratiṣedhati tato bravīti ca bhūyaḥ
'dve vāva brahmaṇo rūpe mūrtaṃ caivāmūrtaṃ ca' (bṛ. 2.3.1) ityupakramya pañcamahābhūtāni dvairāśyena pravibhajyāmabartarasasya ca puruṣaśabdoditasya mahārajanādīni rūpāṇi darśayitvā punaḥ paṭhyate - 'athāta ādeśo neti neti nahyetasmāditi netyanyatparamasti' (bṛ. 2.3.6) iti /
tatra ko 'syapratiṣedhasya viṣaya iti jijñāsāmahe /
nahyatredaṃ taditi viśeṣitaṃ kiñcitpratiṣedhyamupalabhyate /
itiśabdena tvatra pratiṣedhyaṃ kimapi samarthyate neti netītiparatvānnañprayogasya /
itiśabdāśrayaṃ saṃnihitālaṃbana evaṃśabdasamānavṛttiḥ prayujyamāno dṛśyate iti ha smopādhyāyaḥ kathayati ityevamādiṣu /
saṃnihitaṃ cātra prakaraṇasāmarthyādrūpadvayaṃ saprapañcaṃ brahmaṇastacca brahmayasyaite dve rūpe /
tatra naḥ saṃśaya upajāyate - kimayaṃ pratiṣedho rūpe rūpāvaccobhayamapi pratiṣedhatyāhosvidekataram /
yadāpyekataraṃ tadāpi kiṃ brahma pratiṣedhati rūpe pariśiṣṭyāhosvidrūpe pratiṣedhati brahma pariśinaṣṭīti /
tatra prakṛtatvāviśeṣādubhayamapi pratiṣedhatītyāśaṅkāmahe /
dvau caitau pratiṣedhau dvirnetiśabdaprayogāt /
tayorekena saprapañcaṃ brahmaṇo rūpaṃ pratiṣidhyate 'pareṇa rūpavadbrahmeti bhavati matiḥ /
athavā brahmaiva rūpavatpratiṣidhyate taddhi vāṅmanasātītatvādasaṃbhāvyamānasadbhāvaṃ pratiṣedhārham /
natu rūpaprapañcaḥ pratyakṣādigocaratvātpratiṣedhārhaḥ /
abhyāsastvādarārtha iti /
evaṃ prāpte brūmaḥ /
- na tāvadubhayapratiṣedha upapadyate śūnyavādaprasaṅgāt /
kiñciddhi paramārthamālambyārthaḥ pratiṣidhyate yathā rajjvādiṣu sarpādayaḥ /
tacca pariśiṣyamāṇe kasmiṃścidbhāve 'vakalpate /
ubhayapratiṣedhe tu ko 'nyo bhāvaḥ pariśeṣyāt /
apariśiṣyamāṇe cānyasminya itaraḥ pratiṣeddhumārabhyate pratiṣeddhumaśakyatvāttasyaiva paramārthatvāpatteḥ pratiṣedhānupapattiḥ /
nāpi brahmapratiṣedha upapadyate ''brahma te bravāṇi' (bṛ. 2.1.1) ityādyupakramavirodhāt /
'asanneva sa bhavati /
asadbrahmeti veda cet' (taitti. 2.6.1) ityādinindāvirodhāt /
'astītyevopalabdhavyaḥ' (kaṭha. 6.13) ityavadhāraṇavirodhāt /
sarvavedāntavyākopaprasaṅgācca /
vāṅmanasātītatvamapi brahmaṇo nābhāvābhiprāyeṇābhidhīyate /
nahi mahatā parikarabandhena 'brahmavidāpnoti param' (tai. 2.1.1), 'satyaṃ jñānamanantaṃ brahma' (tai. 2.1.1) ityevamādinā vedānteṣu brahmapratipādya tasyaiva punarabhāvo 'bhilapyeta /
prakṣālanāddhi paṅ kasya dūrādasparśaṃ varam iti hi nyāyaḥ /
pratipādanaprakriyā tveṣā 'yato vāco nivartante /
aprāpya manasā saha' (tai. 2.4.1) iti /
etaduktaṃ bhavati - vāṅmanasātītamaviṣayāntaḥpāti pratyagātmabhūtaṃ nityaśuddhabuddhamuktasvabhāvaṃ brahmeti /
tasmādbrahmaṇo rūpaprapañcaṃ pratiṣedhati pariśinaṣṭi brahmetyabhyupagantavyam /
tadetaducyate prakṛtaitāvattvaṃ hi pratiṣedhatīti /
prakṛtaṃ yadetāvadiyattāparicchinnaṃ mūrtāmūrtalakṣaṇaṃ brahmaṇo rūpaṃ tadeṣa śabdaḥ pratiṣedhati /
taddhi prakṛtaṃ prapañcitaṃ ca pūrvasminagranthe 'dhidaivatamadhyātmaṃ ca tajjanitameva ca vāsanālabkṣaṇamaparaṃ rūpamamūrtarasabhūtaṃ puruṣaśabdoditaṃ liṅgātmavyapāśrayaṃ mahājanādyupamābhirdarśitam /
amūrtarasasya puruṣasya cakṣurgrāhyarūpayogitvānupapatteḥ /
tadetatsaprapañcaṃ brahmaṇo rūpaṃ saṃnihitālambanenetikaraṇena pratiṣedhakaṃ nañaṃ pratyupanīyata iti gamyate /
brahma tu rūpaviśeṣaṇatvena ṣaṣṭhyā nirdiṣṭaṃ pūrvasmingranthe na svapradhānatvena /
prapañcite ca tadīye rūpadvaye rūpavataḥ svarūpajijñāsāyāmidamupakrāntam 'athāta ādeśo neti neti'' (bṛ. 2.3.6) iti /
tatra kalpitarūpapratyākhyānena brahmaṇaḥ svarūpāvedanamidamiti nirṇīyate /
tadāspadaṃ hīdaṃ samastaṃ kāryaṃ neti netīti pratiṣiddham /
yuktaṃ ca kāryasya vācārambhaṇasabdhādibhyo 'sattvamiti neti netīti pratiṣedhanaṃ na tu brahmaṇaḥ /
karvakalpanāmūlatvāt /
nacātreyamāśaṅkā kartavyā - kathaṃ hi śāstraṃ svayameva rūpadvayaṃ darśayitvā svayameva punaḥ pratiṣedhati - 'prakṣālanāddhi paṅ kasya dūrādasparśanaṃ varam' iti /
yato nedaṃ śāstraṃ pratipādyatvena brahmaṇo rūpadvayaṃ nirdiśati, lokaprasiddhaṃ tvidaṃ rūpadvayaṃ brahmaṇi kalpitaṃ parāmṛśati pratiṣedhyatvāya śuddhabrahmasvarūpapratipādanāya ceti niravadyam /
dvau caitau pratiṣedhau yathāsaṃkhyanyāyena dve api mūrtāmūrte pratiṣedhataḥ /
yadvā pūrvaḥ pratiṣedho bhūtarāśiṃ pratiṣedhatyuttaro vāsanārāśim /
athavā 'neti neti' (bṛ. 2.3.6) iti vīpseyamitīti yāvatkiñcidutprekṣyate tatsarvaṃ na bhavatītyarthaḥ /
parigaṇitapratiṣedhe hi kriyamāṇe yadi naitadbrahma kimanyadbrahma bhavediti jijñāsā syāt /
vāpsāyāṃ tu satyāṃ samastasya viṣayajātasya pratiṣedhādaviṣayaḥ pratyagātmā brahmeti jijñāsā nivartate /
tasmātprapañcameva brahmaṇi kalpitaṃ pratiṣedhati pariśnaṣṭi brahmeti nirṇayaḥ /
itaścaiṣa eva nirṇayaḥ /
yatastataḥ pratiṣedhādbhūyo bravīti 'anyatparamasti' (bṛ. 2.3.6) iti /
abhāvāvāsane hi pratiṣedhe kriyamāṇe kimanyatparamastīti brūyāt /
tatraiṣākṣarayojanā - neti netīti brahmādiśya tamevādeśaṃ punarnirvakti /
neti netītyasya kor'thaḥ /
nahyetasmādbrahmaṇo vyatiriktamastītyato neti netītyucyate na punaḥ svayameva nāstītyarthaḥ /
tacca darśayatyanyatparamapratiṣiddhaṃ brahmāstīti /
yadā punarevamakṣarāṇi yojyante nahyetasmāditi neti neti /
nahi prapañcapratiṣedharūpādādeśanādanyatparādeśanaṃ brahmaṇo 'stīti /
tadā tato bravīti ca bhūya ityetannāmadheyaviṣayaṃ yojayitavyam /
atha nāmadheyam - 'satyasya satyamiti prāṇa vai satyaṃ teṣāmeṣa satyam' (bṛ. 2.1.20) iti hi bravītiti /
tacca brahmāvasāne pratiṣedhe samañjasaṃ bhavati /
abhāvāvasāne tu pratiṣedhe kiṃ satyasya satyamityucyeta /
tasmādbrahmāvasāno 'yaṃ pratiṣedho nābhāvāvasāna ityadhyavasyāmaḥ // 22 //
----------------------
FN: pṛthivyaptejorūpaṃ bhūtatrayaṃ mūrtaṃ, vāyvākāśarūpaṃ cāmūrtamiti dvirāśitvena /
mahārājanaṃ haridrā /
Sanskrit only: no published translation is held for this verse.
तदव्यक्तमाह हि
यत्प्रतिषिद्धात्प्रपञ्चजातादन्यत्परं ब्रह्म तदस्ति चेत्कस्मान्न गृह्यत इति ।
उच्यते - तदव्यक्तमनिन्द्रियग्राह्यं सर्वदृश्यसाक्षित्वात् ।
आह ह्येवं श्रुतिः ऽन चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वाऽ (मुण्ड। ३।१।८) ऽस एष नेति नेत्यात्मागृह्यो नहि गृह्यतेऽ (बृ। ३।९।२३) यत्तदद्रेश्यमग्राह्यम् (मुण्ड। १।१।६) ऽयदा ह्येवैष एतस्मिन्नदृश्ये ऽनात्म्ये ऽनिरुक्ते ऽनिलयनेऽ (तै। २।७।१) इत्याद्या ।
स्मृतिरपि - ऽअव्यक्तो ऽयमचिन्त्यो ऽयमविकार्यो ऽयमुच्यतेऽ (भ। गी। २।२५) इत्याद्या ॥ २३ ॥
tadavyaktamāha hi
yatpratiṣiddhātprapañcajātādanyatparaṃ brahma tadasti cetkasmānna gṛhyata iti /
ucyate - tadavyaktamanindriyagrāhyaṃ sarvadṛśyasākṣitvāt /
āha hyevaṃ śrutiḥ 'na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇā vā' (muṇḍa. 3.1.8) 'sa eṣa neti netyātmāgṛhyo nahi gṛhyate' (bṛ. 3.9.23) yattadadreśyamagrāhyam (muṇḍa. 1.1.6) 'yadā hyevaiṣa etasminnadṛśye 'nātmye 'nirukte 'nilayane' (tai. 2.7.1) ityādyā /
smṛtirapi - 'avyakto 'yamacintyo 'yamavikāryo 'yamucyate' (bha. gī. 2.25) ityādyā // 23 //
Sanskrit only: no published translation is held for this verse.
अपि च संराधने प्रत्यक्षानुमानाभ्याम्
अपिचैनमात्मानं निरस्तसमस्तप्रपञ्चमव्यक्तं संराधनकाले पश्यन्ति योगिनः ।
संराधनं च भक्तिध्यानप्रणिधानाद्यनुष्ठानम् ।
कथं पुनरवगम्यते संराधनकाले पश्यन्तीति ।
प्रत्यक्षानुमानाभ्यां श्रुतिस्मृतिभ्यामित्यर्थः ।
तथाहि श्रुतिः - ऽपराञ्चि खानि व्यतृणत्स्वयं भूतस्मात्पराङ्पश्यति नान्तरात्मन् ।
कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्ऽ (क। ४।१) इति ।
ऽज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानःऽ (मु। ३।१।८) इति चैवमाद्या ।
स्मृतिरपि - ऽयं विनिद्रा जितश्वासाः संतुष्टाः संयतेन्द्रियाः ।
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्ऽ इति चैवमाद्या ॥ २४ ॥
----------------------
फ़्न्: स्वयंभूरीश्वरः खानीन्द्रियाणि पराञ्चि अनात्मग्राहकाणि कृत्वा व्यतृमत् नासितवान् ।
आवृत्तचक्षुर्निरुद्धेन्द्रियः ।
विनिद्रा वितमस्काः ।
युञ्जानः ध्यायिनः ।
योगलभ्य आत्मायोगात्मा ।
ननु संराध्यसंराधकभावाभ्युपगमात्परेतरात्मनोरन्यत्वं स्यादिति ।
नेत्युच्यते -
api ca saṃrādhane pratyakṣānumānābhyām
apicainamātmānaṃ nirastasamastaprapañcamavyaktaṃ saṃrādhanakāle paśyanti yoginaḥ /
saṃrādhanaṃ ca bhaktidhyānapraṇidhānādyanuṣṭhānam /
kathaṃ punaravagamyate saṃrādhanakāle paśyantīti /
pratyakṣānumānābhyāṃ śrutismṛtibhyāmityarthaḥ /
tathāhi śrutiḥ - 'parāñci khāni vyatṛṇatsvayaṃ bhūtasmātparāṅpaśyati nāntarātman /
kaściddhīraḥ pratyagātmānamaikṣadāvṛttacakṣuramṛtatvamicchan' (ka. 4.1) iti /
'jñānaprasādena viśuddhasattvastatastu taṃ paśyate niṣkalaṃ dhyāyamānaḥ' (mu. 3.1.8) iti caivamādyā /
smṛtirapi - 'yaṃ vinidrā jitaśvāsāḥ saṃtuṣṭāḥ saṃyatendriyāḥ /
jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ //
yoginastaṃ prapaśyanti bhagavantaṃ sanātanam' iti caivamādyā // 24 //
----------------------
FN: svayaṃbhūrīśvaraḥ khānīndriyāṇi parāñci anātmagrāhakāṇi kṛtvā vyatṛmat nāsitavān /
āvṛttacakṣurniruddhendriyaḥ /
vinidrā vitamaskāḥ /
yuñjānaḥ dhyāyinaḥ /
yogalabhya ātmāyogātmā /
nanu saṃrādhyasaṃrādhakabhāvābhyupagamātparetarātmanoranyatvaṃ syāditi /
netyucyate -
Sanskrit only: no published translation is held for this verse.
प्रकाशादिवच्चावैशेष्यं प्रकाशश् च कर्मण्यभ्यासात्
यथा प्रकाशाकाशसवितृप्रभृतयो ऽङ्गुलिकरकोदकप्रभृतिषु कर्मसूपाधिभूतेषु सविशेषा इवावभासन्ते, नच स्वाभाविकीमविशेषात्मतां जहति, एवमुपाधिनिमित्त एवायमात्मभेदः स्वतत्वैकात्म्यमेव ।
तथाहि - वेदान्तेष्वभ्यासेनासकृज्जीवप्राज्ञयोरभेदः प्रतिपाद्यते ॥ २५ ॥
prakāśādivaccāvaiśeṣyaṃ prakāśaś ca karmaṇyabhyāsāt
yathā prakāśākāśasavitṛprabhṛtayo 'ṅgulikarakodakaprabhṛtiṣu karmasūpādhibhūteṣu saviśeṣā ivāvabhāsante, naca svābhāvikīmaviśeṣātmatāṃ jahati, evamupādhinimitta evāyamātmabhedaḥ svatatvaikātmyameva /
tathāhi - vedānteṣvabhyāsenāsakṛjjīvaprājñayorabhedaḥ pratipādyate // 25 //
Sanskrit only: no published translation is held for this verse.
अतो ऽनन्तेन तथा हि लिङ्गम्
अतश्च स्वाभाविकत्वादभेदस्याविद्याकृतत्वाच्च भेदस्य विद्ययाविद्यां विधूय जीवः परेणानन्तेन प्राज्ञेनात्मनेकतां गच्छति ।
तथाहि लिङ्गम् - ऽस यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवतिऽ (मु। ३।२।९) ऽब्रह्मैव सन्ब्रह्माप्येतिऽ (बृ। ४।४।६) इत्यादि ॥ २६ ॥
ato 'nantena tathā hi liṅgam
ataśca svābhāvikatvādabhedasyāvidyākṛtatvācca bhedasya vidyayāvidyāṃ vidhūya jīvaḥ pareṇānantena prājñenātmanekatāṃ gacchati /
tathāhi liṅgam - 'sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati' (mu. 3.2.9) 'brahmaiva sanbrahmāpyeti' (bṛ. 4.4.6) ityādi // 26 //
Sanskrit only: no published translation is held for this verse.
उभयव्यपदेशात्त्वहिकुण्डलवत्
तस्मिन्नेव संराध्यसंराधकभावे मतान्तरमुपन्यस्यति स्वमतविशुद्धये ।
क्वचिज्जीवप्राज्ञयोर्भेदो व्यपदिश्यते ऽततस्तु तं पश्यते निष्कलं ध्यायमानःऽ (मुण्ड। ३।१।८) इति ध्यातृध्यातव्यत्वेन द्रष्टृद्रष्टव्यत्वेन च ।
परात्परं पुरुषमुपैति दिव्यम् (मु। ३।२।८) इति गन्तृगन्तव्यत्वेन ।
क्वचित्तु तयोरेवाभेदो व्यपदिश्यते ऽतत्त्वमसिऽ (छा। ६।८।७) ऽअहं ब्रह्मास्मिऽ (बृ। १।४।१०) ऽएष त आत्मा सर्वान्तरःऽ (बृ। ३।४।१) ऽएष त आत्मान्तर्याम्यमृतःऽ (बृ। ३।७।३) इति ।
तत्रैवमुभयव्यपदेशे सति यद्यभेद एवैकान्ततो गृह्यते भेदव्यपदेशो निरालम्बन एव स्यात् ।
अत उभयव्यपदेशदर्शनादहिकुण्डलवदत्र तत्त्वं भवितुमर्हति ।
यथाहिरित्यभेदः कुण्डलाभोगप्रांशुत्वादीनीति तु भेद एवमिहापीति ॥ २७ ॥
ubhayavyapadeśāttvahikuṇḍalavat
tasminneva saṃrādhyasaṃrādhakabhāve matāntaramupanyasyati svamataviśuddhaye /
kvacijjīvaprājñayorbhedo vyapadiśyate 'tatastu taṃ paśyate niṣkalaṃ dhyāyamānaḥ' (muṇḍa. 3.1.8) iti dhyātṛdhyātavyatvena draṣṭṛdraṣṭavyatvena ca /
parātparaṃ puruṣamupaiti divyam (mu. 3.2.8) iti gantṛgantavyatvena /
kvacittu tayorevābhedo vyapadiśyate 'tattvamasi' (chā. 6.8.7) 'ahaṃ brahmāsmi' (bṛ. 1.4.10) 'eṣa ta ātmā sarvāntaraḥ' (bṛ. 3.4.1) 'eṣa ta ātmāntaryāmyamṛtaḥ' (bṛ. 3.7.3) iti /
tatraivamubhayavyapadeśe sati yadyabheda evaikāntato gṛhyate bhedavyapadeśo nirālambana eva syāt /
ata ubhayavyapadeśadarśanādahikuṇḍalavadatra tattvaṃ bhavitumarhati /
yathāhirityabhedaḥ kuṇḍalābhogaprāṃśutvādīnīti tu bheda evamihāpīti // 27 //
Sanskrit only: no published translation is held for this verse.
प्रकाशाश्रयवद्वा तेजस्त्वात्
अथवा प्रकाशाश्रयवदेतत्प्रतिपत्तव्यम् ।
यथा प्रकाशः सवित्रस्तदाश्रयश्च सविता नात्यन्तभिन्नावुभयोरपि तेजस्त्वाविशेषात् ।
अथ च भेदव्यपदेशभाजौ भवत एवमिहापीति ॥ २८ ॥
prakāśāśrayavadvā tejastvāt
athavā prakāśāśrayavadetatpratipattavyam /
yathā prakāśaḥ savitrastadāśrayaśca savitā nātyantabhinnāvubhayorapi tejastvāviśeṣāt /
atha ca bhedavyapadeśabhājau bhavata evamihāpīti // 28 //
Sanskrit only: no published translation is held for this verse.
पूर्ववद्वा
यथा वा पूर्वमुपन्यस्तं प्रकाशादिवच्चावैशेष्यमिति तथैवैतद्भवितुमर्हति ।
तथाह्यविद्याकृतत्वाद्बन्धस्य विद्यया मोक्ष उपपद्यते ।
यदि पुनः परमार्थत एव बद्धः कश्चिदात्माहिकुण्डलन्यायेन परस्यात्मनः संस्थानभूतः प्रकाशाश्रयन्यायेन चैकदेशभूतो ऽभ्युपगम्येत ततः पारमार्थिकस्य बन्धस्य तिरस्कर्तुमशक्यत्वान्मोक्षशास्त्रवोयर्थ्यं प्रसज्येत, नचात्रोभावपि भेदाभेदौ श्रुतिस्तुल्यवद्व्यपदिशति ।
अभेदमेव हि प्रतिपाद्यत्वेन निर्दिशति भेदं तु पूर्वप्रसिद्धमेवानुवदत्यर्थान्तरविवक्षया ।
तस्मात्प्रकाशादिवच्चावैशेष्यमित्येष एव सिद्धान्तः ॥ २९ ॥
pūrvavadvā
yathā vā pūrvamupanyastaṃ prakāśādivaccāvaiśeṣyamiti tathaivaitadbhavitumarhati /
tathāhyavidyākṛtatvādbandhasya vidyayā mokṣa upapadyate /
yadi punaḥ paramārthata eva baddhaḥ kaścidātmāhikuṇḍalanyāyena parasyātmanaḥ saṃsthānabhūtaḥ prakāśāśrayanyāyena caikadeśabhūto 'bhyupagamyeta tataḥ pāramārthikasya bandhasya tiraskartumaśakyatvānmokṣaśāstravoyarthyaṃ prasajyeta, nacātrobhāvapi bhedābhedau śrutistulyavadvyapadiśati /
abhedameva hi pratipādyatvena nirdiśati bhedaṃ tu pūrvaprasiddhamevānuvadatyarthāntaravivakṣayā /
tasmātprakāśādivaccāvaiśeṣyamityeṣa eva siddhāntaḥ // 29 //
Sanskrit only: no published translation is held for this verse.
प्रतिषेधाच् च
अतश्चैष एव सिद्धान्तः ।
यत्कारणं परस्मादात्मनो ऽन्यं चेतनं प्रतिषेधति शास्त्रम् - ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ (बृ। ३।७।२३) इत्येवमादि ।
अतात आदेशो नेति नेति (बृ। २।३।६) तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम् (बृ। २।५।१९) इति च ब्रह्मव्यतिरिक्तप्रपञ्चनिराकरणाद्ब्रह्ममात्रपरिशेषाच्चैव एव सिद्धान्त इति गम्यते ॥ ३० ॥
७ पराधिकरणम् । सू। ३१-३७
pratiṣedhāc ca
ataścaiṣa eva siddhāntaḥ /
yatkāraṇaṃ parasmādātmano 'nyaṃ cetanaṃ pratiṣedhati śāstram - 'nānyo 'to 'sti draṣṭā' (bṛ. 3.7.23) ityevamādi /
atāta ādeśo neti neti (bṛ. 2.3.6) tadetadbrahmāpūrvamanaparamanantaramabāhyam (bṛ. 2.5.19) iti ca brahmavyatiriktaprapañcanirākaraṇādbrahmamātrapariśeṣāccaiva eva siddhānta iti gamyate // 30 //
7 parādhikaraṇam / sū. 31-37
Sanskrit only: no published translation is held for this verse.
परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः
यदेतन्निरस्तसमस्तप्रपञ्चं ब्रह्म निर्धरितमस्मात्परमन्यत्तत्त्वमस्ति नास्तीति श्रुतिविप्रतिपत्तेः संशयः ।
कानिचिद्धि वाक्यान्यापातेनैव प्रतिभासमानानि ब्रह्मणो ऽपि परमन्यत्तत्त्वं प्रतिपादयन्तीव ।
तेषां हि परिहारमभिधातुमयमुपक्रमः क्रियते ।
परमतो ब्रह्मणो ऽन्यत्तत्त्वं भवितुमर्हति ।
कुतः - सेतुव्यपदेशादुन्मानव्यपदेशात्संबन्धव्यपदेशाद्भेदव्यपदेशाच्चेति ।
सेतुव्यपदेशस्तावत् - ऽअथ य आत्मा स सेतुर्विधृतिःऽ (छा। ८।४।१) इत्यात्मशब्दाभिहितस्य ब्रह्मणः सेतुत्तवं संकीर्तयति ।
सेतुशब्दश्च हि लोके जलसंतानविच्छेदकरे मृद्दार्वादिप्रचये प्रसिद्धः ।
इह तु सेतुशब्द आत्मनि प्रयुक्त इति लौकिकसेतोरिवात्मसेतोरन्यस्य वस्तुनो ऽस्तित्वं गमयति ।
ऽसेतुं तीर्त्वाऽ (छा। ८।४।२) इति च तरतिशब्दप्रयोगात् ।
यथा लौकिकं सेतुं तीर्त्वा जाङ्गलमसेतुं प्राप्नोत्येवमात्मानं सेतुं तीर्त्वानात्मानमसेतुं प्राप्नोतीति गम्यते ।
उन्मानव्यपदेशश्च भवति ऽतदेतद्ब्रह्म चतुष्पादष्टाशफं षोडशकलमिऽति ।
यच्च लोके उन्मितमेतावदिदमिति परिच्चिन्नं कार्षापणादि ततो ऽन्यद्वस्त्वस्तीति प्रसिद्धम् ।
तथा ब्रह्मणो ऽप्युन्मानात्ततो ऽन्येन वस्तुना भवितव्यमिति गम्यते ।
तथा संबन्धव्यपदेशो ऽपि भवति - ऽसता सोम्य तदा संपन्नो भवतिऽ (छा। ६।८।१) इति ऽशारीर आत्माऽ (तै। २।३।१) ऽप्राज्ञेनात्मना संपरिष्वक्तःऽ (बृ। ४।३।२१) इति च ।
मितानां च मितेन संन्धो दृष्टो यथा नराणां नगरेण ।
जीवानां च ब्रह्मणा संबन्धं व्यपदिशति सुषुप्तौ ।
अतस्ततः परमन्यदमितमस्तीति गम्यते ।
भेदव्यपदेशश्चैतमेवार्थं गमयति ।
तथाहि - ऽअथ य एषो ऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यतेऽ (छा।
१।६।६) इत्यादित्याधारमीश्वरं व्यपदिश्यततो भेदेनाक्ष्याधारमीश्वरं व्यपदिशति - ऽअथ य एषो ऽन्तिक्षिणि पुरुषो दृश्यतेऽ (छा। १।७।५) इति ।
अतिदेशं चास्यामुना रूपादिषु करोति - ऽतस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ यन्नाम तन्नामऽ (छा। १।७।५)
इति ।
सावधिकं चेश्वरत्वमुभयोर्व्यपदिशति - ऽये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां चऽ (छा। १।६।८) इत्येकस्य ।
ऽये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चऽ (छा। १।७।६) इत्येकस्य ।
यथेदं मागधस्य राज्यमिदं वैदेहस्येति ॥ ३१ ॥
----------------------
फ़्न्: वातप्रचुरो देशो जाङ्गलः ।
एवमेतेभ्यः सेत्वादिव्यपदेशेभ्यो ब्रह्मणः परमस्तीत्येवं प्राप्ते प्रतिपाद्यते -
paramataḥ setūnmānasaṃbandhabhedavyapadeśebhyaḥ
yadetannirastasamastaprapañcaṃ brahma nirdharitamasmātparamanyattattvamasti nāstīti śrutivipratipatteḥ saṃśayaḥ /
kāniciddhi vākyānyāpātenaiva pratibhāsamānāni brahmaṇo 'pi paramanyattattvaṃ pratipādayantīva /
teṣāṃ hi parihāramabhidhātumayamupakramaḥ kriyate /
paramato brahmaṇo 'nyattattvaṃ bhavitumarhati /
kutaḥ - setuvyapadeśādunmānavyapadeśātsaṃbandhavyapadeśādbhedavyapadeśācceti /
setuvyapadeśastāvat - 'atha ya ātmā sa seturvidhṛtiḥ' (chā. 8.4.1) ityātmaśabdābhihitasya brahmaṇaḥ setuttavaṃ saṃkīrtayati /
setuśabdaśca hi loke jalasaṃtānavicchedakare mṛddārvādipracaye prasiddhaḥ /
iha tu setuśabda ātmani prayukta iti laukikasetorivātmasetoranyasya vastuno 'stitvaṃ gamayati /
'setuṃ tīrtvā' (chā. 8.4.2) iti ca taratiśabdaprayogāt /
yathā laukikaṃ setuṃ tīrtvā jāṅgalamasetuṃ prāpnotyevamātmānaṃ setuṃ tīrtvānātmānamasetuṃ prāpnotīti gamyate /
unmānavyapadeśaśca bhavati 'tadetadbrahma catuṣpādaṣṭāśaphaṃ ṣoḍaśakalami'ti /
yacca loke unmitametāvadidamiti pariccinnaṃ kārṣāpaṇādi tato 'nyadvastvastīti prasiddham /
tathā brahmaṇo 'pyunmānāttato 'nyena vastunā bhavitavyamiti gamyate /
tathā saṃbandhavyapadeśo 'pi bhavati - 'satā somya tadā saṃpanno bhavati' (chā. 6.8.1) iti 'śārīra ātmā' (tai. 2.3.1) 'prājñenātmanā saṃpariṣvaktaḥ' (bṛ. 4.3.21) iti ca /
mitānāṃ ca mitena saṃndho dṛṣṭo yathā narāṇāṃ nagareṇa /
jīvānāṃ ca brahmaṇā saṃbandhaṃ vyapadiśati suṣuptau /
atastataḥ paramanyadamitamastīti gamyate /
bhedavyapadeśaścaitamevārthaṃ gamayati /
tathāhi - 'atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate' (chā.
1.6.6) ityādityādhāramīśvaraṃ vyapadiśyatato bhedenākṣyādhāramīśvaraṃ vyapadiśati - 'atha ya eṣo 'ntikṣiṇi puruṣo dṛśyate' (chā. 1.7.5) iti /
atideśaṃ cāsyāmunā rūpādiṣu karoti - 'tasyaitasya tadeva rūpaṃ yadamuṣya rūpaṃ yāvamuṣya geṣṇau yannāma tannāma' (chā. 1.7.5)
iti /
sāvadhikaṃ ceśvaratvamubhayorvyapadiśati - 'ye cāmuṣmātparāñco lokāsteṣāṃ ceṣṭe devakāmānāṃ ca' (chā. 1.6.8) ityekasya /
'ye caitasmādarvāñco lokāsteṣāṃ ceṣṭe manuṣyakāmānāṃ ca' (chā. 1.7.6) ityekasya /
yathedaṃ māgadhasya rājyamidaṃ vaidehasyeti // 31 //
----------------------
FN: vātapracuro deśo jāṅgalaḥ /
evametebhyaḥ setvādivyapadeśebhyo brahmaṇaḥ paramastītyevaṃ prāpte pratipādyate -
Sanskrit only: no published translation is held for this verse.
सामान्यात् तु
तुशब्देन प्रदर्शितां प्राप्तिं निरुणद्धि ।
न ब्रह्मणो ऽन्यत्किञ्चिद्भवितुमर्हति प्रमाणाभावात् ।
नह्यन्यस्यास्तित्वे किञ्चित्प्रमाणमुपलभामहे ।
सर्वस्य हि जनिमतो वस्तुजातस्य जन्मादि ब्रह्मणो भवतीति निर्धारितम् ।
अनन्यत्वं च कारणात्कार्यस्य ।
ऽनच ब्रह्मव्यतिरिक्तं किञ्चिदजं संभवति सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ (छा। ६।२।१) इत्यवधारणात् ।
एकविज्ञानेन च सर्वविज्ञानप्रतिज्ञानान्न ब्रह्मव्यतिरिक्तवस्त्वस्तित्वमवकल्पते ।
नु सेत्वादिव्यपदेशा ब्रह्मव्यतिरिक्तं तत्त्वं सूचयन्तीत्युक्तम् ।
नेत्युच्यते ।
सेतुव्यपदेशस्तावन्न ब्रह्मणो बाह्यस्य सद्भावं प्रतिपादयितुं क्षमते ।
सेतुरात्मेति ह्याह न ततः परमस्तीति ।
तत्र परस्मिन्नसति सेतुत्वं नावकल्पत इति परं किमपि कल्प्येत ।
नचैतन्न्याय्यं ।
अजत्वादिश्रुतिविरोधात् ।
सेतुसामान्यात्तु सेतुशब्द आत्मनि प्रयुक्त इति श् लिष्यते ।
जगतस्तन्मर्यादानां च विधारकत्वं सेतुसामान्यमात्मनः ।
अतः सेतुरिव सेतुरिति प्रकृत आत्मा स्तूयते ।
सेतुं तीर्त्वेत्यपि तरतेरतिक्रमासंभवात्प्राप्नोत्यर्थ एव वर्तते ।
यथा व्याकरणं तीर्ण इति प्राप्त इदमुच्यते नातिक्रान्तस्तद्वत् ॥ ३२ ॥
sāmānyāt tu
tuśabdena pradarśitāṃ prāptiṃ niruṇaddhi /
na brahmaṇo 'nyatkiñcidbhavitumarhati pramāṇābhāvāt /
nahyanyasyāstitve kiñcitpramāṇamupalabhāmahe /
sarvasya hi janimato vastujātasya janmādi brahmaṇo bhavatīti nirdhāritam /
ananyatvaṃ ca kāraṇātkāryasya /
'naca brahmavyatiriktaṃ kiñcidajaṃ saṃbhavati sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) ityavadhāraṇāt /
ekavijñānena ca sarvavijñānapratijñānānna brahmavyatiriktavastvastitvamavakalpate /
nu setvādivyapadeśā brahmavyatiriktaṃ tattvaṃ sūcayantītyuktam /
netyucyate /
setuvyapadeśastāvanna brahmaṇo bāhyasya sadbhāvaṃ pratipādayituṃ kṣamate /
seturātmeti hyāha na tataḥ paramastīti /
tatra parasminnasati setutvaṃ nāvakalpata iti paraṃ kimapi kalpyeta /
nacaitannyāyyaṃ /
ajatvādiśrutivirodhāt /
setusāmānyāttu setuśabda ātmani prayukta iti ś liṣyate /
jagatastanmaryādānāṃ ca vidhārakatvaṃ setusāmānyamātmanaḥ /
ataḥ seturiva seturiti prakṛta ātmā stūyate /
setuṃ tīrtvetyapi tarateratikramāsaṃbhavātprāpnotyartha eva vartate /
yathā vyākaraṇaṃ tīrṇa iti prāpta idamucyate nātikrāntastadvat // 32 //
Sanskrit only: no published translation is held for this verse.
बुद्ध्यर्थः पादवत्
यदप्युक्तमुन्मानव्यपदेशादस्ति परमिति, तत्राभिधीयते - उन्मानव्यपदेशो ऽपि न ब्रह्मव्यतिरिक्तवस्त्वस्तित्वप्रतिपत्त्यर्थः ।
किमर्थस्तर्हि बुद्ध्यर्थः, उपासनार्थ इति यावत् ।
चतुष्पादष्टाशफं षोडशकलमित्येवंरूपा बुद्धिः कतं नु नाम ब्रह्मणि स्थिरा स्यादिति विकारद्वारेण ब्रह्मण उन्मानकल्पनैव क्रियते ।
नह्यविकारे ऽनन्ते ब्रह्मणि सर्वैः पुंभिः शक्या बुजद्धिः स्थापयितुं मन्दमध्यमोत्तमबुद्धित्वात्पुंसामिति ।
पादवत् ।
यथा मन आकाशयोरध्यात्ममधिदैवतं च ब्रह्मप्रतीकयोराम्नातयोश्चत्वारो वागादयो मनःसंबन्धिनः पादाः कल्प्यन्ते चत्वारश्चाग्न्यादय आकाशसंबन्धिनः आध्यानाय तद्वत् ।
अथवा पादवदिति यथा कार्षापणे पादविभागो व्यवहारप्राचुर्याय कल्प्यते ।
नहि सकलेनैव कार्षापणेन सर्वदा सर्वे जना व्यवहर्तुमीशते क्रयविक्रये परिमाणानियमात्तद्वदित्यर्थः ॥ ३३ ॥
----------------------
फ़्न्: ब्रह्मण उन्मानकल्पनं मन्दधियां ध्यानव्यवहाराय कार्षापमस्य पादव्यवहारात् ।
buddhyarthaḥ pādavat
yadapyuktamunmānavyapadeśādasti paramiti, tatrābhidhīyate - unmānavyapadeśo 'pi na brahmavyatiriktavastvastitvapratipattyarthaḥ /
kimarthastarhi buddhyarthaḥ, upāsanārtha iti yāvat /
catuṣpādaṣṭāśaphaṃ ṣoḍaśakalamityevaṃrūpā buddhiḥ kataṃ nu nāma brahmaṇi sthirā syāditi vikāradvāreṇa brahmaṇa unmānakalpanaiva kriyate /
nahyavikāre 'nante brahmaṇi sarvaiḥ puṃbhiḥ śakyā bujaddhiḥ sthāpayituṃ mandamadhyamottamabuddhitvātpuṃsāmiti /
pādavat /
yathā mana ākāśayoradhyātmamadhidaivataṃ ca brahmapratīkayorāmnātayoścatvāro vāgādayo manaḥsaṃbandhinaḥ pādāḥ kalpyante catvāraścāgnyādaya ākāśasaṃbandhinaḥ ādhyānāya tadvat /
athavā pādavaditi yathā kārṣāpaṇe pādavibhāgo vyavahāraprācuryāya kalpyate /
nahi sakalenaiva kārṣāpaṇena sarvadā sarve janā vyavahartumīśate krayavikraye parimāṇāniyamāttadvadityarthaḥ // 33 //
----------------------
FN: brahmaṇa unmānakalpanaṃ mandadhiyāṃ dhyānavyavahārāya kārṣāpamasya pādavyavahārāt /
Sanskrit only: no published translation is held for this verse.
स्थानविशेषात्प्रकाशादिवत्
इह सूत्रे द्वयोरपि संबन्धभेदव्यदेशयोः परिहारो विदीयते ।
यदप्युक्तं संबन्धव्यपदेशाद्भेदव्यपदेशाच्च परमतः स्यादिति तदप्यसत् ।
यत एकस्यापि स्थानविशेषापेक्षयैतौ व्यपदेशावुपपद्यते ।
संबन्धव्यपदेशे तावदयमर्थः ।
बुद्द्याद्युपाधिस्थानविशेषयोगादुद्भूतस्य विशेषविज्ञानस्योपाद्युपशमे य उपशमः स परमात्मना समबन्ध इत्युपाध्यपेक्षयैवोपचर्यते न परिमितित्वापेक्षया ।
तथा भेदव्यपदेशो ऽपि ब्रह्मण उपाधिभेदापेक्षयोपचर्यते न स्वरूपभेदापेक्षया प्रकाशादिवदित्युपमोपादानात् ।
यथैकस्य प्रकाशस्य सौर्यस्य चान्द्रमसस्य वोपाधियोगादुपजातविशेषस्योपाध्युपशमात्संबन्धव्यपदेशो भवत्युपाधिभेदाच्च भेदव्यपदेशः ।
यथावा सूचीपाशाकाशादिषूपाध्यपेक्षयैवैतौ संबन्धभेदव्यपदेशौ भवतस्तद्वत् ॥ ३४ ॥
sthānaviśeṣātprakāśādivat
iha sūtre dvayorapi saṃbandhabhedavyadeśayoḥ parihāro vidīyate /
yadapyuktaṃ saṃbandhavyapadeśādbhedavyapadeśācca paramataḥ syāditi tadapyasat /
yata ekasyāpi sthānaviśeṣāpekṣayaitau vyapadeśāvupapadyate /
saṃbandhavyapadeśe tāvadayamarthaḥ /
buddyādyupādhisthānaviśeṣayogādudbhūtasya viśeṣavijñānasyopādyupaśame ya upaśamaḥ sa paramātmanā samabandha ityupādhyapekṣayaivopacaryate na parimititvāpekṣayā /
tathā bhedavyapadeśo 'pi brahmaṇa upādhibhedāpekṣayopacaryate na svarūpabhedāpekṣayā prakāśādivadityupamopādānāt /
yathaikasya prakāśasya sauryasya cāndramasasya vopādhiyogādupajātaviśeṣasyopādhyupaśamātsaṃbandhavyapadeśo bhavatyupādhibhedācca bhedavyapadeśaḥ /
yathāvā sūcīpāśākāśādiṣūpādhyapekṣayaivaitau saṃbandhabhedavyapadeśau bhavatastadvat // 34 //
Sanskrit only: no published translation is held for this verse.
उपपत्तेश् च
उपपद्यते चात्रेदृश एव संबन्धो नान्यादृशः ऽस्वमपीतो भवतिऽ (छा। ६।८।१) इति हि स्वरूपसंबन्धमेनमामनन्ति स्वरूपस्य चानपायित्वात् ।
न नरनगरन्यायेन संबन्धो घटते ।
उपाधिकृतस्वरूपतिरोभावात्तु - ऽस्वमपीतो भवतिऽ (छा। ६।८।१) इत्युपपद्यते ।
तथा भेदो ऽपि नान्यादृशः संभवति ।
बहुतरश्रुतिप्रसिद्धैकेश्वरत्वविरोधात् ।
तथाच श्रुतिरेकस्याप्याकाशस्य स्तानकृतं भेदव्यपदेशमुपपादयति - ऽयो ऽयं बहिर्धा पुरुषादाकाशःऽ (छा। ३।१२।८), ऽयो ऽयमन्तर्हृदय आकाशःऽ (छा। ३।१२।९) इति ॥ ३५ ॥
upapatteś ca
upapadyate cātredṛśa eva saṃbandho nānyādṛśaḥ 'svamapīto bhavati' (chā. 6.8.1) iti hi svarūpasaṃbandhamenamāmananti svarūpasya cānapāyitvāt /
na naranagaranyāyena saṃbandho ghaṭate /
upādhikṛtasvarūpatirobhāvāttu - 'svamapīto bhavati' (chā. 6.8.1) ityupapadyate /
tathā bhedo 'pi nānyādṛśaḥ saṃbhavati /
bahutaraśrutiprasiddhaikeśvaratvavirodhāt /
tathāca śrutirekasyāpyākāśasya stānakṛtaṃ bhedavyapadeśamupapādayati - 'yo 'yaṃ bahirdhā puruṣādākāśaḥ' (chā. 3.12.8), 'yo 'yamantarhṛdaya ākāśaḥ' (chā. 3.12.9) iti // 35 //
Sanskrit only: no published translation is held for this verse.
तथान्यप्रतिषेधात्
एवं सेत्वादिव्यपदेशान्परपक्षहेतूनुन्मथ्य संप्रति स्वपक्षं हेत्वान्तरेणोपसंहरति ।
तथान्यप्रतिषेधापि न ब्रह्मणः परं वस्त्वन्तरमस्तीति गम्यते ।
तथाहि - स एवाधस्तात् (छा। ७।२५।१), अहमेवाधस्तात् (छा। ७।२५।१), आत्मैवाधस्तात् (छा। ७।२५।२), सर्वं तं परादाद्यो ऽन्यत्रात्मनः सर्वं वेद (बृ। २।४।६), ब्रह्मैवेदं सर्वम् आत्मैवेदं सर्वम् (छा। ७।२५।२), नेह नानास्ति किञ्चन (बृ। ४।४।१), यस्मात्परं नापरमस्ति किञ्चित् (श्वे। ३।९), तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम् (बृ। २।५।१९) इत्येवमादिवाक्यानि स्वप्रकरणस्तान्यन्यार्थत्वेन परिणेतुमशक्यानि ब्रह्मव्यतिरिक्तं वस्त्वन्तरं वारयन्ति ।
सर्वान्तरश्रुतेश्च न परमात्मनो ऽन्यो ऽन्तरात्मास्तीत्यवधार्यते ॥ ३६ ॥
tathānyapratiṣedhāt
evaṃ setvādivyapadeśānparapakṣahetūnunmathya saṃprati svapakṣaṃ hetvāntareṇopasaṃharati /
tathānyapratiṣedhāpi na brahmaṇaḥ paraṃ vastvantaramastīti gamyate /
tathāhi - sa evādhastāt (chā. 7.25.1), ahamevādhastāt (chā. 7.25.1), ātmaivādhastāt (chā. 7.25.2), sarvaṃ taṃ parādādyo 'nyatrātmanaḥ sarvaṃ veda (bṛ. 2.4.6), brahmaivedaṃ sarvam ātmaivedaṃ sarvam (chā. 7.25.2), neha nānāsti kiñcana (bṛ. 4.4.1), yasmātparaṃ nāparamasti kiñcit (śve. 3.9), tadetadbrahmāpūrvamanaparamanantaramabāhyam (bṛ. 2.5.19) ityevamādivākyāni svaprakaraṇastānyanyārthatvena pariṇetumaśakyāni brahmavyatiriktaṃ vastvantaraṃ vārayanti /
sarvāntaraśruteśca na paramātmano 'nyo 'ntarātmāstītyavadhāryate // 36 //
Sanskrit only: no published translation is held for this verse.
अनेन सर्वगतत्वमायामशब्दादिभ्यः
अनेन सेत्वादिव्यपदेशनिराकरणेनान्यप्रतिषेधसमाश्रयणेन च सर्वगतत्वमप्यात्मनः सिद्धं भवति ।
अन्यथा हि तन्न सिद्द्येत् ।
सेत्वादिव्यपदेशेषु हि मुख्येष्वङ्गीक्रियमाणेषु परिच्छेद आत्मनः प्रसज्येत सेत्वादीनामेवात्मकत्वात् ।
तथान्यप्रतिषेधे ऽप्यसति वस्तु वस्त्वन्तराद्व्यावर्तत इति परिच्छेद एवात्मनः प्रसज्येत ।
सर्वगतत्वं चास्यायामशब्दादिभ्यो विज्ञायते ।
आयामशब्दो व्याप्तिवचनः शब्दः ऽयावान्वा अयमाकाशस्तावानेषो ऽन्तर्हृदय आकाशःऽ (छा। ८।१।३) ऽआकाशवत्सर्वगतश्च नित्यःऽ ऽज्यायान्दिवःऽ (छा। ३।१४।३) ऽज्यायानाकाशात्ऽ ऽनित्यः सर्वगतः स्थाणुरचलो ऽयं सनातनःऽ (भगी। २।२४)इत्येवमादयो हि श्रुतिस्मृतिन्यायाः सर्वगतत्वमात्मनो ऽवबोधयन्ति ॥ ३७ ॥
७ फलाधिकरणम् । सू। ३८-४१
anena sarvagatatvamāyāmaśabdādibhyaḥ
anena setvādivyapadeśanirākaraṇenānyapratiṣedhasamāśrayaṇena ca sarvagatatvamapyātmanaḥ siddhaṃ bhavati /
anyathā hi tanna siddyet /
setvādivyapadeśeṣu hi mukhyeṣvaṅgīkriyamāṇeṣu pariccheda ātmanaḥ prasajyeta setvādīnāmevātmakatvāt /
tathānyapratiṣedhe 'pyasati vastu vastvantarādvyāvartata iti pariccheda evātmanaḥ prasajyeta /
sarvagatatvaṃ cāsyāyāmaśabdādibhyo vijñāyate /
āyāmaśabdo vyāptivacanaḥ śabdaḥ 'yāvānvā ayamākāśastāvāneṣo 'ntarhṛdaya ākāśaḥ' (chā. 8.1.3) 'ākāśavatsarvagataśca nityaḥ' 'jyāyāndivaḥ' (chā. 3.14.3) 'jyāyānākāśāt' 'nityaḥ sarvagataḥ sthāṇuracalo 'yaṃ sanātanaḥ' (bha.gī. 2.24)ityevamādayo hi śrutismṛtinyāyāḥ sarvagatatvamātmano 'vabodhayanti // 37 //
7 phalādhikaraṇam / sū. 38-41
Sanskrit only: no published translation is held for this verse.
फलमत उपपत्तेः
तस्यैव ब्रह्मणो व्यावहारिक्यामीशित्रीशितव्यविभागावस्थायामयमन्यः स्वभावो वर्ण्यते ।
यद्तदिष्टानिष्टव्यामिश्रलक्षणं कर्मफलं संसारगोचरं त्रिविधं प्रसिद्धं जन्तूनां किमेतत्कर्मणो भवत्याहोस्विदीश्वरादिति भवति विचारणा ।
तत्र तावत्प्रतिपाद्यते फलमत ईश्वराद्बवितुमर्हति ।
कुतः - उपपत्तेः ।
स हि सर्वाध्यक्षः सृष्टिस्थितिसंहारान्विचित्रान्विदधद्देशकालविशेषाभिज्ञत्वात्कर्मिणां कर्मानुरूपं फलं संपादयतीत्युपपद्यते ।
कर्मणास्त्वनुक्षणविनाशिनः कालान्तरभावि फलं भवतीत्यनुपपन्नम् ।
अभावाद्धावानुत्पत्तेः ।
स्यादेतत् ।
कर्म विनश्यत्स्वकालमेव स्वानुरूपं फलं जनयित्वा विनश्यति तत्फलं कालान्तरितं कर्त्रा भोक्ष्यत इति ।
तदपि न परिशुध्यति प्राग्भोक्तृसंबन्धात्फलत्वानुपपत्तेः ।
यत्कालं हि यत्सुखं दुःखं वात्मना भुज्यते तस्यैव लोके फलत्वं प्रसिद्धम् ।
नह्यसंबद्धस्यात्मना सुखस्य दुःखस्य वा फलत्वं प्रतियन्ति लौकिकाः ।
अथोच्यते मा भूत्कर्मानन्तरं फलोत्पादः ।
कर्मकार्यादपूर्वात्फलमुत्पत्स्यत इति ।
तदपि नोपपद्यते ।
अपूर्वस्याचेतनस्य काष्ठलोष्टसमस्य चेतनेनाप्रर्तितस्य प्रवृत्त्यनुपपत्तेः ।
तदस्तित्वे च प्रमाणाभावात् ।
अर्थापत्तिः प्रमाणमिति चेत् ।
न ।
ईश्वरसिद्धेरर्थापत्तिक्षयात् ॥ ३८ ॥
----------------------
फ़्न्: इष्टं स्वर्गः, अनिष्टमवीच्यादिस्थानयोग्यम् , व्यामिश्रं मनुष्यभोग्यम् ।
संसारो जन्ममृतिप्रवाहो आश्रयो यस्य ।
phalamata upapatteḥ
tasyaiva brahmaṇo vyāvahārikyāmīśitrīśitavyavibhāgāvasthāyāmayamanyaḥ svabhāvo varṇyate /
yadtadiṣṭāniṣṭavyāmiśralakṣaṇaṃ karmaphalaṃ saṃsāragocaraṃ trividhaṃ prasiddhaṃ jantūnāṃ kimetatkarmaṇo bhavatyāhosvidīśvarāditi bhavati vicāraṇā /
tatra tāvatpratipādyate phalamata īśvarādbavitumarhati /
kutaḥ - upapatteḥ /
sa hi sarvādhyakṣaḥ sṛṣṭisthitisaṃhārānvicitrānvidadhaddeśakālaviśeṣābhijñatvātkarmiṇāṃ karmānurūpaṃ phalaṃ saṃpādayatītyupapadyate /
karmaṇāstvanukṣaṇavināśinaḥ kālāntarabhāvi phalaṃ bhavatītyanupapannam /
abhāvāddhāvānutpatteḥ /
syādetat /
karma vinaśyatsvakālameva svānurūpaṃ phalaṃ janayitvā vinaśyati tatphalaṃ kālāntaritaṃ kartrā bhokṣyata iti /
tadapi na pariśudhyati prāgbhoktṛsaṃbandhātphalatvānupapatteḥ /
yatkālaṃ hi yatsukhaṃ duḥkhaṃ vātmanā bhujyate tasyaiva loke phalatvaṃ prasiddham /
nahyasaṃbaddhasyātmanā sukhasya duḥkhasya vā phalatvaṃ pratiyanti laukikāḥ /
athocyate mā bhūtkarmānantaraṃ phalotpādaḥ /
karmakāryādapūrvātphalamutpatsyata iti /
tadapi nopapadyate /
apūrvasyācetanasya kāṣṭhaloṣṭasamasya cetanenāprartitasya pravṛttyanupapatteḥ /
tadastitve ca pramāṇābhāvāt /
arthāpattiḥ pramāṇamiti cet /
na /
īśvarasiddherarthāpattikṣayāt // 38 //
----------------------
FN: iṣṭaṃ svargaḥ, aniṣṭamavīcyādisthānayogyam , vyāmiśraṃ manuṣyabhogyam /
saṃsāro janmamṛtipravāho āśrayo yasya /
Sanskrit only: no published translation is held for this verse.
श्रुतत्वाच् च
न केवलमुपपत्तेरेवेश्वरं फलहेतुं कल्पयामः किं तर्हि श्रुतत्वादपीश्वरमेव फलहेतुं मन्यामहे ।
तथाच श्रुतिर्भवति - ऽस वा एष महानज आत्मान्नादो वसुदानःऽ (बृ। ४।४।२४) इत्येवञ्जातीयका ॥ ३९ ॥
----------------------
फ़्न्: अन्नमासमन्तात्प्राणिभ्यो ददातीत्यन्नादः , वसुदानो धनदाता ।
śrutatvāc ca
na kevalamupapattereveśvaraṃ phalahetuṃ kalpayāmaḥ kiṃ tarhi śrutatvādapīśvarameva phalahetuṃ manyāmahe /
tathāca śrutirbhavati - 'sa vā eṣa mahānaja ātmānnādo vasudānaḥ' (bṛ. 4.4.24) ityevañjātīyakā // 39 //
----------------------
FN: annamāsamantātprāṇibhyo dadātītyannādaḥ , vasudāno dhanadātā /
Sanskrit only: no published translation is held for this verse.
धर्मं जैमिनिरत एव
जैमिनिस्त्वाचार्यो धर्मं फलस्य दातारं मन्यते ।
अत एव हेतोः श्रुतरुपपत्तेश्च ।
श्रूयते तावदयमर्थः स्वर्गकामो यजेत इत्येवमादिषु वाक्येषु ।
तत्र च विधिश्रुतेर्विषयभावोपगमाद्यागः स्वर्गस्योत्पादक इति गम्यते ।
अन्यथा ह्यननुष्ठातृको याग आपद्येत तत्रास्योपदेशवैयर्थ्यं स्यात् ।
नन्वनुक्षणविनाशिनः सर्मणः फलं नोपपद्यत इति परित्यक्तो ऽयं पक्षः ।
नैष दोषः ।
श्रुतिप्रामाण्यात् ।
श्रुतिश्चेत्प्रमाणं यथायं कर्मफलसमबन्धः श्रुत उपपद्यते तथा कल्पयितव्यः ।
नचानुत्पाद्य किमप्यपूर्वं कर्म विनश्यत्कालान्तरितं फलं दातुं शक्नोति ।
अतः कर्मणो वा सूक्ष्मा काचिदुत्तरावस्था फलस्य वा पूर्वावस्थापूर्वं नामास्तीति तर्क्यते ।
उपपद्यते चायमर्थं उक्तेन प्रकारेण ।
ईश्वरस्तु फलं ददातीत्यनुपपन्नम् ।
अविचित्रस्य कारणस्य विचित्रकार्यानुपपत्तेर्वैषम्यनैर्घृम्यप्रसङ्गादनुष्ठानवैयर्त्यापत्तेश्च ।
तस्माद्धर्मादेव फलमिति ॥ ४० ॥
dharmaṃ jaiminirata eva
jaiministvācāryo dharmaṃ phalasya dātāraṃ manyate /
ata eva hetoḥ śrutarupapatteśca /
śrūyate tāvadayamarthaḥ svargakāmo yajeta ityevamādiṣu vākyeṣu /
tatra ca vidhiśruterviṣayabhāvopagamādyāgaḥ svargasyotpādaka iti gamyate /
anyathā hyananuṣṭhātṛko yāga āpadyeta tatrāsyopadeśavaiyarthyaṃ syāt /
nanvanukṣaṇavināśinaḥ sarmaṇaḥ phalaṃ nopapadyata iti parityakto 'yaṃ pakṣaḥ /
naiṣa doṣaḥ /
śrutiprāmāṇyāt /
śrutiścetpramāṇaṃ yathāyaṃ karmaphalasamabandhaḥ śruta upapadyate tathā kalpayitavyaḥ /
nacānutpādya kimapyapūrvaṃ karma vinaśyatkālāntaritaṃ phalaṃ dātuṃ śaknoti /
ataḥ karmaṇo vā sūkṣmā kāciduttarāvasthā phalasya vā pūrvāvasthāpūrvaṃ nāmāstīti tarkyate /
upapadyate cāyamarthaṃ uktena prakāreṇa /
īśvarastu phalaṃ dadātītyanupapannam /
avicitrasya kāraṇasya vicitrakāryānupapattervaiṣamyanairghṛmyaprasaṅgādanuṣṭhānavaiyartyāpatteśca /
tasmāddharmādeva phalamiti // 40 //
Sanskrit only: no published translation is held for this verse.
पूर्वं तु बादरायणो हेतुव्यपदेशात्
बादरायणस्त्वाचार्यः पूर्वोक्तमेवेश्वरं फलहेतुं मन्यते ।
केवलाकर्मणो ऽपूर्वाद्वा केवलात्फलमित्ययं पक्षस्तुशब्देन व्यावर्त्यते ।
कर्मापेक्षादपूर्वापे ऽक्षाद्वा यथा तथास्त्वीश्वरात्फलमिति सिद्धान्तः ।
कुतः - हेतुव्यपदेशात् ।
दर्माधर्मयोरपि हि कारयितृत्वेनेश्वरो हेतुर्व्यपदिश्यते फलस्य च दातृत्वेन ऽएष ह्येष साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते ।
एष उ एवासाधु कर्म कारयति तं यमधो निनीषतेऽ इति ।
स्मर्यते चायमर्थो भगवद्गीतासु - ऽयो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्झधां तामेव विदधाम्यहम् ॥
स तया श्रद्धया युक्तस्तस्याराधनमीहते ।
लभते च ततः कामान्मयैव विहितान्हितान्ऽ (७।२१) इति ।
सर्ववेदान्तेषु चेश्वरहेतुका एव सृष्टयो व्यपदिश्यन्ते ।
तदेव चेश्वरस्य फलहेतुत्वं यत्स्वकर्मानुरूपाः प्रजाः सृजतीति ।
विचित्रकार्यानुपपत्त्यादयो ऽपि दोषाः कृतप्रयत्नापेक्षत्वादीश्वरस्य न प्रसज्यन्ते ॥ ४१ ॥
इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्करभगवत्पादकृतौ श्रीमच्छारीरकमीमांसाभाष्ये तृतीयाध्यायस्य द्वितीयः पादः ॥ २ ॥
____________________________________________________________________________________________ ____________________________________________________________________________________________
तृतीयाध्याये तृतीयः पादः ।
[अत्र परापरब्रह्मविद्यागुणोपसंहारविवरणम्]
१ सर्ववेदान्तप्रत्ययाधिकरणम् । सू। १-४
pūrvaṃ tu bādarāyaṇo hetuvyapadeśāt
bādarāyaṇastvācāryaḥ pūrvoktameveśvaraṃ phalahetuṃ manyate /
kevalākarmaṇo 'pūrvādvā kevalātphalamityayaṃ pakṣastuśabdena vyāvartyate /
karmāpekṣādapūrvāpe 'kṣādvā yathā tathāstvīśvarātphalamiti siddhāntaḥ /
kutaḥ - hetuvyapadeśāt /
darmādharmayorapi hi kārayitṛtveneśvaro heturvyapadiśyate phalasya ca dātṛtvena 'eṣa hyeṣa sādhu karma kārayati taṃ yamebhyo lokebhya unninīṣate /
eṣa u evāsādhu karma kārayati taṃ yamadho ninīṣate' iti /
smaryate cāyamartho bhagavadgītāsu - 'yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati /
tasya tasyācalāṃ śradjhadhāṃ tāmeva vidadhāmyaham //
sa tayā śraddhayā yuktastasyārādhanamīhate /
labhate ca tataḥ kāmānmayaiva vihitānhitān' (7.21) iti /
sarvavedānteṣu ceśvarahetukā eva sṛṣṭayo vyapadiśyante /
tadeva ceśvarasya phalahetutvaṃ yatsvakarmānurūpāḥ prajāḥ sṛjatīti /
vicitrakāryānupapattyādayo 'pi doṣāḥ kṛtaprayatnāpekṣatvādīśvarasya na prasajyante // 41 //
iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpādakṛtau śrīmacchārīrakamīmāṃsābhāṣye tṛtīyādhyāyasya dvitīyaḥ pādaḥ // 2 //
____________________________________________________________________________________________ ____________________________________________________________________________________________
tṛtīyādhyāye tṛtīyaḥ pādaḥ /
[atra parāparabrahmavidyāguṇopasaṃhāravivaraṇam]
1 sarvavedāntapratyayādhikaraṇam / sū. 1-4
Sanskrit only: no published translation is held for this verse.
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात्
व्याख्यातं विज्ञेयस्य ब्रह्मणस्तत्त्वम् ।
इदानीं तु प्रतिवेदान्तं विज्ञानानि भिद्यन्ते न वेति विचार्यते ।
ननु विज्ञेयं ब्रह्म पूर्वापरादिभेदरहितमेकरसं सैन्धवघनवदवधारितं तत्र कुतो विज्ञानभेदाभेदचिन्तावतारः ।
नहि कर्मबहुत्ववद्ब्रह्मबहुत्वमपि वेदान्तेषु प्रतिपिपादयिषितमिति शक्यं वक्तुम् ।
ब्रह्मण एकवाक्यत्वादेकरूपत्वाच्च ।
नचैकूपे ब्रह्मण्यनेतरूपाणि विज्ञानानि संभवन्ति ।
नह्यन्यथार्थो ऽन्यथा ज्ञानमित्यभ्रान्तं भवति ।
यदि पुनरेकस्मिन्ब्रह्मणि बहूनि विज्ञानानि वेदान्तान्तरेषु प्रतिपिपादयिषितानि तेषामेकमभ्रान्तं भ्रान्तानीतराणीत्यनाश्वासप्रसङ्गो वेदान्तेषु ।
तस्मान्न तावत्प्रतिवेदान्तं ब्रह्मविज्ञानभेद आशङ्कितुं शक्यते ।
नाप्यस्य चोदनाद्यविशेषादभेद उच्यते ।
ब्रह्मविज्ञानस्याचोदनालक्षणत्वात् ।
अविधिप्रधानैर्हि वस्तुपर्यवसायिभिर्ब्रह्मवाक्यैर्ब्रह्मविज्ञानं जन्यत इत्यवोचदाचार्यः ऽतत्तु समन्वयात्ऽ (ब्रसू। १।१।४) इत्यत्र ।
तत्कथमिमां भेदाभेदचिन्तामारभत इति ।
तदुच्यते - सगुणब्रह्मविषया प्राणादिविषया चेयं विज्ञानभेदाभेदच्न्तेत्यदोषः ।
अत्र हि कर्मवदुपासनानां भेदाभेदौ संभवतः कर्मवदेव चोपासनानि दृष्टफलानि चोच्यन्ते ।
क्रममुक्तिफलानि च कानिचित्सम्यग्ज्ञानोत्पत्तिद्वारेण ।
तेष्वेषा चिन्ता संभवति ।
किं प्रतिवेदान्तं विज्ञानभेद आहोस्विन्नेति ।
तत्र पूर्वपक्षहेतवस्तावदुपन्यस्यन्ते ।
नाम्नास्तावद्भेदप्रतिपत्तिहेतुत्वं प्रसिद्धं ज्योतिरादिषु ।
अस्ति चात्र वेदान्तान्तरविहितेषु विज्ञानेष्वन्यदन्यन्नाम तैत्तिरीयकं वाजसनेयकं कौथुमकं शाट्यायनकमित्येवमादि ।
तथा रूपभेदो ऽपि कर्मभेदस्य प्रतिपादकः प्रसिद्धो ऽवैश्वदेव्यामिक्षा वाजिभ्यो वाजिनऽ मित्येवमादिषु ।
अस्ति चात्र रूपभेदः ।
तद्यथा - केचिच्छाखिनः पञ्चाग्निविद्यायां षष्ठमपरमग्निमामनन्यत्परे पुनः पञ्चैव पठन्ति ।
तथा प्राणसंवादादिषु केचिदूनान्वागादीनामनन्ति केचिदधिकान् ।
तथा धर्मविशेषो ऽपि कर्मभेदस्य प्रतिपादक आशङ्कितः कारीर्यादिषु ।
अस्ति चात्र धर्मविशेषः ।
यथाथर्वणिकानां शिरोव्रतमिति ।
एवं पुनरुक्त्यादयो ऽपि भेदहेतवो यथासंभवं वेदान्तान्तरेषु योजयितव्याः ।
तस्मात्प्रतिवेदान्तं विज्ञानभेद इति ।
एवं प्राप्ते ब्रूमः - सर्ववेदान्तप्रत्ययानि विज्ञानानि तस्मिंस्तस्मिन्वेदान्ते तानि तान्येव भवितुमर्हन्ति ।
कुतः - चेदनाद्यविशेषात् ।
आदिग्रहणेन शाखान्तराधिकरणसिद्धान्तसूत्रोदिता अभेदहेतव इहाकृष्यन्ते ।
संयोगरूपचोदनाख्याविशेषादित्यर्थः ।
यथैकस्मिन्नग्निहोत्रे शाखाभेदे ऽपि पुरुषप्रयत्नस्तादृश एव चोद्यते जुहुयादिति ।
एवम् ऽयो ह वै ज्योष्ठं च श्रेष्ठं च वेदऽ (बृ।६।१।१, छा। ५।१।१) इति वाजसनेयिनां छन्दोगानां च तादृश्येव चोदना ।
प्रयोजनसंयोगो ऽप्यविशिष्ट एव ऽज्येष्ठश्च श्रेष्ठश्च स्वानां भवतिऽऽ (बृ। ६।१।१) इति ।
रूपमप्युभयत्र तदेव विज्ञानस्य यदुत ज्येष्ठश्रेष्ठादिगुणविशेषणान्वितं प्राणतत्त्वम् ।
यथा च द्रव्यदेवते यागस्य रूपमेवं विज्ञेयं रूपं विज्ञानस्य तेन हि तद्रूप्यते ।
समाख्यापि सैव प्राणविद्येति ।
तस्मात्सर्ववेदान्तप्रत्ययत्वं विज्ञानानाम् ।
एवं पञ्चाग्निविद्या वैश्वानरविद्या शाण्डिल्यविद्येत्येवमादिषु योजयितव्यम् ।
ये तु नामरूपादयो भेदहेत्वाभासास्ते प्रथम एव काण्डे न नाम्ना स्यादचोदनाभिधानत्वात् इत्यारभ्य परिहृताः ॥ १ ॥
----------------------
फ़्न्: चोद्यत इति चोदना पुरुषप्रयत्नः स हि पुरुषव्यापारः ।
इहापि कञ्चिद्विशेषमाशङ्क्य परिहरति -
sarvavedāntapratyayaṃ codanādyaviśeṣāt
vyākhyātaṃ vijñeyasya brahmaṇastattvam /
idānīṃ tu prativedāntaṃ vijñānāni bhidyante na veti vicāryate /
nanu vijñeyaṃ brahma pūrvāparādibhedarahitamekarasaṃ saindhavaghanavadavadhāritaṃ tatra kuto vijñānabhedābhedacintāvatāraḥ /
nahi karmabahutvavadbrahmabahutvamapi vedānteṣu pratipipādayiṣitamiti śakyaṃ vaktum /
brahmaṇa ekavākyatvādekarūpatvācca /
nacaikūpe brahmaṇyanetarūpāṇi vijñānāni saṃbhavanti /
nahyanyathārtho 'nyathā jñānamityabhrāntaṃ bhavati /
yadi punarekasminbrahmaṇi bahūni vijñānāni vedāntāntareṣu pratipipādayiṣitāni teṣāmekamabhrāntaṃ bhrāntānītarāṇītyanāśvāsaprasaṅgo vedānteṣu /
tasmānna tāvatprativedāntaṃ brahmavijñānabheda āśaṅkituṃ śakyate /
nāpyasya codanādyaviśeṣādabheda ucyate /
brahmavijñānasyācodanālakṣaṇatvāt /
avidhipradhānairhi vastuparyavasāyibhirbrahmavākyairbrahmavijñānaṃ janyata ityavocadācāryaḥ 'tattu samanvayāt' (bra.sū. 1.1.4) ityatra /
tatkathamimāṃ bhedābhedacintāmārabhata iti /
taducyate - saguṇabrahmaviṣayā prāṇādiviṣayā ceyaṃ vijñānabhedābhedacntetyadoṣaḥ /
atra hi karmavadupāsanānāṃ bhedābhedau saṃbhavataḥ karmavadeva copāsanāni dṛṣṭaphalāni cocyante /
kramamuktiphalāni ca kānicitsamyagjñānotpattidvāreṇa /
teṣveṣā cintā saṃbhavati /
kiṃ prativedāntaṃ vijñānabheda āhosvinneti /
tatra pūrvapakṣahetavastāvadupanyasyante /
nāmnāstāvadbhedapratipattihetutvaṃ prasiddhaṃ jyotirādiṣu /
asti cātra vedāntāntaravihiteṣu vijñāneṣvanyadanyannāma taittirīyakaṃ vājasaneyakaṃ kauthumakaṃ śāṭyāyanakamityevamādi /
tathā rūpabhedo 'pi karmabhedasya pratipādakaḥ prasiddho 'vaiśvadevyāmikṣā vājibhyo vājina' mityevamādiṣu /
asti cātra rūpabhedaḥ /
tadyathā - kecicchākhinaḥ pañcāgnividyāyāṃ ṣaṣṭhamaparamagnimāmananyatpare punaḥ pañcaiva paṭhanti /
tathā prāṇasaṃvādādiṣu kecidūnānvāgādīnāmananti kecidadhikān /
tathā dharmaviśeṣo 'pi karmabhedasya pratipādaka āśaṅkitaḥ kārīryādiṣu /
asti cātra dharmaviśeṣaḥ /
yathātharvaṇikānāṃ śirovratamiti /
evaṃ punaruktyādayo 'pi bhedahetavo yathāsaṃbhavaṃ vedāntāntareṣu yojayitavyāḥ /
tasmātprativedāntaṃ vijñānabheda iti /
evaṃ prāpte brūmaḥ - sarvavedāntapratyayāni vijñānāni tasmiṃstasminvedānte tāni tānyeva bhavitumarhanti /
kutaḥ - cedanādyaviśeṣāt /
ādigrahaṇena śākhāntarādhikaraṇasiddhāntasūtroditā abhedahetava ihākṛṣyante /
saṃyogarūpacodanākhyāviśeṣādityarthaḥ /
yathaikasminnagnihotre śākhābhede 'pi puruṣaprayatnastādṛśa eva codyate juhuyāditi /
evam 'yo ha vai jyoṣṭhaṃ ca śreṣṭhaṃ ca veda' (bṛ.6.1.1, chā. 5.1.1) iti vājasaneyināṃ chandogānāṃ ca tādṛśyeva codanā /
prayojanasaṃyogo 'pyaviśiṣṭa eva 'jyeṣṭhaśca śreṣṭhaśca svānāṃ bhavati'' (bṛ. 6.1.1) iti /
rūpamapyubhayatra tadeva vijñānasya yaduta jyeṣṭhaśreṣṭhādiguṇaviśeṣaṇānvitaṃ prāṇatattvam /
yathā ca dravyadevate yāgasya rūpamevaṃ vijñeyaṃ rūpaṃ vijñānasya tena hi tadrūpyate /
samākhyāpi saiva prāṇavidyeti /
tasmātsarvavedāntapratyayatvaṃ vijñānānām /
evaṃ pañcāgnividyā vaiśvānaravidyā śāṇḍilyavidyetyevamādiṣu yojayitavyam /
ye tu nāmarūpādayo bhedahetvābhāsāste prathama eva kāṇḍe na nāmnā syādacodanābhidhānatvāt ityārabhya parihṛtāḥ // 1 //
----------------------
FN: codyata iti codanā puruṣaprayatnaḥ sa hi puruṣavyāpāraḥ /
ihāpi kañcidviśeṣamāśaṅkya pariharati -
Sanskrit only: no published translation is held for this verse.
भेदान् नेति चेन् नैकस्याम् अपि
स्यादेतत् ।
सर्ववेदान्तप्रत्ययत्वं विज्ञानानां गुणभेदान्नोपपद्यते ।
तथाहि वाजसनेयिनः पञ्चाग्निविद्यां प्रस्तुत्यः ष्ठमपरमग्निमामनन्ति - ऽतस्याग्निरेवाग्निर्भवतिऽ (बृ। ६।२।१४) इत्यादिना ।
छन्दोगास्तु तं नामनन्ति पञ्चसंख्ययैव च त उपसंहरन्ति ऽअथ ह य एतानेवं पञ्चाग्नीन्वेदऽ (छा। ५।१०।१०) इति ।
योषां च स गुणो ऽस्ति येषां च नास्ति कथमुभयेषामेका विद्योपपद्येत ।
नचात्र गुणोपसंहारः शक्यते प्रत्येतुं, पञ्चसंख्याविरोधात् ।
तथा प्राणसंवादे श्रेष्ठादन्यांश्चतुरः प्राणान्वाक्चक्षुः श्रोतमनांसि छन्दोगा आमनन्ति ।
वाजसनेयिनस्तु पञ्चममप्यामनन्ति ऽरेतो वै प्रजापतिः प्रजायते ह प्रजया पशुभिर्य एवं वेदऽ (बृ। ६।१।६) इति ।
आवापोद्वापभेदाच्च वेद्यभेदो भवति वेद्यभेदाच्च विद्याभेदो द्रव्यदेवताभेदादिव यागस्येति चेत् ।
नैष दोषः ।
यत एकस्यामपि विद्यायामेवञ्जातीयको गुणभेद उपपद्यते ।
यद्यपि षष्ठस्याग्नेरुपसंहारो न संभवति तथापि द्युप्रभृतीनां पञ्चानामग्नीनामुभयत्र प्रत्यभिज्ञायामानत्वान्न विद्याभेदो भवितुमर्हति ।
नहि षोडशिग्रहणाग्रहणयोरतिरात्रो भिद्यते ।
पठ्यते ऽपि च षष्ठो ऽग्निश्छन्दोगैः - ऽतं प्रेतं दिष्टमितो ऽग्नय एवं हरन्तिऽ
(छा। ५।९।२) इति ।
वाजसनेयिनस्तु सांपादिकेषु पञ्चस्वग्निष्वनुवृत्तायाः समिद्धूमादिकल्पनाया निवृत्तये ऽतस्याग्निरेवाग्निर्भवति समित्समित्ऽ (बृ। ६।२।१४) इत्यादि समामनन्ति स नित्यानुवादः ।
अथाप्युपासनार्थ एष वादस्तथापि स गुणः शक्यतेछन्दोगैरप्युपसंहर्तुम् ।
नचात्र पञ्चसंख्याविरोधे आशङ्क्यः ।
सांपादिकाग्न्यभिप्राया ह्येषा पञ्चसंख्या नित्यानुवादभूता न विधिसमवायिनीत्यदोषः ।
एवं प्राणसंवादेष्वप्यधिकस्य गुणस्येतरत्रोपसंहारो न विरुध्यते ।
नचावापोद्वापभेदाद्वेद्यभेदो विद्याभेदश्चाशङ्क्यः ।
कस्यचिद्वेद्यांशस्यावापोद्वापयोरपि भूयसो वेद्यराशेरभेदावगमात् ।
तस्मादैकविद्यमेव ॥ २ ॥
----------------------
फ़्न्: इतो ऽस्माल्लोकान् दिष्टं लोकान्तरं प्रेतं गतं ज्ञातयो ऽग्नये हरन्तीत्यर्थः ।
bhedān neti cen naikasyām api
syādetat /
sarvavedāntapratyayatvaṃ vijñānānāṃ guṇabhedānnopapadyate /
tathāhi vājasaneyinaḥ pañcāgnividyāṃ prastutyaḥ ṣṭhamaparamagnimāmananti - 'tasyāgnirevāgnirbhavati' (bṛ. 6.2.14) ityādinā /
chandogāstu taṃ nāmananti pañcasaṃkhyayaiva ca ta upasaṃharanti 'atha ha ya etānevaṃ pañcāgnīnveda' (chā. 5.10.10) iti /
yoṣāṃ ca sa guṇo 'sti yeṣāṃ ca nāsti kathamubhayeṣāmekā vidyopapadyeta /
nacātra guṇopasaṃhāraḥ śakyate pratyetuṃ, pañcasaṃkhyāvirodhāt /
tathā prāṇasaṃvāde śreṣṭhādanyāṃścaturaḥ prāṇānvākcakṣuḥ śrotamanāṃsi chandogā āmananti /
vājasaneyinastu pañcamamapyāmananti 'reto vai prajāpatiḥ prajāyate ha prajayā paśubhirya evaṃ veda' (bṛ. 6.1.6) iti /
āvāpodvāpabhedācca vedyabhedo bhavati vedyabhedācca vidyābhedo dravyadevatābhedādiva yāgasyeti cet /
naiṣa doṣaḥ /
yata ekasyāmapi vidyāyāmevañjātīyako guṇabheda upapadyate /
yadyapi ṣaṣṭhasyāgnerupasaṃhāro na saṃbhavati tathāpi dyuprabhṛtīnāṃ pañcānāmagnīnāmubhayatra pratyabhijñāyāmānatvānna vidyābhedo bhavitumarhati /
nahi ṣoḍaśigrahaṇāgrahaṇayoratirātro bhidyate /
paṭhyate 'pi ca ṣaṣṭho 'gniśchandogaiḥ - 'taṃ pretaṃ diṣṭamito 'gnaya evaṃ haranti'
(chā. 5.9.2) iti /
vājasaneyinastu sāṃpādikeṣu pañcasvagniṣvanuvṛttāyāḥ samiddhūmādikalpanāyā nivṛttaye 'tasyāgnirevāgnirbhavati samitsamit' (bṛ. 6.2.14) ityādi samāmananti sa nityānuvādaḥ /
athāpyupāsanārtha eṣa vādastathāpi sa guṇaḥ śakyatechandogairapyupasaṃhartum /
nacātra pañcasaṃkhyāvirodhe āśaṅkyaḥ /
sāṃpādikāgnyabhiprāyā hyeṣā pañcasaṃkhyā nityānuvādabhūtā na vidhisamavāyinītyadoṣaḥ /
evaṃ prāṇasaṃvādeṣvapyadhikasya guṇasyetaratropasaṃhāro na virudhyate /
nacāvāpodvāpabhedādvedyabhedo vidyābhedaścāśaṅkyaḥ /
kasyacidvedyāṃśasyāvāpodvāpayorapi bhūyaso vedyarāśerabhedāvagamāt /
tasmādaikavidyameva // 2 //
----------------------
FN: ito 'smāllokān diṣṭaṃ lokāntaraṃ pretaṃ gataṃ jñātayo 'gnaye harantītyarthaḥ /
Sanskrit only: no published translation is held for this verse.
स्वाध्यायस्य तथात्वेन हि समाचारे ऽधिकाराच् च सववच् च तन्नियमः
यदप्युक्तमाथर्वणिकानां विद्यां प्रति शिरोव्रताद्यपेक्षणादन्येषां च तदनपेक्षणाद्वद्याभेद इति तत्प्रत्युच्यते ।
स्वाध्यायस्यैष धर्मो न विद्यायाः ।
कथमिदमवगम्यते ।
यतस्तथात्वेन स्वाद्यायधर्मत्वेन समाचारे वेदव्रतोपदेशपरे ग्रन्त आथर्वणिका इदमपि वेदव्रतत्वेन व्याक्यातमिति समामनन्ति ।
ऽनैतदचीर्णव्रतो ऽधीतेऽ (मु। ३।२।११) इति चादिकृतविषयादेच्छब्दादध्ययनशब्दाच्च स्वोपनिषदध्ययनधर्म एवैष इति निर्दार्यते ।
ननु च ऽतेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम्ऽ (मुण्ड। ३।२।१०) इति ब्रह्मविद्यासंयोगश्रवणादेकैव सर्वत्र ब्रह्मविद्येति संकीर्येतैष धर्मः ।
न ।
तत्राप्येतामिति प्रकृत्यप्रत्यवमर्शात् ।
प्रक-तत्वं च ब्रह्मविद्याया ग्रन्थविशेषापेक्षमिति ग्रन्थविशेषसंयोग्येवैष धर्मः ।
सववच्च तन्नियम इति निदर्शननिर्देशः ।
यथाच सवाः सप्त सौर्यादयः सथौदनपर्यन्ता वेदान्तरोदितत्रेताग्न्यनभिसंबन्धादथर्वणोदितैकाग्न्यभिसंबन्धाच्चाथर्वणिकानामेव नियम्यन्ते तथैवायमपि धर्मः स्वाध्यायविशेषसंबन्धात्तत्रैव नियम्यते ।
तस्मादप्यनवद्यं विद्यैकत्वम् ॥ ३ ॥
svādhyāyasya tathātvena hi samācāre 'dhikārāc ca savavac ca tanniyamaḥ
yadapyuktamātharvaṇikānāṃ vidyāṃ prati śirovratādyapekṣaṇādanyeṣāṃ ca tadanapekṣaṇādvadyābheda iti tatpratyucyate /
svādhyāyasyaiṣa dharmo na vidyāyāḥ /
kathamidamavagamyate /
yatastathātvena svādyāyadharmatvena samācāre vedavratopadeśapare granta ātharvaṇikā idamapi vedavratatvena vyākyātamiti samāmananti /
'naitadacīrṇavrato 'dhīte' (mu. 3.2.11) iti cādikṛtaviṣayādecchabdādadhyayanaśabdācca svopaniṣadadhyayanadharma evaiṣa iti nirdāryate /
nanu ca 'teṣāmevaitāṃ brahmavidyāṃ vadeta śirovrataṃ vidhivadyaistu cīrṇam' (muṇḍa. 3.2.10) iti brahmavidyāsaṃyogaśravaṇādekaiva sarvatra brahmavidyeti saṃkīryetaiṣa dharmaḥ /
na /
tatrāpyetāmiti prakṛtyapratyavamarśāt /
praka-tatvaṃ ca brahmavidyāyā granthaviśeṣāpekṣamiti granthaviśeṣasaṃyogyevaiṣa dharmaḥ /
savavacca tanniyama iti nidarśananirdeśaḥ /
yathāca savāḥ sapta sauryādayaḥ sathaudanaparyantā vedāntaroditatretāgnyanabhisaṃbandhādatharvaṇoditaikāgnyabhisaṃbandhāccātharvaṇikānāmeva niyamyante tathaivāyamapi dharmaḥ svādhyāyaviśeṣasaṃbandhāttatraiva niyamyate /
tasmādapyanavadyaṃ vidyaikatvam // 3 //
Sanskrit only: no published translation is held for this verse.
दर्शयति च
दर्शयति च वेदो ऽपि विद्यैकत्वं सर्ववेदान्तेषु वेद्यैकत्वोपदेशात् सर्वे वेदा यत्परमामनन्ति (क। २।१५) इति ।
तथा एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्य एतं महाव्रते छन्दोगाः इति च ।
तथा ऽमहद्भयं वज्रमुद्यतम्ऽ (क।६।२) इति काठक उक्तस्येश्वरगुणस्य भयहेतुकस्य तैत्तिरीयके भेदर्शननिन्दायै परामर्शो दृश्यते ऽयदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते ।
अथ तस्य भयं भवति ।
तत्त्वेव भयं विदुषो ऽमन्वानस्यऽ (तै। २।७।१) इति ।
तथा वाजसनेयके प्रादेशमात्रसंपादितस्य वैश्वानरस्य छान्दोग्ये सिद्धवदुपादानम् ऽयस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्तेऽ (छा। ५।१८।१) इति ।
तथा सर्ववेदान्तप्रत्ययत्वेनान्यत्र विहितनामुक्थादीनामन्यत्रोपासनविधानायोपादानात्प्रायदर्शनन्यायेनोपासनानामपि सर्ववेदान्तप्रत्ययत्वसिद्धिः ॥ ४॥
॥
२ उपसंहाराधिकरणम् । सू। ५
darśayati ca
darśayati ca vedo 'pi vidyaikatvaṃ sarvavedānteṣu vedyaikatvopadeśāt sarve vedā yatparamāmananti (ka. 2.15) iti /
tathā etaṃ hyeva bahvṛcā mahatyukthe mīmāṃsanta etamagnāvadhvarya etaṃ mahāvrate chandogāḥ iti ca /
tathā 'mahadbhayaṃ vajramudyatam' (ka.6.2) iti kāṭhaka uktasyeśvaraguṇasya bhayahetukasya taittirīyake bhedarśananindāyai parāmarśo dṛśyate 'yadā hyevaiṣa etasminnudaramantaraṃ kurute /
atha tasya bhayaṃ bhavati /
tattveva bhayaṃ viduṣo 'manvānasya' (tai. 2.7.1) iti /
tathā vājasaneyake prādeśamātrasaṃpāditasya vaiśvānarasya chāndogye siddhavadupādānam 'yastvetamevaṃ prādeśamātramabhivimānamātmānaṃ vaiśvānaramupāste' (chā. 5.18.1) iti /
tathā sarvavedāntapratyayatvenānyatra vihitanāmukthādīnāmanyatropāsanavidhānāyopādānātprāyadarśananyāyenopāsanānāmapi sarvavedāntapratyayatvasiddhiḥ // 4//
//
2 upasaṃhārādhikaraṇam / sū. 5
Sanskrit only: no published translation is held for this verse.
उपसंहारोर्ऽथाभेदाद्विधिशेषवत्समाने च
इदं प्रयोजनसूत्रम् ।
स्थिते चैवं सर्ववेदान्तप्रत्ययत्वे सर्वविज्ञानानामन्यत्रोदितानां विज्ञानगुणानामन्यत्रापि समाने विज्ञान उपसंहारो भवति ।
अर्थाभेदात् ।
य एव हि तेषां गुणानामेकत्रार्थो विशिष्टविज्ञानोपकारकः स एवान्यत्रापि ।
उभयत्रापि हि तदेवैकं विज्ञानं तस्मादुपसंहारः ।
विधिशेषवत् ।
यथाहि विधिशेषाणामग्निहोत्रादिधर्माणां तदेवैकमग्निहोत्रादि कर्म सर्वत्रेत्यर्थाभेदादुपसंहरणमेवमिहापि ।
यदि हि विज्ञानभेदो भवेत्ततो विज्ञानान्तरनिबद्धत्वाद्गुणानां प्रकृतिविकृतिभावाभावाच्च न स्यादुपसंहारः ।
विज्ञानैकत्वे तु नैवमस्ति ।
अस्यैव तु प्रयोजनसूत्रस्य प्रपञ्चः सर्वाभेदादित्यारभ्य भविष्यति ॥ ५ ॥
३ अन्यथात्वाधिकरणम् । सू। ६-८
upasaṃhāror'thābhedādvidhiśeṣavatsamāne ca
idaṃ prayojanasūtram /
sthite caivaṃ sarvavedāntapratyayatve sarvavijñānānāmanyatroditānāṃ vijñānaguṇānāmanyatrāpi samāne vijñāna upasaṃhāro bhavati /
arthābhedāt /
ya eva hi teṣāṃ guṇānāmekatrārtho viśiṣṭavijñānopakārakaḥ sa evānyatrāpi /
ubhayatrāpi hi tadevaikaṃ vijñānaṃ tasmādupasaṃhāraḥ /
vidhiśeṣavat /
yathāhi vidhiśeṣāṇāmagnihotrādidharmāṇāṃ tadevaikamagnihotrādi karma sarvatretyarthābhedādupasaṃharaṇamevamihāpi /
yadi hi vijñānabhedo bhavettato vijñānāntaranibaddhatvādguṇānāṃ prakṛtivikṛtibhāvābhāvācca na syādupasaṃhāraḥ /
vijñānaikatve tu naivamasti /
asyaiva tu prayojanasūtrasya prapañcaḥ sarvābhedādityārabhya bhaviṣyati // 5 //
3 anyathātvādhikaraṇam / sū. 6-8
Sanskrit only: no published translation is held for this verse.
अन्यथात्वं शब्दाद् इति चेन् नाविशेषात्
वाजसनेयके ऽते ह देवा ऊचुर्हन्तासुरान्यज्ञ उद्गीथेनात्ययामेतिऽ (बृ। १।३।१) ऽते ह वाचमुचुस्त्वं न उद्गायऽ (बृ।
१।३।२) इति प्रक्रम्य वागादीन्प्राणानसुरपाप्मविद्धत्वेन निन्दित्वा मुख्यप्राणपरिग्रहः पठ्यते - ऽअथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्ऽ (बृ। १।३।७) इति ।
तथा छान्दोग्ये ऽपि - ऽतद्धदेवा उद्गीथमाजग्मुरनेनैनानभिभविष्यामःऽ (छा। १।२१) इति प्रक्रम्येतरान्प्राणानसुरपाप्मविद्धत्वेन निन्दित्वा तथैव मुख्यप्राणपरिग्रहः पठ्यते - ऽअथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासांचक्रिरेऽ (छा। १।२।७) इति ।
उभयत्रापि च प्राणप्रशंसया प्राणविद्याविधिरध्यवसीयते ।
तत्र संशयः - किमत्र विद्याभेदः स्यादाहोस्विद्विद्यैकत्वमिति ।
किं तावत्प्राप्तं पूर्वेण न्यायेन विद्यैकत्वमिति ।
ननु न युक्तं विद्यैकत्वं प्रक्रमभेदात् ।
अन्यथा हि प्रक्रमन्ते वाजसनेयिनो ऽन्यथा छन्दोगाः ऽत्वं न उद्गायऽ (बृ। १।३।२) इति वाजसनेयिन उद्गीथस्य कर्तृत्वेन प्राणमामनन्ति ।
छन्दोगास्तूद्गीथत्वेन ऽतमुद्गीथमुपासंचक्रिरेऽ (छा। १।२।७) इति ।
तत्कथं विद्यैकत्वं स्यादिति चेत् ।
नैष दोषः ।
न ह्येतावता विशेषेण विद्यैकत्वमपगच्छति ।
अविशेषस्यापि बहुतरस्य प्रतीयमानत्वात् ।
तथाहि - देवासुरसंग्रामोपक्रमत्वमसुरात्ययाभिप्राय उद्गीथोपन्यासो वागादिसंकीर्तनं तन्निन्दया मुख्यप्राणव्यपाश्रयस्तद्वीर्याच्चासुरविध्वंसनमश्मलोष्टनिदर्शनेनेत्येवं बहवोर्ऽथा उभयत्राप्यविशिष्टाः प्रतीयन्ते ।
वाजसनेयके ऽपिचोद्गीथसामानाधिकरण्यं प्राणस्य श्रुतम् - ऽएष उ वा उद्गीथःऽ (बृ। १।३।२३) इति ।
तस्माच्छान्दोग्ये ऽपि कर्तृत्वं लक्षयितव्यम् ।
तस्माच्च विद्यैकत्वमिति ॥ ६ ॥
----------------------
फ़्न्: आसन्यं आस्ये भवम् ।
असुरात्ययाभिप्रायो ऽसुरजयार्थं संवादः ।
anyathātvaṃ śabdād iti cen nāviśeṣāt
vājasaneyake 'te ha devā ūcurhantāsurānyajña udgīthenātyayāmeti' (bṛ. 1.3.1) 'te ha vācamucustvaṃ na udgāya' (bṛ.
1.3.2) iti prakramya vāgādīnprāṇānasurapāpmaviddhatvena ninditvā mukhyaprāṇaparigrahaḥ paṭhyate - 'atha hemamāsanyaṃ prāṇamūcustvaṃ na udgāyeti tatheti tebhya eṣa prāṇa udagāyat' (bṛ. 1.3.7) iti /
tathā chāndogye 'pi - 'taddhadevā udgīthamājagmuranenainānabhibhaviṣyāmaḥ' (chā. 1.21) iti prakramyetarānprāṇānasurapāpmaviddhatvena ninditvā tathaiva mukhyaprāṇaparigrahaḥ paṭhyate - 'atha ha ya evāyaṃ mukhyaḥ prāṇastamudgīthamupāsāṃcakrire' (chā. 1.2.7) iti /
ubhayatrāpi ca prāṇapraśaṃsayā prāṇavidyāvidhiradhyavasīyate /
tatra saṃśayaḥ - kimatra vidyābhedaḥ syādāhosvidvidyaikatvamiti /
kiṃ tāvatprāptaṃ pūrveṇa nyāyena vidyaikatvamiti /
nanu na yuktaṃ vidyaikatvaṃ prakramabhedāt /
anyathā hi prakramante vājasaneyino 'nyathā chandogāḥ 'tvaṃ na udgāya' (bṛ. 1.3.2) iti vājasaneyina udgīthasya kartṛtvena prāṇamāmananti /
chandogāstūdgīthatvena 'tamudgīthamupāsaṃcakrire' (chā. 1.2.7) iti /
tatkathaṃ vidyaikatvaṃ syāditi cet /
naiṣa doṣaḥ /
na hyetāvatā viśeṣeṇa vidyaikatvamapagacchati /
aviśeṣasyāpi bahutarasya pratīyamānatvāt /
tathāhi - devāsurasaṃgrāmopakramatvamasurātyayābhiprāya udgīthopanyāso vāgādisaṃkīrtanaṃ tannindayā mukhyaprāṇavyapāśrayastadvīryāccāsuravidhvaṃsanamaśmaloṣṭanidarśanenetyevaṃ bahavor'thā ubhayatrāpyaviśiṣṭāḥ pratīyante /
vājasaneyake 'picodgīthasāmānādhikaraṇyaṃ prāṇasya śrutam - 'eṣa u vā udgīthaḥ' (bṛ. 1.3.23) iti /
tasmācchāndogye 'pi kartṛtvaṃ lakṣayitavyam /
tasmācca vidyaikatvamiti // 6 //
----------------------
FN: āsanyaṃ āsye bhavam /
asurātyayābhiprāyo 'surajayārthaṃ saṃvādaḥ /
Sanskrit only: no published translation is held for this verse.
न वा प्रकरणभेदात् परोवरीयस्त्वादिवत्
न वा विद्यैकत्वमात्र न्याय्यं विद्याभेद एवात्र न्याय्यः ।
कस्मात् ।
प्रकरणभेदादिति ।
प्रक्रमभेदादित्यर्थः ।
तथाहि - इह प्रक्रमभेदो दृश्यते ।
छान्दोग्ये तावत् - ओमित्येतदक्षरमुद्गीथमुपासीत (छा। १।१।१) इत्येवमुद्गीथावयवस्योङ्कारस्योपास्यत्वं प्रस्तुत्य रसतमादिगुणोपव्याख्यानं तत्र कृत्वा अथ खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति (छा। १।१।१०) इति पुनरपि तमेवोद्गीथावयवमोङ्कारमनुवर्त्य देवासुराख्यायिकाद्वारेण तम् प्राणमुद्गीथमुपासांचक्रिरे (छा। १।२।२) इत्याह ।
तत्र यद्युद्गीथशब्देन सकला भक्तिरभिप्रेयेत तस्याश्च कर्तोद्गातर्त्विक्तत उपक्रमश्चोपरपध्येत लक्षणा च प्सज्येत ।
उपक्रमानुरोधेन चैकस्मिन्वाक्य उपसंहारेण भवितव्यम् ।
तस्मादत्र तावदुद्गीथावयव ओङ्कारे प्राणदृष्टिरुपदिस्यते ।
वाजसनेयके तद्गीथशब्देनावयवग्रहणे कारणाभावात्सकलैव भक्तिरावेद्यते ।
त्वं न उद्गाय (बृ। १।३।२) इत्यपि तस्याः कर्तोद्गातर्त्विक्प्राणत्वेन निरूप्यत इति प्रस्थानान्तरम् ।
यदपि तत्रोद्गीथसामानाधिकरण्यं प्राणस्य तदप्युद्गातृत्वेनैव दिदर्शयिषितस्य प्राणस्य सर्वात्मत्वप्रतिपादनार्थमिति न विद्यैकत्वमावहति ।
सकलभक्तिविषय एव च तत्राप्युद्गीथशब्द इति वैषम्यम् ।
नच प्राणस्योद्गातृत्वमसंभवेन हेतुना परित्यजत उद्गीथभाववदुद्गातृभावस्याप्युपासनार्थत्वेनोपदिश्यमानत्वात् ।
प्राणवीर्येणैव चोद्गातौद्गात्रं करोतीति नास्त्यसंभवः ।
तथाच तत्रैव श्रावितम्- वाचा च ह्येव स प्राणेन चोदगायत् (बृ। १।३।२४) इति ।
नच विवक्षितार्थभेदे ऽवगम्यमाने वाक्यच्छायानुकारमात्रेण समानार्थत्वमध्यवसातुं युक्तम् ।
तथाह्यभ्युदयवाक्ये पशुकामवाक्ये च त्रेधा तण्डुलान्विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्यात् इत्यादिनिर्देशसाम्ये ऽप्युपक्रमभेदादभ्युदयवाक्ये दवतापनयो ऽध्यवसितः, पशुकामवाक्ये तु यागविधिः ।
तथेहाप्युपक्रमभेदाद्विद्याभेदः ।
परोवरीयस्त्वादिवत् ।
यथा परमात्मदृष्ट्यध्याससाम्ये ऽपि ऽआकोशो ह्येवैभ्यो ज्यायानाक्शः परायणम्ऽ (छा। १।९।१) ऽस एष परोवरीयानुद्गीथः स एषो ऽनन्तःऽ (छा। १।९।२) इति परोवरीयस्त्वगुणविशिष्टमुद्गीथोपासनमक्ष्यादित्यादिगतहिरण्यश्मश्रुत्वादिगुणविशिष्टोद्गीथोपासनाद्भिन्नम् ।
नचेतरेतरगुणोपसंहार एकस्यामपि शाखायां तद्वच्छाखान्तरस्थेष्वप्येवञ्जातीयकेषूपासनेष्विति ॥ ७ ॥
----------------------
फ़्न्: वैषम्यमुभयत्र विद्यानानात्वम् ।
अपनयो वियोगः ।
परस्मात्परो वराच्च वरतरः परोवरीयान् ।
na vā prakaraṇabhedāt parovarīyastvādivat
na vā vidyaikatvamātra nyāyyaṃ vidyābheda evātra nyāyyaḥ /
kasmāt /
prakaraṇabhedāditi /
prakramabhedādityarthaḥ /
tathāhi - iha prakramabhedo dṛśyate /
chāndogye tāvat - omityetadakṣaramudgīthamupāsīta (chā. 1.1.1) ityevamudgīthāvayavasyoṅkārasyopāsyatvaṃ prastutya rasatamādiguṇopavyākhyānaṃ tatra kṛtvā atha khalvetasyaivākṣarasyopavyākhyānaṃ bhavati (chā. 1.1.10) iti punarapi tamevodgīthāvayavamoṅkāramanuvartya devāsurākhyāyikādvāreṇa tam prāṇamudgīthamupāsāṃcakrire (chā. 1.2.2) ityāha /
tatra yadyudgīthaśabdena sakalā bhaktirabhipreyeta tasyāśca kartodgātartviktata upakramaścoparapadhyeta lakṣaṇā ca psajyeta /
upakramānurodhena caikasminvākya upasaṃhāreṇa bhavitavyam /
tasmādatra tāvadudgīthāvayava oṅkāre prāṇadṛṣṭirupadisyate /
vājasaneyake tadgīthaśabdenāvayavagrahaṇe kāraṇābhāvātsakalaiva bhaktirāvedyate /
tvaṃ na udgāya (bṛ. 1.3.2) ityapi tasyāḥ kartodgātartvikprāṇatvena nirūpyata iti prasthānāntaram /
yadapi tatrodgīthasāmānādhikaraṇyaṃ prāṇasya tadapyudgātṛtvenaiva didarśayiṣitasya prāṇasya sarvātmatvapratipādanārthamiti na vidyaikatvamāvahati /
sakalabhaktiviṣaya eva ca tatrāpyudgīthaśabda iti vaiṣamyam /
naca prāṇasyodgātṛtvamasaṃbhavena hetunā parityajata udgīthabhāvavadudgātṛbhāvasyāpyupāsanārthatvenopadiśyamānatvāt /
prāṇavīryeṇaiva codgātaudgātraṃ karotīti nāstyasaṃbhavaḥ /
tathāca tatraiva śrāvitam- vācā ca hyeva sa prāṇena codagāyat (bṛ. 1.3.24) iti /
naca vivakṣitārthabhede 'vagamyamāne vākyacchāyānukāramātreṇa samānārthatvamadhyavasātuṃ yuktam /
tathāhyabhyudayavākye paśukāmavākye ca tredhā taṇḍulānvibhajedye madhyamāḥ syustānagnaye dātre puroḍāśamaṣṭākapālaṃ kuryāt ityādinirdeśasāmye 'pyupakramabhedādabhyudayavākye davatāpanayo 'dhyavasitaḥ, paśukāmavākye tu yāgavidhiḥ /
tathehāpyupakramabhedādvidyābhedaḥ /
parovarīyastvādivat /
yathā paramātmadṛṣṭyadhyāsasāmye 'pi 'ākośo hyevaibhyo jyāyānākśaḥ parāyaṇam' (chā. 1.9.1) 'sa eṣa parovarīyānudgīthaḥ sa eṣo 'nantaḥ' (chā. 1.9.2) iti parovarīyastvaguṇaviśiṣṭamudgīthopāsanamakṣyādityādigatahiraṇyaśmaśrutvādiguṇaviśiṣṭodgīthopāsanādbhinnam /
nacetaretaraguṇopasaṃhāra ekasyāmapi śākhāyāṃ tadvacchākhāntarastheṣvapyevañjātīyakeṣūpāsaneṣviti // 7 //
----------------------
FN: vaiṣamyamubhayatra vidyānānātvam /
apanayo viyogaḥ /
parasmātparo varācca varataraḥ parovarīyān /
Sanskrit only: no published translation is held for this verse.
संज्ञातश् चेत् तद् उक्तम् अस्ति तु तद् अपि
अथोच्यते संज्ञैकत्वाद्विद्यैकत्वमत्र न्याय्यमुद्गीथविद्येति ह्युभयणाप्येका संज्ञेति ।
तदपि नोपपद्यते ।
उक्तं ह्येतत् - ऽन वा प्रकरणभेदात्परोवरीयस्त्वादिवत्ऽ (ब्र। सू। ३।३।७) इति ।
तदेव चात्र न्याय्यतरं श्रुत्यक्षरानुगतं हि तत्संज्ञैकत्वं तु श्रुत्यक्षरबाह्यमुद्गीथशब्दमात्रप्रयोगाल्लौकिकैर्व्यहर्तृभिरुपचर्यते ।
अस्ति चैतत्संज्ञैकत्वं प्रसिद्धभेदेष्वपि परोवरीयस्त्वाद्युपासनेषूद्गीथविद्येति ।
तथा प्रसिद्धभेदानामप्यग्निहोत्रदर्शपूर्णमासादीनां काठकैकग्रन्थपरिपठितानां काठकसंज्ञकत्वं दृश्यते तथेहापि भविष्यति ।
यत्र तु नास्ति कश्चिदेवञ्जातीयको भेदहेतुस्तत्र भवतु संज्ञैकत्वाद्विद्यैकत्वं यथा संवर्गविद्यादिषु ॥ ८ ॥
saṃjñātaś cet tad uktam asti tu tad api
athocyate saṃjñaikatvādvidyaikatvamatra nyāyyamudgīthavidyeti hyubhayaṇāpyekā saṃjñeti /
tadapi nopapadyate /
uktaṃ hyetat - 'na vā prakaraṇabhedātparovarīyastvādivat' (bra. sū. 3.3.7) iti /
tadeva cātra nyāyyataraṃ śrutyakṣarānugataṃ hi tatsaṃjñaikatvaṃ tu śrutyakṣarabāhyamudgīthaśabdamātraprayogāllaukikairvyahartṛbhirupacaryate /
asti caitatsaṃjñaikatvaṃ prasiddhabhedeṣvapi parovarīyastvādyupāsaneṣūdgīthavidyeti /
tathā prasiddhabhedānāmapyagnihotradarśapūrṇamāsādīnāṃ kāṭhakaikagranthaparipaṭhitānāṃ kāṭhakasaṃjñakatvaṃ dṛśyate tathehāpi bhaviṣyati /
yatra tu nāsti kaścidevañjātīyako bhedahetustatra bhavatu saṃjñaikatvādvidyaikatvaṃ yathā saṃvargavidyādiṣu // 8 //
Sanskrit only: no published translation is held for this verse.
व्याप्तेश् च समञ्जसम्
ऽओम्त्येतदक्षरमुद्गीथमुपासीतऽ (छा। १।१।१) इत्यत्राक्षरोद्गीथशब्दयोः सामानाधिकरण्ये श्रूयमाणे ऽध्यासापवादैकत्वविशेषणपक्षाणां प्रतिभासनात्कतमो ऽत्र पक्षो न्याय्यः स्यादिति विचारः ।
तत्राध्यासो नाम द्वयोर्वस्तुनोरनिवर्तितायामेवान्यतरबुद्धावन्यतरबुद्धिरध्यस्यते ।
यस्मिन्नितरबुद्धिरध्यस्यते ऽनुवर्तत एव तस्मिंस्तद्बुद्धिरध्यस्तेतरबुद्धावपि ।
यथा नाम्नि ब्रह्मबुद्धावध्यस्यमानायामप्यनुवर्तत एव नामबुद्धिर्न ब्रह्मबुद्ध्या निवर्तते ।
यथावा प्रतिमादिषु विष्ण्वादिबुद्ध्यध्यासः ।
एवमिहाप्यक्षर उद्गीथबुद्धिरध्यस्यत उद्गीथे वाक्षरबुद्धुरिति ।
अपवादो नाम यत्र कस्मिंश्चिद्वस्तुनि पूर्वनिविष्टायां मिथ्याबुद्धौ निश्चितायां पश्चादुपजायमाना यथार्था बुद्धिः पूर्वनिविष्टाया मिथ्याबुद्धेर्निवर्तिका भवति ।
यथा देहेन्द्रियसंघात आत्मबुद्धिरात्मन्येवात्मबुद्ध्या पश्चाद्भाविन्या ऽतत्त्वमसिऽ (छा। ६।८।७) इत्यनया यथार्थबुद्ध्या निवर्तते ।
यथा वा दिग्भ्रान्तिबुद्धिर्दिग्याथात्म्यबुद्ध्या निवर्त्यते ।
यथा वा दिग्भ्रान्तिबुद्धिर्दिग्याथात्म्यबुद्ध्या निवर्त्यते ।
एवमिहाप्यक्षरबुद्ध्योद्गीथबुद्धिर्निवर्त्यत उद्गीथबुद्ध्या वाक्षरबुद्धिरिति ।
एकत्वं त्वक्षरोद्गीथशब्दयोरनतिरिक्तार्थवृत्तित्वम् ।
यथा द्विजोत्तमो ब्राह्मणो भूमिदेव इति ।
विशेषणं पुनः सर्ववेदव्यापिन ओमित्येतस्याक्षरस्य ग्रहणप्रसङ्ग औद्गात्रविशेषस्य समर्पणम् ।
यथा नीलं यदुत्पलं तदानयेति ।
एवमिहाप्युद्गीथो य ओङ्कारस्तमुपासीतेति ।
एवमेतस्मिन्सामानाधिकरण्यवाक्ये विमृश्यमान एते पक्षाः प्रतिभान्ति तत्रान्यतमनिर्धारणकारणाभावादनिर्दारणप्राप्ताविदमुच्यते - व्याप्तेश्च समञ्जसमिति ।
चशब्दो ऽयं तुशब्दस्थाननिवेशी पक्षत्रयव्यावर्तनप्रयोजन- ।
तदिह क्षयः पक्षाः सावद्या इति पर्युदस्यन्ते ।
विशेषणपक्ष एवैको निरवद्य इत्युपादीयते ।
तत्राध्यासे तावद्या बुद्धिरितरत्राध्यस्यते तच्छब्दस्य लक्षणावृत्तित्वं प्रसज्येत तत्फलं च कल्प्येत ।
श्रूयत एव फलम् ऽआपयिता ह वै कामानां भवतिऽ (छा। १।१।७) इत्यादीति चेत् ।
न ।
तस्यान्यफलत्वात् ।
आप्त्यादिदृष्टिफलं हि तन्नोद्गीथाध्यासफलम् ।
अपवादे ऽपि समानः फलाभावः ।
मिथ्याज्ञाननिवृत्तिः फलमिति चेत् ।
न ।
पुरुषार्थोपयोगानवगमात् ।
नच कदाचिदप्योङ्कारादोङ्कारबुद्धिर्निवर्तत उद्गीथाद्वेद्गीथबुद्धिः ।
नचेदं वाक्यं वस्तुतत्त्वप्रतिपादनपरम् ।
उपासनाविधिपरत्वात् ।
नाप्येकत्वपक्षः संगच्छते निष्प्रयोजनं हि तदा शब्दद्वयोच्चारणं स्यात् ।
एकेनैव विवक्षितार्थसमर्पणात् ।
नच हौत्रविषय आध्वर्यवविषये वाक्षर ओङ्कारशब्दवाच्य उद्गीथशब्दप्रसिद्धिरस्ति ।
नापि सकलायां साम्नो द्वितीयायां भक्तावुद्गीथशब्दप्रसिद्धिरस्ति ।
नापि सकलायां साम्नो द्वितीयायां भक्तावुद्गीथशब्दवाच्यायामोङ्कारशब्दप्रसिद्धिर्येनानतिरिक्तार्थता स्यात् ।
परिशेषाद्विशेषणपक्षः परिगृह्यते ।
व्याप्तेः सर्ववेदसाधारण्यात् ।
सर्वव्याप्यक्षरमिह मा प्रसञ्जीत्यत उद्गीथशब्देनाक्षरं विशेष्यते कथं नामोद्गीथावयवभूत ओङ्कारो गृह्येतेति ।
नन्वस्मिन्नपि पक्षे समाना लक्षणा ।
उद्गीथशब्दस्यावयवलक्षणार्थत्वात् ।
सत्यमेतत् ।
लक्षणायामपि तु संनिकर्षविप्रकर्षो भवत एव ।
अध्यासपक्षे ह्यर्थान्तरबुद्धिरर्थान्तरे निक्षिप्यत इति विप्रकृष्टा लक्षणा विशेषणपक्षे प्रवृत्ताः शब्दा अवयवेष्वपि प्रवर्तमाना दृष्टाः पटग्रामादिषु ।
अतश्च व्याप्तेर्हेतोरोमित्येतदक्षरमित्येतस्योद्गीथमित्येतद्विशेषणमिति समञ्जसमेतन्निरवद्यमित्यर्थः ॥ ९ ॥
५ सर्वाभेदाधिकरणम् । सू। १०
vyāpteś ca samañjasam
'omtyetadakṣaramudgīthamupāsīta' (chā. 1.1.1) ityatrākṣarodgīthaśabdayoḥ sāmānādhikaraṇye śrūyamāṇe 'dhyāsāpavādaikatvaviśeṣaṇapakṣāṇāṃ pratibhāsanātkatamo 'tra pakṣo nyāyyaḥ syāditi vicāraḥ /
tatrādhyāso nāma dvayorvastunoranivartitāyāmevānyatarabuddhāvanyatarabuddhiradhyasyate /
yasminnitarabuddhiradhyasyate 'nuvartata eva tasmiṃstadbuddhiradhyastetarabuddhāvapi /
yathā nāmni brahmabuddhāvadhyasyamānāyāmapyanuvartata eva nāmabuddhirna brahmabuddhyā nivartate /
yathāvā pratimādiṣu viṣṇvādibuddhyadhyāsaḥ /
evamihāpyakṣara udgīthabuddhiradhyasyata udgīthe vākṣarabuddhuriti /
apavādo nāma yatra kasmiṃścidvastuni pūrvaniviṣṭāyāṃ mithyābuddhau niścitāyāṃ paścādupajāyamānā yathārthā buddhiḥ pūrvaniviṣṭāyā mithyābuddhernivartikā bhavati /
yathā dehendriyasaṃghāta ātmabuddhirātmanyevātmabuddhyā paścādbhāvinyā 'tattvamasi' (chā. 6.8.7) ityanayā yathārthabuddhyā nivartate /
yathā vā digbhrāntibuddhirdigyāthātmyabuddhyā nivartyate /
yathā vā digbhrāntibuddhirdigyāthātmyabuddhyā nivartyate /
evamihāpyakṣarabuddhyodgīthabuddhirnivartyata udgīthabuddhyā vākṣarabuddhiriti /
ekatvaṃ tvakṣarodgīthaśabdayoranatiriktārthavṛttitvam /
yathā dvijottamo brāhmaṇo bhūmideva iti /
viśeṣaṇaṃ punaḥ sarvavedavyāpina omityetasyākṣarasya grahaṇaprasaṅga audgātraviśeṣasya samarpaṇam /
yathā nīlaṃ yadutpalaṃ tadānayeti /
evamihāpyudgītho ya oṅkārastamupāsīteti /
evametasminsāmānādhikaraṇyavākye vimṛśyamāna ete pakṣāḥ pratibhānti tatrānyatamanirdhāraṇakāraṇābhāvādanirdāraṇaprāptāvidamucyate - vyāpteśca samañjasamiti /
caśabdo 'yaṃ tuśabdasthānaniveśī pakṣatrayavyāvartanaprayojana- /
tadiha kṣayaḥ pakṣāḥ sāvadyā iti paryudasyante /
viśeṣaṇapakṣa evaiko niravadya ityupādīyate /
tatrādhyāse tāvadyā buddhiritaratrādhyasyate tacchabdasya lakṣaṇāvṛttitvaṃ prasajyeta tatphalaṃ ca kalpyeta /
śrūyata eva phalam 'āpayitā ha vai kāmānāṃ bhavati' (chā. 1.1.7) ityādīti cet /
na /
tasyānyaphalatvāt /
āptyādidṛṣṭiphalaṃ hi tannodgīthādhyāsaphalam /
apavāde 'pi samānaḥ phalābhāvaḥ /
mithyājñānanivṛttiḥ phalamiti cet /
na /
puruṣārthopayogānavagamāt /
naca kadācidapyoṅkārādoṅkārabuddhirnivartata udgīthādvedgīthabuddhiḥ /
nacedaṃ vākyaṃ vastutattvapratipādanaparam /
upāsanāvidhiparatvāt /
nāpyekatvapakṣaḥ saṃgacchate niṣprayojanaṃ hi tadā śabdadvayoccāraṇaṃ syāt /
ekenaiva vivakṣitārthasamarpaṇāt /
naca hautraviṣaya ādhvaryavaviṣaye vākṣara oṅkāraśabdavācya udgīthaśabdaprasiddhirasti /
nāpi sakalāyāṃ sāmno dvitīyāyāṃ bhaktāvudgīthaśabdaprasiddhirasti /
nāpi sakalāyāṃ sāmno dvitīyāyāṃ bhaktāvudgīthaśabdavācyāyāmoṅkāraśabdaprasiddhiryenānatiriktārthatā syāt /
pariśeṣādviśeṣaṇapakṣaḥ parigṛhyate /
vyāpteḥ sarvavedasādhāraṇyāt /
sarvavyāpyakṣaramiha mā prasañjītyata udgīthaśabdenākṣaraṃ viśeṣyate kathaṃ nāmodgīthāvayavabhūta oṅkāro gṛhyeteti /
nanvasminnapi pakṣe samānā lakṣaṇā /
udgīthaśabdasyāvayavalakṣaṇārthatvāt /
satyametat /
lakṣaṇāyāmapi tu saṃnikarṣaviprakarṣo bhavata eva /
adhyāsapakṣe hyarthāntarabuddhirarthāntare nikṣipyata iti viprakṛṣṭā lakṣaṇā viśeṣaṇapakṣe pravṛttāḥ śabdā avayaveṣvapi pravartamānā dṛṣṭāḥ paṭagrāmādiṣu /
ataśca vyāpterhetoromityetadakṣaramityetasyodgīthamityetadviśeṣaṇamiti samañjasametanniravadyamityarthaḥ // 9 //
5 sarvābhedādhikaraṇam / sū. 10
Sanskrit only: no published translation is held for this verse.
सर्वाभेदादन्यत्रेमे
वाजिनां छन्दोगानां च प्राणसंवादे श्रैष्ठ्यगुणान्वितस्य प्राणस्योपास्यत्वमुक्तम् ।
वागादयो ऽपि हि तत्र वसिष्ठत्वादिगुणान्विता उक्ताः ते च प्राणे पुनः प्रत्यर्पिताः - ऽयद्वा अहं वसिष्ठो ऽस्मि त्वं तद्वसिश्षो ऽसिऽ (बृ। ६।१।१४) इत्यादिना ।
अन्येषामपि तु शाखिनां कौषीतकि प्रभृतीनां प्राणसंवादेषु अथातो निःश्रेयसादानम् ऽएता ह वै देवता अहंश्रेयसे विवदमानाःऽ (कौ। २।१४) इत्येवञ्जातीयकेषु प्राणस्य श्रैःष्टमुक्तं न त्विमे वसिष्ठत्वादयो ऽपि गुणा उक्ताः ।
तत्र संशयः - किमिमे वसिष्ठत्वादयो गुणाः क्वचिदुक्ता अन्यत्राप्यस्येरन्नुत नास्येरन्निति ।
तत्र प्राप्तं तावन्नास्येरन्निति ।
कुतः - एवंशब्दसंयोगात् ।
ऽअथो य एवं विद्वान्प्राणे निःश्रेयसं विदित्वाऽ इति तत्रतत्रैवंशब्देन वेद्यं वस्तु निवेद्यते ।
एवंशब्दश्च संनिहितावलम्बनो न शाखान्तरपरिपठिमेवञ्जातीयकं गुणजातं शक्नोति निवेदयितुम् ।
तस्मात्स्वप्रकरणस्थैरेव गुणैर्निराकाङ्क्षत्वमिति ।
एवं प्राप्ते प्रत्याह - अस्येतन्नियमे गुणाः क्वचिदुक्ता वसिष्ठत्वादयो ऽन्यत्रापि ।
कुतः - सर्वाभेदात् ।
सर्वत्रैव हि तदेवैकं प्राणविज्ञानमभिन्नं प्रत्यभिज्ञायते ।
प्राणसंवादादिसारूप्यात् ।
अभेदे च विज्ञानस्य कथमिमे गुणाः क्वचिदुक्ता अन्यत्र नास्येरन् ।
नन्वेवंशब्दस्तत्र तत्र भेदेनैवञ्जातीयकं गुणजातं वेद्यत्वाय समर्पयतीत्युक्तम् ।
अत्रोच्यते - यद्यपि कौषीतकिब्राह्मणगतेनैवंशब्देन वाजसनेयिब्राह्मणगतं गुणजातमसंशब्दितमसंनिहितत्वात्तथापि तस्मिन्नेव विज्ञाने वाजसनेयिब्राह्मणगतेनैवंशब्देन तत्संशब्दितमिति न परशाखागतमप्यभिन्नविज्ञानावरुद्धं गुणजातं स्वशाखागताद्विशिष्यते ।
नचैवं सति श्रुतहानिरश्रुतकल्पना वा भवति ।
एकस्यामपि हि शाखायां श्रुता गुणाः श्रुता एव सर्वत्र भवन्ति गुणवतो भेदाभावात् ।
नहि देवदत्तः शौर्यादिगुणत्वेन स्वदेशे प्रसिद्धो देशान्तरं गतस्तद्देश्यैरविभावितशौर्यादिगुणो ऽप्यतद्गुणो भवति ।
यथाच तत्र परिचयविशेषाद्देशान्तरे ऽपि देवदत्तगुणा विभाव्यन्ते ।
एवमभियोगविशेषाच्छाखान्तरे ऽप्युपास्या गुणाः शाखान्तरे ऽप्यस्येरन् ।
तस्मादेकप्रधानसंबद्धा धर्मा एकत्राप्युच्यमानाः सर्वत्रैवोपसंहर्तव्या इति ॥ १० ॥
----------------------
फ़्न्: निःश्रेयसस्य श्रैष्ठ्यस्यादानं निर्धारणम् ।
अहंश्रेयसे स्वश्रैष्ठ्याय ।
sarvābhedādanyatreme
vājināṃ chandogānāṃ ca prāṇasaṃvāde śraiṣṭhyaguṇānvitasya prāṇasyopāsyatvamuktam /
vāgādayo 'pi hi tatra vasiṣṭhatvādiguṇānvitā uktāḥ te ca prāṇe punaḥ pratyarpitāḥ - 'yadvā ahaṃ vasiṣṭho 'smi tvaṃ tadvasiśṣo 'si' (bṛ. 6.1.14) ityādinā /
anyeṣāmapi tu śākhināṃ kauṣītaki prabhṛtīnāṃ prāṇasaṃvādeṣu athāto niḥśreyasādānam 'etā ha vai devatā ahaṃśreyase vivadamānāḥ' (kau. 2.14) ityevañjātīyakeṣu prāṇasya śraiḥṣṭamuktaṃ na tvime vasiṣṭhatvādayo 'pi guṇā uktāḥ /
tatra saṃśayaḥ - kimime vasiṣṭhatvādayo guṇāḥ kvaciduktā anyatrāpyasyerannuta nāsyeranniti /
tatra prāptaṃ tāvannāsyeranniti /
kutaḥ - evaṃśabdasaṃyogāt /
'atho ya evaṃ vidvānprāṇe niḥśreyasaṃ viditvā' iti tatratatraivaṃśabdena vedyaṃ vastu nivedyate /
evaṃśabdaśca saṃnihitāvalambano na śākhāntaraparipaṭhimevañjātīyakaṃ guṇajātaṃ śaknoti nivedayitum /
tasmātsvaprakaraṇasthaireva guṇairnirākāṅkṣatvamiti /
evaṃ prāpte pratyāha - asyetanniyame guṇāḥ kvaciduktā vasiṣṭhatvādayo 'nyatrāpi /
kutaḥ - sarvābhedāt /
sarvatraiva hi tadevaikaṃ prāṇavijñānamabhinnaṃ pratyabhijñāyate /
prāṇasaṃvādādisārūpyāt /
abhede ca vijñānasya kathamime guṇāḥ kvaciduktā anyatra nāsyeran /
nanvevaṃśabdastatra tatra bhedenaivañjātīyakaṃ guṇajātaṃ vedyatvāya samarpayatītyuktam /
atrocyate - yadyapi kauṣītakibrāhmaṇagatenaivaṃśabdena vājasaneyibrāhmaṇagataṃ guṇajātamasaṃśabditamasaṃnihitatvāttathāpi tasminneva vijñāne vājasaneyibrāhmaṇagatenaivaṃśabdena tatsaṃśabditamiti na paraśākhāgatamapyabhinnavijñānāvaruddhaṃ guṇajātaṃ svaśākhāgatādviśiṣyate /
nacaivaṃ sati śrutahāniraśrutakalpanā vā bhavati /
ekasyāmapi hi śākhāyāṃ śrutā guṇāḥ śrutā eva sarvatra bhavanti guṇavato bhedābhāvāt /
nahi devadattaḥ śauryādiguṇatvena svadeśe prasiddho deśāntaraṃ gatastaddeśyairavibhāvitaśauryādiguṇo 'pyatadguṇo bhavati /
yathāca tatra paricayaviśeṣāddeśāntare 'pi devadattaguṇā vibhāvyante /
evamabhiyogaviśeṣācchākhāntare 'pyupāsyā guṇāḥ śākhāntare 'pyasyeran /
tasmādekapradhānasaṃbaddhā dharmā ekatrāpyucyamānāḥ sarvatraivopasaṃhartavyā iti // 10 //
----------------------
FN: niḥśreyasasya śraiṣṭhyasyādānaṃ nirdhāraṇam /
ahaṃśreyase svaśraiṣṭhyāya /
Sanskrit only: no published translation is held for this verse.
आनन्दादयः प्रधानस्य
ब्रह्मस्वरूपप्रतिपादनपरासु श्रुतिष्वानन्दरूपत्वं विज्ञानघनत्वं सर्वगतत्वं सर्वात्मत्वमित्येवञ्जातीयका ब्रह्मणो धर्माः क्वचित्केचिच्छ्रूयन्ते ।
तेषु संशयः - किमानन्दादयो ब्रह्मधर्मा यत्र यावन्तः श्रूयन्ते तावन्त एव तत्र प्रतिपत्तव्याः किंवा सर्वे सर्वत्रेति ।
तत्र यथाश्रुतिविभागं धर्मप्रतिपत्तौ प्राप्तायामिदमुच्यते - आनन्दादयः प्रधानस्य ब्रह्मणो धर्माः सर्वे सर्वत्र प्रतिपत्तव्याः ।
कस्मात् ।
सर्वाभेदादेव ।
सर्वत्र हि तदेवैकं प्रधानं विशेष्यं ब्रह्म न भिद्यते ।
तस्मात्सार्वत्रिकत्वं ब्रह्मधर्माणां तेनैव पूर्वाधिकरणोदितेन देवदत्तशौर्यदिनिदर्शनेन ॥ ११ ॥
नन्वेवं सति प्रियशिरस्त्वादयो ऽपि धर्माः सर्वत्र संकीर्येरन् ।
तथाहि - तैत्तिरीयक आनन्दमयमात्मानं प्रक्रम्याम्नायते - ऽतस्य प्रियमेव शिरः ।
मोदो दक्षिणः पक्षः ।
प्रमोद उत्तरः पक्षः ।
आनन्द आत्मा ।
ब्रह्म पुच्छं प्रतिष्ठाऽ (तै। २।५) इति ।
अत उत्तरं पठति -
ānandādayaḥ pradhānasya
brahmasvarūpapratipādanaparāsu śrutiṣvānandarūpatvaṃ vijñānaghanatvaṃ sarvagatatvaṃ sarvātmatvamityevañjātīyakā brahmaṇo dharmāḥ kvacitkecicchrūyante /
teṣu saṃśayaḥ - kimānandādayo brahmadharmā yatra yāvantaḥ śrūyante tāvanta eva tatra pratipattavyāḥ kiṃvā sarve sarvatreti /
tatra yathāśrutivibhāgaṃ dharmapratipattau prāptāyāmidamucyate - ānandādayaḥ pradhānasya brahmaṇo dharmāḥ sarve sarvatra pratipattavyāḥ /
kasmāt /
sarvābhedādeva /
sarvatra hi tadevaikaṃ pradhānaṃ viśeṣyaṃ brahma na bhidyate /
tasmātsārvatrikatvaṃ brahmadharmāṇāṃ tenaiva pūrvādhikaraṇoditena devadattaśauryadinidarśanena // 11 //
nanvevaṃ sati priyaśirastvādayo 'pi dharmāḥ sarvatra saṃkīryeran /
tathāhi - taittirīyaka ānandamayamātmānaṃ prakramyāmnāyate - 'tasya priyameva śiraḥ /
modo dakṣiṇaḥ pakṣaḥ /
pramoda uttaraḥ pakṣaḥ /
ānanda ātmā /
brahma pucchaṃ pratiṣṭhā' (tai. 2.5) iti /
ata uttaraṃ paṭhati -
Sanskrit only: no published translation is held for this verse.
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे
प्रियशिरस्त्वादीनां धर्माणां तैत्तिरीयक आम्नातानां नास्त्यन्यत्र प्राप्तिः ।
यत्कारणं प्रियं मोदः प्रमोद आनन्द इत्येते परस्परापेक्षया भोक्त्रन्तरापेक्षया चोपचितापचितरूपा उपलभ्यन्ते ।
उपचयापचयौ च सति भेदे संभवतः ।
निर्भेदं तु ब्रह्म ऽएकमेवाद्वितीयम्ऽ (छा। ६।२।१) इत्यादिश्रुतिभ्यः ।
नचैते प्रियशिरस्त्वादयो ब्रह्मधर्माः, कोशधर्मास्त्वेत इत्युपदिष्टमस्माभिः ऽआनन्दमयो ऽभ्यासात्ऽ (ब्रसू। १।१।१२) इत्यत्र ।
अपिच परस्मिन्ब्रह्मणि चित्तावतारोपायमात्रत्वेनैते परिकल्प्यन्ते न द्रष्टव्यत्वेन ।
एवमपि सुतरामन्यत्राप्राप्तिः प्रियशिरस्त्वादीनाम् ।
ब्रह्मधर्मास्त्वेतान्कृत्वा न्यायमात्रमिदमाचार्येण प्रदर्शितं प्रियशिरस्त्वाद्यप्राप्तिरिति ।
स च न्यायो ऽन्येषु निश्चितेषु ब्रह्मधर्मेषूपासनायोपदिश्यमानेषु नेतव्यः संयद्वामादिषु सत्यकामादिषु च ।
तेषु हि सत्यप्युपास्यस्य ब्रह्मण एकत्मे प्रक्रमभेदादुपासनाभेदे सति नान्योन्यधर्माणामन्योन्यत्र प्राप्तिः ।
यथा च द्वे नार्यावेकं नृपतिमुपासते छत्रेणैका चामरेणान्या तत्रोपास्यैकत्वे ऽप्युपासनाभेदो धर्मव्यवस्था च भवेत्येवमिहापीति ।
उपचितापचितगुणत्वं हि सति भेदव्यवहारे सगुणे ब्रह्मण्युपपद्यते न निर्गुणे परस्मिन्ब्रह्मणि ।
अतो न सत्यकामत्वादीनां धर्माणां क्वचिच्छ्रुतानां सर्वत्र प्राप्तिरित्यर्थः ॥ १२ ॥
priyaśirastvādyaprāptirupacayāpacayau hi bhede
priyaśirastvādīnāṃ dharmāṇāṃ taittirīyaka āmnātānāṃ nāstyanyatra prāptiḥ /
yatkāraṇaṃ priyaṃ modaḥ pramoda ānanda ityete parasparāpekṣayā bhoktrantarāpekṣayā copacitāpacitarūpā upalabhyante /
upacayāpacayau ca sati bhede saṃbhavataḥ /
nirbhedaṃ tu brahma 'ekamevādvitīyam' (chā. 6.2.1) ityādiśrutibhyaḥ /
nacaite priyaśirastvādayo brahmadharmāḥ, kośadharmāstveta ityupadiṣṭamasmābhiḥ 'ānandamayo 'bhyāsāt' (bra.sū. 1.1.12) ityatra /
apica parasminbrahmaṇi cittāvatāropāyamātratvenaite parikalpyante na draṣṭavyatvena /
evamapi sutarāmanyatrāprāptiḥ priyaśirastvādīnām /
brahmadharmāstvetānkṛtvā nyāyamātramidamācāryeṇa pradarśitaṃ priyaśirastvādyaprāptiriti /
sa ca nyāyo 'nyeṣu niściteṣu brahmadharmeṣūpāsanāyopadiśyamāneṣu netavyaḥ saṃyadvāmādiṣu satyakāmādiṣu ca /
teṣu hi satyapyupāsyasya brahmaṇa ekatme prakramabhedādupāsanābhede sati nānyonyadharmāṇāmanyonyatra prāptiḥ /
yathā ca dve nāryāvekaṃ nṛpatimupāsate chatreṇaikā cāmareṇānyā tatropāsyaikatve 'pyupāsanābhedo dharmavyavasthā ca bhavetyevamihāpīti /
upacitāpacitaguṇatvaṃ hi sati bhedavyavahāre saguṇe brahmaṇyupapadyate na nirguṇe parasminbrahmaṇi /
ato na satyakāmatvādīnāṃ dharmāṇāṃ kvacicchrutānāṃ sarvatra prāptirityarthaḥ // 12 //
Sanskrit only: no published translation is held for this verse.
इतरे त्वर्थसामान्यात्
इतरे त्वानन्दादयो धर्मा ब्रह्मस्वरूपप्रतिपादनायैवोच्यमाना अर्थसामान्यात्प्रतिपाद्यस्य ब्रह्मणो धर्मिण एकत्वात्सर्वे सर्वत्र प्रतीयेरन्निति वैषम्यं प्रतिपत्तिमात्रप्रयोजना हि त इति ॥ १३ ॥
७ आध्यानाधिकरणम् । सू। १४-१५
itare tvarthasāmānyāt
itare tvānandādayo dharmā brahmasvarūpapratipādanāyaivocyamānā arthasāmānyātpratipādyasya brahmaṇo dharmiṇa ekatvātsarve sarvatra pratīyeranniti vaiṣamyaṃ pratipattimātraprayojanā hi ta iti // 13 //
7 ādhyānādhikaraṇam / sū. 14-15
Sanskrit only: no published translation is held for this verse.
आध्यानाय प्रयोजनाभावात्
काठके हि पठ्यते - ऽइन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिःऽ (क। ३।१०) इत्यारभ्य ऽपुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिःऽ (क। ३।११ ) इति ।
तत्र संशयः - किमिमे सर्व एवार्थादयस्ततस्ततः परत्वेन प्रतिपाद्यन्त उत पुरुष एवैभ्यः सर्वेभ्यः परः प्रतिपाद्यत इति ।
तत्र तावत्सर्वेषामेवैषां परत्वेन प्रतिपादनमिति भवति मतिः ।
तथाहि श्रूयते -
इदमस्मात्परमिदमस्मात्परम् इति ।
ननु बहुष्वर्थेषु परत्वेन प्रतिपिपादयिषितेषु वाक्यभेदः स्यात् ।
नैष दोषः ।
वाक्यबहुत्वोपपत्तेः ।
बहून्येवह्येतानि वाक्यानि प्रभवन्ति बहुविषयान्परत्वोपेतान्प्रतिपादयितुम् ।
तस्मात्प्रत्येकमेषां परत्वप्रतिपादनमिति ।
एवं प्राप्ते ब्रूमः - पुरुष एव ह्येभ्यः सर्वेभ्यः परः प्रतिपाद्य इति युक्तं न प्रत्येकमेषां परत्वप्रतिपादनम् ।
कस्मात् ।
प्रयोजनाभावात् ।
नहीतरेषु परत्वेन प्रतिपन्नेषु किञ्चित्प्रयोजनं दृश्यते प्रयोजनं मोक्षसिद्धिः ।
तथाच श्रुतिः - ऽनिचाय्य तं मृत्युमुखात्प्रमुच्यतेऽ (क। ३।१५) इति ।
अपिच परप्रतिषेधेन काष्ठाशब्देन च पुरुषविषयमादरं दर्शयन्पुरुषप्रतिपत्त्यर्थैव पूर्वापरप्रवाहोक्तिरिति दर्शयति - आध्यानायेति ।
आध्यानपूर्वकाय सम्यग्दर्शनायेत्यर्थः ।
सम्यग्दर्शनार्थमेव हीहाध्यानमुपदिश्यते न त्वाध्यानमेव स्वप्रधानम् ॥ १४ ॥
ādhyānāya prayojanābhāvāt
kāṭhake hi paṭhyate - 'indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ /
manasastu parā buddhiḥ' (ka. 3.10) ityārabhya 'puruṣānna paraṃ kiñcitsā kāṣṭhā sā parā gatiḥ' (ka. 3.11 ) iti /
tatra saṃśayaḥ - kimime sarva evārthādayastatastataḥ paratvena pratipādyanta uta puruṣa evaibhyaḥ sarvebhyaḥ paraḥ pratipādyata iti /
tatra tāvatsarveṣāmevaiṣāṃ paratvena pratipādanamiti bhavati matiḥ /
tathāhi śrūyate -
idamasmātparamidamasmātparam iti /
nanu bahuṣvartheṣu paratvena pratipipādayiṣiteṣu vākyabhedaḥ syāt /
naiṣa doṣaḥ /
vākyabahutvopapatteḥ /
bahūnyevahyetāni vākyāni prabhavanti bahuviṣayānparatvopetānpratipādayitum /
tasmātpratyekameṣāṃ paratvapratipādanamiti /
evaṃ prāpte brūmaḥ - puruṣa eva hyebhyaḥ sarvebhyaḥ paraḥ pratipādya iti yuktaṃ na pratyekameṣāṃ paratvapratipādanam /
kasmāt /
prayojanābhāvāt /
nahītareṣu paratvena pratipanneṣu kiñcitprayojanaṃ dṛśyate prayojanaṃ mokṣasiddhiḥ /
tathāca śrutiḥ - 'nicāyya taṃ mṛtyumukhātpramucyate' (ka. 3.15) iti /
apica parapratiṣedhena kāṣṭhāśabdena ca puruṣaviṣayamādaraṃ darśayanpuruṣapratipattyarthaiva pūrvāparapravāhoktiriti darśayati - ādhyānāyeti /
ādhyānapūrvakāya samyagdarśanāyetyarthaḥ /
samyagdarśanārthameva hīhādhyānamupadiśyate na tvādhyānameva svapradhānam // 14 //
Sanskrit only: no published translation is held for this verse.
आत्मशब्दाच् च
इतश्च पुरुषप्रतिपत्त्यर्थैवेयमिन्द्रियादिप्रवाहोक्तिः ।
यत्कारणम् ऽएष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिःऽ (कठ। ३।१२) इति प्रकृतं पुरुषमात्मेत्याह ।
अतश्चानात्मत्वमितरेषां विवक्षितमिति गम्यते ।
तस्यैव च दुर्विज्ञानतां संस्कृतमितिगम्यतां च दर्शयति ।
तद्विज्ञानायैव ऽयच्छेद्वाङ्मनसी प्राज्ञःऽ (कठ। ३।१३) इत्याध्यानं विदधाति ।
तद्व्याख्यतम् ऽआनुमानिकमप्येकमप्येकेषाम्ऽ (ब्रसू। १।४।१) इत्यत्र ।
एवमनेकप्रकार आशयातिशयः श्रुतेः पुरुषे लक्ष्यते नेतरेषु ।
अपिच ऽसो ऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्ऽ (क। ३।९) इत्युक्ते किं तदध्वनः पारं विष्णोः परमं पदमित्यस्यामाकाङ्क्षायामिन्द्रियाद्यनुक्रमणात्परमपदप्रतिपत्त्यर्थ एवायमायाम इत्यवसीयते ॥ १५ ॥
ātmaśabdāc ca
itaśca puruṣapratipattyarthaiveyamindriyādipravāhoktiḥ /
yatkāraṇam 'eṣa sarveṣu bhūteṣu gūḍhotmā na prakāśate /
dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ' (kaṭha. 3.12) iti prakṛtaṃ puruṣamātmetyāha /
ataścānātmatvamitareṣāṃ vivakṣitamiti gamyate /
tasyaiva ca durvijñānatāṃ saṃskṛtamitigamyatāṃ ca darśayati /
tadvijñānāyaiva 'yacchedvāṅmanasī prājñaḥ' (kaṭha. 3.13) ityādhyānaṃ vidadhāti /
tadvyākhyatam 'ānumānikamapyekamapyekeṣām' (bra.sū. 1.4.1) ityatra /
evamanekaprakāra āśayātiśayaḥ śruteḥ puruṣe lakṣyate netareṣu /
apica 'so 'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam' (ka. 3.9) ityukte kiṃ tadadhvanaḥ pāraṃ viṣṇoḥ paramaṃ padamityasyāmākāṅkṣāyāmindriyādyanukramaṇātparamapadapratipattyartha evāyamāyāma ityavasīyate // 15 //
Sanskrit only: no published translation is held for this verse.
आत्मगृहीतिर् इतरवद् उत्तरात्
ऐतरेयके श्रूयते - ऽआत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत्स ईक्षत लोकान्नु सृजाऽ (ऐ। १।१) इति ऽस इमांल्लोकानसृजताम्भो मरीचीर्मरमापःऽ (ऐ। १।२) इत्यादि ।
तत्र संशयः - किं पर एवात्मशब्देनाभिलप्यत उतान्यः कश्चिदिति ।
किं तावत्प्राप्तं न परमात्मेहात्मशब्दाभिलप्यो भवितुमर्हतीति ।
कस्मात् ।
वाक्यान्वयदर्शनात् ।
ननु वाक्यान्वयः सुतरां परमात्मविषयो दृश्यते प्रागुत्पत्तेरात्मैकत्वावधारणात् ।
ईक्षणपूर्वकस्रष्टृवचनाच्च ।
नेत्युच्यते ।
लोकसृष्टिवचनात् ।
परमात्मनि हि स्रष्टरि परिगृह्यमाणे महाभूतसृष्टिरादौ वक्तव्या लोकसृष्टिस्त्विहादावुच्यते ।
लोकाश्च महाभूतसंनिवेशाविशेषाः ।
तथाचाम्भःप्रभृतींल्लोकत्वेनैव निर्ब्रवीति - ऽअदो ऽम्भः परेण दिवम्ऽ (ऐ। १।२) इत्यादिना ।
लोकसृष्टिश्च परमेश्वराधिष्ठितेनापरेण केनचिदीश्वरेण आसीत्पुरुषविधःऽ (बृ। १।४।१) इत्याद्या ।
स्मृतिरपि ऽस वै शरीरी प्रथमःस वै पुरुषः उच्यते ।
आदिकर्ता स भूतानां ब्रह्माग्रे समवर्ततऽ इति ।
ऐतरेयिणो ऽपि अथातो रेतसः प्रजापते रेतो देवाः इत्यत्र पूर्वस्मिन्प्रकरणे प्रजापतिकर्तृकां विचित्रां सृष्टिमामनन्ति ।
आत्मशब्दो ऽपि तस्मिन्प्रयुज्यमानो दृश्यते - आत्मैवेदमग्र आसीत्पुरुषविधिःऽ (बृ। १।४।१) इत्यत्र ।
एकत्वावधारणमपि प्रागुत्पत्तेः स्वविकारापेक्षमुपपद्यते ।
ईक्षणमपि तस्य चेतनत्वाभ्युपगमादुपपन्नम् ।
अपिच ताभ्यो गामानयत्ताभ्यो ऽश्वमानयत्ताभ्योः पुरुषमानयत्ता अब्रुवन्नित्येवञ्जातीयको भूयान्व्यापारविशेषो लौकिकेषु विशेषवत्स्वात्मसु प्रसिद्ध इहानुगम्यते ।
तस्माद्विशेषावानेव कश्चिदिहात्मा स्यादिति ।
एवं प्राप्ते ब्रूमः - ऽपर एवात्मेहात्मशब्देन गृह्यत इतरवत् ।
यथेतरेषु सृष्टिश्रवणेषु तस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै। २।१।१) इत्येवमादिषु परस्यात्मनो ग्रहणम् ।
यथा चेतरस्मिंल्लौकिकात्मशब्दप्रयोगे प्रत्यगात्मैव मुख्य आत्मशब्देन गृह्यते तथेहापि भवितुमर्हति यत्र तु ऽआत्मैवेदमग्र आसीत्ऽ (बृ। १।४।१) इत्येवमादौ ऽपुरुषविधःऽ (बृ। १।४।१) इत्येवमादि विशेषणान्तरं श्रूयते भवेत्तत्र विशेषत आत्मनो ग्रहणम् ।
अत्र पुनः परमात्मग्रहणानुगुणमेव विशेषणमप्युत्तरमुपलभ्यते ऽस ईक्षत लोकान्नु सृजा इतिऽ (ऐ। १।१) ऽस इमांल्लोकानसृजतऽ (ऐ। १।२) इत्येवमादि ।
तस्मात्तस्यैव ग्रहणमिति न्याय्यम् ॥ १६ ॥
----------------------
फ़्न्: अम्भः स्वर्गः , मरीचयो ऽन्तरिक्षलोकः , मरो मर्त्यलोकः , आपः पाताललोकः ॥
पुरुषविधो नराकारः ।
आत्मा हिरण्यगर्भः ।
रेतः रेतःकार्यम् ।
ātmagṛhītir itaravad uttarāt
aitareyake śrūyate - 'ātmā vā idameka evāgra āsīnnānyatkiñcana miṣatsa īkṣata lokānnu sṛjā' (ai. 1.1) iti 'sa imāṃllokānasṛjatāmbho marīcīrmaramāpaḥ' (ai. 1.2) ityādi /
tatra saṃśayaḥ - kiṃ para evātmaśabdenābhilapyata utānyaḥ kaściditi /
kiṃ tāvatprāptaṃ na paramātmehātmaśabdābhilapyo bhavitumarhatīti /
kasmāt /
vākyānvayadarśanāt /
nanu vākyānvayaḥ sutarāṃ paramātmaviṣayo dṛśyate prāgutpatterātmaikatvāvadhāraṇāt /
īkṣaṇapūrvakasraṣṭṛvacanācca /
netyucyate /
lokasṛṣṭivacanāt /
paramātmani hi sraṣṭari parigṛhyamāṇe mahābhūtasṛṣṭirādau vaktavyā lokasṛṣṭistvihādāvucyate /
lokāśca mahābhūtasaṃniveśāviśeṣāḥ /
tathācāmbhaḥprabhṛtīṃllokatvenaiva nirbravīti - 'ado 'mbhaḥ pareṇa divam' (ai. 1.2) ityādinā /
lokasṛṣṭiśca parameśvarādhiṣṭhitenāpareṇa kenacidīśvareṇa āsītpuruṣavidhaḥ' (bṛ. 1.4.1) ityādyā /
smṛtirapi 'sa vai śarīrī prathamaḥsa vai puruṣaḥ ucyate /
ādikartā sa bhūtānāṃ brahmāgre samavartata' iti /
aitareyiṇo 'pi athāto retasaḥ prajāpate reto devāḥ ityatra pūrvasminprakaraṇe prajāpatikartṛkāṃ vicitrāṃ sṛṣṭimāmananti /
ātmaśabdo 'pi tasminprayujyamāno dṛśyate - ātmaivedamagra āsītpuruṣavidhiḥ' (bṛ. 1.4.1) ityatra /
ekatvāvadhāraṇamapi prāgutpatteḥ svavikārāpekṣamupapadyate /
īkṣaṇamapi tasya cetanatvābhyupagamādupapannam /
apica tābhyo gāmānayattābhyo 'śvamānayattābhyoḥ puruṣamānayattā abruvannityevañjātīyako bhūyānvyāpāraviśeṣo laukikeṣu viśeṣavatsvātmasu prasiddha ihānugamyate /
tasmādviśeṣāvāneva kaścidihātmā syāditi /
evaṃ prāpte brūmaḥ - 'para evātmehātmaśabdena gṛhyata itaravat /
yathetareṣu sṛṣṭiśravaṇeṣu tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1.1) ityevamādiṣu parasyātmano grahaṇam /
yathā cetarasmiṃllaukikātmaśabdaprayoge pratyagātmaiva mukhya ātmaśabdena gṛhyate tathehāpi bhavitumarhati yatra tu 'ātmaivedamagra āsīt' (bṛ. 1.4.1) ityevamādau 'puruṣavidhaḥ' (bṛ. 1.4.1) ityevamādi viśeṣaṇāntaraṃ śrūyate bhavettatra viśeṣata ātmano grahaṇam /
atra punaḥ paramātmagrahaṇānuguṇameva viśeṣaṇamapyuttaramupalabhyate 'sa īkṣata lokānnu sṛjā iti' (ai. 1.1) 'sa imāṃllokānasṛjata' (ai. 1.2) ityevamādi /
tasmāttasyaiva grahaṇamiti nyāyyam // 16 //
----------------------
FN: ambhaḥ svargaḥ , marīcayo 'ntarikṣalokaḥ , maro martyalokaḥ , āpaḥ pātālalokaḥ //
puruṣavidho narākāraḥ /
ātmā hiraṇyagarbhaḥ /
retaḥ retaḥkāryam /
Sanskrit only: no published translation is held for this verse.
अन्वयाद् इति चेत् स्याद् अवधारणात्
वाक्यान्वयदर्शनान्न परमात्मग्रहणमिति पुनर्यदुक्तं तत्परिहर्तव्यमिति ।
अत्रोच्यते ।
स्यादवधारमादिति ।
भवेदुपपन्नं परमात्मनो ग्रहणम् ।
कस्मात् ।
अवधारणात् ।
परमात्मग्रहणे हि प्रागित्पत्तेरात्मैकत्वावधारणमाञ्जमसवकल्पते ।
अन्यथा ह्यनाञ्जसं तत्परिकल्पेत ।
लोकसृष्टिवचनं तु श्रुत्यन्तरप्रसिद्धमहाभूतसृष्ट्यनन्तरमिति योजयिष्यामि ।
यथा तत्तेजो ऽसृजत (छा। ६।२।३) इत्येतच्छ्रुत्यन्तरप्रसिद्धवियद्वायुसृष्ट्यनन्तरमित्ययूयुजमेवमिहापि ।
श्रुत्यन्तरप्रसिद्धो हि समानविषयो विशेषः श्रुत्यन्तरेषूपसंहर्तव्यो भवति ।
यो ऽप्ययं व्यापारविशेषानुगमस्ताभ्यो गामानयदित्येवमादिः सो ऽपि विवक्षितार्थावधारणानुगुण्येनैव ग्रहीतव्यः ।
नह्ययं सकलः कथाप्रबन्धो विवक्षत इति शक्यते वक्तुम, तत्प्रतिपत्तौ पुरुषार्थाभावात् ।
ब्रह्मात्मत्वं त्विह विवक्षितम् ।
तथाह्यमभःप्रभृतीनां लोकानां लोकपालानां चाग्न्यादीनां सृष्टिं शिष्टावा करणानि करणायतनं च शरीरमुपदिश्य स एव स्रष्टा ऽकथं न्विदं मदृते स्यात्ऽ (ऐ। ३।११ इति वीक्ष्येदं शरीरं प्रविवेशेति दर्शयति - ऽस एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यतऽ (ऐ। ३।१२) इति ।
पुनश्च ऽयदि वाचाभिव्याहृतं यदि प्राणेनाभिप्राणितम्ऽ (ऐ। ३।१२) इत्येवमादिना करणव्यापारविवेचनपूर्वकम् ऽअथ को ऽहम्ऽ (ऐ। ३।११) इति वीक्ष्य ऽस एतमेव पुरुषं ब्रह्म ततममपश्यत्ऽ (ऐ। ३।१३) इति ब्रह्मात्मत्वदर्शनमवधारयति ।
तथोपरिष्टात् एष ब्रह्मैष इन्द्रः (ऐ। ५।३) इत्यादिना समस्तभेदजातं सह महाभूतैरमुक्रम्य ऽसर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्मऽ (ऐत। ५।३) इति ब्रह्मात्मत्वदर्शनमेवावधारयति ।
तस्मादिहात्मगृहीतिरित्यनपवादम् ।
अपरा योजना - आत्मगृहीतिरितरवदुत्तरात् ।
वाजसनेयके ऽकतम आत्मेति यो ऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषःऽ (बृ। ४।३।७) इत्यात्मशब्देनोपक्रम्य तस्यैव सर्वसङ्गविनिर्मुक्तत्वप्रतिपादनेन ब्रहामात्मतामवधारयति ।
तथाह्युपसंहरति - ऽस वा एष महानज आत्माजरो ऽमरो ऽमृतो ऽभयो ब्रह्मऽ (बृ। ४।४।२५) इति ।
छान्दोग्ये तु ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ (छा। ६।२।१) इत्यन्तरेणैवात्मशब्दमुपक्रम्योदर्के ऽस आत्मा तत्त्वमसिऽ (छा। ६।८।७) इति तादात्म्यमुपदिशति ।
तत्र संशयः - तुल्यार्थत्वं किमनयोराम्नानयोः स्यादतुल्यार्थत्वं वेति ।
अतुल्यार्थत्वमिति तावत्प्राप्तमतुल्यत्वादाम्नानयोः ।
नह्याम्नानवैषम्ये सत्यर्थसाम्यं युक्तं प्रतिपत्तुमाम्नानतन्त्रत्वादर्थपरिग्रहस्य ।
वाजसनेयके चात्मशब्दोपक्रमादात्मतत्त्वोपदेश इति गम्यते ।
छान्दोग्ये तूपक्रमविपर्ययादुपदेशविपर्ययः ।
ननु छन्दोगानामप्यस्त्युदर्के तादात्म्योपदेश इत्युक्तम् ।
सत्यमुक्तम् ।
उपक्रमतन्त्रत्वादुपसंहारस्य तादात्म्यसंपत्तिः सेति मन्यते ।
तथा प्राप्ते ऽभिधीयते - ऽआत्मगृहीतिः सदेव सोम्येदमग्रासीत्ऽ (छा। ६।२।१) इत्यत्र छन्दोगानामपि भवितुमर्हतीतरवत् ।
यथा ऽकतम आत्माऽ (बृ। ४।३।७) इत्यत्र वाजनेयिनामात्मगृहीतस्तथैव ।
कस्मात् ।
उत्तरात्तादात्म्योपदेशात् ।
अन्वयादिते चेत्स्यादवधारणात् ।
यदुक्तमुपक्रमान्वयादुपक्रमे चात्मशब्दश्रवणाभावान्नात्मगृहीतिरिति तस्य कः परिहार इति चेत्सो ऽभिधीयते स्यादवधारणादिति ।
भवेदुपपन्नेहात्मगृहीतिः ।
अवधारणात् ।
तथाहि - ऽयेनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्ऽ ((छा। ६।१।१) इत्येकविज्ञानेन सर्वविज्ञानमवधार्य तत्संपिपादयिषया ऽसदेव-ऽ इत्याह ।
तच्चात्मगृहीतौ सत्यां संपद्यते ।
अन्यथा हि यो ऽयं मिख्य आत्मा स न विज्ञात इति नैव सर्वविज्ञानं संपद्येत ।
तथा प्रागुत्पत्तेरेकत्वावधारणं जीवस्य चात्मशब्देन परामर्शः स्वापावस्थायां च तत्स्वभावसंपत्तिकथनं परिचोदनापूर्वकं च पुनः पुनः ऽतत्त्वमसिऽ (छा। ६।८।७) इत्यवधारणमिति च सर्वमेतत्तादात्म्यप्रतिपादनायामेवावकल्पते न तादात्म्यसंपादनायाम् ।
नचाज्ञोपक्रमतन्त्रत्वोपन्यासो न्याय्यः ।
नह्युपक्रम आत्मत्वसंकीर्तनमनात्मत्वसंकीर्तनं वास्ति ।
सामान्योपक्रमश्च न वाक्यशेषगतेन विशेषेण विरुध्यते विशेषाकाङ्क्षित्वात्सामान्यस्य ।
सच्छब्दार्थो ऽपि च पर्यालोच्यमानो न मुख्यादात्मनो ऽन्यः संभवत्यतो ऽन्यस्य वस्तुजातस्यारम्भणशब्दादिभ्यो ऽनृतत्वोपपत्तेः ।
आम्नानवैषम्यमपि नावश्यमर्थवैषम्यमावहति ।
आहर पात्रं पात्रमाहरेत्येवमादिष्वर्थसाम्ये ऽपि तद्दर्शनात् ।
तस्मादेवञ्जातीयकेषु वाक्येषु प्रतिपादनप्रकारभेदे ऽपि प्रतिपाद्यार्थाभेद इति सिद्धम् ॥ १७ ॥
----------------------
फ़्न्: ततमं व्याप्ततमम् ।
तकारलोपश्छान्दसः ।
उदर्क उपसंहारः ।
९ कार्याख्यानाधिकरणम् । सू। १८
anvayād iti cet syād avadhāraṇāt
vākyānvayadarśanānna paramātmagrahaṇamiti punaryaduktaṃ tatparihartavyamiti /
atrocyate /
syādavadhāramāditi /
bhavedupapannaṃ paramātmano grahaṇam /
kasmāt /
avadhāraṇāt /
paramātmagrahaṇe hi prāgitpatterātmaikatvāvadhāraṇamāñjamasavakalpate /
anyathā hyanāñjasaṃ tatparikalpeta /
lokasṛṣṭivacanaṃ tu śrutyantaraprasiddhamahābhūtasṛṣṭyanantaramiti yojayiṣyāmi /
yathā tattejo 'sṛjata (chā. 6.2.3) ityetacchrutyantaraprasiddhaviyadvāyusṛṣṭyanantaramityayūyujamevamihāpi /
śrutyantaraprasiddho hi samānaviṣayo viśeṣaḥ śrutyantareṣūpasaṃhartavyo bhavati /
yo 'pyayaṃ vyāpāraviśeṣānugamastābhyo gāmānayadityevamādiḥ so 'pi vivakṣitārthāvadhāraṇānuguṇyenaiva grahītavyaḥ /
nahyayaṃ sakalaḥ kathāprabandho vivakṣata iti śakyate vaktuma, tatpratipattau puruṣārthābhāvāt /
brahmātmatvaṃ tviha vivakṣitam /
tathāhyamabhaḥprabhṛtīnāṃ lokānāṃ lokapālānāṃ cāgnyādīnāṃ sṛṣṭiṃ śiṣṭāvā karaṇāni karaṇāyatanaṃ ca śarīramupadiśya sa eva sraṣṭā 'kathaṃ nvidaṃ madṛte syāt' (ai. 3.11 iti vīkṣyedaṃ śarīraṃ praviveśeti darśayati - 'sa etameva sīmānaṃ vidāryaitayā dvārā prāpadyata' (ai. 3.12) iti /
punaśca 'yadi vācābhivyāhṛtaṃ yadi prāṇenābhiprāṇitam' (ai. 3.12) ityevamādinā karaṇavyāpāravivecanapūrvakam 'atha ko 'ham' (ai. 3.11) iti vīkṣya 'sa etameva puruṣaṃ brahma tatamamapaśyat' (ai. 3.13) iti brahmātmatvadarśanamavadhārayati /
tathopariṣṭāt eṣa brahmaiṣa indraḥ (ai. 5.3) ityādinā samastabhedajātaṃ saha mahābhūtairamukramya 'sarvaṃ tatprajñānetraṃ prajñāne pratiṣṭhitaṃ prajñānetro lokaḥ prajñā pratiṣṭhā prajñānaṃ brahma' (aita. 5.3) iti brahmātmatvadarśanamevāvadhārayati /
tasmādihātmagṛhītirityanapavādam /
aparā yojanā - ātmagṛhītiritaravaduttarāt /
vājasaneyake 'katama ātmeti yo 'yaṃ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ' (bṛ. 4.3.7) ityātmaśabdenopakramya tasyaiva sarvasaṅgavinirmuktatvapratipādanena brahāmātmatāmavadhārayati /
tathāhyupasaṃharati - 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma' (bṛ. 4.4.25) iti /
chāndogye tu 'sadeva somyedamagra āsīdekamevādvitīyam' (chā. 6.2.1) ityantareṇaivātmaśabdamupakramyodarke 'sa ātmā tattvamasi' (chā. 6.8.7) iti tādātmyamupadiśati /
tatra saṃśayaḥ - tulyārthatvaṃ kimanayorāmnānayoḥ syādatulyārthatvaṃ veti /
atulyārthatvamiti tāvatprāptamatulyatvādāmnānayoḥ /
nahyāmnānavaiṣamye satyarthasāmyaṃ yuktaṃ pratipattumāmnānatantratvādarthaparigrahasya /
vājasaneyake cātmaśabdopakramādātmatattvopadeśa iti gamyate /
chāndogye tūpakramaviparyayādupadeśaviparyayaḥ /
nanu chandogānāmapyastyudarke tādātmyopadeśa ityuktam /
satyamuktam /
upakramatantratvādupasaṃhārasya tādātmyasaṃpattiḥ seti manyate /
tathā prāpte 'bhidhīyate - 'ātmagṛhītiḥ sadeva somyedamagrāsīt' (chā. 6.2.1) ityatra chandogānāmapi bhavitumarhatītaravat /
yathā 'katama ātmā' (bṛ. 4.3.7) ityatra vājaneyināmātmagṛhītastathaiva /
kasmāt /
uttarāttādātmyopadeśāt /
anvayādite cetsyādavadhāraṇāt /
yaduktamupakramānvayādupakrame cātmaśabdaśravaṇābhāvānnātmagṛhītiriti tasya kaḥ parihāra iti cetso 'bhidhīyate syādavadhāraṇāditi /
bhavedupapannehātmagṛhītiḥ /
avadhāraṇāt /
tathāhi - 'yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātam' ((chā. 6.1.1) ityekavijñānena sarvavijñānamavadhārya tatsaṃpipādayiṣayā 'sadeva-' ityāha /
taccātmagṛhītau satyāṃ saṃpadyate /
anyathā hi yo 'yaṃ mikhya ātmā sa na vijñāta iti naiva sarvavijñānaṃ saṃpadyeta /
tathā prāgutpatterekatvāvadhāraṇaṃ jīvasya cātmaśabdena parāmarśaḥ svāpāvasthāyāṃ ca tatsvabhāvasaṃpattikathanaṃ paricodanāpūrvakaṃ ca punaḥ punaḥ 'tattvamasi' (chā. 6.8.7) ityavadhāraṇamiti ca sarvametattādātmyapratipādanāyāmevāvakalpate na tādātmyasaṃpādanāyām /
nacājñopakramatantratvopanyāso nyāyyaḥ /
nahyupakrama ātmatvasaṃkīrtanamanātmatvasaṃkīrtanaṃ vāsti /
sāmānyopakramaśca na vākyaśeṣagatena viśeṣeṇa virudhyate viśeṣākāṅkṣitvātsāmānyasya /
sacchabdārtho 'pi ca paryālocyamāno na mukhyādātmano 'nyaḥ saṃbhavatyato 'nyasya vastujātasyārambhaṇaśabdādibhyo 'nṛtatvopapatteḥ /
āmnānavaiṣamyamapi nāvaśyamarthavaiṣamyamāvahati /
āhara pātraṃ pātramāharetyevamādiṣvarthasāmye 'pi taddarśanāt /
tasmādevañjātīyakeṣu vākyeṣu pratipādanaprakārabhede 'pi pratipādyārthābheda iti siddham // 17 //
----------------------
FN: tatamaṃ vyāptatamam /
takāralopaśchāndasaḥ /
udarka upasaṃhāraḥ /
9 kāryākhyānādhikaraṇam / sū. 18
Sanskrit only: no published translation is held for this verse.
कार्याख्यानादपूर्वम्
छन्दोगा वाजसनेयिनश्च प्राणसंवादे श्वादिसंवादे श्वादिमर्यादं प्राणस्यान्नमाम्नान्य तस्यैवापो वास आमनन्ति ।
अनन्तरं च छन्दोगा आमनन्ति -ऽतस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोष्टाच्चाद्भिः परिदधातिऽ (छा। ५।२।२) इति ।
वाजसनेयिनस्त्वामनन्ति - ऽतद्विद्वांसः श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वाचामन्त्येतमेव तदनमनग्नं कुर्वन्तो मन्यन्तेऽ (बृ। ६।१।१४) ऽतस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेदेतमेव तदनमनग्नं कुरुतेऽ इति ।
तत्र त्वाचमनमनग्नताचिन्तनं त प्राणस्य प्रतीयते त्किमुभयमपि विधीयत उताचमनमेवोतानग्नताचिन्तनमेवेति विचार्यते ।
किं तावत्प्राप्तम् ।
उभयमपि चैतदपूर्वत्वाद्विध्यर्हम् ।
अथवाचमनमेव विदीयते ।
विस्पष्टा हि तस्मिन्विधिविभक्तिस्तस्मादेवंविदश्ष्यन्नाचामेदशित्वा चाचामेदिति ।
तस्यैव स्तुत्यर्थमनग्नतासंकीर्तनमिति ।
एवं प्राप्ते ब्रूमः - नाचमनस्य विधेयत्वमुपपद्यते कार्याख्यानात् ।
प्राप्तमेव हीदं कार्यत्वेनाचमनं प्रायत्यार्थं स्मृतिप्रसिद्धमन्वाख्यायते ।
नन्वियं श्रुतिस्तस्याः स्मृतेर्मूलं स्यात् ।
नेत्युच्यते ।
विषयनानात्वात् ।
सामान्यविषया हि स्मृतिः पुरुषमात्रसंबद्धं प्रायत्यार्थमाचमनं प्रापयति ।
श्रुतिस्तु प्राणविद्याप्रकरणपठिता तद्वषयमेवाचमनं विदधती विदध्यात् ।
नच भिन्नविषययोः श्रुतिस्मृत्योर्मूलमूलिभावो ऽवकल्पते ।
नचेयं श्रुतिः प्राणविद्यासंयोग्यपूर्वमाचमनं विधास्यतीति शक्यमाश्रयितुम् ।
पूर्वस्यैव पुरुषमात्रसंयोगिन आचमनस्येह प्रत्यभिज्ञायमानत्वात् ।
अत एव च नोभयविधानम् ।
उभयविधाने च वाक्यं भिद्येत ।
तस्मात्प्राप्तमेवाशिसिषतामशितवतां चोभयत आचमनमनूद्य ऽएतमेव तदनमनग्नं कुर्वन्तो मन्यन्तेऽ (बृ। ६।१।१४) इति प्राणस्यानग्नताकरणसंकल्पो ऽनेन वाक्येनाचमनीयास्वप्सु प्राणविद्यासंबन्धित्वेनापूर्व उपदिश्यते ।
नचायमनग्नतावाद आचमनस्तुत्यर्थ इति न्याय्यम् ।
आचमनस्याविधेयत्वात् ।
स्वयं चानग्नतासंकल्पस्य विधेयत्वप्रतीतेः ।
नचैवं सत्येकस्याचमनस्योभयार्थताभ्युपगता भवति प्रायत्यार्थता परिधानार्था छेति ।
क्रियान्तरत्वाभ्युपगमात् क्रियान्तरमेव ह्याचमनं नाम प्रायत्यार्थं पुरुषस्याभ्युपगम्यते, तदीयासु त्वप्सु वासःसंकल्पनं नाम क्रियान्तरमेव परिधानार्थं प्राणस्याभ्युपगम्यत इत्यनवद्यम् ।
अपिच ऽयदिदं किञ्चाश्वस्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्ते ऽन्नम् (बृ। ६।१।१४) इत्यत्र सर्वान्नाभ्यवहारश्चोद्यत इति शक्यं वक्तुम् ।
अशब्दत्वादशक्यत्वाच्च ।
सर्वं तु प्राणस्यान्नमितीयमन्नदृष्टिश्चोद्यते तत्साहचर्याच्चापो वास इत्यत्रापि नापामाचमनं चोद्यते प्रसिद्धास्वेवत्वाचमनीयास्वप्सु परिधानदृष्चिश्चोद्यत इति युक्तम् ।
नह्यर्धवैशसं संभवति ।
अपिचाचामन्तीति वर्तमानापदेशित्वम् शब्दो विधिक्षमः ।
ननु मन्यन्त इत्यपि समानं वर्तमानापदेशित्वम् ।
सत्यमेवमेतत् ।
अवश्यविधेये त्वन्यतरस्मिन्वासःकार्याख्यानादपां वासःसंकल्पनमेवापूर्वं विधीयते नाचमनं पूर्ववद्धि तदित्युपपादितम् ।
यदप्युक्तं विस्पष्टा चाचमने विधिविभक्तिरिति तदपि पूर्ववत्त्वेनैवाचमनस्य प्रत्युक्तम् ।
अत एवाचमनस्याविधित्सितत्वादेतमेव तदनमनग्नं कुर्वन्तो मन्यन्त इत्यत्रैव काण्वाः पर्यवस्यन्ति नामनन्ति तस्मादेवंविदित्यादि ।
तस्मान्माध्यन्दिनानामपि पाठ आचमनानुवादेनैवंवित्त्वमेव प्रकृतप्राणवासोवित्त्वं विधीयत इति प्रतिपत्तव्यम् ।
यो ऽप्ययमभ्युपगमः क्वचिदाचमनं विधीयते क्वचिद्वासोविज्ञानमिति सो ऽपि न साधुः ।
आपो वास इत्यादिकाया वाक्यप्रवृत्तेः सर्वत्रैकरूप्यात् तस्माद्वासोविज्ञानमेवेह विधीयते नाचमनमिति न्याय्यम् ॥ १८ ॥
१० समानाधिकरणम् । सू। १९
kāryākhyānādapūrvam
chandogā vājasaneyinaśca prāṇasaṃvāde śvādisaṃvāde śvādimaryādaṃ prāṇasyānnamāmnānya tasyaivāpo vāsa āmananti /
anantaraṃ ca chandogā āmananti -'tasmādvā etadaśiṣyantaḥ purastāccoṣṭāccādbhiḥ paridadhāti' (chā. 5.2.2) iti /
vājasaneyinastvāmananti - 'tadvidvāṃsaḥ śrotriyā aśiṣyanta ācāmantyaśitvācāmantyetameva tadanamanagnaṃ kurvanto manyante' (bṛ. 6.1.14) 'tasmādevaṃvidaśiṣyannācāmedaśitvā cācāmedetameva tadanamanagnaṃ kurute' iti /
tatra tvācamanamanagnatācintanaṃ ta prāṇasya pratīyate tkimubhayamapi vidhīyata utācamanamevotānagnatācintanameveti vicāryate /
kiṃ tāvatprāptam /
ubhayamapi caitadapūrvatvādvidhyarham /
athavācamanameva vidīyate /
vispaṣṭā hi tasminvidhivibhaktistasmādevaṃvidaśṣyannācāmedaśitvā cācāmediti /
tasyaiva stutyarthamanagnatāsaṃkīrtanamiti /
evaṃ prāpte brūmaḥ - nācamanasya vidheyatvamupapadyate kāryākhyānāt /
prāptameva hīdaṃ kāryatvenācamanaṃ prāyatyārthaṃ smṛtiprasiddhamanvākhyāyate /
nanviyaṃ śrutistasyāḥ smṛtermūlaṃ syāt /
netyucyate /
viṣayanānātvāt /
sāmānyaviṣayā hi smṛtiḥ puruṣamātrasaṃbaddhaṃ prāyatyārthamācamanaṃ prāpayati /
śrutistu prāṇavidyāprakaraṇapaṭhitā tadvaṣayamevācamanaṃ vidadhatī vidadhyāt /
naca bhinnaviṣayayoḥ śrutismṛtyormūlamūlibhāvo 'vakalpate /
naceyaṃ śrutiḥ prāṇavidyāsaṃyogyapūrvamācamanaṃ vidhāsyatīti śakyamāśrayitum /
pūrvasyaiva puruṣamātrasaṃyogina ācamanasyeha pratyabhijñāyamānatvāt /
ata eva ca nobhayavidhānam /
ubhayavidhāne ca vākyaṃ bhidyeta /
tasmātprāptamevāśisiṣatāmaśitavatāṃ cobhayata ācamanamanūdya 'etameva tadanamanagnaṃ kurvanto manyante' (bṛ. 6.1.14) iti prāṇasyānagnatākaraṇasaṃkalpo 'nena vākyenācamanīyāsvapsu prāṇavidyāsaṃbandhitvenāpūrva upadiśyate /
nacāyamanagnatāvāda ācamanastutyartha iti nyāyyam /
ācamanasyāvidheyatvāt /
svayaṃ cānagnatāsaṃkalpasya vidheyatvapratīteḥ /
nacaivaṃ satyekasyācamanasyobhayārthatābhyupagatā bhavati prāyatyārthatā paridhānārthā cheti /
kriyāntaratvābhyupagamāt kriyāntarameva hyācamanaṃ nāma prāyatyārthaṃ puruṣasyābhyupagamyate, tadīyāsu tvapsu vāsaḥsaṃkalpanaṃ nāma kriyāntarameva paridhānārthaṃ prāṇasyābhyupagamyata ityanavadyam /
apica 'yadidaṃ kiñcāśvasya ā kṛmibhya ā kīṭapataṅgebhyastatte 'nnam (bṛ. 6.1.14) ityatra sarvānnābhyavahāraścodyata iti śakyaṃ vaktum /
aśabdatvādaśakyatvācca /
sarvaṃ tu prāṇasyānnamitīyamannadṛṣṭiścodyate tatsāhacaryāccāpo vāsa ityatrāpi nāpāmācamanaṃ codyate prasiddhāsvevatvācamanīyāsvapsu paridhānadṛṣciścodyata iti yuktam /
nahyardhavaiśasaṃ saṃbhavati /
apicācāmantīti vartamānāpadeśitvam śabdo vidhikṣamaḥ /
nanu manyanta ityapi samānaṃ vartamānāpadeśitvam /
satyamevametat /
avaśyavidheye tvanyatarasminvāsaḥkāryākhyānādapāṃ vāsaḥsaṃkalpanamevāpūrvaṃ vidhīyate nācamanaṃ pūrvavaddhi tadityupapāditam /
yadapyuktaṃ vispaṣṭā cācamane vidhivibhaktiriti tadapi pūrvavattvenaivācamanasya pratyuktam /
ata evācamanasyāvidhitsitatvādetameva tadanamanagnaṃ kurvanto manyanta ityatraiva kāṇvāḥ paryavasyanti nāmananti tasmādevaṃvidityādi /
tasmānmādhyandinānāmapi pāṭha ācamanānuvādenaivaṃvittvameva prakṛtaprāṇavāsovittvaṃ vidhīyata iti pratipattavyam /
yo 'pyayamabhyupagamaḥ kvacidācamanaṃ vidhīyate kvacidvāsovijñānamiti so 'pi na sādhuḥ /
āpo vāsa ityādikāyā vākyapravṛtteḥ sarvatraikarūpyāt tasmādvāsovijñānameveha vidhīyate nācamanamiti nyāyyam // 18 //
10 samānādhikaraṇam / sū. 19
Sanskrit only: no published translation is held for this verse.
समान एवं चाभेदात्
वाजसनेयिशाखायमगिनिरहस्ये शाण्डुल्यनामाङ् किता विद्या विज्ञाता ।
तत्र च गुणाः श्रूयन्ते - स आत्मानमुपासीत मनमयं प्राणशरीरं भारूपम् इत्येवमादयः। तस्यामेव शास्त्रायां बृहदारण्यके पुनः पठ्यते - ऽमनोमयो ऽयं पुरुषो भाः सत्यस्मिन्नन्तर्हदये यदा व्रीहिर्वा यवो वा स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्चऽ (बृ। ५।६।१) इति ।
तत्र संशयः - किमियमेका विद्याग्निरहस्यबृहदारण्यकयोर्गुणोपसंहारश्चोत द्वे इमे विद्ये गुणानुपसंहारश्चेति ।
किं तावत्प्राप्तम् ।
विद्याभेदो गुणव्यवस्था चेति ।
कुतः - पौनरुक्त्यप्रसङ्गात् ।
भिन्नासु हि शाखास्वध्येतृभेदात्पौनरुक्तस्यपरिहारमालोच्य विद्यैकत्वमध्यवसायैकत्रातिरिक्ता गुणा इतरत्रोपसंह्रियन्ते प्राणसंवादादिष्वत्युक्तम् ।
एकस्यां पुनः शाखायामध्येतृवेदितृभेदाभावादशक्यपरिहारे पौनरुक्त्ये न विप्रकृष्टदेशस्थैका विद्या भवितुमर्हति ।
नचात्रैकमाम्नानं विद्याविधानार्थमपरं गुणविधानार्थमिति विभागः संभवति ।
तदा ह्यतिरिक्ता एव गुणा इतरत्रेतरत्र चाम्नायेरन्न समाना अपि तूभयत्राम्नायन्ते मनोमयत्वदयः ।
तस्मान्नान्योन्यं गुणोपसंहार इति ।
एवं प्राप्ते ब्रूमहे - यथा भिन्नासु शाखासु विद्यैकत्वं गुणोपसंहारश्च भवत्येवमेकस्यामपि शाखायां भवितुमर्हति ।
उपास्याभेदात् तदेव हि ब्रह्म मनोमयत्वादिगुणकमुभयत्राप्युपास्यमभिन्नं प्रत्यभिजानीमः ।
उपास्यं च रूपं विद्यायाः ।
नच विद्यमाने रूपाभेदे विद्याभेदमध्यवसातुं शक्नुमः ।
नापि विद्याभेदे गुणव्यवस्थानम् ।
ननु पौनरुक्त्यप्रसङ्गद्विद्याभेदो ऽध्यवसितः ।
नेत्युच्यते ।
अर्थविभागोपपत्तेः ।
एकं ह्याम्नानं विद्याविद्याविधानार्थमपरं गुणविधानार्थमिति न किञ्चिन्नोपपद्यते ।
नन्वेवं सति यदुपठिमग्निरहस्ये तदेव बृहदारण्यके पठितव्यम् स एष सर्वस्येशानः इत्यादि ।
यत्तु पठितमेव मनोमय इत्यादि चेन्न पठितव्यम् ।
नैष दोषः ।
तद्बलेनैव प्रदेशान्तरपठितविद्याप्रत्यभिज्ञानात् ।
मसानगुणाम्नानेन हि विप्रकृष्टदेशां शाण्डिल्यविद्यां प्रत्यभिज्ञाप्य तस्यामीशानत्वाद्युपदिश्यते ।
अन्यथा हि कथं तस्यामयं गुणविधिरभिधीयते ।
अपिचाप्राप्तांशोपदेशेनार्थवति वाक्ये संजाते प्राप्तांशपरामर्शस्य नित्यानुवादतयाप्युपपद्यमानत्वान्न तद्बलेन प्रत्यभिज्ञोपोदितुं शक्यते ।
तस्मादत्र समानायामपि शाखायां विद्यैकत्वं गुणोपसंहारश्चेत्युपपन्नम् ॥ १९ ॥
११ संबन्धाधिकरणम् । सू। २०-२१
samāna evaṃ cābhedāt
vājasaneyiśākhāyamaginirahasye śāṇḍulyanāmāṅ kitā vidyā vijñātā /
tatra ca guṇāḥ śrūyante - sa ātmānamupāsīta manamayaṃ prāṇaśarīraṃ bhārūpam ityevamādayaḥ. tasyāmeva śāstrāyāṃ bṛhadāraṇyake punaḥ paṭhyate - 'manomayo 'yaṃ puruṣo bhāḥ satyasminnantarhadaye yadā vrīhirvā yavo vā sa eṣa sarvasyeśānaḥ sarvasyādhipatiḥ sarvamidaṃ praśāsti yadidaṃ kiñca' (bṛ. 5.6.1) iti /
tatra saṃśayaḥ - kimiyamekā vidyāgnirahasyabṛhadāraṇyakayorguṇopasaṃhāraścota dve ime vidye guṇānupasaṃhāraśceti /
kiṃ tāvatprāptam /
vidyābhedo guṇavyavasthā ceti /
kutaḥ - paunaruktyaprasaṅgāt /
bhinnāsu hi śākhāsvadhyetṛbhedātpaunaruktasyaparihāramālocya vidyaikatvamadhyavasāyaikatrātiriktā guṇā itaratropasaṃhriyante prāṇasaṃvādādiṣvatyuktam /
ekasyāṃ punaḥ śākhāyāmadhyetṛveditṛbhedābhāvādaśakyaparihāre paunaruktye na viprakṛṣṭadeśasthaikā vidyā bhavitumarhati /
nacātraikamāmnānaṃ vidyāvidhānārthamaparaṃ guṇavidhānārthamiti vibhāgaḥ saṃbhavati /
tadā hyatiriktā eva guṇā itaratretaratra cāmnāyeranna samānā api tūbhayatrāmnāyante manomayatvadayaḥ /
tasmānnānyonyaṃ guṇopasaṃhāra iti /
evaṃ prāpte brūmahe - yathā bhinnāsu śākhāsu vidyaikatvaṃ guṇopasaṃhāraśca bhavatyevamekasyāmapi śākhāyāṃ bhavitumarhati /
upāsyābhedāt tadeva hi brahma manomayatvādiguṇakamubhayatrāpyupāsyamabhinnaṃ pratyabhijānīmaḥ /
upāsyaṃ ca rūpaṃ vidyāyāḥ /
naca vidyamāne rūpābhede vidyābhedamadhyavasātuṃ śaknumaḥ /
nāpi vidyābhede guṇavyavasthānam /
nanu paunaruktyaprasaṅgadvidyābhedo 'dhyavasitaḥ /
netyucyate /
arthavibhāgopapatteḥ /
ekaṃ hyāmnānaṃ vidyāvidyāvidhānārthamaparaṃ guṇavidhānārthamiti na kiñcinnopapadyate /
nanvevaṃ sati yadupaṭhimagnirahasye tadeva bṛhadāraṇyake paṭhitavyam sa eṣa sarvasyeśānaḥ ityādi /
yattu paṭhitameva manomaya ityādi cenna paṭhitavyam /
naiṣa doṣaḥ /
tadbalenaiva pradeśāntarapaṭhitavidyāpratyabhijñānāt /
masānaguṇāmnānena hi viprakṛṣṭadeśāṃ śāṇḍilyavidyāṃ pratyabhijñāpya tasyāmīśānatvādyupadiśyate /
anyathā hi kathaṃ tasyāmayaṃ guṇavidhirabhidhīyate /
apicāprāptāṃśopadeśenārthavati vākye saṃjāte prāptāṃśaparāmarśasya nityānuvādatayāpyupapadyamānatvānna tadbalena pratyabhijñopodituṃ śakyate /
tasmādatra samānāyāmapi śākhāyāṃ vidyaikatvaṃ guṇopasaṃhāraścetyupapannam // 19 //
11 saṃbandhādhikaraṇam / sū. 20-21
Sanskrit only: no published translation is held for this verse.
संबन्धादेवमन्यत्रापि
बृहदारण्यके ऽसत्यं ब्रह्मऽ (बृ। ५।५।१) इत्युक्रम्य ऽतद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणे ऽक्षन्पुरुषःऽ (बृ। ५५।२) इति तस्यैव सत्यस्य ब्रह्मणो ऽधिदैवतमध्यात्मं चायतनविशेषमुपदिश्य व्याहृतिशरीरत्वं च संपाद्य द्वे उपनिषदावुपदिश्येते ।
तस्योपनिषहरित्यधिदैवतम् ।
तस्योपनिषदहमित्यध्यात्मम् ।
तत्र संशयः - किमविभागेनैवोभे अप्युपनिषदावुभयत्रानुसंगातव्ये उत विभागेनैकाधिदैवमेकाध्यात्ममिति ।
तत्र सूत्रेणैवोपक्रमते ।
यथा शाण्डिल्यविद्यायां विभागेनाप्यधीतायां गुणोपसंहार उक्त एवमन्यत्राप्येवञ्जातीयके विषये भवितुमर्हति ।
एकविद्याभिसंबन्धात् ।
एका हीयं सत्यविद्याधिदैवमध्यात्मं चाधीता ।
उपक्रमाभेदाद्व्यतिषक्तपाठाच्च ।
कथं तस्यामुदितो धर्मस्तस्यामेव न स्यात् ।
योह्याचार्यो कश्चिदनुगमनादिराचारश्चोदितः स ग्रामगते ।
रण्यगते च तुल्यवदेव भवति ।
तस्मादुभयोरप्युपनिषदोरुभयत्र प्राप्तिरिति ॥ २० ॥
एवं प्राप्ते प्रतिविधत्ते -
saṃbandhādevamanyatrāpi
bṛhadāraṇyake 'satyaṃ brahma' (bṛ. 5.5.1) ityukramya 'tadyattatsatyamasau sa ādityo ya eṣa etasminmaṇḍale puruṣo yaścāyaṃ dakṣiṇe 'kṣanpuruṣaḥ' (bṛ. 55.2) iti tasyaiva satyasya brahmaṇo 'dhidaivatamadhyātmaṃ cāyatanaviśeṣamupadiśya vyāhṛtiśarīratvaṃ ca saṃpādya dve upaniṣadāvupadiśyete /
tasyopaniṣaharityadhidaivatam /
tasyopaniṣadahamityadhyātmam /
tatra saṃśayaḥ - kimavibhāgenaivobhe apyupaniṣadāvubhayatrānusaṃgātavye uta vibhāgenaikādhidaivamekādhyātmamiti /
tatra sūtreṇaivopakramate /
yathā śāṇḍilyavidyāyāṃ vibhāgenāpyadhītāyāṃ guṇopasaṃhāra ukta evamanyatrāpyevañjātīyake viṣaye bhavitumarhati /
ekavidyābhisaṃbandhāt /
ekā hīyaṃ satyavidyādhidaivamadhyātmaṃ cādhītā /
upakramābhedādvyatiṣaktapāṭhācca /
kathaṃ tasyāmudito dharmastasyāmeva na syāt /
yohyācāryo kaścidanugamanādirācāraścoditaḥ sa grāmagate /
raṇyagate ca tulyavadeva bhavati /
tasmādubhayorapyupaniṣadorubhayatra prāptiriti // 20 //
evaṃ prāpte pratividhatte -
Sanskrit only: no published translation is held for this verse.
न वा विशेषात्
न वोभयोरुभयत्र प्राप्तिः ।
कस्मात् ।
विशेषात् ।
उपासनस अतानविशेषोपनिबन्धादित्यर्थः ।
कथं स्थानविशेषोपनिबन्ध इत्युच्यते - ऽय एष एतस्मिन्मण्डले पुरुषःऽ (बृ। ५।५।३) इति ह्याधिदैवकं पुरुषं प्रकृत्य तस्योपनिषदहरिति श्रावयति ।
ऽयो ऽयं दक्षिणे ऽक्षन्पुरुषःऽ (५।५।४) इति ह्यध्यात्मिकं पुरुषं प्रकृत्य तस्योपनिषदमिति ।
तस्येति चैतत्संनिहितावलम्बनं सर्वनाम, तस्मादायतनविशेषव्यपाश्रयेणैवैते उपनिषदावुपदिश्येते ।
कुत उभयोरुभयत्र प्राप्तिः ।
नन्वेक एवायमधिदैवतमध्यात्मं च पुरुष एकस्यैव सत्यस्य ब्रह्मण आयतनद्वयप्रतिपादनात् ।
सत्यमेवेतत् ।
एकस्यापि त्ववस्थाविशेषोपादानेनैवोपनिषद्विशेषोपदेशात्तदवस्थास्यैव सा भवितुमर्हति ।
अस्ति चायं दृष्टान्तः सत्यप्याचार्यस्वरूपापानपाये यदाचार्यस्यासीनस्यनुवर्तनमुक्तं न तत्तिष्ठतो भवति ।
यच्च तिष्ठत उक्तं न तदासीनस्येति ।
ग्रामारण्ययोस्त्वाचार्यस्वरूपानापायात्तत्स्वरूपानुबुद्धस्य च धर्मस्य ग्रामारण्यकृतविशेषाभावादुभयत्र तुल्यवद्भाव इत्यदृष्टान्तः सः ।
तस्माद्व्यवस्थानयोरुपनिषदोः ॥ २१ ॥
na vā viśeṣāt
na vobhayorubhayatra prāptiḥ /
kasmāt /
viśeṣāt /
upāsanasa atānaviśeṣopanibandhādityarthaḥ /
kathaṃ sthānaviśeṣopanibandha ityucyate - 'ya eṣa etasminmaṇḍale puruṣaḥ' (bṛ. 5.5.3) iti hyādhidaivakaṃ puruṣaṃ prakṛtya tasyopaniṣadahariti śrāvayati /
'yo 'yaṃ dakṣiṇe 'kṣanpuruṣaḥ' (5.5.4) iti hyadhyātmikaṃ puruṣaṃ prakṛtya tasyopaniṣadamiti /
tasyeti caitatsaṃnihitāvalambanaṃ sarvanāma, tasmādāyatanaviśeṣavyapāśrayeṇaivaite upaniṣadāvupadiśyete /
kuta ubhayorubhayatra prāptiḥ /
nanveka evāyamadhidaivatamadhyātmaṃ ca puruṣa ekasyaiva satyasya brahmaṇa āyatanadvayapratipādanāt /
satyamevetat /
ekasyāpi tvavasthāviśeṣopādānenaivopaniṣadviśeṣopadeśāttadavasthāsyaiva sā bhavitumarhati /
asti cāyaṃ dṛṣṭāntaḥ satyapyācāryasvarūpāpānapāye yadācāryasyāsīnasyanuvartanamuktaṃ na tattiṣṭhato bhavati /
yacca tiṣṭhata uktaṃ na tadāsīnasyeti /
grāmāraṇyayostvācāryasvarūpānāpāyāttatsvarūpānubuddhasya ca dharmasya grāmāraṇyakṛtaviśeṣābhāvādubhayatra tulyavadbhāva ityadṛṣṭāntaḥ saḥ /
tasmādvyavasthānayorupaniṣadoḥ // 21 //
Sanskrit only: no published translation is held for this verse.
दर्शयति च
अपि चैवञ्जातीयकानां धर्माणां व्यवस्थेति लिङ्गदर्शनं भवति - ऽतस्यैतस्य तदेव रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नामऽ (छा। १।७।५) इति ।
कथमस्यलिङ्गत्वमिति तदुच्यते ।
अक्ष्यादिनित्यस्थानभेदभिन्नान्धर्णानन्योन्यस्मिन्ननुपसंहार्यान्पश्यन्निहातिदेशेनादित्यपुरुषगतान्रूपादीनक्षिपुरुष उपसंहरति - ऽतस्यैतस्य तदेव रूपम्ऽ (छा। १।७।५) इत्यादिना ।
तस्माद्व्यवस्थिते एवैते उपनिषदाविति निर्णयः ॥ २२ ॥
darśayati ca
api caivañjātīyakānāṃ dharmāṇāṃ vyavastheti liṅgadarśanaṃ bhavati - 'tasyaitasya tadeva rūpaṃ yāvamuṣya geṣṇau tau geṣṇau yannāma tannāma' (chā. 1.7.5) iti /
kathamasyaliṅgatvamiti taducyate /
akṣyādinityasthānabhedabhinnāndharṇānanyonyasminnanupasaṃhāryānpaśyannihātideśenādityapuruṣagatānrūpādīnakṣipuruṣa upasaṃharati - 'tasyaitasya tadeva rūpam' (chā. 1.7.5) ityādinā /
tasmādvyavasthite evaite upaniṣadāviti nirṇayaḥ // 22 //
Sanskrit only: no published translation is held for this verse.
संभृतिद्युव्याप्त्यपि चातः
ब्रह्मज्येष्ठा विर्या संभृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान इत्येवं राणायनीयानां खिलेषु वीर्यसंभृतिद्युनिवेशप्रभृतयो ब्रह्मणो विभूतयः पठ्यन्ते ।
तेषामेव चोपनिषदि शाण्डिल्यविद्याप्रभृतयो ब्रह्मविद्याः पठ्यन्ते ।
तासु ब्रह्मविद्यासु ता ब्रह्मविभूतय उपसंह्रियेरन्न वेति विचारणायां ब्रह्मसंबन्धादुपसंहारप्राप्तावेवं पठति ।
संभृतिद्युव्याप्तिप्रभृतयो विभूतयः शाण्डिल्यविद्याप्रभृतिषु नोपसंहर्तव्याः ।
अत एव चायतनविशेषयोगात् ।
तथाहि शाण्डिल्यविद्यायां हृदयायतनत्वं ब्रह्मण उक्तम् - ऽएष म आत्मान्तर्हृदयेऽ (छा। ३।१४।३) इति ।
तद्वदेव दहरविद्यायामपि ऽदहरं पुण्डरीके वेश्म दहरो ऽस्मिन्नन्तराकाशःऽ (छा। ८।१।१) इति ।
उपकोसलविद्यायां त्वक्ष्यायतनत्वम् ऽय एषो ऽक्षणि पुरुषो दृश्यतेऽ (छा। ४।१५।१) इति ।
एवं तत्र तत्रत् तदाध्यात्मिकमायतनमेतासु विद्यासु प्रतीयते ।
आधिदैविक्यस्त्वेता विभूतयः संभृतिद्युव्याप्तिप्रभृतयस्तासां कुत एतासु प्राप्तिः ।
नन्वेतास्वप्याधिदैविक्यो विभूतयः श्रूयन्ते - ऽज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यःऽ (छा। ३।१४।३) ऽएष उ एव भामनीरेष हि सर्वेषु लोकेषु भातिऽ (छा। ४।१५।४) ऽयावान्वा अयमाकाशस्तावानेषो ऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहितेऽ (छा। ८।१।३) इत्येवमाद्याः ।
सन्ति चान्या आयतनविशेषहीना अपीह ब्रह्मविद्याः षोडशकलाद्याः ।
सत्यमेतत् ।
तथाप्यत्र विद्यते विशेषः संभृत्याद्यनुपसंहारहेतुः ।
समानगुणाम्नानेन हि प्रत्युपस्थापितासु विप्रकृष्टदेशास्वपि विद्यासु विप्रकृष्टदेशा गुणा उपसंह्रियेरन्निति युक्तम् ।
संभृत्यादयस्तु शाण्डिल्यादिवाक्यगोचराश्च मनोमयत्वादयो गुणाः परस्परव्यावृत्तस्वरूपत्वान्न प्रदेशान्तरवर्तिविद्याप्रत्युपस्थापनमित्युच्यते विद्याभेदे ऽपि तदुपपत्तेः ।
एकमपि हि ब्रह्म विबूतिभेदैरनेकधोपास्यत इति स्थितिः ।
परोवरीयस्तवादिवद्भेददर्शनात् ।
तस्माद्वीर्यसंभृत्यादीनां शाण्डिल्यविद्यादिष्वनुपसंहार इति ॥ २३ ॥
----------------------
फ़्न्: ब्रह्मज्येष्ठा ब्रह्मज्येष्ठानि निलोपश्छान्दसः ।
वीर्या वीर्याणि पराक्रमभेदाः ।
saṃbhṛtidyuvyāptyapi cātaḥ
brahmajyeṣṭhā viryā saṃbhṛtāni brahmāgre jyeṣṭhaṃ divamātatāna ityevaṃ rāṇāyanīyānāṃ khileṣu vīryasaṃbhṛtidyuniveśaprabhṛtayo brahmaṇo vibhūtayaḥ paṭhyante /
teṣāmeva copaniṣadi śāṇḍilyavidyāprabhṛtayo brahmavidyāḥ paṭhyante /
tāsu brahmavidyāsu tā brahmavibhūtaya upasaṃhriyeranna veti vicāraṇāyāṃ brahmasaṃbandhādupasaṃhāraprāptāvevaṃ paṭhati /
saṃbhṛtidyuvyāptiprabhṛtayo vibhūtayaḥ śāṇḍilyavidyāprabhṛtiṣu nopasaṃhartavyāḥ /
ata eva cāyatanaviśeṣayogāt /
tathāhi śāṇḍilyavidyāyāṃ hṛdayāyatanatvaṃ brahmaṇa uktam - 'eṣa ma ātmāntarhṛdaye' (chā. 3.14.3) iti /
tadvadeva daharavidyāyāmapi 'daharaṃ puṇḍarīke veśma daharo 'sminnantarākāśaḥ' (chā. 8.1.1) iti /
upakosalavidyāyāṃ tvakṣyāyatanatvam 'ya eṣo 'kṣaṇi puruṣo dṛśyate' (chā. 4.15.1) iti /
evaṃ tatra tatrat tadādhyātmikamāyatanametāsu vidyāsu pratīyate /
ādhidaivikyastvetā vibhūtayaḥ saṃbhṛtidyuvyāptiprabhṛtayastāsāṃ kuta etāsu prāptiḥ /
nanvetāsvapyādhidaivikyo vibhūtayaḥ śrūyante - 'jyāyāndivo jyāyānebhyo lokebhyaḥ' (chā. 3.14.3) 'eṣa u eva bhāmanīreṣa hi sarveṣu lokeṣu bhāti' (chā. 4.15.4) 'yāvānvā ayamākāśastāvāneṣo 'ntarhṛdaya ākāśa ubhe asmindyāvāpṛthivī antareva samāhite' (chā. 8.1.3) ityevamādyāḥ /
santi cānyā āyatanaviśeṣahīnā apīha brahmavidyāḥ ṣoḍaśakalādyāḥ /
satyametat /
tathāpyatra vidyate viśeṣaḥ saṃbhṛtyādyanupasaṃhārahetuḥ /
samānaguṇāmnānena hi pratyupasthāpitāsu viprakṛṣṭadeśāsvapi vidyāsu viprakṛṣṭadeśā guṇā upasaṃhriyeranniti yuktam /
saṃbhṛtyādayastu śāṇḍilyādivākyagocarāśca manomayatvādayo guṇāḥ parasparavyāvṛttasvarūpatvānna pradeśāntaravartividyāpratyupasthāpanamityucyate vidyābhede 'pi tadupapatteḥ /
ekamapi hi brahma vibūtibhedairanekadhopāsyata iti sthitiḥ /
parovarīyastavādivadbhedadarśanāt /
tasmādvīryasaṃbhṛtyādīnāṃ śāṇḍilyavidyādiṣvanupasaṃhāra iti // 23 //
----------------------
FN: brahmajyeṣṭhā brahmajyeṣṭhāni nilopaśchāndasaḥ /
vīryā vīryāṇi parākramabhedāḥ /
Sanskrit only: no published translation is held for this verse.
पुरुषविद्यायामिव चेतरेषाम् अनाम्नानात्
अस्ति ताण्डिनां पैङ्गिनां च रहस्यब्राह्मणे पुरुषविद्या ।
तत्र पुरुषो यज्ञः कल्पितः ।
तदीयमायुस्त्रेधा विभज्य सवनत्रयं कल्पितम् ।
अशिशिषादीनि च दीक्षादिभावेन कल्पितानि ।
अन्ये च धर्मस्तत्र समधिगता आशीर्मन्त्रप्रयोगादयः ।
तैत्तिरीयका अपि कञ्चित्पुरुषयज्ञं कल्पयनव्ति - ऽतस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नीऽ (नारा। ८०) इत्येतेनानुवाकेन ।
तत्र संशयः - किं य इतरत्रोक्ताः पुरुषयज्ञस्य धर्मास्ते तैत्तिरीयकेषूपसंहर्तव्याः किंवा नोपसंहर्तव्या इति ।
पुरुषयज्ञत्व्विशेषादुपसंहारप्राप्तावाचक्ष्महे - नोपसंहर्तव्या इति ।
कस्मात् ।
तद्रूपप्रत्यभिज्ञानाभावात् ।
तदाहाचार्यः - पुरुषविद्यायामिवेति ।
यथैकेषां शाखिनां ताण्डिनां पैङ्गिनां च पुरुषविद्यायामाम्नानं नैवमितरेषां तैत्तिरीयाणामाम्नानमस्ति ।
तेषां हूतरविलक्षणमेव यज्ञसंपादनं दृश्यते पत्नीयजमानवेदवेदिबर्हिर्यूपाज्यश्वृत्विगाद्यनुक्रमणात् ।
यदपि सवनसंपादनं तदपीतरविलक्षणमेव ऽयत्प्रातर्मध्यन्दिनंसायं च तानिऽ (नारा। ८०) इति ।
यदपि किञ्चिन्मरणावभृथत्वादिसाम्यं तदप्यल्पीयस्तवाद्भूयसा वैलक्षण्येनाभिभूयमानं न प्रत्यभिज्ञापनक्षमम् ।
नच तैत्तिरीयके पुरुषस्य यज्ञत्वं श्रूयते ।
विदुषो यज्ञस्येति हि नचैते समानाधिकरणे षष्ठ्यौ विद्वानेव योयज्ञस्तस्येति ।
नहि पुरुषस्य मुख्यं यज्ञत्वमस्ति ।
व्यधिकरणे त्वेते षष्ठ्यौ विदुषो यो यज्ञस्तस्येति ।
भवति हि पुरुषस्य मुख्यो यज्ञसंबन्धः ।
सत्यां च गतौ मुख्य एवार्थ आश्रयितव्यो न भाक्तः ।
आत्मा यजमान इति च यजमानत्वं पुरुषस्य निर्ब्रुवन्वैयधिकरण्येनैवास्य यज्ञसंबन्धं दर्शयति ।
अपिच तस्यैवंविदुषैति सिद्धवदनुवादश्रुतौ सत्यां पुरुषस्य यज्ञभावमात्मादीनां च यजमानादिभावं प्रतिपित्समानस्य वाक्यभेदः स्यात् ।
अपिच संसन्यासामात्मविद्यां पुरस्तादुपदिश्यानन्तरं तस्यैवंविदुष इत्याद्यनुक्रमणं फस्यन्तः पूर्वशेष एवैष आम्नायो न स्वतन्त्र इति प्रतीमः ।
तथाचैकमेव फलमुभयोरप्यनुवाकयोरुपलबामहे ऽब्रह्मणो महिमानमाप्नोतिऽ (नारा। ८०) इति ।
इतरेषां त्वनन्यशेषः पुरुषविद्याम्नायः ।
आयुरभिवृद्धिफलो ह्यसौ ऽस ह --षोडशं वर्षशतं जीवति य एवं वेदऽ (छा। ३।१६।७) इति समभिव्याहारात् ।
तस्माच्छाखान्तराधीतानां पुरुषविद्याधर्माणामाशीर्मन्त्रादीनामप्राप्तिस्तैत्तिरीयके ॥ २४ ॥
puruṣavidyāyāmiva cetareṣām anāmnānāt
asti tāṇḍināṃ paiṅgināṃ ca rahasyabrāhmaṇe puruṣavidyā /
tatra puruṣo yajñaḥ kalpitaḥ /
tadīyamāyustredhā vibhajya savanatrayaṃ kalpitam /
aśiśiṣādīni ca dīkṣādibhāvena kalpitāni /
anye ca dharmastatra samadhigatā āśīrmantraprayogādayaḥ /
taittirīyakā api kañcitpuruṣayajñaṃ kalpayanavti - 'tasyaivaṃ viduṣo yajñasyātmā yajamānaḥ śraddhā patnī' (nārā. 80) ityetenānuvākena /
tatra saṃśayaḥ - kiṃ ya itaratroktāḥ puruṣayajñasya dharmāste taittirīyakeṣūpasaṃhartavyāḥ kiṃvā nopasaṃhartavyā iti /
puruṣayajñatvviśeṣādupasaṃhāraprāptāvācakṣmahe - nopasaṃhartavyā iti /
kasmāt /
tadrūpapratyabhijñānābhāvāt /
tadāhācāryaḥ - puruṣavidyāyāmiveti /
yathaikeṣāṃ śākhināṃ tāṇḍināṃ paiṅgināṃ ca puruṣavidyāyāmāmnānaṃ naivamitareṣāṃ taittirīyāṇāmāmnānamasti /
teṣāṃ hūtaravilakṣaṇameva yajñasaṃpādanaṃ dṛśyate patnīyajamānavedavedibarhiryūpājyaśvṛtvigādyanukramaṇāt /
yadapi savanasaṃpādanaṃ tadapītaravilakṣaṇameva 'yatprātarmadhyandinaṃsāyaṃ ca tāni' (nārā. 80) iti /
yadapi kiñcinmaraṇāvabhṛthatvādisāmyaṃ tadapyalpīyastavādbhūyasā vailakṣaṇyenābhibhūyamānaṃ na pratyabhijñāpanakṣamam /
naca taittirīyake puruṣasya yajñatvaṃ śrūyate /
viduṣo yajñasyeti hi nacaite samānādhikaraṇe ṣaṣṭhyau vidvāneva yoyajñastasyeti /
nahi puruṣasya mukhyaṃ yajñatvamasti /
vyadhikaraṇe tvete ṣaṣṭhyau viduṣo yo yajñastasyeti /
bhavati hi puruṣasya mukhyo yajñasaṃbandhaḥ /
satyāṃ ca gatau mukhya evārtha āśrayitavyo na bhāktaḥ /
ātmā yajamāna iti ca yajamānatvaṃ puruṣasya nirbruvanvaiyadhikaraṇyenaivāsya yajñasaṃbandhaṃ darśayati /
apica tasyaivaṃviduṣaiti siddhavadanuvādaśrutau satyāṃ puruṣasya yajñabhāvamātmādīnāṃ ca yajamānādibhāvaṃ pratipitsamānasya vākyabhedaḥ syāt /
apica saṃsanyāsāmātmavidyāṃ purastādupadiśyānantaraṃ tasyaivaṃviduṣa ityādyanukramaṇaṃ phasyantaḥ pūrvaśeṣa evaiṣa āmnāyo na svatantra iti pratīmaḥ /
tathācaikameva phalamubhayorapyanuvākayorupalabāmahe 'brahmaṇo mahimānamāpnoti' (nārā. 80) iti /
itareṣāṃ tvananyaśeṣaḥ puruṣavidyāmnāyaḥ /
āyurabhivṛddhiphalo hyasau 'sa ha --ṣoḍaśaṃ varṣaśataṃ jīvati ya evaṃ veda' (chā. 3.16.7) iti samabhivyāhārāt /
tasmācchākhāntarādhītānāṃ puruṣavidyādharmāṇāmāśīrmantrādīnāmaprāptistaittirīyake // 24 //
Sanskrit only: no published translation is held for this verse.
वेधाद्यर्थभेदात्
अस्त्याथर्वणिकानामुपनिषदारम्भे मन्त्रसमाम्नायः - ऽसर्वं प्रविध्य हृदयं प्रविध्य धमनीः प्रवृज्य शिरो ऽभिप्रवृज्यत्रिधा विपृक्तःऽ इत्यादिः ।
ताण्डिनाम् - ऽदेव सवितः प्रसुव यज्ञम्ऽ इत्यादिः ।
शाठ्यायनिनाम् - ऽश्वेताश्वो हरितनीलो ऽसिऽ इत्यादिः ।
कठानां तैत्तिरीयाणां - ऽशं नो मित्रः शं वरुणःऽ (तै। १।१।१) इत्यादिः ।
वाजसनेयिनां तूपनिषदारम्भे प्रवर्ग्यब्राह्मणं पठ्यते - ऽदेवा ह वै निषेदुःऽ इत्यादि ।
कौषीतकिनामप्यग्निष्टोमब्राह्मणम् - ऽब्रह्म वा अग्निष्टोमो ब्रह्मैव तदहर्ब्रह्मणैव ते ब्रह्मोपयन्ति ते ऽमृतत्वमाप्नुवन्ति य एतदहरुपयन्तिऽ इति ।
किमिमे सर्वे प्रविध्यमादयो मन्त्राः प्रवर्ग्यादीनि च कर्माणि विद्यासूपसंह्रियेरन्किंवा नोपसंह्रियेरन्निति मीमांसामहे ।
किं तावन्नः प्रतिभाति उपसंहार एवैषां विद्यास्विति ।
कुतः ।
विद्याप्रधानानामुपनिषद्ग्रन्थानां समीपे पाठात् ।
नन्वेषां विद्यार्थतया विधानं नोपलबामहे ।
बाढम् ।
अनुपलभमाना अपि त्वनुमास्यामहे संनिधिसामार्थ्यात् ।
नहि संनिधेरर्थवत्त्वे संभवत्यकस्मादसावनाश्रयितुं युक्तः ।
ननु नैषां मन्त्राणां विद्याविषयं किञ्चित्सामर्थ्यं पश्यामः ।
कथं च प्रवर्ग्यादीनि कर्माण्यन्यार्थत्वेनैव विनियुक्तानि सन्ति विद्यार्थत्वेनापि प्रतिपद्येमहीति ।
नैष दोषः ।
सामर्थ्यं तावन्मन्त्राणां विद्याविषयमपि किञ्चिच्छक्यं कल्पयितुं हृदयादिसंकीर्तनात् ।
हृदयादीनि हि प्रयेणोपासनेष्वायतनादिभावेनोपदिष्टानि तद्द्वारेण च हृदयं प्रविध्येत्येवञ्जातीयकानां मन्त्राणामुपपन्नमुपासनाङ्गत्वम् ।
दृष्टश्चोपासनेष्वपि मन्त्रविनियोगः ऽभूः प्रपद्ये ऽमुनामुनामुनाऽ (छा। ३।१५।३) इत्येवमादिः ।
तथा प्रवर्ग्यादीनां कर्मणामन्यत्रापि विनियुक्तानां सतामविरुद्धो विद्यासु विनियोगो वाजपेय इव बृहस्पतिसवस्येति ।
एवं प्राप्ते ब्रूमः -
नैषामुपसंहारो विद्यास्विति ।
कस्मात् ।
वेधार्थभेदात् ।
हृदयं प्रविध्येत्येवञ्जातीयकानां हि मन्त्राणां येर्ऽथा हृदयवेधादयो भिन्ना अनभिसंबद्धास्त उपनिषदुदिताभिर्विद्याभिः ।
न तेषां ताभिः संगन्तुं सामर्थ्यमस्ति ।
ननु हृदयस्योपासनेष्वप्युपयोगात्तद्द्वारक उपासनसंबन्ध उपन्यस्तः ।
नेत्युच्यते ।
हृदयमात्रसंकीर्तनस्य ह्येवमुपयोगः कथञ्चिदुत्प्रेक्ष्येत नच हृदयमात्रमत्र मन्त्रार्थः ।
हृदयं प्रविध्य धमनीः प्रवृज्येत्येवञ्जातीयको हि न सकलो मन्त्रार्थे विद्याभिरभिसंबध्यते ।
आभिचारिकविषयो ह्येषोर्ऽथस्तस्मादाभिचारिकेण कर्मणा सर्वं प्रविध्येत्येतस्य मन्त्रस्याभिसंबन्धः ।
तद्विशेषसंबन्धस्तु प्रमाणान्तरादनुसर्तव्यः ।
एवमन्येषामपि मन्त्राणां केषाचिल्लिङ्गेन केषाञ्चिद्वचनेन केषाञ्चित्प्रमाणान्तरेणात्येवमर्थान्तरेषु विनियुक्तानां रहस्यपठितानामपि सतां न संनिधिमात्रेण विद्याशेषत्वोपपत्तिः ।
दुर्बलो हि संनिधिः श्रुत्यादिभ्य इत्युक्तं प्रथमे तन्त्रे ऽश्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्ऽ (जै। सू। ३।३।१३) इत्यत्र ।
तथाकर्मणामपि प्रवर्ग्यादीनामन्यत्र विनियुक्तानां न विद्याशेषत्वोपपत्तिः ।
नह्येषां विद्याभिः सहैकार्थ्यं किञ्चिदस्ति ।
वाजपेये तु बृहस्पतिसवस्य स्पष्टं विनियोगान्तरम् - ऽवाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतऽ इति ।
अपि चैको ऽयं प्रवर्ग्यः सकृदुत्पन्नो बलीयसा प्रमाणेनान्यत्र विनियुक्तो न दुर्बलेन प्रमाणेनान्यत्रापि विनियोगमर्हति ।
अगृह्यमाणविशेषत्वे हि प्रमाणयोरेतदेवं स्यान्नतु बलवदबलवतोः प्रमाणयोरगृह्यमाणविशेषता संभवति बलवदबलवत्त्वविशेषादेव ।
तस्मादेवञ्जातीयकानां मन्त्राणां कर्मणां वा न संनिधिपाठमात्रेण विद्याशेषत्वमाशङ्कितव्यम् ।
अरण्यानुवचनादिधर्मसामान्यात्तु संनिधिपाठ इति संतोष्टव्यम् ॥ २५ ॥
vedhādyarthabhedāt
astyātharvaṇikānāmupaniṣadārambhe mantrasamāmnāyaḥ - 'sarvaṃ pravidhya hṛdayaṃ pravidhya dhamanīḥ pravṛjya śiro 'bhipravṛjyatridhā vipṛktaḥ' ityādiḥ /
tāṇḍinām - 'deva savitaḥ prasuva yajñam' ityādiḥ /
śāṭhyāyaninām - 'śvetāśvo haritanīlo 'si' ityādiḥ /
kaṭhānāṃ taittirīyāṇāṃ - 'śaṃ no mitraḥ śaṃ varuṇaḥ' (tai. 1.1.1) ityādiḥ /
vājasaneyināṃ tūpaniṣadārambhe pravargyabrāhmaṇaṃ paṭhyate - 'devā ha vai niṣeduḥ' ityādi /
kauṣītakināmapyagniṣṭomabrāhmaṇam - 'brahma vā agniṣṭomo brahmaiva tadaharbrahmaṇaiva te brahmopayanti te 'mṛtatvamāpnuvanti ya etadaharupayanti' iti /
kimime sarve pravidhyamādayo mantrāḥ pravargyādīni ca karmāṇi vidyāsūpasaṃhriyerankiṃvā nopasaṃhriyeranniti mīmāṃsāmahe /
kiṃ tāvannaḥ pratibhāti upasaṃhāra evaiṣāṃ vidyāsviti /
kutaḥ /
vidyāpradhānānāmupaniṣadgranthānāṃ samīpe pāṭhāt /
nanveṣāṃ vidyārthatayā vidhānaṃ nopalabāmahe /
bāḍham /
anupalabhamānā api tvanumāsyāmahe saṃnidhisāmārthyāt /
nahi saṃnidherarthavattve saṃbhavatyakasmādasāvanāśrayituṃ yuktaḥ /
nanu naiṣāṃ mantrāṇāṃ vidyāviṣayaṃ kiñcitsāmarthyaṃ paśyāmaḥ /
kathaṃ ca pravargyādīni karmāṇyanyārthatvenaiva viniyuktāni santi vidyārthatvenāpi pratipadyemahīti /
naiṣa doṣaḥ /
sāmarthyaṃ tāvanmantrāṇāṃ vidyāviṣayamapi kiñcicchakyaṃ kalpayituṃ hṛdayādisaṃkīrtanāt /
hṛdayādīni hi prayeṇopāsaneṣvāyatanādibhāvenopadiṣṭāni taddvāreṇa ca hṛdayaṃ pravidhyetyevañjātīyakānāṃ mantrāṇāmupapannamupāsanāṅgatvam /
dṛṣṭaścopāsaneṣvapi mantraviniyogaḥ 'bhūḥ prapadye 'munāmunāmunā' (chā. 3.15.3) ityevamādiḥ /
tathā pravargyādīnāṃ karmaṇāmanyatrāpi viniyuktānāṃ satāmaviruddho vidyāsu viniyogo vājapeya iva bṛhaspatisavasyeti /
evaṃ prāpte brūmaḥ -
naiṣāmupasaṃhāro vidyāsviti /
kasmāt /
vedhārthabhedāt /
hṛdayaṃ pravidhyetyevañjātīyakānāṃ hi mantrāṇāṃ yer'thā hṛdayavedhādayo bhinnā anabhisaṃbaddhāsta upaniṣaduditābhirvidyābhiḥ /
na teṣāṃ tābhiḥ saṃgantuṃ sāmarthyamasti /
nanu hṛdayasyopāsaneṣvapyupayogāttaddvāraka upāsanasaṃbandha upanyastaḥ /
netyucyate /
hṛdayamātrasaṃkīrtanasya hyevamupayogaḥ kathañcidutprekṣyeta naca hṛdayamātramatra mantrārthaḥ /
hṛdayaṃ pravidhya dhamanīḥ pravṛjyetyevañjātīyako hi na sakalo mantrārthe vidyābhirabhisaṃbadhyate /
ābhicārikaviṣayo hyeṣor'thastasmādābhicārikeṇa karmaṇā sarvaṃ pravidhyetyetasya mantrasyābhisaṃbandhaḥ /
tadviśeṣasaṃbandhastu pramāṇāntarādanusartavyaḥ /
evamanyeṣāmapi mantrāṇāṃ keṣācilliṅgena keṣāñcidvacanena keṣāñcitpramāṇāntareṇātyevamarthāntareṣu viniyuktānāṃ rahasyapaṭhitānāmapi satāṃ na saṃnidhimātreṇa vidyāśeṣatvopapattiḥ /
durbalo hi saṃnidhiḥ śrutyādibhya ityuktaṃ prathame tantre 'śrutiliṅgavākyaprakaraṇasthānasamākhyānāṃ samavāye pāradaurbalyamarthaviprakarṣāt' (jai. sū. 3.3.13) ityatra /
tathākarmaṇāmapi pravargyādīnāmanyatra viniyuktānāṃ na vidyāśeṣatvopapattiḥ /
nahyeṣāṃ vidyābhiḥ sahaikārthyaṃ kiñcidasti /
vājapeye tu bṛhaspatisavasya spaṣṭaṃ viniyogāntaram - 'vājapeyeneṣṭvā bṛhaspatisavena yajeta' iti /
api caiko 'yaṃ pravargyaḥ sakṛdutpanno balīyasā pramāṇenānyatra viniyukto na durbalena pramāṇenānyatrāpi viniyogamarhati /
agṛhyamāṇaviśeṣatve hi pramāṇayoretadevaṃ syānnatu balavadabalavatoḥ pramāṇayoragṛhyamāṇaviśeṣatā saṃbhavati balavadabalavattvaviśeṣādeva /
tasmādevañjātīyakānāṃ mantrāṇāṃ karmaṇāṃ vā na saṃnidhipāṭhamātreṇa vidyāśeṣatvamāśaṅkitavyam /
araṇyānuvacanādidharmasāmānyāttu saṃnidhipāṭha iti saṃtoṣṭavyam // 25 //
Sanskrit only: no published translation is held for this verse.
हानौ तूपायनशब्दशेषत्वात् कुशाच् छन्दःस्तुत्युपगानवत् तद् उक्तम्
अस्ति ताण्डानां श्रुतिः - ऽअश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामिऽ (छा। ८।१३।१) इति ।
तथाथर्णिकानाम ऽतथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्ऽ (मुण्ड। ३।२।८) इति ।
तथा शाट्यायनिनः पठन्ति ऽतस्य पुत्रा दायमुपयन्ति सिहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्ऽ इति ।
तथैव कौषीतकिनः ऽतत्सुकृतदुष्कृते विधूनुते तस्य प्रिया ज्ञातयः सुकृतमुपन्त्यप्रिया दुष्कृतम्ऽ (कौ। १।४) इति ।
तदिह क्वचित्सुकृतदुष्कृतयोर्हानं श्रूयते क्वचित्तयोरेव विभागेन प्रियैरप्रियैश्चोपायनं क्वचित्तूभयमपि हानमुपायनं च तद्यत्रोभयं श्रूयते तत्र तावन्न किञ्चिद्वक्तव्यमस्ति ।
यत्राप्युपायनमेव श्रूयते न हानं तत्राप्यर्थादेव हानं संनिपतति ।
अन्यैरात्मीययोः सुकृतदुष्कृतयोरुपेयमानयोरावश्यकत्वात्तद्धानस्य ।
यत्र तु हानमेव श्रूयते नोपायनं तत्रोपायनं सनिपतेद्वा न वेति विचिकित्सायामश्रवणादसंनिपातः ।
विद्यान्तरगोचरत्वाच्च शाखान्तरीयस्य श्रवणस्य ।
अपिचात्मकर्तृकं सुकृतदुष्कृतयोर्हानं परकर्तृकं तूपायनं तयोरसत्यावश्यकभावे कथं हानेनोपायमाक्षिप्येत ।
तस्मादसंनिपातो हानावुपायनस्येति ।
अस्यां प्राप्तौ पठति - हानौ त्विति ।
हानौ त्वेतस्यां केवलायामपि श्रूयमाणायामुपायनं संनिपतितुमरपहति ।
तच्छेषत्वात् ।
हानशब्दशेषो ह्युपायनशब्दः समधिगतः कौषीतकिरहस्ये ।
तस्मादन्यत्र केवलहानशब्दश्रवणे ऽप्युपायनानुवृत्तिः ।
यदुक्तमश्रवणाद्विद्यन्तरगोचरत्वादनावश्यकत्वाच्चासंनिपात इति,
तदुच्यते ।
भवेदेषा व्यवस्थोक्तिर्यद्यनुष्ठेयत्वेन संकीर्त्यते ।
विद्यास्तुत्यर्थं त्वनयोः संकीर्तनम् ।
इत्थं महाभागा विद्या यत्सामर्थ्यादस्य विदुषः सुकृतदुष्कृते संसारकारणभूते विधूयते ते चास्य सुहृद्विषत्सु निविशेते इतै ।
स्तुत्यर्थे चास्मिन्संकीर्तने हानानन्तरभावित्वेनोपायस्य क्वचिच्छ्रुतत्वादन्यत्रापि हानश्रुतावुपायनानुवृत्तिं मन्यते स्तुतिप्रकर्षलाभाय ।
प्रसिद्धा चार्थवादान्तरापेक्षार्थवादान्तरप्पवृत्तिः - ऽएकविंशो वा इथो ऽसावादित्यःऽ (छा। २।१०।५) इत्येवमादिषु ।
कथं हीहैकविंशतादित्यस्याभिधीयतानपेक्ष्यमाणेर्ऽथवादान्तरे द्वादश मासाःपञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः इत्येतस्मिन् ।
तथा त्रिष्टुभौ भवतः सेन्द्रियत्वाय इत्येवमादिषु इन्द्रियं वै त्रिष्टुप् इत्येवमाद्यर्थवादान्तरापेक्षा दृश्यते ।
विद्यास्तुत्यर्थत्वाच्चास्योपायनवादस्य कथमन्यदीये सुकृतदुष्कृते अन्यैरुपेयेते इति नातीवाभिनिवेष्टव्यम् ।
उपायनशब्दशेषत्वादिति तु शब्दशब्दं समुच्चारयन्स्तुत्यर्थमेव हानावुपायनानुवृत्तिं सूचयति ।
गुणोपसंहारविवक्षायां ह्युपायनार्थस्यैव हानावृत्तिं ब्रूयात् ।
तस्माद्गुणोपसंहारविचारप्रसङ्गेन स्तुत्युपसंहारप्रदर्शनार्थमिदं सूत्रम् ।
कुशाच्छन्दस्तुत्युपगानवदित्युपमोपादानम् ।
तद्यथा भाल्लविनाम् - ऽकुशा वानस्पत्याः स्थ ता मा पातऽ इत्येतस्मिन्निगमे कुशानामविशेषेण वनस्पतियोनित्वेन श्रवणे शाट्यायनिनामौदुम्बराः कुशा इति विशेषवचनादौदुम्बर्यः कुशा आश्रीयन्ते ।
यथाच क्वचिद्देवासुरच्छन्दसामविशेषेण पौर्वापर्यप्रसङ्गे ऽदेवच्छन्दांसि पूर्वाणिऽ इति पैङ्ग्याम्नानात्प्रतीयन्ते ।
यथाच षोडशुस्तोत्रे केषाञ्चित्कालाविशेषप्राप्तौ ऽसमयाध्युषिते सूर्येऽ इत्यार्चश्रुतेः कालविशेषप्रतिपत्तिः ।
यथैव चाविशेषेणोपगानं केचित्समामनन्ति विशेषेण भाल्लविनः ।
यथैतेषु कुशादिषु श्रुत्यन्तरगतविशेषैरन्वय एवं हानावप्युपायनान्वय इत्यर्थः ।
श्रुत्यन्तरकृतं हि विशेषं श्रुत्यन्तरे ऽनभ्युपगच्छतः सर्वत्रैव विकल्पः स्यात् ।
स चान्याय्यः सत्यां गतौ ।
तदुक्तं द्वादशलक्षणायाम् - ऽअपि तु वाक्यशेषत्वादितरपर्युदासः स्यात्प्रतिषेधे विकल्पः स्यात्ऽ इति ।
अथवैतास्वेव विधूनवश्रुतिष्वेतेन सूत्रेणैतच्चिन्तयितव्यम् ।
किमनेन विधूननवचनेन सुकृतदुष्कृतयोर्हानमभिधीयते किंवार्ऽथान्तरमिति ।
तत्र चैवं प्रापयितव्यम् ।
न हानं विधूननमभिधीयते ऽधञ् कम्पनेऽ इति स्मरणात् ।
दोधूयन्ते ध्वजाग्राणीति च वायुना चाल्यमानेषु ध्वजाग्रेषु प्रयोगदर्शनात् ।
तस्माच्चालनं विधूननमभिधीयते ।
चालनं तु सुष्कृतदुष्कृतयोः कञ्चित्कालं फलप्रतिबन्धनादित्येवं प्रापय्य प्रतिवक्तव्यम् ।
हानावेवैष विधूयननशब्दो वर्तितुमर्हति ।
उपायनशब्दशेषत्वात् ।
नहि परपरिग्रहभूतयोः सुकृतदुष्कृतयोरप्रहीणयोः परैरुपायनं संभवति ।
यद्यपीदं परकीययोः सुकृतदुष्कृतयोः परैरुपायनं नाञ्जसं संभाव्यते तथापि तत्सर्न्तनात्तावत्तदानुगुण्येन हानमेव विधूननं नामेति निर्णेतुं शक्यते ।
क्वचिदपि चेदं विधूननसंनिधावुपायनं श्रूयमाणं कुशाछन्दस्तुत्युपगानवद्विधनूनश्रुत्या सर्वत्रापेक्षामाणं सार्वत्रिकं निर्णयकारणं संपद्यते ।
नच चालनं ध्वजाग्रवत्सुकृतदुष्कृतयोर्मुख्यं संभवति ।
अद्रव्यत्वात् ।
अश्वश्च रोमाणि विधून्वानस्त्यजन्रजः सहैव तेन रोमाण्यपि जीर्णानि शातयति ऽअश्व इव रोमाणि विधूय पापम्ऽ (छा। ८।१३।१) इति च ब्राह्मणम् ।
अनेकार्थत्वाभ्युपगमाच्च धातूनां न स्मरणविरोधः ।
तदुक्तमिति व्याख्यातम् ।
१६ सांपरायाधिकरणम् । सू। २७-२८
hānau tūpāyanaśabdaśeṣatvāt kuśāc chandaḥstutyupagānavat tad uktam
asti tāṇḍānāṃ śrutiḥ - 'aśva iva romāṇi vidhūya pāpaṃ candra iva rāhormukhātpramucya dhūtvā śarīramakṛtaṃ kṛtātmā brahmalokamabhisaṃbhavāmi' (chā. 8.13.1) iti /
tathātharṇikānāma 'tathā vidvānnāmarūpādvimuktaḥ parātparaṃ puruṣamupaiti divyam' (muṇḍa. 3.2.8) iti /
tathā śāṭyāyaninaḥ paṭhanti 'tasya putrā dāyamupayanti sihṛdaḥ sādhukṛtyāṃ dviṣantaḥ pāpakṛtyām' iti /
tathaiva kauṣītakinaḥ 'tatsukṛtaduṣkṛte vidhūnute tasya priyā jñātayaḥ sukṛtamupantyapriyā duṣkṛtam' (kau. 1.4) iti /
tadiha kvacitsukṛtaduṣkṛtayorhānaṃ śrūyate kvacittayoreva vibhāgena priyairapriyaiścopāyanaṃ kvacittūbhayamapi hānamupāyanaṃ ca tadyatrobhayaṃ śrūyate tatra tāvanna kiñcidvaktavyamasti /
yatrāpyupāyanameva śrūyate na hānaṃ tatrāpyarthādeva hānaṃ saṃnipatati /
anyairātmīyayoḥ sukṛtaduṣkṛtayorupeyamānayorāvaśyakatvāttaddhānasya /
yatra tu hānameva śrūyate nopāyanaṃ tatropāyanaṃ sanipatedvā na veti vicikitsāyāmaśravaṇādasaṃnipātaḥ /
vidyāntaragocaratvācca śākhāntarīyasya śravaṇasya /
apicātmakartṛkaṃ sukṛtaduṣkṛtayorhānaṃ parakartṛkaṃ tūpāyanaṃ tayorasatyāvaśyakabhāve kathaṃ hānenopāyamākṣipyeta /
tasmādasaṃnipāto hānāvupāyanasyeti /
asyāṃ prāptau paṭhati - hānau tviti /
hānau tvetasyāṃ kevalāyāmapi śrūyamāṇāyāmupāyanaṃ saṃnipatitumarapahati /
taccheṣatvāt /
hānaśabdaśeṣo hyupāyanaśabdaḥ samadhigataḥ kauṣītakirahasye /
tasmādanyatra kevalahānaśabdaśravaṇe 'pyupāyanānuvṛttiḥ /
yaduktamaśravaṇādvidyantaragocaratvādanāvaśyakatvāccāsaṃnipāta iti,
taducyate /
bhavedeṣā vyavasthoktiryadyanuṣṭheyatvena saṃkīrtyate /
vidyāstutyarthaṃ tvanayoḥ saṃkīrtanam /
itthaṃ mahābhāgā vidyā yatsāmarthyādasya viduṣaḥ sukṛtaduṣkṛte saṃsārakāraṇabhūte vidhūyate te cāsya suhṛdviṣatsu niviśete itai /
stutyarthe cāsminsaṃkīrtane hānānantarabhāvitvenopāyasya kvacicchrutatvādanyatrāpi hānaśrutāvupāyanānuvṛttiṃ manyate stutiprakarṣalābhāya /
prasiddhā cārthavādāntarāpekṣārthavādāntarappavṛttiḥ - 'ekaviṃśo vā itho 'sāvādityaḥ' (chā. 2.10.5) ityevamādiṣu /
kathaṃ hīhaikaviṃśatādityasyābhidhīyatānapekṣyamāṇer'thavādāntare dvādaśa māsāḥpañcartavastraya ime lokā asāvāditya ekaviṃśaḥ ityetasmin /
tathā triṣṭubhau bhavataḥ sendriyatvāya ityevamādiṣu indriyaṃ vai triṣṭup ityevamādyarthavādāntarāpekṣā dṛśyate /
vidyāstutyarthatvāccāsyopāyanavādasya kathamanyadīye sukṛtaduṣkṛte anyairupeyete iti nātīvābhiniveṣṭavyam /
upāyanaśabdaśeṣatvāditi tu śabdaśabdaṃ samuccārayanstutyarthameva hānāvupāyanānuvṛttiṃ sūcayati /
guṇopasaṃhāravivakṣāyāṃ hyupāyanārthasyaiva hānāvṛttiṃ brūyāt /
tasmādguṇopasaṃhāravicāraprasaṅgena stutyupasaṃhārapradarśanārthamidaṃ sūtram /
kuśācchandastutyupagānavadityupamopādānam /
tadyathā bhāllavinām - 'kuśā vānaspatyāḥ stha tā mā pāta' ityetasminnigame kuśānāmaviśeṣeṇa vanaspatiyonitvena śravaṇe śāṭyāyanināmaudumbarāḥ kuśā iti viśeṣavacanādaudumbaryaḥ kuśā āśrīyante /
yathāca kvaciddevāsuracchandasāmaviśeṣeṇa paurvāparyaprasaṅge 'devacchandāṃsi pūrvāṇi' iti paiṅgyāmnānātpratīyante /
yathāca ṣoḍaśustotre keṣāñcitkālāviśeṣaprāptau 'samayādhyuṣite sūrye' ityārcaśruteḥ kālaviśeṣapratipattiḥ /
yathaiva cāviśeṣeṇopagānaṃ kecitsamāmananti viśeṣeṇa bhāllavinaḥ /
yathaiteṣu kuśādiṣu śrutyantaragataviśeṣairanvaya evaṃ hānāvapyupāyanānvaya ityarthaḥ /
śrutyantarakṛtaṃ hi viśeṣaṃ śrutyantare 'nabhyupagacchataḥ sarvatraiva vikalpaḥ syāt /
sa cānyāyyaḥ satyāṃ gatau /
taduktaṃ dvādaśalakṣaṇāyām - 'api tu vākyaśeṣatvāditaraparyudāsaḥ syātpratiṣedhe vikalpaḥ syāt' iti /
athavaitāsveva vidhūnavaśrutiṣvetena sūtreṇaitaccintayitavyam /
kimanena vidhūnanavacanena sukṛtaduṣkṛtayorhānamabhidhīyate kiṃvār'thāntaramiti /
tatra caivaṃ prāpayitavyam /
na hānaṃ vidhūnanamabhidhīyate 'dhañ kampane' iti smaraṇāt /
dodhūyante dhvajāgrāṇīti ca vāyunā cālyamāneṣu dhvajāgreṣu prayogadarśanāt /
tasmāccālanaṃ vidhūnanamabhidhīyate /
cālanaṃ tu suṣkṛtaduṣkṛtayoḥ kañcitkālaṃ phalapratibandhanādityevaṃ prāpayya prativaktavyam /
hānāvevaiṣa vidhūyananaśabdo vartitumarhati /
upāyanaśabdaśeṣatvāt /
nahi paraparigrahabhūtayoḥ sukṛtaduṣkṛtayoraprahīṇayoḥ parairupāyanaṃ saṃbhavati /
yadyapīdaṃ parakīyayoḥ sukṛtaduṣkṛtayoḥ parairupāyanaṃ nāñjasaṃ saṃbhāvyate tathāpi tatsarntanāttāvattadānuguṇyena hānameva vidhūnanaṃ nāmeti nirṇetuṃ śakyate /
kvacidapi cedaṃ vidhūnanasaṃnidhāvupāyanaṃ śrūyamāṇaṃ kuśāchandastutyupagānavadvidhanūnaśrutyā sarvatrāpekṣāmāṇaṃ sārvatrikaṃ nirṇayakāraṇaṃ saṃpadyate /
naca cālanaṃ dhvajāgravatsukṛtaduṣkṛtayormukhyaṃ saṃbhavati /
adravyatvāt /
aśvaśca romāṇi vidhūnvānastyajanrajaḥ sahaiva tena romāṇyapi jīrṇāni śātayati 'aśva iva romāṇi vidhūya pāpam' (chā. 8.13.1) iti ca brāhmaṇam /
anekārthatvābhyupagamācca dhātūnāṃ na smaraṇavirodhaḥ /
taduktamiti vyākhyātam /
16 sāṃparāyādhikaraṇam / sū. 27-28
Sanskrit only: no published translation is held for this verse.
सांपराये तर्तव्याभावात् तथा ह्य् अन्ये
देवयानेन पथा पर्यङ् कस्थं ब्रह्माभिप्रस्तितस्य व्यध्वनि सुकृतदुष्कृतयोर्विभागं कौषीतकिनः पर्यङ् कविद्यायाममनन्ति ऽस एतं देवयानं पन्तानमासाद्याग्निलोकमागच्छतिऽ (कौ। १।३) इत्युपक्रम्य ऽस आगच्छति विरजां नदीं तां मनसैवात्येति तत्सुकृतदुष्कृते विधूनुतेऽ (कौ। १।४) इति ।
तत्किं यथाश्रुतं व्यध्वन्येव वियोगवचनं प्रतिपत्तव्यमाहोस्विदादावेव देहादपसर्पण इति विचारणायां श्रुतिप्रामाण्याद्यथाश्रुति प्रतिपत्तिप्रसक्तौ पठति - सांपराय इतै ।
सांपराये गमन एव देहादपसर्पण इदं विद्यासामर्थ्यात्सुकृतदुष्कृतहानं भवतीति प्रतिजानीते ।
हेतुं चाचष्टो तर्तव्याभावादिति ।
नहि विदुषः संपरेतस्य विद्यया ब्रह्म संप्रेप्सतो ऽन्तराले सुकृतदुष्कृताभ्यां किञ्चित्प्राप्तव्यमस्ति यदर्थं कतिचित्क्षणानक्षीणे ते कल्पेयाताम् ।
विद्याविरुद्धफलत्वात्तु विद्यासामर्थ्येन तयोः क्षयः स च यदैव विद्या फलाभिमुखी तदैव भवितुमर्हति ।
तस्मात्प्रागेव सन्नयं सुकृतदुष्कृतक्षयः पश्चात्पठ्यते ।
तथा ह्यन्ये ऽपि शिखिनस्ताण्डिनः शाट्यायनिनश्च प्रागवस्थायामेव सुकृतदुष्कृतहानमामनन्ति ऽअश्व इव रोमाणि विधूय पापम्ऽ (छा। ८।१३।१) इति, ऽतस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्ऽ इति च ॥ २७ ॥
sāṃparāye tartavyābhāvāt tathā hy anye
devayānena pathā paryaṅ kasthaṃ brahmābhiprastitasya vyadhvani sukṛtaduṣkṛtayorvibhāgaṃ kauṣītakinaḥ paryaṅ kavidyāyāmamananti 'sa etaṃ devayānaṃ pantānamāsādyāgnilokamāgacchati' (kau. 1.3) ityupakramya 'sa āgacchati virajāṃ nadīṃ tāṃ manasaivātyeti tatsukṛtaduṣkṛte vidhūnute' (kau. 1.4) iti /
tatkiṃ yathāśrutaṃ vyadhvanyeva viyogavacanaṃ pratipattavyamāhosvidādāveva dehādapasarpaṇa iti vicāraṇāyāṃ śrutiprāmāṇyādyathāśruti pratipattiprasaktau paṭhati - sāṃparāya itai /
sāṃparāye gamana eva dehādapasarpaṇa idaṃ vidyāsāmarthyātsukṛtaduṣkṛtahānaṃ bhavatīti pratijānīte /
hetuṃ cācaṣṭo tartavyābhāvāditi /
nahi viduṣaḥ saṃparetasya vidyayā brahma saṃprepsato 'ntarāle sukṛtaduṣkṛtābhyāṃ kiñcitprāptavyamasti yadarthaṃ katicitkṣaṇānakṣīṇe te kalpeyātām /
vidyāviruddhaphalatvāttu vidyāsāmarthyena tayoḥ kṣayaḥ sa ca yadaiva vidyā phalābhimukhī tadaiva bhavitumarhati /
tasmātprāgeva sannayaṃ sukṛtaduṣkṛtakṣayaḥ paścātpaṭhyate /
tathā hyanye 'pi śikhinastāṇḍinaḥ śāṭyāyaninaśca prāgavasthāyāmeva sukṛtaduṣkṛtahānamāmananti 'aśva iva romāṇi vidhūya pāpam' (chā. 8.13.1) iti, 'tasya putrā dāyamupayanti suhṛdaḥ sādhukṛtyāṃ dviṣantaḥ pāpakṛtyām' iti ca // 27 //
Sanskrit only: no published translation is held for this verse.
छन्दत उभयाविरोधात्
यदि च देहादपसृप्तस्य देवयानेन पथा प्रस्थितस्यार्धपथे सुकृतदुष्कृतक्षयो ऽभ्युपगम्येत ततः पतिते देहे यमनियमविद्याभ्यासात्मकस्य सुकृतदुष्कृतक्षयहेतोः पुरुषप्रयत्नस्येच्छातो ऽनुष्ठानानुपपत्तेरनुपपत्तिरेव तद्धेतुकस्य सुकृतदुष्कृतक्षयस्य स्यात् ।
तस्मात्पूर्वमेव साधकावस्थायां छन्दतो ऽनुष्ठानं तस्यस्यात् ।
तत्पूर्वकं च सुकृतदुष्कृतहानमिति द्रष्टव्यम् ।
एवं निमित्तनैमित्तिकयोरुपपत्तिस्ताण्डिशाट्यायनिश्रुत्योश्च संगतिरिति ॥ २८ ॥
१७ गतेरर्थवत्त्वाधिकरणम् । सू। २९-३०
chandata ubhayāvirodhāt
yadi ca dehādapasṛptasya devayānena pathā prasthitasyārdhapathe sukṛtaduṣkṛtakṣayo 'bhyupagamyeta tataḥ patite dehe yamaniyamavidyābhyāsātmakasya sukṛtaduṣkṛtakṣayahetoḥ puruṣaprayatnasyecchāto 'nuṣṭhānānupapatteranupapattireva taddhetukasya sukṛtaduṣkṛtakṣayasya syāt /
tasmātpūrvameva sādhakāvasthāyāṃ chandato 'nuṣṭhānaṃ tasyasyāt /
tatpūrvakaṃ ca sukṛtaduṣkṛtahānamiti draṣṭavyam /
evaṃ nimittanaimittikayorupapattistāṇḍiśāṭyāyaniśrutyośca saṃgatiriti // 28 //
17 gaterarthavattvādhikaraṇam / sū. 29-30
Sanskrit only: no published translation is held for this verse.
गतेर् अर्थवत्त्वम् उभयथान्यथा हि विरोधः
क्वचित्पुण्यपापहानसंनिधौ देवयानः पन्थाः श्रूयते क्वचिन्न ।
तत्र संशयः - किं हानावविशेषेणैव देवयानः पन्थाः संनिपतेदुत विभागेन क्वचित्संनिपतेत् क्वचिन्नेति ।
यथा तावद्धानावविशेषेणैवोपायनानुवृत्तिरुक्तैवं देवयानानुवृत्तिरपि भवितुमर्हतीत्यस्यां प्राप्तावाचक्ष्महे ।
गतेर्देवयानस्य पथोर्ऽथवत्त्वमुभयथा विभागेन भवितुमर्हति क्वचिदर्थवती गतिः क्वचिन्नेति नाविशेषेण ।
अन्यथा ह्यविशेषेणैवैतस्यां गतावङ्गीक्रियमाणायां विरोधः स्यात् ।
ऽपुण्यपारपे विधूय निरञ्जनः परमं साम्यमुपैतिऽ (मु। ३।१।३) इत्यस्यां श्रुतौ देशान्तरप्रापणी गतिर्विरुध्येत ।
कथं हि निरञ्जनो ऽगन्ता देशान्तरं गच्छेत् ।
गन्तव्यं च परमं साम्यं न देशान्तरप्राप्त्यायत्तमित्यानर्थक्यमेवात्र गतेर्मन्यामहे ॥ २९ ॥
gater arthavattvam ubhayathānyathā hi virodhaḥ
kvacitpuṇyapāpahānasaṃnidhau devayānaḥ panthāḥ śrūyate kvacinna /
tatra saṃśayaḥ - kiṃ hānāvaviśeṣeṇaiva devayānaḥ panthāḥ saṃnipateduta vibhāgena kvacitsaṃnipatet kvacinneti /
yathā tāvaddhānāvaviśeṣeṇaivopāyanānuvṛttiruktaivaṃ devayānānuvṛttirapi bhavitumarhatītyasyāṃ prāptāvācakṣmahe /
gaterdevayānasya pathor'thavattvamubhayathā vibhāgena bhavitumarhati kvacidarthavatī gatiḥ kvacinneti nāviśeṣeṇa /
anyathā hyaviśeṣeṇaivaitasyāṃ gatāvaṅgīkriyamāṇāyāṃ virodhaḥ syāt /
'puṇyapārape vidhūya nirañjanaḥ paramaṃ sāmyamupaiti' (mu. 3.1.3) ityasyāṃ śrutau deśāntaraprāpaṇī gatirvirudhyeta /
kathaṃ hi nirañjano 'gantā deśāntaraṃ gacchet /
gantavyaṃ ca paramaṃ sāmyaṃ na deśāntaraprāptyāyattamityānarthakyamevātra gatermanyāmahe // 29 //
Sanskrit only: no published translation is held for this verse.
उपपन्नस् तल्लक्षणार्थोपलब्धेर् लोकवत्
उपपन्नश्चायमुभयथाभावः क्वचिदर्थवती गतिः क्वचिन्नेति ।
तल्लक्षणार्थोपलब्धेः ।
गतिकारणभूतो ह्यर्थः पर्यङ् कविद्यासु सगुणेषूपासनेषूपलभ्यते ।
यत्र हि पर्यङ् कारोहणं पर्यङ् कस्तेन ब्रह्मणा संवदनं विशिष्टगन्धादि प्राप्तिश्चेत्येवमादि बहु देशान्तरप्राप्त्यायत्तं फलं श्रूयते तत्रार्थवती गतिः ।
नहि सम्यग्दर्शने तल्लक्षणार्तोपलब्धिरस्ति ।
नह्यात्मैकत्वदर्शिनामाप्तकामानामिहैव दग्धाशेषक्लेशबीजानामारब्धभोगकर्माशयक्षपणव्यतिरेकेणापेक्षितव्यं किञ्चिदस्ति तत्रानर्थिका गतिः ।
लोकवच्चैष विभागो द्रष्टव्यो यथा लोके ग्रामप्राप्तौ देशान्तरप्रापणः पन्था अपेक्ष्यते नारोग्यप्राप्तावेवमिहापीति ।
भूयश्चैनं विभागं चतुर्थाध्याये निपुणतरमुपपादयिष्यामः ॥ ३० ॥
१८ अनियमाधिकरणम् । सू। ३१
upapannas tallakṣaṇārthopalabdher lokavat
upapannaścāyamubhayathābhāvaḥ kvacidarthavatī gatiḥ kvacinneti /
tallakṣaṇārthopalabdheḥ /
gatikāraṇabhūto hyarthaḥ paryaṅ kavidyāsu saguṇeṣūpāsaneṣūpalabhyate /
yatra hi paryaṅ kārohaṇaṃ paryaṅ kastena brahmaṇā saṃvadanaṃ viśiṣṭagandhādi prāptiścetyevamādi bahu deśāntaraprāptyāyattaṃ phalaṃ śrūyate tatrārthavatī gatiḥ /
nahi samyagdarśane tallakṣaṇārtopalabdhirasti /
nahyātmaikatvadarśināmāptakāmānāmihaiva dagdhāśeṣakleśabījānāmārabdhabhogakarmāśayakṣapaṇavyatirekeṇāpekṣitavyaṃ kiñcidasti tatrānarthikā gatiḥ /
lokavaccaiṣa vibhāgo draṣṭavyo yathā loke grāmaprāptau deśāntaraprāpaṇaḥ panthā apekṣyate nārogyaprāptāvevamihāpīti /
bhūyaścainaṃ vibhāgaṃ caturthādhyāye nipuṇataramupapādayiṣyāmaḥ // 30 //
18 aniyamādhikaraṇam / sū. 31
Sanskrit only: no published translation is held for this verse.
अनियमः सर्वासाम् अविरोधः शब्दानुमानाभ्याम्
सगुणासु विद्यासु गतिरर्थवती न निर्गुणायां परमात्मविद्यायामित्युख्तम् ।
सगुणास्वपि विद्यासु कासुचिद्गतिः श्रूयते यथा पर्यङ् कविद्यायामुपकोसलविद्यायां पञ्चाग्निविद्यायां दहरविद्यायामिति ।
नान्यासु यथा मधुविद्यायां शाण्डिल्यविद्यायां षोडषकलविद्यायां वैश्वानरविद्यायामिति ।
तत्र संशयः - किं यास्वेवैषा गतिः श्रूयते तास्वेव नियम्येतोतानियमेन सर्वाभिरेवञ्जातीयकाभिर्विद्याभिरभिसंबध्यतेति ।
किं तावत्प्राप्तं नियम इति ।
यत्रैव श्रूयते तत्रैव भवितुमर्हति ।
प्रकरणस्य नियामकत्वात् ।
यद्यन्यत्र श्रूयमाणापि गतिर्विद्यान्तरं गच्छेच्छ्रुत्यादीनां प्रामाण्यं हीयेत सर्वस्य सर्वार्थत्वप्रसङ्गात् ।
अपिचार्चिरादिकैकैव गतिरुपकोसलविद्यायां पञ्चाग्निविद्यायां च तुल्यवत्पठ्यते तत्सर्वार्थत्वे ऽनर्थकं पुनर्वचनं स्यात् ।
तस्मान्नियम इत्येवं प्राप्ते पठति - अनियम इति ।
सर्वासामेवाभ्युदयप्राप्तिफलानां सगुणानां विद्यानामविशेषेणैषा दवयानाख्या गतिर्भवितुमर्हति ।
नन्वनियमाभ्युपगमे प्रकरणविरोध उक्तः ।
नैषो ऽस्ति विरोधः शब्दानुमानाभ्यां श्रुतिस्मृतिभ्यामित्यर्थः ।
तथाहि श्रुतिः - ऽतद्य इत्थं विदुःऽ (छा। ५।१०।१) इति पञ्चाग्निविद्यावतां देवयानं पन्थानमवतारयन्ती ऽये चेमे ऽरण्ये श्रद्धातप इत्युपासतेऽ (छा। ५।१०।१) इति विद्यान्तरशीलिनामपि प्चाग्निविद्याविद्भिः समानमार्गतां गमयति ।
कथं पुनरवगम्यते विद्यान्तरशीलिनामियं गतिरिति ।
ननु श्रद्धातपःपरायणानामेव स्यात्तन्मात्रश्रवणात् ।
नैष दोषः ।
नहि केवलाभ्यां श्रद्दातपोभ्यामन्तरेण विद्याबलमेषा गतिर्लभ्यते ऽविद्यया तदारोहन्ति यत्र कामाः परागताः ।
न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनःऽ इति श्रुत्यन्तरात् ।
तस्मादिह श्रद्धातपोभ्यां विद्यान्तरोपलक्षणम् ।
वाजसनेयिनस्तु पञ्चाग्निविद्याधिकारे ऽधीयते - ऽय एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासतेऽ (बृ। ६।२।१५) इति ।
तत्र श्रद्धलवो ये सत्यं ब्रह्मोपासत इति व्याख्येयम् ।
सत्यशब्दस्य ब्रह्मण्यसकृत्प्रयुक्तत्वात् ।
पञ्चाग्निविद्याविदां चेत्थंवित्तयैवोपात्तत्वाद्विद्यान्तरपरायणानामेवैतदुपादानं न्याय्यम् ।
ऽअथ य एतौ पन्थानौ न विदुस्ते पतङ्गा यदिदं दन्दशूकम्ऽ (बृ। ६।२।१६) इति च मार्गद्वयभ्रष्टानां कष्टामधोगतिं गमयन्ती श्रुतिर्देवयानपितृयाणयोरेवैनानन्तर्भावयति ।
तत्रापि विद्याविसेषादेषां देवयानप्रतिपत्तिः ।
समृतिरपि - ऽशुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्यानावृत्तिमन्ययावर्तते पुनःऽ (भगी। ८।२३) इति ।
यत्पुनर्देवयानस्य पथो द्विराम्नानमुपकोसलविद्यायां पञ्चाग्निविद्यायां च तदुभयत्राप्यनुचिन्तनार्थम् ।
तस्मादनियमः ॥ ३१ ॥
----------------------
फ़्न्: श्रद्धातपौपलक्षितं ब्रह्म ध्यायन्ति ।
दन्दशूकः सर्पः ।
१९ यावदधिकाराधिकरणम् । सू। ३२
aniyamaḥ sarvāsām avirodhaḥ śabdānumānābhyām
saguṇāsu vidyāsu gatirarthavatī na nirguṇāyāṃ paramātmavidyāyāmityukhtam /
saguṇāsvapi vidyāsu kāsucidgatiḥ śrūyate yathā paryaṅ kavidyāyāmupakosalavidyāyāṃ pañcāgnividyāyāṃ daharavidyāyāmiti /
nānyāsu yathā madhuvidyāyāṃ śāṇḍilyavidyāyāṃ ṣoḍaṣakalavidyāyāṃ vaiśvānaravidyāyāmiti /
tatra saṃśayaḥ - kiṃ yāsvevaiṣā gatiḥ śrūyate tāsveva niyamyetotāniyamena sarvābhirevañjātīyakābhirvidyābhirabhisaṃbadhyateti /
kiṃ tāvatprāptaṃ niyama iti /
yatraiva śrūyate tatraiva bhavitumarhati /
prakaraṇasya niyāmakatvāt /
yadyanyatra śrūyamāṇāpi gatirvidyāntaraṃ gacchecchrutyādīnāṃ prāmāṇyaṃ hīyeta sarvasya sarvārthatvaprasaṅgāt /
apicārcirādikaikaiva gatirupakosalavidyāyāṃ pañcāgnividyāyāṃ ca tulyavatpaṭhyate tatsarvārthatve 'narthakaṃ punarvacanaṃ syāt /
tasmānniyama ityevaṃ prāpte paṭhati - aniyama iti /
sarvāsāmevābhyudayaprāptiphalānāṃ saguṇānāṃ vidyānāmaviśeṣeṇaiṣā davayānākhyā gatirbhavitumarhati /
nanvaniyamābhyupagame prakaraṇavirodha uktaḥ /
naiṣo 'sti virodhaḥ śabdānumānābhyāṃ śrutismṛtibhyāmityarthaḥ /
tathāhi śrutiḥ - 'tadya itthaṃ viduḥ' (chā. 5.10.1) iti pañcāgnividyāvatāṃ devayānaṃ panthānamavatārayantī 'ye ceme 'raṇye śraddhātapa ityupāsate' (chā. 5.10.1) iti vidyāntaraśīlināmapi pcāgnividyāvidbhiḥ samānamārgatāṃ gamayati /
kathaṃ punaravagamyate vidyāntaraśīlināmiyaṃ gatiriti /
nanu śraddhātapaḥparāyaṇānāmeva syāttanmātraśravaṇāt /
naiṣa doṣaḥ /
nahi kevalābhyāṃ śraddātapobhyāmantareṇa vidyābalameṣā gatirlabhyate 'vidyayā tadārohanti yatra kāmāḥ parāgatāḥ /
na tatra dakṣiṇā yanti nāvidvāṃsastapasvinaḥ' iti śrutyantarāt /
tasmādiha śraddhātapobhyāṃ vidyāntaropalakṣaṇam /
vājasaneyinastu pañcāgnividyādhikāre 'dhīyate - 'ya evametadvidurye cāmī araṇye śraddhāṃ satyamupāsate' (bṛ. 6.2.15) iti /
tatra śraddhalavo ye satyaṃ brahmopāsata iti vyākhyeyam /
satyaśabdasya brahmaṇyasakṛtprayuktatvāt /
pañcāgnividyāvidāṃ cetthaṃvittayaivopāttatvādvidyāntaraparāyaṇānāmevaitadupādānaṃ nyāyyam /
'atha ya etau panthānau na viduste pataṅgā yadidaṃ dandaśūkam' (bṛ. 6.2.16) iti ca mārgadvayabhraṣṭānāṃ kaṣṭāmadhogatiṃ gamayantī śrutirdevayānapitṛyāṇayorevainānantarbhāvayati /
tatrāpi vidyāviseṣādeṣāṃ devayānapratipattiḥ /
samṛtirapi - 'śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate /
ekayā yātyānāvṛttimanyayāvartate punaḥ' (bha.gī. 8.23) iti /
yatpunardevayānasya patho dvirāmnānamupakosalavidyāyāṃ pañcāgnividyāyāṃ ca tadubhayatrāpyanucintanārtham /
tasmādaniyamaḥ // 31 //
----------------------
FN: śraddhātapaupalakṣitaṃ brahma dhyāyanti /
dandaśūkaḥ sarpaḥ /
19 yāvadadhikārādhikaraṇam / sū. 32
Sanskrit only: no published translation is held for this verse.
यावदधिकारम् अवस्थितिर् आधिकारिकाणाम्
विदुषो वर्तमानदेहपातानन्तरं देहान्तरमुत्पद्यते न वेति चिन्त्यते ।
ननु विद्यायाः साधनभूतायाः संपत्तौ कैवल्यनिर्वृत्तिः स्यान्न वेति ।
नेयं चिन्तोपपद्यते ।
नहि पाकसादनसंपत्तावोदनो भवेन्न वेति चिन्ता संभवति ।
नापि भुञ्जानस्तृप्येन्न वेति चिन्त्यते ।
उपपन्ना त्वियं चिन्ता ब्रह्मविदामपि केषाञ्चिदितिहासपुराणयोर्देहान्तरोत्पत्तिदर्शनात् ।
तथाह्यपान्तरतमा नाम वेदाचार्यः पुराणर्षिर्विष्णुनियोगात्कलिद्वापरयोः संधौ कृष्णद्वैपायनः संबभूवेति स्मरन्ति ।
वसिष्ठश्च ब्रह्मणो मानसः पुत्रः सन्निमिशापादपगतपूर्वदेहः पुनर्ब्रह्मादेशान्मित्रावरुणाभ्यां संबभूवेति ।
भृग्वादिनामपि ब्रह्मण एव मानसपुत्राणां वारुणे यज्ञे पुनरुत्पत्तिः श्रूयते ।
सनत्कुमारो ऽपि ब्रह्मण एव मानसः पुत्रः स्वयं रुद्राय वरप्रदानात्स्कन्दत्वेन प्रादुर्बभूव ।
एवमेव दक्षनारदप्रभृतीनां भूयसी देहान्तरोत्पत्तिः कथ्यते तेन तेन निमित्तेन स्मृतौ ।
श्रुतावपि मन्त्रार्थवादयोः प्रायेणोपलभ्यते ।
ते च केचित्पतिते पूर्वदेहे देहान्तरमाददत्ते केचित्तु स्थित एव तस्मिन्योगैश्वर्यवशादनेकदेहादानन्यायेन ।
सर्वे चैते समधिगतसकलवेदार्थाः स्मर्यन्ते ।
तदेतेषां देहान्तरोत्पत्तिदर्शनात्प्राप्तं ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वमहेतुत्वं वेति ।
अत उत्तरमुच्यते ।
न ।
तेषामपान्तरतमप्रभृतीनां वेदप्रवर्तनादिषु लोकस्थितिहेतुष्वधिकारेषु नियुक्तानामधिकारततन्त्रत्वास्थितेः ।
यथासौ भगवान्सविता सह्स्रयुगपर्यन्तं जगतो ऽधिकारं चरित्वा तदवसान उदयास्तमयवर्जितं कैवल्यमनुभवति ऽअथ तत ऊर्ध्वं उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाताऽ (छा। ३।११।१) इति श्रुतेः ।
यथाच वर्तमाना ब्रह्मविद आरब्धभोगक्षये कैवल्यमनुभवन्ति ।
ऽतस्य तावदेव चिरं यावन्न विमोक्ष्ये ऽथ संपत्स्येऽ (छा। ६।१४।२) इति श्रुतेः ।
एवमपान्तरमप्रभृतयो ऽपीश्वराः परमेश्वरेण तेषु तेष्वधिकारेषु नियुक्ताः सन्तः सत्यपि सम्यग्दर्शने कैवल्यहेतावक्षीणकर्माणो यावदधैकारमवतिष्ठन्ते, तदवसाने चापवृज्यन्त इत्यविरुद्धम् ।
सकृत्प्रवृत्तमेव हि ते फलदानाय कर्माशयमतिवाहयन्तः स्वातन्त्र्येणैव गृहादिव गृहान्तरमन्यमन्यं देहं संचरन्तः स्वाधिकारनिवर्तनायापरिमुषितस्मृतय एव देहेन्द्रियप्रकृतिवशित्वान्निर्माय देहान्युगपत्क्रमेण वाधितिष्ठन्ति ।
नचैते जातिस्मरा इत्युच्यन्ते ऽत एवैतेऽ इति स्मृतिप्रसिद्धेः ।
यथाहि सुलभा नाम ब्रह्मवादिनी जनकेन विवदितुकामाख्युदस्य स्वं देहं जानकं देहमाविश्य व्युद्य तेन पश्चात्स्वमेव देहमाविवेशेति स्मर्यते ।
यदि ह्यपयुक्ते सकृत्प्रवृत्ते कर्मणि कर्मान्तरं देहान्तरारम्भकारणमाविर्भवेत्ततो ऽन्यदप्यदग्धबीजं कर्मान्तरं तद्वदेव प्रसज्येतेति ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वमहेतुत्वं वाशङ्क्येत, नत्वियमाशह् का युक्ता, ज्ञानात्कर्मबीजदाहस्य श्रुतिस्मृतिप्रसिद्धत्वात् ।
तथाहि श्रुतिः - ऽभिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरेऽ (मुण्ड। २।२।८) इति ।
ऽस्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षःऽ (छा। ७।२६।२) इति चैवमाद्या ।
स्मृतिरपि - ऽयथैधांसि समिद्धो ऽग्निर्भस्मसात्कुरुतेर्ऽजुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथाऽ (भगी। ४।३७) ऽबीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः ।
ज्ञानदग्धैस्तथा क्लेशैर्नात्मा संपद्यते पुनःऽ इति चैवमाद्या ।
नचाविद्यादिक्लेशदाहे सति क्लेशबीजस्य सर्माशयस्यैकदेशदाह एकदेशप्ररोहश्चेत्युपपद्यते ।
नह्यग्निदग्धस्य शालिबीजस्यैकदेशप्ररोहो दृश्यते ।
प्रवृत्तफलस्य तु कर्माशयस्य मुक्तेषोरिव वेगक्षयान्निवृत्तिः ।
ऽतस्य तावदेव चिरम्ऽ (छा। ६।१४।२) इति शरीरपातावधि क्षेपकरणात् ।
तस्मादुपपन्ना यावदधिकारमाधिकारिणामवस्थितिः ।
नच ज्ञानफलस्यानैकान्तिकता ।
तथाच श्रुतिरविशेषेणैव सर्वेषां ज्ञानान्मोक्षं दर्शयति ऽतद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम्ऽ (बृ। १।४।१०) इति ।
ज्ञानान्तरेषु चैश्वर्यादिफलेष्वासक्ताः स्युर्महर्षयः ।
ते पश्चादैश्वर्यक्षयदर्शनेन निर्विण्णाः परमात्मज्ञाने परिनिष्ठाः कैवल्यं प्रापुरित्युपपद्यते ।
ऽब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे ।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्ऽ इति स्मरणात् ।
प्रत्यक्षफलत्वाच्च ज्ञानस्य फलविरहाशङ्कानुपपत्तिः ।
कर्मफले हि स्वर्गादावनुभवानारूढे स्यादाशङ्का भवेद्वा न वेति ।
अनुभवारूढं तु ज्ञानफलम् ऽयत्साक्षादपरोक्षाद्ब्रह्मऽ (बृ। ३।४।१) इति श्रुतेः ऽतत्त्वमसिऽ (६। ८।७) इति च सिद्धवदुपदेशात् ।
नहि ऽतत्त्वमसिऽ इत्यस्य वाक्यस्यार्थस्तत्त्वं मृतो भविष्यसीत्येवं परिणेतुं शक्यः ।
ऽतद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे ऽहं मनुरभवं सूर्यश्चऽ (बृ। १।४।१०) इति च सम्यग्दर्शनकालमेव तत्फलं सर्वात्मत्वं दर्शयति ।
तस्मादैकान्तिकी विदुषः कैवल्यसिद्धिः ॥ ३२ ॥
----------------------
फ़्न्: ऊर्ध्वो विलक्षणः ब्रह्मरूपः सन् उद्गम्य ।
तेन जनकेन , व्युद्य विवादं कृत्वा ।
निर्विण्णा विरक्ताः ।
प्रतिसंचरः प्रलपः ।
yāvadadhikāram avasthitir ādhikārikāṇām
viduṣo vartamānadehapātānantaraṃ dehāntaramutpadyate na veti cintyate /
nanu vidyāyāḥ sādhanabhūtāyāḥ saṃpattau kaivalyanirvṛttiḥ syānna veti /
neyaṃ cintopapadyate /
nahi pākasādanasaṃpattāvodano bhavenna veti cintā saṃbhavati /
nāpi bhuñjānastṛpyenna veti cintyate /
upapannā tviyaṃ cintā brahmavidāmapi keṣāñciditihāsapurāṇayordehāntarotpattidarśanāt /
tathāhyapāntaratamā nāma vedācāryaḥ purāṇarṣirviṣṇuniyogātkalidvāparayoḥ saṃdhau kṛṣṇadvaipāyanaḥ saṃbabhūveti smaranti /
vasiṣṭhaśca brahmaṇo mānasaḥ putraḥ sannimiśāpādapagatapūrvadehaḥ punarbrahmādeśānmitrāvaruṇābhyāṃ saṃbabhūveti /
bhṛgvādināmapi brahmaṇa eva mānasaputrāṇāṃ vāruṇe yajñe punarutpattiḥ śrūyate /
sanatkumāro 'pi brahmaṇa eva mānasaḥ putraḥ svayaṃ rudrāya varapradānātskandatvena prādurbabhūva /
evameva dakṣanāradaprabhṛtīnāṃ bhūyasī dehāntarotpattiḥ kathyate tena tena nimittena smṛtau /
śrutāvapi mantrārthavādayoḥ prāyeṇopalabhyate /
te ca kecitpatite pūrvadehe dehāntaramādadatte kecittu sthita eva tasminyogaiśvaryavaśādanekadehādānanyāyena /
sarve caite samadhigatasakalavedārthāḥ smaryante /
tadeteṣāṃ dehāntarotpattidarśanātprāptaṃ brahmavidyāyāḥ pākṣikaṃ mokṣahetutvamahetutvaṃ veti /
ata uttaramucyate /
na /
teṣāmapāntaratamaprabhṛtīnāṃ vedapravartanādiṣu lokasthitihetuṣvadhikāreṣu niyuktānāmadhikāratatantratvāsthiteḥ /
yathāsau bhagavānsavitā sahsrayugaparyantaṃ jagato 'dhikāraṃ caritvā tadavasāna udayāstamayavarjitaṃ kaivalyamanubhavati 'atha tata ūrdhvaṃ udetya naivodetā nāstametaikala eva madhye sthātā' (chā. 3.11.1) iti śruteḥ /
yathāca vartamānā brahmavida ārabdhabhogakṣaye kaivalyamanubhavanti /
'tasya tāvadeva ciraṃ yāvanna vimokṣye 'tha saṃpatsye' (chā. 6.14.2) iti śruteḥ /
evamapāntaramaprabhṛtayo 'pīśvarāḥ parameśvareṇa teṣu teṣvadhikāreṣu niyuktāḥ santaḥ satyapi samyagdarśane kaivalyahetāvakṣīṇakarmāṇo yāvadadhaikāramavatiṣṭhante, tadavasāne cāpavṛjyanta ityaviruddham /
sakṛtpravṛttameva hi te phaladānāya karmāśayamativāhayantaḥ svātantryeṇaiva gṛhādiva gṛhāntaramanyamanyaṃ dehaṃ saṃcarantaḥ svādhikāranivartanāyāparimuṣitasmṛtaya eva dehendriyaprakṛtivaśitvānnirmāya dehānyugapatkrameṇa vādhitiṣṭhanti /
nacaite jātismarā ityucyante 'ta evaite' iti smṛtiprasiddheḥ /
yathāhi sulabhā nāma brahmavādinī janakena vivaditukāmākhyudasya svaṃ dehaṃ jānakaṃ dehamāviśya vyudya tena paścātsvameva dehamāviveśeti smaryate /
yadi hyapayukte sakṛtpravṛtte karmaṇi karmāntaraṃ dehāntarārambhakāraṇamāvirbhavettato 'nyadapyadagdhabījaṃ karmāntaraṃ tadvadeva prasajyeteti brahmavidyāyāḥ pākṣikaṃ mokṣahetutvamahetutvaṃ vāśaṅkyeta, natviyamāśah kā yuktā, jñānātkarmabījadāhasya śrutismṛtiprasiddhatvāt /
tathāhi śrutiḥ - 'bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ /
kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare' (muṇḍa. 2.2.8) iti /
'smṛtilambhe sarvagranthīnāṃ vipramokṣaḥ' (chā. 7.26.2) iti caivamādyā /
smṛtirapi - 'yathaidhāṃsi samiddho 'gnirbhasmasātkuruter'juna /
jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā' (bha.gī. 4.37) 'bījānyagnyupadagdhāni na rohanti yathā punaḥ /
jñānadagdhaistathā kleśairnātmā saṃpadyate punaḥ' iti caivamādyā /
nacāvidyādikleśadāhe sati kleśabījasya sarmāśayasyaikadeśadāha ekadeśaprarohaścetyupapadyate /
nahyagnidagdhasya śālibījasyaikadeśapraroho dṛśyate /
pravṛttaphalasya tu karmāśayasya mukteṣoriva vegakṣayānnivṛttiḥ /
'tasya tāvadeva ciram' (chā. 6.14.2) iti śarīrapātāvadhi kṣepakaraṇāt /
tasmādupapannā yāvadadhikāramādhikāriṇāmavasthitiḥ /
naca jñānaphalasyānaikāntikatā /
tathāca śrutiraviśeṣeṇaiva sarveṣāṃ jñānānmokṣaṃ darśayati 'tadyo yo devānāṃ pratyabudhyata sa eva tadabhavattatharṣīṇāṃ tathā manuṣyāṇām' (bṛ. 1.4.10) iti /
jñānāntareṣu caiśvaryādiphaleṣvāsaktāḥ syurmaharṣayaḥ /
te paścādaiśvaryakṣayadarśanena nirviṇṇāḥ paramātmajñāne pariniṣṭhāḥ kaivalyaṃ prāpurityupapadyate /
'brahmaṇā saha te sarve saṃprāpte pratisaṃcare /
parasyānte kṛtātmānaḥ praviśanti paraṃ padam' iti smaraṇāt /
pratyakṣaphalatvācca jñānasya phalavirahāśaṅkānupapattiḥ /
karmaphale hi svargādāvanubhavānārūḍhe syādāśaṅkā bhavedvā na veti /
anubhavārūḍhaṃ tu jñānaphalam 'yatsākṣādaparokṣādbrahma' (bṛ. 3.4.1) iti śruteḥ 'tattvamasi' (6. 8.7) iti ca siddhavadupadeśāt /
nahi 'tattvamasi' ityasya vākyasyārthastattvaṃ mṛto bhaviṣyasītyevaṃ pariṇetuṃ śakyaḥ /
'taddhaitatpaśyannṛṣirvāmadevaḥ pratipede 'haṃ manurabhavaṃ sūryaśca' (bṛ. 1.4.10) iti ca samyagdarśanakālameva tatphalaṃ sarvātmatvaṃ darśayati /
tasmādaikāntikī viduṣaḥ kaivalyasiddhiḥ // 32 //
----------------------
FN: ūrdhvo vilakṣaṇaḥ brahmarūpaḥ san udgamya /
tena janakena , vyudya vivādaṃ kṛtvā /
nirviṇṇā viraktāḥ /
pratisaṃcaraḥ pralapaḥ /
Sanskrit only: no published translation is held for this verse.
अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम्
वाजसनेयके श्रूयते - ऽएतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहम्ऽ (बृ। ३।८।८) इत्यादि ।
तथाथर्वणे श्रूयते - ऽअथ परा यया तदक्षरमदिगम्यते ।
यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णम्ऽ (मु। १।१।५) इत्यादि ।
तथैवान्यत्रापि विशेषनिराकरणद्वारेणाक्षरं परं ब्रह्मश्राव्यते ।
तत्र च क्वचित्केचिदतिरिक्ता विशेषाः प्रतिपद्यन्ते ।
तासां विशेषप्रतिषेधबुद्धीनां किं सर्वासां सर्वत्र प्राप्तिरुत व्यवस्थेति संशये श्रुतिविभागाद्व्यवस्थाप्राप्तावुच्यते - अक्षरविषयास्तु विशेषप्रतिषेधबुद्धयः सर्वाः सर्वत्रावरोद्धव्याः सामान्यतद्भावाभ्याम् - समानो हि सर्वत्र विशेषनिराकरणरूपो ब्रह्मप्रतिपादनप्रकारः ।
तदेव च सर्वत्र प्रतिपाद्यं ब्रह्माभिन्नं प्रत्यभिज्ञायते ।
तत्र किमित्यन्यत्र कृता बुद्धयो ऽन्यत्र न स्युः ।
तथाच ऽआनन्दादयः प्रधानस्यऽ (ब्रसू। ३।३।११) इत्यत्र व्याख्यातम् ।
तत्र विधिरूपाणि विशेषणानि चिन्तितानीह प्रतिषेधरूपाणीति विशेषः ।
प्रपञ्चार्थश्चायं चिन्ताभेदः ।
औपसदवदिति निदर्शनम् ।
यथा जामदग्न्ये ऽहीने पुरोडाशिनीषूपसत्सु चोदितासु पुरोडाशप्रदानमन्त्राणाम् अग्नेर्वेर्हेत्रं वेरध्वरम् इत्येवमादीनामुद्गातृवेदोत्पन्नानामप्यध्वर्युभिरभिसंबन्धो भवति ।
अध्वर्युकर्तृत्वातत्पुरोडाशप्रदानस्य प्रधानतन्त्रत्वाच्चङ्गानाम् ।
एवमिहाप्यक्षरतन्त्रत्वात्तद्विशेषणानां यत्र क्वचिदप्युत्पन्नानामक्षरेण सर्वत्राभिसंबन्ध इत्यर्थः ।
तदुक्तं प्रथमे काण्डे - ऽगुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगःऽ (जै। सू। ३।३।८) इत्यत्र ॥ ३३ ॥
akṣaradhiyāṃ tvavarodhaḥ sāmānyatadbhāvābhyāmaupasadavattaduktam
vājasaneyake śrūyate - 'etadvai tadakṣaraṃ gārgi brāhmaṇā abhivadantyasthūlamanaṇvahrasvamadīrghamalohitamasneham' (bṛ. 3.8.8) ityādi /
tathātharvaṇe śrūyate - 'atha parā yayā tadakṣaramadigamyate /
yattadadreśyamagrāhyamagotramavarṇam' (mu. 1.1.5) ityādi /
tathaivānyatrāpi viśeṣanirākaraṇadvāreṇākṣaraṃ paraṃ brahmaśrāvyate /
tatra ca kvacitkecidatiriktā viśeṣāḥ pratipadyante /
tāsāṃ viśeṣapratiṣedhabuddhīnāṃ kiṃ sarvāsāṃ sarvatra prāptiruta vyavastheti saṃśaye śrutivibhāgādvyavasthāprāptāvucyate - akṣaraviṣayāstu viśeṣapratiṣedhabuddhayaḥ sarvāḥ sarvatrāvaroddhavyāḥ sāmānyatadbhāvābhyām - samāno hi sarvatra viśeṣanirākaraṇarūpo brahmapratipādanaprakāraḥ /
tadeva ca sarvatra pratipādyaṃ brahmābhinnaṃ pratyabhijñāyate /
tatra kimityanyatra kṛtā buddhayo 'nyatra na syuḥ /
tathāca 'ānandādayaḥ pradhānasya' (bra.sū. 3.3.11) ityatra vyākhyātam /
tatra vidhirūpāṇi viśeṣaṇāni cintitānīha pratiṣedharūpāṇīti viśeṣaḥ /
prapañcārthaścāyaṃ cintābhedaḥ /
aupasadavaditi nidarśanam /
yathā jāmadagnye 'hīne puroḍāśinīṣūpasatsu coditāsu puroḍāśapradānamantrāṇām agnerverhetraṃ veradhvaram ityevamādīnāmudgātṛvedotpannānāmapyadhvaryubhirabhisaṃbandho bhavati /
adhvaryukartṛtvātatpuroḍāśapradānasya pradhānatantratvāccaṅgānām /
evamihāpyakṣaratantratvāttadviśeṣaṇānāṃ yatra kvacidapyutpannānāmakṣareṇa sarvatrābhisaṃbandha ityarthaḥ /
taduktaṃ prathame kāṇḍe - 'guṇamukhyavyatikrame tadarthatvānmukhyena vedasaṃyogaḥ' (jai. sū. 3.3.8) ityatra // 33 //
Sanskrit only: no published translation is held for this verse.
इयदामननात्
ऽद्वा सुपर्णासयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीतिऽ (मु। ३।१।१) इत्यध्यात्माधिकारे मन्त्रमाथर्वमिकाः श्वेताश्वतराश्च पठन्ति ।
तथा कठाः ऽऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे ।
छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताःऽ (क। ३।१) इति ।
किमत्र विद्यैकत्वमुत विद्यानानात्वमिति संशयः ।
किं तावत्प्राप्तं, विद्यानानात्वमिति ।
कुतः ।
विशेषदर्शनात् ।
द्वा सुपर्णेत्यत्र ह्येकस्य भोक्तृत्वं दृश्यते ।
एकस्य चाभोक्तृत्वं दृश्यते ।
ऋतं पिबन्तावित्यत्रोभयोरपि भोक्तृत्वमेव दृश्यते तद्वेद्यरूपं भिद्यमानं विद्यां भिन्द्यादित्येवं प्राप्ते ब्रवीति विद्यैकत्वमिति ।
कुतः - यत उभयोरप्यनयोर्मन्त्रयोरियत्तापरिच्छिन्नं द्वित्वोपेतं वेद्यरूपमभिन्नमामनन्ति ।
ननु दर्शितो रूपभेदः ।
नेत्युच्यते ।
उभावप्येतौ मन्त्रौ जीवद्वितीयमीश्वरं प्रतिपादयतो नार्थान्तरम् ।
द्वा सुपर्णा इत्यत्र तावत् अनश्नन्नन्यो अभिचाकशीति इत्यशनायाद्यतीतः परमात्मा प्रतिपाद्यते ।
वाक्यशेषे ऽपि च स एव प्रतिपाद्यम्नो दृश्यते ।
ऽजुष्टं यदा पश्यत्यन्यमीशमस्य महिमानम्ऽ (श्वे। ४।७) इति ।
ऋतं पिबन्तौ इत्यत्र तु जीवे पिबत्यशनायाद्यतीतः परमात्मापि साहचर्याच्छत्रिन्यायेन पिबतीत्युपचर्यते ।
परमात्मप्रकरणं ह्येतत् ऽअन्यत्र धर्मादन्यत्राधर्मात्ऽ (क। २।१४) इत्युपक्रमात् ।
तद्विषय एव चात्रापि वाक्यशेषो भवति ऽयः सेतुरीजानानामक्षरं ब्रह्म यत्परम्ऽ (क। ३।२) इति ।
ऽगुहां प्रविष्टावात्मानौ हिऽ (ब्रसू। १।२।११) इत्यत्र चैतत्प्रपञ्चितम् ।
तस्मान्नास्ति वेद्यभेदस्तस्माच्च विद्यैकत्वम् ।
अपिच त्रिष्वप्येतेषु वेदान्तेषु पौर्वापर्यलोचने परमात्मविद्यैवावगम्यते तादात्म्यविवक्षयैव जीवोपादानं नार्थान्तरविवक्षया ।
नच परमात्मविद्यायां भेदाभेदविचारावतारो ऽस्तीत्युक्तम् ।
तस्मात्प्रपञ्चार्थ एवैष योगः ।
तस्माच्चाधिकधर्मोपसंहार इति ॥ ३४ ॥
२२ अनन्तराधिकरणम् । सू। ३५-३६
iyadāmananāt
'dvā suparṇāsayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte /
tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhicākaśīti' (mu. 3.1.1) ityadhyātmādhikāre mantramātharvamikāḥ śvetāśvatarāśca paṭhanti /
tathā kaṭhāḥ 'ṛtaṃ pibantau sukṛtasya loke guhāṃ praviṣṭau parame parārdhe /
chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ' (ka. 3.1) iti /
kimatra vidyaikatvamuta vidyānānātvamiti saṃśayaḥ /
kiṃ tāvatprāptaṃ, vidyānānātvamiti /
kutaḥ /
viśeṣadarśanāt /
dvā suparṇetyatra hyekasya bhoktṛtvaṃ dṛśyate /
ekasya cābhoktṛtvaṃ dṛśyate /
ṛtaṃ pibantāvityatrobhayorapi bhoktṛtvameva dṛśyate tadvedyarūpaṃ bhidyamānaṃ vidyāṃ bhindyādityevaṃ prāpte bravīti vidyaikatvamiti /
kutaḥ - yata ubhayorapyanayormantrayoriyattāparicchinnaṃ dvitvopetaṃ vedyarūpamabhinnamāmananti /
nanu darśito rūpabhedaḥ /
netyucyate /
ubhāvapyetau mantrau jīvadvitīyamīśvaraṃ pratipādayato nārthāntaram /
dvā suparṇā ityatra tāvat anaśnannanyo abhicākaśīti ityaśanāyādyatītaḥ paramātmā pratipādyate /
vākyaśeṣe 'pi ca sa eva pratipādyamno dṛśyate /
'juṣṭaṃ yadā paśyatyanyamīśamasya mahimānam' (śve. 4.7) iti /
ṛtaṃ pibantau ityatra tu jīve pibatyaśanāyādyatītaḥ paramātmāpi sāhacaryācchatrinyāyena pibatītyupacaryate /
paramātmaprakaraṇaṃ hyetat 'anyatra dharmādanyatrādharmāt' (ka. 2.14) ityupakramāt /
tadviṣaya eva cātrāpi vākyaśeṣo bhavati 'yaḥ seturījānānāmakṣaraṃ brahma yatparam' (ka. 3.2) iti /
'guhāṃ praviṣṭāvātmānau hi' (bra.sū. 1.2.11) ityatra caitatprapañcitam /
tasmānnāsti vedyabhedastasmācca vidyaikatvam /
apica triṣvapyeteṣu vedānteṣu paurvāparyalocane paramātmavidyaivāvagamyate tādātmyavivakṣayaiva jīvopādānaṃ nārthāntaravivakṣayā /
naca paramātmavidyāyāṃ bhedābhedavicārāvatāro 'stītyuktam /
tasmātprapañcārtha evaiṣa yogaḥ /
tasmāccādhikadharmopasaṃhāra iti // 34 //
22 anantarādhikaraṇam / sū. 35-36
Sanskrit only: no published translation is held for this verse.
अन्तरा भूतग्रामवत्सात्मनः
ऽयत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरःऽ (बृ। ३।४।१ - ३।५।१)इत्येवं द्विरुष्स्तकहोलप्रश्नयोर्नैरल्तर्येण वाजसनेयिनः समामनन्ति ।
तत्र संशयः - विद्यैकत्वं वा स्याद्विद्यानानात्वं वेति ।
विद्यानानात्वमिति तावत्प्राप्तम् ।
अभ्याससामर्थ्यात् ।
अन्यथा ह्यन्यूनानातिरिक्तार्थे द्विराम्नानमर्थकमेव स्यात् ।
तस्माद्यथाभ्यासात्कर्मभेद एवमभ्यासाद्विद्याभेद इत्येवं प्राप्ते प्रत्याह - अन्तराम्नानाविशेषात्स्वात्मनो विद्यैकत्वमिति ।
सर्वान्तरो हि स्वात्मोभयत्राप्यविशिष्टः पृच्छ्यते च प्रत्युच्यते च ।
नहि द्वावात्मानावेकस्मिन्देहे सर्वान्तरौ संभवतः ।
तदा ह्येकस्याञिजसंसर्वान्तरत्वमवकल्प्येत ।
एकस्य तु भूतग्रामवन्नैव सर्वान्तरत्वं स्यात् ।
यथाच पञ्चभूतसमूहे देहे पृथिव्या आपोन्तरा अद्भ्यस्तेजो ऽन्तरमिति सत्यप्यापेक्षिके ऽन्तरत्वे नैव मुख्य सर्वान्तरत्वं भवति तथेहापीत्यर्थः ।
अथवा भूतग्रामवदिति श्रुत्यन्तरं निदर्शयति ।
यथा ऽएको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्माऽ (श्वे।
६।११) इत्यस्मिन्मन्त्रे समस्तेषु भूतग्राम्येष्वेक एव सर्वान्तर आत्माम्नायते ।
एवमनयोरपि ब्राह्मणयोरित्यर्थः ।
तस्माद्वेद्यैक्याद्विद्यैकत्वमिति ॥ ३५ ॥
antarā bhūtagrāmavatsātmanaḥ
'yatsākṣādaparokṣādbrahma ya ātmā sarvāntaraḥ' (bṛ. 3.4.1 - 3.5.1)ityevaṃ dviruṣstakaholapraśnayornairaltaryeṇa vājasaneyinaḥ samāmananti /
tatra saṃśayaḥ - vidyaikatvaṃ vā syādvidyānānātvaṃ veti /
vidyānānātvamiti tāvatprāptam /
abhyāsasāmarthyāt /
anyathā hyanyūnānātiriktārthe dvirāmnānamarthakameva syāt /
tasmādyathābhyāsātkarmabheda evamabhyāsādvidyābheda ityevaṃ prāpte pratyāha - antarāmnānāviśeṣātsvātmano vidyaikatvamiti /
sarvāntaro hi svātmobhayatrāpyaviśiṣṭaḥ pṛcchyate ca pratyucyate ca /
nahi dvāvātmānāvekasmindehe sarvāntarau saṃbhavataḥ /
tadā hyekasyāñijasaṃsarvāntaratvamavakalpyeta /
ekasya tu bhūtagrāmavannaiva sarvāntaratvaṃ syāt /
yathāca pañcabhūtasamūhe dehe pṛthivyā āpontarā adbhyastejo 'ntaramiti satyapyāpekṣike 'ntaratve naiva mukhya sarvāntaratvaṃ bhavati tathehāpītyarthaḥ /
athavā bhūtagrāmavaditi śrutyantaraṃ nidarśayati /
yathā 'eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā' (śve.
6.11) ityasminmantre samasteṣu bhūtagrāmyeṣveka eva sarvāntara ātmāmnāyate /
evamanayorapi brāhmaṇayorityarthaḥ /
tasmādvedyaikyādvidyaikatvamiti // 35 //
Sanskrit only: no published translation is held for this verse.
अन्यथा भेदानुपपत्तिर् इति चेन् नोपदेशान्तरवत्
अथ यदुक्तमनभ्युपगम्यमाने विद्याभेद आम्नानभेदानुपपत्तिरिति तत्परिहर्तव्यम् ।
अत्रोच्यते - नायं दोषः ।
उपदेशान्तरवदुपपत्तेः ।
यथा ताण्डिनामुपनिषदि षष्ठे प्रपाठके - ऽस आत्मा तत्त्वमसि श्वेकतेतोऽ (छा। ६।८।७) इति नवकृत्वो ऽप्युपदेशे न विद्याभेदो भवत्येवमिहापि भविष्यति ।
कथं न नवकृत्वो ऽप्युपदेशे विद्याभेदो न भवति ।
उपक्रमोपसंहाराभ्यामेकार्थतावगमात् ।
ऽभूय एव मा भगवान्विज्ञापयतुऽ (छा। ६।५।४) इति चैकस्यैवार्थस्य पुनः पुनः प्रतिपिपादयिषितव्यत्वेनोपक्षेपात् ।
आशङ्कान्तरनिराकरणेन चासकृदुपदेशोपपत्तेः ।
एवमिहापि प्रश्नरूपाभेदात् अतो ऽन्यदार्तम्ऽ (बृ। ३।४।२ - ३।५।१) इति च परिसमाप्त्यविशेषादुपक्रमोपसंहारौ तावदेकार्थविषयौ दृश्यते ।
ऽयदेव साक्षादपरोक्षाद्ब्रह्मऽ (बृ। ३।५।१) इति द्वितीये प्रश्न एवकारं प्रयुञ्जानः पूर्वप्रश्नगतमेवार्थमुत्तरत्रानुकृष्यमाणं दर्शयति ।
पूर्वस्मिन्श्च ब्राह्मणो कार्यकरणव्यतिरिक्तस्यात्मनः सद्भावः कथ्यते ।
उत्तरस्मिंस्तु तस्यैवाशनायादिसंसारधर्मातीतत्वं कथ्यते ।
इत्येकार्थतोपपत्तिः ।
तस्मादेका विद्येति ॥ ३६ ॥
२३ व्यतिहाराधिकरणम् । सू। ३७
anyathā bhedānupapattir iti cen nopadeśāntaravat
atha yaduktamanabhyupagamyamāne vidyābheda āmnānabhedānupapattiriti tatparihartavyam /
atrocyate - nāyaṃ doṣaḥ /
upadeśāntaravadupapatteḥ /
yathā tāṇḍināmupaniṣadi ṣaṣṭhe prapāṭhake - 'sa ātmā tattvamasi śvekateto' (chā. 6.8.7) iti navakṛtvo 'pyupadeśe na vidyābhedo bhavatyevamihāpi bhaviṣyati /
kathaṃ na navakṛtvo 'pyupadeśe vidyābhedo na bhavati /
upakramopasaṃhārābhyāmekārthatāvagamāt /
'bhūya eva mā bhagavānvijñāpayatu' (chā. 6.5.4) iti caikasyaivārthasya punaḥ punaḥ pratipipādayiṣitavyatvenopakṣepāt /
āśaṅkāntaranirākaraṇena cāsakṛdupadeśopapatteḥ /
evamihāpi praśnarūpābhedāt ato 'nyadārtam' (bṛ. 3.4.2 - 3.5.1) iti ca parisamāptyaviśeṣādupakramopasaṃhārau tāvadekārthaviṣayau dṛśyate /
'yadeva sākṣādaparokṣādbrahma' (bṛ. 3.5.1) iti dvitīye praśna evakāraṃ prayuñjānaḥ pūrvapraśnagatamevārthamuttaratrānukṛṣyamāṇaṃ darśayati /
pūrvasminśca brāhmaṇo kāryakaraṇavyatiriktasyātmanaḥ sadbhāvaḥ kathyate /
uttarasmiṃstu tasyaivāśanāyādisaṃsāradharmātītatvaṃ kathyate /
ityekārthatopapattiḥ /
tasmādekā vidyeti // 36 //
23 vyatihārādhikaraṇam / sū. 37
Sanskrit only: no published translation is held for this verse.
व्यतिहारो विशिंषन्ति हीतरवत्
तथा - ऽतद्यो ऽहं सो ऽसौ यो ऽसौ सो ऽहम्ऽ इत्यादित्यपुरुषं प्रकृत्यैतरेयिणः समामनन्ति, तथा जाबालाः त्वं वा अहमस्मि भगवो देवते ऽहं वै त्वमसिऽ इति ।
तत्र संशयः - किमिह व्यतिहारेणोभयरूपा मतिः कर्तव्योतैकरूपैवेति ।
एकरूपैवेति तावदाह ।
नह्यत्रात्मन ईश्वरेणैकत्वं मुक्त्वान्यत्किञ्चिच्चिन्तयितव्यमस्ति ।
यदि चैवं चिन्तयितव्यो विशेषः परिकल्प्येत संसारिणस्तावदीश्वरात्ममीश्वरस्य संसीर्यात्मत्वमिति ।
तत्र संसारिणस्तावदीश्वरात्मत्व उत्कर्षो भवेदीश्वरस्य तु संसार्यात्मत्वे निकर्षः कुतः स्यात् ।
तस्मादैकारूप्यमेव मतेः ।
व्यतिहाराम्नायस्त्वेकत्वदृढीकारार्थ इति ।
एवं प्राप्ते प्रत्याह - व्यतिहारो ऽयमाध्यानायामनायते इतरवत् ।
यथेतरं गुणाः सर्वात्मत्वप्रभृतय आध्यानायाम्नायन्ते तद्वत् ।
तथाहि विशिंषन्ति समाम्नातार उभयोच्चारणेन ऽत्वमहमस्म्यहं च तत्त्वमसिऽ इति ।
तच्चोभयरूपायां मतौ कर्तव्यायामर्थवद्भवति ।
अन्यथा हीदं विशेषेणोभयाम्नानमनर्थकं स्यात् ।
एकेनैव कृतत्वात् ।
ननूभयाम्नानस्यार्थविशेषे परिकल्प्यमाने देवतायाः संसार्यात्मत्वापत्तेर्निकर्षः प्रसज्येतेत्युक्तम् ।
नैष दोषः ।
ऐकात्म्यस्यैवानेन प्रकारेणानुचिन्त्यमानत्वात् ।
नन्वेवं सति स एवैकत्वदृढीकार आपद्येत ।
न वयमेकत्वदृढीकारं वारयामः ।
किं तर्हि व्यतिहारेणेह द्विरूपा मतिः कर्तव्या वचनप्रामाण्यान्नैकरूपेत्येतावदुपपादयामः ।
फलतस्त्वेकत्वमपि दृढीभवति ।
यथाध्यानार्थो ऽपि सत्यकामादिगुणोपदेशे तद्गुण ईश्वरः प्रसिद्ध्यति तद्वत् ।
तस्मादयमाध्यातव्यो व्यतिहारः समाने च विषय उपसंहर्तव्यो भवतीति ॥ ३७ ॥
----------------------
फ़्न्: जीवेशयोर्मिथो विशेषणविशेश्याभावो व्यतिहारः ।
vyatihāro viśiṃṣanti hītaravat
tathā - 'tadyo 'haṃ so 'sau yo 'sau so 'ham' ityādityapuruṣaṃ prakṛtyaitareyiṇaḥ samāmananti, tathā jābālāḥ tvaṃ vā ahamasmi bhagavo devate 'haṃ vai tvamasi' iti /
tatra saṃśayaḥ - kimiha vyatihāreṇobhayarūpā matiḥ kartavyotaikarūpaiveti /
ekarūpaiveti tāvadāha /
nahyatrātmana īśvareṇaikatvaṃ muktvānyatkiñciccintayitavyamasti /
yadi caivaṃ cintayitavyo viśeṣaḥ parikalpyeta saṃsāriṇastāvadīśvarātmamīśvarasya saṃsīryātmatvamiti /
tatra saṃsāriṇastāvadīśvarātmatva utkarṣo bhavedīśvarasya tu saṃsāryātmatve nikarṣaḥ kutaḥ syāt /
tasmādaikārūpyameva mateḥ /
vyatihārāmnāyastvekatvadṛḍhīkārārtha iti /
evaṃ prāpte pratyāha - vyatihāro 'yamādhyānāyāmanāyate itaravat /
yathetaraṃ guṇāḥ sarvātmatvaprabhṛtaya ādhyānāyāmnāyante tadvat /
tathāhi viśiṃṣanti samāmnātāra ubhayoccāraṇena 'tvamahamasmyahaṃ ca tattvamasi' iti /
taccobhayarūpāyāṃ matau kartavyāyāmarthavadbhavati /
anyathā hīdaṃ viśeṣeṇobhayāmnānamanarthakaṃ syāt /
ekenaiva kṛtatvāt /
nanūbhayāmnānasyārthaviśeṣe parikalpyamāne devatāyāḥ saṃsāryātmatvāpatternikarṣaḥ prasajyetetyuktam /
naiṣa doṣaḥ /
aikātmyasyaivānena prakāreṇānucintyamānatvāt /
nanvevaṃ sati sa evaikatvadṛḍhīkāra āpadyeta /
na vayamekatvadṛḍhīkāraṃ vārayāmaḥ /
kiṃ tarhi vyatihāreṇeha dvirūpā matiḥ kartavyā vacanaprāmāṇyānnaikarūpetyetāvadupapādayāmaḥ /
phalatastvekatvamapi dṛḍhībhavati /
yathādhyānārtho 'pi satyakāmādiguṇopadeśe tadguṇa īśvaraḥ prasiddhyati tadvat /
tasmādayamādhyātavyo vyatihāraḥ samāne ca viṣaya upasaṃhartavyo bhavatīti // 37 //
----------------------
FN: jīveśayormitho viśeṣaṇaviśeśyābhāvo vyatihāraḥ /
Sanskrit only: no published translation is held for this verse.
सैव हि सत्यादयः
ऽस यो हैतं महद्यक्षं प्रथमजं वेद ब्रह्मऽ (बृ। ५।४।१) इत्यादिना वाजसनेयके सत्यविद्यां सनामाक्षरोपासनां विधायानन्तिमाम्नायते - ऽतद्यत्तत्सत्यमसो स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणे ऽक्षन्पुरुषःऽ (बृ। ५।५।२) इत्यादि ।
तत्र संशयः -ऽ किं द्वे एते सत्यविद्ये किंवैकैवेति ।
द्वे इति तावत्प्राप्तम् ।
भेदेन हि फलसंयोगो भवति जयतीमांल्लोकान्ऽ (बृ। ५।४।१२) इति पुरस्तात् ।
हन्ति पाप्मानं जहाति च (बृ। ५।५।३,४) इत्युपरिष्चात् ।
प्रकृताकर्षणं तूपास्यैकत्वादिति ।
एवं प्राप्ते ब्रूमः - एकैवेयं सत्यविद्येति ।
कुतः - ऽतद्यत्तत्सत्यम्ऽ (बृ। ५।५।२) इति प्रकृताकर्षणात् ।
ननु विद्याभेदे ऽपि प्रकृताकर्षणमुपास्यैकत्वादुपपद्यत इत्युक्तम् ।
नैतदेवम् ।
यत्र तु विस्पष्टात्कारणान्तराद्विद्याभेदः प्रतीयते तत्रैतदेवं स्यात् ।
अत्र तूक्षया संभवे तद्यत्तत्सत्यमिति प्रकृताकर्षणात्पूर्वविद्यासंबद्दमेव सत्यमुत्तरत्राकृष्यत इत्येकविद्यात्वनिश्चयः ।
यत्पुनरुक्तं फलान्तरश्रवणाद्विद्यान्तरमिति ।
अत्रोच्यते - तस्योपनिषदहरहमिति चाङ्गान्तरोपदेशस्य स्तावकमिदं फलान्तरश्रवणमित्यदोषः ।
अपिचार्थवादादेव फले कल्पयितव्ये सति विद्यैकत्वे चावयवेषु श्रूयमाणानि बहून्यपि फलान्यवयविन्यामेव विद्यायामुपसंहर्तव्यानि भवन्ति ।
तस्मात्सैवेयमेका सत्यविद्या तेन तेन विशेषणोपेताम्नातेत्यतः सर्व एव सत्यादयो गुणा एकस्मिन्नेव प्रयोग उपसंहर्तव्याः ।
केचित्पुनरस्मिन्सूत्र इदं च वाजसनेयकमक्ष्यादित्यपुरुषविषयं वाक्यं, छान्दोग्ये च - ऽअथ य एषो ऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यतेऽ (छा। १।६।६) ऽअथ य एषो ऽक्षिणि पुरुषो दृश्यतेऽ (छा। ४।१५।१) इत्युदाह-त्य सैवेयमक्ष्यादित्यपुरुषविषया विद्योभयत्रैकैवेति कृत्वा सत्यादीन्गुणान्वाजसनेयिभ्यश्छन्दोगानामुपसंहार्यान्मन्यन्ते ।
तन्न साधु लक्ष्यते ।
छान्दोग्ये हि ज्योतिष्टोमकर्मसमबन्धिनीयमुद्गीथव्यपाश्रया विद्या विज्ञायते तत्र ह्यदिमध्यावसानेषु हि कर्मसंबन्धचिह्नानि भवन्ति ऽइयमेवर्गग्निः सामऽ (छा। १।६।१) इत्युपक्रमे, ऽतस्यर्क्क साम च गेष्णौ तस्मादुद्गीथःऽ (छा। १।६।८) इति मध्ये, ऽय एवं विद्वान्साम गायतिऽ (छा। १।७।९) इत्युपसंहारे ।
नैवं वाजसनेयके किञ्चित्कर्मसंबन्धि चिह्नमस्ति ।
तत्र प्रक्रमभेदाद्विद्याभेदे सति गुण्यवस्थैव युक्तेति ॥ ३८ ॥
----------------------
फ़्न्: गेष्णौ गायकौ ।
तस्मादृक्सामगेष्णत्वात् ।
२५ कामाद्यधिकाराधिकरमम् । सू। ३९
saiva hi satyādayaḥ
'sa yo haitaṃ mahadyakṣaṃ prathamajaṃ veda brahma' (bṛ. 5.4.1) ityādinā vājasaneyake satyavidyāṃ sanāmākṣaropāsanāṃ vidhāyānantimāmnāyate - 'tadyattatsatyamaso sa ādityo ya eṣa etasminmaṇḍale puruṣo yaścāyaṃ dakṣiṇe 'kṣanpuruṣaḥ' (bṛ. 5.5.2) ityādi /
tatra saṃśayaḥ -' kiṃ dve ete satyavidye kiṃvaikaiveti /
dve iti tāvatprāptam /
bhedena hi phalasaṃyogo bhavati jayatīmāṃllokān' (bṛ. 5.4.12) iti purastāt /
hanti pāpmānaṃ jahāti ca (bṛ. 5.5.3,4) ityupariṣcāt /
prakṛtākarṣaṇaṃ tūpāsyaikatvāditi /
evaṃ prāpte brūmaḥ - ekaiveyaṃ satyavidyeti /
kutaḥ - 'tadyattatsatyam' (bṛ. 5.5.2) iti prakṛtākarṣaṇāt /
nanu vidyābhede 'pi prakṛtākarṣaṇamupāsyaikatvādupapadyata ityuktam /
naitadevam /
yatra tu vispaṣṭātkāraṇāntarādvidyābhedaḥ pratīyate tatraitadevaṃ syāt /
atra tūkṣayā saṃbhave tadyattatsatyamiti prakṛtākarṣaṇātpūrvavidyāsaṃbaddameva satyamuttaratrākṛṣyata ityekavidyātvaniścayaḥ /
yatpunaruktaṃ phalāntaraśravaṇādvidyāntaramiti /
atrocyate - tasyopaniṣadaharahamiti cāṅgāntaropadeśasya stāvakamidaṃ phalāntaraśravaṇamityadoṣaḥ /
apicārthavādādeva phale kalpayitavye sati vidyaikatve cāvayaveṣu śrūyamāṇāni bahūnyapi phalānyavayavinyāmeva vidyāyāmupasaṃhartavyāni bhavanti /
tasmātsaiveyamekā satyavidyā tena tena viśeṣaṇopetāmnātetyataḥ sarva eva satyādayo guṇā ekasminneva prayoga upasaṃhartavyāḥ /
kecitpunarasminsūtra idaṃ ca vājasaneyakamakṣyādityapuruṣaviṣayaṃ vākyaṃ, chāndogye ca - 'atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate' (chā. 1.6.6) 'atha ya eṣo 'kṣiṇi puruṣo dṛśyate' (chā. 4.15.1) ityudāha-tya saiveyamakṣyādityapuruṣaviṣayā vidyobhayatraikaiveti kṛtvā satyādīnguṇānvājasaneyibhyaśchandogānāmupasaṃhāryānmanyante /
tanna sādhu lakṣyate /
chāndogye hi jyotiṣṭomakarmasamabandhinīyamudgīthavyapāśrayā vidyā vijñāyate tatra hyadimadhyāvasāneṣu hi karmasaṃbandhacihnāni bhavanti 'iyamevargagniḥ sāma' (chā. 1.6.1) ityupakrame, 'tasyarkka sāma ca geṣṇau tasmādudgīthaḥ' (chā. 1.6.8) iti madhye, 'ya evaṃ vidvānsāma gāyati' (chā. 1.7.9) ityupasaṃhāre /
naivaṃ vājasaneyake kiñcitkarmasaṃbandhi cihnamasti /
tatra prakramabhedādvidyābhede sati guṇyavasthaiva yukteti // 38 //
----------------------
FN: geṣṇau gāyakau /
tasmādṛksāmageṣṇatvāt /
25 kāmādyadhikārādhikaramam / sū. 39
Sanskrit only: no published translation is held for this verse.
कामादीतरत्र तत्र चायतनादिभ्यः
अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरो ऽस्मिन्नन्तराकाशः (छा। ८।१।१) इति प्रस्तुत्य छन्दोगा अधीयते ऽएष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सो ऽपिपासः सत्यकामः सत्यसंकल्पःऽ (छा। ८।१।५) इत्यादि ।
तथा वाजसनेयिनः - स वा एष महानज आत्मा यो ऽयं विज्ञानमयः प्राणेषु य एषो ऽन्तर्हदय आकाशस्तस्मिञ्छेते सर्वस्य वशी (बृ। ४।४।२२) इत्यादि ।
तत्र विद्यैकत्वं परस्परगुणयोगश्च किं वा नेति संशये विद्यैकत्वमिति ।
तत्रेदमुच्यते - कामादीति ।
सत्यकामादित्यर्थः ।
यथा देवदत्तो दत्तः सत्यभामा भामेति ।
यदेतच्चान्दोग्ये हृदयाकाशस्य सत्यकामत्वादिगुणजातमुलभ्यते तदितरत्र वाजसनेयके वशित्वाद्युपलभ्यते तदपीतरत्र छान्दोग्ये एष आत्मापहतपाप्मा (छा। ८।१।५) इत्यत्र संबध्यते ।
कुतः - आयतनादिसामान्यात् ।
समानं ह्युभयमत्रापि हृदयमातनं समानश्च वेद्य ईश्वरः समानं च तस्य सेतुत्वं लोकासंभेदप्रयोजनमित्येवमादि बहु सामान्यं दृश्यते ।
ननु विशेषो ।
ञपि दृश्यते छान्दोग्ये हृदयाकाशस्य गुणयोगो वाजसनेयके त्वाकाशाश्रयस्य ब्रह्मण इति ।
न ।
ऽदहर उत्तरेभ्यःऽ (ब्रसू। १।३।१४) इत्यत्र छान्दोग्ये ऽप्याकाशशब्दं ब्रह्मैवेति प्रतिष्ठापितत्वात् ।
अयं त्वत्र विद्यते विशेषः ।
सगुणा हि ब्रह्मविद्या छान्दोग्य उपदिश्यते ऽअथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान्ऽ (छा। ८।१।६) इत्यात्मवत्कामानमपि वेद्यत्वश्रवणात् ।
वाजसनेयके तु निर्गुणमेव परं ब्रह्मोपदिश्यमानं दृश्यते ऽअत ऊर्ध्वं विमोक्षाय ब्रूहिऽ (बृ। ४।३।१४) असङ्गो ह्ययं पुरुषः (बृ। ४।३।१५) इत्यादिप्रश्नप्रतिवचनसमन्वयात् ।
वशित्वादि तु तत्स्तुत्यर्थमेव गुणजातं वाजसनेयके संकीर्त्यते ।
तथाचोपरिष्टात् ऽस एष नेति नेत्यात्माऽ (बृ। ३।९।२६) इत्यादिना निर्गुणमेव ब्रह्मोपसंहरति ।
गुणवतस्तु ब्रह्मण एकत्वाद्विभूतिप्रदर्शनायायं गुणोपसंहारः सूत्रितो नोपासनायेति द्रष्टव्यम् ॥ ३९ ॥
२६ आदराधिकरणम् । सू। ४०-४१
kāmādītaratra tatra cāyatanādibhyaḥ
atha yadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminnantarākāśaḥ (chā. 8.1.1) iti prastutya chandogā adhīyate 'eṣa ātmāpahatapāpmā vijaro vimṛtyurviśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ' (chā. 8.1.5) ityādi /
tathā vājasaneyinaḥ - sa vā eṣa mahānaja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu ya eṣo 'ntarhadaya ākāśastasmiñchete sarvasya vaśī (bṛ. 4.4.22) ityādi /
tatra vidyaikatvaṃ parasparaguṇayogaśca kiṃ vā neti saṃśaye vidyaikatvamiti /
tatredamucyate - kāmādīti /
satyakāmādityarthaḥ /
yathā devadatto dattaḥ satyabhāmā bhāmeti /
yadetaccāndogye hṛdayākāśasya satyakāmatvādiguṇajātamulabhyate taditaratra vājasaneyake vaśitvādyupalabhyate tadapītaratra chāndogye eṣa ātmāpahatapāpmā (chā. 8.1.5) ityatra saṃbadhyate /
kutaḥ - āyatanādisāmānyāt /
samānaṃ hyubhayamatrāpi hṛdayamātanaṃ samānaśca vedya īśvaraḥ samānaṃ ca tasya setutvaṃ lokāsaṃbhedaprayojanamityevamādi bahu sāmānyaṃ dṛśyate /
nanu viśeṣo /
ñapi dṛśyate chāndogye hṛdayākāśasya guṇayogo vājasaneyake tvākāśāśrayasya brahmaṇa iti /
na /
'dahara uttarebhyaḥ' (bra.sū. 1.3.14) ityatra chāndogye 'pyākāśaśabdaṃ brahmaiveti pratiṣṭhāpitatvāt /
ayaṃ tvatra vidyate viśeṣaḥ /
saguṇā hi brahmavidyā chāndogya upadiśyate 'atha ya ihātmānamanuvidya vrajantyetāṃśca satyānkāmān' (chā. 8.1.6) ityātmavatkāmānamapi vedyatvaśravaṇāt /
vājasaneyake tu nirguṇameva paraṃ brahmopadiśyamānaṃ dṛśyate 'ata ūrdhvaṃ vimokṣāya brūhi' (bṛ. 4.3.14) asaṅgo hyayaṃ puruṣaḥ (bṛ. 4.3.15) ityādipraśnaprativacanasamanvayāt /
vaśitvādi tu tatstutyarthameva guṇajātaṃ vājasaneyake saṃkīrtyate /
tathācopariṣṭāt 'sa eṣa neti netyātmā' (bṛ. 3.9.26) ityādinā nirguṇameva brahmopasaṃharati /
guṇavatastu brahmaṇa ekatvādvibhūtipradarśanāyāyaṃ guṇopasaṃhāraḥ sūtrito nopāsanāyeti draṣṭavyam // 39 //
26 ādarādhikaraṇam / sū. 40-41
Sanskrit only: no published translation is held for this verse.
आदरादलोपः
छान्दोग्ये वैश्वानरविद्यां प्रकृत्य श्रूयते - ऽतद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयं स यां प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणस्य स्वाहाऽ (छा। ५।१९।१) इत्यादि ।
तत्र पञ्च प्राणाहुतयो विहिताः ।
तासु च परस्तादग्निहोत्रशब्दः प्रयुक्तः ऽय एतदेवं विद्वानग्निहोत्रं जुहोतिऽ (छा। ५।२४।२) इति ऽयथेह क्षुधिता बाला मातरं पर्युपासते ।
एवं सर्वाणि भूतान्यग्निहोत्रमुपासतेऽ (छा। ५।२४।५) इति च ।
तत्रेदं विचार्यते - किं भोजनलोपे लोपः प्राणाग्निहोत्रस्योतालोप इतै ।
तद्यद्भवति भक्तागमनसंयोगश्रवणाद्भक्तागमनस्य च बोजनार्थत्वाद्भोजनलोपे लोपः प्राणाग्निहोत्रस्येति ।
एवं प्राप्ते न लुप्येतेति तावदाह ।
कस्मात् ।
आदरात् ।
तथाहि वैश्वारविद्यायामेव जाबालानां श्रुतिः - ऽपूर्वो ऽतिथिभ्यो ऽश्नीयात् ।
यथा ह वै स्वयमहुत्वाग्निहोत्रं परस्य जुहुयादेवं तत्ऽ इत्यतिथिभोजनस्य प्राथम्यं निन्दित्वा स्वामिभोजनं प्रथमं प्रापयन्ती प्राणाग्निहोत्र आदरं करोति ।
या हि न प्राथम्यलोपं सहते नेतरां सा प्राथम्यवतो ऽग्निहोत्रस्य लोपं सहतेति मन्यते ।
ननु भोजनार्थभक्तागमनसंयोगाद्भोजनलोपे लोपः प्रथितः ।
न ।
तस्य द्रव्यविशेषविधानार्थत्वात् ।
प्राकृते ह्यग्निहोत्रे पयःप्रभृतीनां द्रव्याणां नियतत्वादिहाप्यग्निहोत्रशब्दात्कौण्डपायिनामयनवत्तद्धर्मप्राप्तौ सत्यां भक्तद्रव्यैकतागुणविशेषविधानार्थमिदं वाक्यं तद्यद्भक्तमिति ।
अतो गुणलोपे न मुख्यस्येत्यें प्राप्तम् ।
भोजनलोपे ऽप्यद्भिर्वान्येन वा द्रव्येणाविरुद्धेन प्रतिनिधानन्यायेन प्राणाग्निहोत्रस्यानुष्ठानमिति ॥ ४० ॥
अत उत्तरं पठति -
ādarādalopaḥ
chāndogye vaiśvānaravidyāṃ prakṛtya śrūyate - 'tadyadbhaktaṃ prathamamāgacchettaddhomīyaṃ sa yāṃ prathamāmāhutiṃ juhuyāttāṃ juhuyātprāṇasya svāhā' (chā. 5.19.1) ityādi /
tatra pañca prāṇāhutayo vihitāḥ /
tāsu ca parastādagnihotraśabdaḥ prayuktaḥ 'ya etadevaṃ vidvānagnihotraṃ juhoti' (chā. 5.24.2) iti 'yatheha kṣudhitā bālā mātaraṃ paryupāsate /
evaṃ sarvāṇi bhūtānyagnihotramupāsate' (chā. 5.24.5) iti ca /
tatredaṃ vicāryate - kiṃ bhojanalope lopaḥ prāṇāgnihotrasyotālopa itai /
tadyadbhavati bhaktāgamanasaṃyogaśravaṇādbhaktāgamanasya ca bojanārthatvādbhojanalope lopaḥ prāṇāgnihotrasyeti /
evaṃ prāpte na lupyeteti tāvadāha /
kasmāt /
ādarāt /
tathāhi vaiśvāravidyāyāmeva jābālānāṃ śrutiḥ - 'pūrvo 'tithibhyo 'śnīyāt /
yathā ha vai svayamahutvāgnihotraṃ parasya juhuyādevaṃ tat' ityatithibhojanasya prāthamyaṃ ninditvā svāmibhojanaṃ prathamaṃ prāpayantī prāṇāgnihotra ādaraṃ karoti /
yā hi na prāthamyalopaṃ sahate netarāṃ sā prāthamyavato 'gnihotrasya lopaṃ sahateti manyate /
nanu bhojanārthabhaktāgamanasaṃyogādbhojanalope lopaḥ prathitaḥ /
na /
tasya dravyaviśeṣavidhānārthatvāt /
prākṛte hyagnihotre payaḥprabhṛtīnāṃ dravyāṇāṃ niyatatvādihāpyagnihotraśabdātkauṇḍapāyināmayanavattaddharmaprāptau satyāṃ bhaktadravyaikatāguṇaviśeṣavidhānārthamidaṃ vākyaṃ tadyadbhaktamiti /
ato guṇalope na mukhyasyetyeṃ prāptam /
bhojanalope 'pyadbhirvānyena vā dravyeṇāviruddhena pratinidhānanyāyena prāṇāgnihotrasyānuṣṭhānamiti // 40 //
ata uttaraṃ paṭhati -
Sanskrit only: no published translation is held for this verse.
उपस्थिते ऽतस्तद्वचनात्
उपस्थिते भोजने ऽतस्तस्मादेव भोजनद्रव्यात्प्रथमोपनिपतितात्प्राणाग्निहोत्रं निर्वर्तयितव्यम् ।
कस्मात् ।
तद्वचनात् ।
तथाहि - ऽतद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्ऽ (छा। ५।१९।१) इति ।
सिद्धवद्भक्तोपनिपातपरामर्शेन परार्थद्रव्यसाध्यतां प्राणाहुतीनां विदधाति ।
ता अप्रयोजकलक्षणापन्नाः सत्यः कथं भोजनलोपे द्रव्यान्तरं प्रतिनिधापयेयुः ।
नचात्र प्राकृताग्निहोत्रधर्मप्राप्तिरस्ति ।
कुण्डपायिनामयने हि मासाग्निहोत्रं जुहोतीति विध्युद्देशगतो ऽग्निहोत्रशब्दस्तद्वद्भावं विदापयेदिति युक्ता तद्धर्मप्राप्तिः ।
इह पुनरर्तवादगतो ऽग्निहोत्रशब्दो न तद्वद्भावं विधापयितुमर्हति ।
तद्धर्मप्राप्तौ चाभ्युपगम्यमानायामग्न्युद्धरणादयोष-पि प्राप्येरन् ।
नचास्ति संभवः ।
अग्न्युद्धरणं तावद्धोमाधिकरमभावाय ।
नचायमग्नौ होमो भोजनार्थताव्याघातप्रसङ्गात् ।
भोजनोपनीतद्रव्यसंबन्धाच्चास्य एवैष होमः ।
तथाच जाबालश्रुतिः पूर्वो ऽतिथिभ्यो ऽश्नीयादित्यास्याधारामेवेमां होमनिर्वत्तिं दर्शयति ।
अत एव चेहापि सांपादिकान्येवाग्निहोत्राङ्गानि दर्शयति - ऽउर एव वेदिर्लोमानि बहुर्हृदयं गार्हपत्यो मनो ऽन्वाहार्यपचन आस्यमाहवनीयःऽ (छा। ५।१८।२) इति ।
वेदिश्रुतिश्चात्र स्थण्डिलमात्रोपलक्षणार्था द्रष्टव्या ।
मुख्याग्निहोत्रे वेद्याभावात् ।
तदङ्गानां चेह संपिपादयिषितत्वात् ।
भोजनेनैव च कृतकालेन संयोगान्नाग्निहोत्रकालावरोधसंभवः ।
एवमन्ये ऽप्युपस्थानादयो धर्माः केचित्कथञ्चिद्विरुध्यन्ते ।
तस्माद्भोजनपक्ष एवैते मन्त्रद्रव्यदेवतासंयोगात्पञ्च होमा निर्वर्तयितव्याः ।
यत्त्वादरदर्शनवचनं तद्भोजनपक्षे प्राथम्यविधानार्थम् ।
नह्यस्ति वचनस्यातिभारः ।
न त्वनेनास्य नित्यता शक्यते दर्शयितुम् ।
तस्माद्भोजनलोप एव प्राणाग्निहोत्रस्येति ॥ ४१ ॥
२७ तन्निर्धारणाधिकरणम् । सू। ४२
upasthite 'tastadvacanāt
upasthite bhojane 'tastasmādeva bhojanadravyātprathamopanipatitātprāṇāgnihotraṃ nirvartayitavyam /
kasmāt /
tadvacanāt /
tathāhi - 'tadyadbhaktaṃ prathamamāgacchettaddhomīyam' (chā. 5.19.1) iti /
siddhavadbhaktopanipātaparāmarśena parārthadravyasādhyatāṃ prāṇāhutīnāṃ vidadhāti /
tā aprayojakalakṣaṇāpannāḥ satyaḥ kathaṃ bhojanalope dravyāntaraṃ pratinidhāpayeyuḥ /
nacātra prākṛtāgnihotradharmaprāptirasti /
kuṇḍapāyināmayane hi māsāgnihotraṃ juhotīti vidhyuddeśagato 'gnihotraśabdastadvadbhāvaṃ vidāpayediti yuktā taddharmaprāptiḥ /
iha punarartavādagato 'gnihotraśabdo na tadvadbhāvaṃ vidhāpayitumarhati /
taddharmaprāptau cābhyupagamyamānāyāmagnyuddharaṇādayoṣa-pi prāpyeran /
nacāsti saṃbhavaḥ /
agnyuddharaṇaṃ tāvaddhomādhikaramabhāvāya /
nacāyamagnau homo bhojanārthatāvyāghātaprasaṅgāt /
bhojanopanītadravyasaṃbandhāccāsya evaiṣa homaḥ /
tathāca jābālaśrutiḥ pūrvo 'tithibhyo 'śnīyādityāsyādhārāmevemāṃ homanirvattiṃ darśayati /
ata eva cehāpi sāṃpādikānyevāgnihotrāṅgāni darśayati - 'ura eva vedirlomāni bahurhṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyamāhavanīyaḥ' (chā. 5.18.2) iti /
vediśrutiścātra sthaṇḍilamātropalakṣaṇārthā draṣṭavyā /
mukhyāgnihotre vedyābhāvāt /
tadaṅgānāṃ ceha saṃpipādayiṣitatvāt /
bhojanenaiva ca kṛtakālena saṃyogānnāgnihotrakālāvarodhasaṃbhavaḥ /
evamanye 'pyupasthānādayo dharmāḥ kecitkathañcidvirudhyante /
tasmādbhojanapakṣa evaite mantradravyadevatāsaṃyogātpañca homā nirvartayitavyāḥ /
yattvādaradarśanavacanaṃ tadbhojanapakṣe prāthamyavidhānārtham /
nahyasti vacanasyātibhāraḥ /
na tvanenāsya nityatā śakyate darśayitum /
tasmādbhojanalopa eva prāṇāgnihotrasyeti // 41 //
27 tannirdhāraṇādhikaraṇam / sū. 42
Sanskrit only: no published translation is held for this verse.
तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम्
सन्ति कर्माङ्गव्यपाश्रयाणि विज्ञानानि - ऽओमित्येतदक्षरमुद्गीथमुपासीतऽ (छा। १।१।१) इत्येवमादीनि ।
किं तानि नित्यान्येव स्युः कर्मसु पर्णमयीत्वादिवदुतानित्यानि गोदोहनादिवदिति विचारयामः ।
किं तावत्प्राप्तं - नित्यानीति ।
कुतः - प्रयोगवचनपरिग्रहात् ।
अनारभ्याधीतान्यपि ह्येतान्युद्गीथादिद्वारेण क्रतुसंबन्धात्क्रतुप्रयोगवचनेनैवाङ्गान्तरवत्संस्पृश्यन्ते ।
यत्त्वेषां स्ववाक्येषु फलश्रवणम् ऽआपयिता ह वैकामानां भवतिऽ (छा। १।१।७) इत्यादि तद्वर्तमानापदेशरूपत्वादर्थवादमात्रमेवापापश्लोकश्रवणादिवन्न फलप्रदानम् ।
तस्माद्यथा यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति इत्येवमादीनामप्रकरणपठितानामपि जुह्वादिद्वारेण क्रतुप्रवेशात्प्रकरणपठितवन्नित्यतैवमुद्गीथाद्युपासनानामपीति ।
एवं प्राप्ते ब्रूमः - तन्निर्धारणनियम इति ।
यान्येतान्युद्गीथादिकर्मगुणयाथात्म्यनिर्धारणानि रसतम आप्तिः समृद्धिर्मुख्यप्राण आदित्य इत्येवमादीनि नैतानि नित्यवत्कर्मसु नियम्येरन् ।
कुतः - तद्दृष्टेः ।
तथाह्यनियतत्वमेवञ्जातीयकानां दर्शयति श्रुतिः - ऽतेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेदऽ (छा। १।११०) इत्यविदुषो ऽपि क्रियाभ्यनुज्ञानात् ।
प्रस्तावादिदेवताविज्ञानविहीनानामपि प्रस्तोत्रादीनां याजनाध्यवसानदर्सनात् ऽप्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसिऽ (छा। १।१०।९) ऽतां चेदविद्वानुद्गास्यसिऽ (छा। १।१०।१०) ऽतां चेदविद्वान्प्रतिहरिष्यसिऽ (छा। १।१०।११) इति च ।
अपि चैवञ्जातीयकस्य कर्मव्यपाश्रयस्य विज्ञानस्य पृथगेव कर्मणः फलमुपलभ्यते कर्मफलसिद्धिद्द्यप्रतिबन्धस्तत्समृद्धिरतिशयविशेषः कश्चित् ऽतेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद ।
नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतिऽ (छा। १।१।१०) इति ।
तत्र नाना त्विति विद्वदविद्वत्प्रयोगयोः पृथक्करणाद्वीयर्वत्तरमिति च तरप्प्रत्ययप्रयोगाद्विद्याविहीनमपि कर्मविर्यवदिति गम्यते ।
तच्चानित्यत्वे विद्याया उपपद्यते ।
नित्यत्वे तु कथं तद्विहीनं कर्मविर्यवदित्यनुज्ञायेत ।
सर्वाङ्गोपसंहारे हि वीर्यवत्कर्मेति स्थितिः ।
तथा लोकसामादिषु प्रतिनियतानि प्रत्युपासनं फलानि शिष्यन्ते ऽकल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्चऽ (छा। २।२।३) इत्येवमादीनि, नचेदं फलश्रवणमर्थवादमात्रं युक्तं प्रतिपत्तुम् ।
तथाहि गुणवाद आपद्येत ।
फलोपदेशे तु मुख्यवादोपपत्तिः ।
प्रयाजादिषु त्वितिकर्तव्यताकाङ्क्षस्य क्रतोः प्रकृतत्वात्तादर्थ्ये सति युक्तं फलश्रुतेरर्थवादत्वम् ।
तथानारभ्याधीतेष्वपि पर्णमयीत्वादिषु ।
नहि पर्णमयीत्वादीनामक्रियात्मकानामाश्रयमन्तरेण फलसंबन्धो ऽवकल्पते ।
गोदोहनादीनां हि प्रकृताप्प्रणयनाद्याश्रयलाभादुपपन्नः फलविधिः ।
तथा बैल्वादीनामपि प्रकृतयूपाद्याश्रयलाभादुपपन्नः फलविधिः ।
नतु पर्णमयीत्वादिष्वेवंविधः कश्चिदाश्रयः प्रकृतो ऽस्ति ।
वाक्येनैव तु जुह्वाद्याश्रयतां विवक्षित्वा फले ऽपि विधिं विवक्षतो वाक्यभेदः स्यात् ।
उपासनानां तु क्रियात्मत्वाद्विशिष्टविधानोपपत्तेरुद्गीथाद्याश्रयाणां फले विदानं न विरुध्यते ।
तस्माद्यथा क्रत्वाश्रयाण्यपि गोदोहनादीनि फलसंयोगादनित्यान्येवमुद्गीथाद्युपासनान्यपीति द्रष्टव्यम् ।
अत एव च कल्पसूत्रकारा नैवञ्जातीयकान्युपासनानि क्रतुषु कल्पयाञ्चक्रुः ॥ ४२ ॥
२८ प्रदानाधिकरणम् । सू। ४३
tannirdhāraṇāniyamastaddṛṣṭeḥ pṛthagghyapratibandhaḥ phalam
santi karmāṅgavyapāśrayāṇi vijñānāni - 'omityetadakṣaramudgīthamupāsīta' (chā. 1.1.1) ityevamādīni /
kiṃ tāni nityānyeva syuḥ karmasu parṇamayītvādivadutānityāni godohanādivaditi vicārayāmaḥ /
kiṃ tāvatprāptaṃ - nityānīti /
kutaḥ - prayogavacanaparigrahāt /
anārabhyādhītānyapi hyetānyudgīthādidvāreṇa kratusaṃbandhātkratuprayogavacanenaivāṅgāntaravatsaṃspṛśyante /
yattveṣāṃ svavākyeṣu phalaśravaṇam 'āpayitā ha vaikāmānāṃ bhavati' (chā. 1.1.7) ityādi tadvartamānāpadeśarūpatvādarthavādamātramevāpāpaślokaśravaṇādivanna phalapradānam /
tasmādyathā yasya parṇamayī juhūrbhavati na sa pāpaṃ ślokaṃ śṛṇoti ityevamādīnāmaprakaraṇapaṭhitānāmapi juhvādidvāreṇa kratupraveśātprakaraṇapaṭhitavannityataivamudgīthādyupāsanānāmapīti /
evaṃ prāpte brūmaḥ - tannirdhāraṇaniyama iti /
yānyetānyudgīthādikarmaguṇayāthātmyanirdhāraṇāni rasatama āptiḥ samṛddhirmukhyaprāṇa āditya ityevamādīni naitāni nityavatkarmasu niyamyeran /
kutaḥ - taddṛṣṭeḥ /
tathāhyaniyatatvamevañjātīyakānāṃ darśayati śrutiḥ - 'tenobhau kuruto yaścaitadevaṃ veda yaśca na veda' (chā. 1.110) ityaviduṣo 'pi kriyābhyanujñānāt /
prastāvādidevatāvijñānavihīnānāmapi prastotrādīnāṃ yājanādhyavasānadarsanāt 'prastotaryā devatā prastāvamanvāyattā tāṃ cedavidvānprastoṣyasi' (chā. 1.10.9) 'tāṃ cedavidvānudgāsyasi' (chā. 1.10.10) 'tāṃ cedavidvānpratihariṣyasi' (chā. 1.10.11) iti ca /
api caivañjātīyakasya karmavyapāśrayasya vijñānasya pṛthageva karmaṇaḥ phalamupalabhyate karmaphalasiddhiddyapratibandhastatsamṛddhiratiśayaviśeṣaḥ kaścit 'tenobhau kuruto yaścaitadevaṃ veda yaśca na veda /
nānā tu vidyā cāvidyā ca yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṃ bhavati' (chā. 1.1.10) iti /
tatra nānā tviti vidvadavidvatprayogayoḥ pṛthakkaraṇādvīyarvattaramiti ca tarappratyayaprayogādvidyāvihīnamapi karmaviryavaditi gamyate /
taccānityatve vidyāyā upapadyate /
nityatve tu kathaṃ tadvihīnaṃ karmaviryavadityanujñāyeta /
sarvāṅgopasaṃhāre hi vīryavatkarmeti sthitiḥ /
tathā lokasāmādiṣu pratiniyatāni pratyupāsanaṃ phalāni śiṣyante 'kalpante hāsmai lokā ūrdhvāścāvṛttāśca' (chā. 2.2.3) ityevamādīni, nacedaṃ phalaśravaṇamarthavādamātraṃ yuktaṃ pratipattum /
tathāhi guṇavāda āpadyeta /
phalopadeśe tu mukhyavādopapattiḥ /
prayājādiṣu tvitikartavyatākāṅkṣasya kratoḥ prakṛtatvāttādarthye sati yuktaṃ phalaśruterarthavādatvam /
tathānārabhyādhīteṣvapi parṇamayītvādiṣu /
nahi parṇamayītvādīnāmakriyātmakānāmāśrayamantareṇa phalasaṃbandho 'vakalpate /
godohanādīnāṃ hi prakṛtāppraṇayanādyāśrayalābhādupapannaḥ phalavidhiḥ /
tathā bailvādīnāmapi prakṛtayūpādyāśrayalābhādupapannaḥ phalavidhiḥ /
natu parṇamayītvādiṣvevaṃvidhaḥ kaścidāśrayaḥ prakṛto 'sti /
vākyenaiva tu juhvādyāśrayatāṃ vivakṣitvā phale 'pi vidhiṃ vivakṣato vākyabhedaḥ syāt /
upāsanānāṃ tu kriyātmatvādviśiṣṭavidhānopapatterudgīthādyāśrayāṇāṃ phale vidānaṃ na virudhyate /
tasmādyathā kratvāśrayāṇyapi godohanādīni phalasaṃyogādanityānyevamudgīthādyupāsanānyapīti draṣṭavyam /
ata eva ca kalpasūtrakārā naivañjātīyakānyupāsanāni kratuṣu kalpayāñcakruḥ // 42 //
28 pradānādhikaraṇam / sū. 43
Sanskrit only: no published translation is held for this verse.
प्रदानवदेव तदुक्तम्
वाजसनेयके - ऽवदिष्याम्येवाहमीति वाग्दध्रेऽ (बृ। १।५।२१) इत्यत्राध्यात्मं वागादीनां श्रेष्ठो ऽवधारितो ऽधिदैवतमग्न्यादीनां वायुः तथा छान्दोग्ये - ऽवायुर्वाव संवर्गःऽ (छा। ४।३।१) इत्यत्राधिदैवतमग्न्यादीनां वायुः सर्ङ्गो ऽवधारितः ऽप्राणो वाव संवर्गःऽ (छा। ४।३।२) इत्यत्राध्यात्मं वागादीनां प्राणः ।
तत्र संशयः - किं पृथगेवेमौ वायुप्राणावुपगन्तव्यौ स्यातामपृथग्वेति ।
अपृथगेवेति तावत्प्राप्तं तत्त्वभेदात् ।
नह्यभिन्ने तत्त्वे पृथगनुचिन्तनं न्याय्यम् ।
दर्शयति च श्रुतिरध्यात्ममधिदैवतं च तत्त्वाभेदम् - ऽअग्निर्वाग्भूत्वा मुखं प्राविशत्ऽ (ऐ। २।४) इत्यारभ्य ।
तथा ऽत एते सर्व एव समाः सर्वो ऽनन्ताःऽ (बृ। १।५।१३) इत्याध्यात्मिकानां प्रामानामाधिदैविकीं विबूतिमात्मभूतां दर्शयति ।
तथान्यत्रापि तत्र तत्राध्यात्ममधिदैवतं च बहुधा तत्त्वभेददर्शनं भवति ।
क्वचिच्च ऽयः प्राणः स वायुः इति स्पष्टमेव वायुं प्राणं चैकं करोति ।
तथोदाहृते ऽपि वाजसनेयिब्राह्मणे यतश्चेदेति सूर्यः (बृ। १।५।२३) इत्यस्मिन्नुपसंहारश्लोके ऽप्राणाद्वा एष उदेति प्राणे ऽस्तमेतिऽ (बृ। १।५।२३) इति प्राणेनैवोपसंहरन्नेत्वं दर्शयति ।
तस्मादेकमेव व्रतं चरेत्प्राण्याच्चैवापायान्याच्चऽ (बृ। १।५।२३) इति च प्राणव्रतेनैकेनोपसंहरेन्नेतदेव द्रढयति ।
तथा छान्दोग्ये ऽपि परस्तात् ऽमहात्मनश्चतुरो देव एकः कः स जागर भुवनस्य गोपाःऽ (छा। ४।३।६) इत्येकमेव संवर्गं गमयति न ब्रवीत्येक एकेषां चतुर्णां संवर्गो ऽपरो ऽपरेषामिति ।
तस्मादपृथक्त्वमुपगमनस्येति ।
एवं प्राप्ते ब्रूमः - पृथगेव वायुप्राणावुपगन्तव्याविति ।
कस्मात् ।
पृथगुपदेशात् ।
आध्यानार्थो ह्ययमध्यात्माधिदैवविभागोपदेशः सो ऽसत्याध्यानपृथक्त्वे ऽनर्थक एव स्यात् ।
ननूक्तं न पृथगनुचिन्तनं तत्त्वाभेदादिति ।
नैष दोषः ।
तत्त्वाभेदे ऽप्यवस्थाभेदादुपदेशभेदवशेनानुचिन्तनभेदोपपत्तेः ।
श्लोकोपन्यासस्य च तत्त्वाभेदाभिप्रायेणाप्युपपद्यमानस्य पूर्वोदितध्येयभेदनिराकरणसामर्थ्याभावात् ।
ऽस यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुःऽ (बृ। १।५।२२) इति चोपमानोपमेयकरणात् ।
एतेन व्रतोपदेशो व्याख्यातः ।
ऽएकमेव व्रतम्ऽ (बृ। १।५।२३) इति चैवकारो वागादिव्रतनिवर्तनेन प्राणव्रतप्रतिपत्त्यर्थः ।
भग्नव्रतानि हि वागादीन्युक्तानि ऽतानि मृत्युः श्रमो भूत्वोपयेमेऽ (बृ। १।५।२१) इति श्रुतेः ।
ऽन वायुव्रतनिवृत्त्यर्थः अथातो व्रतमीमांसाऽ (बृ। १।५।२१) इति प्रस्तुत्य तुल्यवद्वायुप्राणयोरभग्नव्रतत्वस्य निर्धारितत्वात् ।
ऽएकमेव व्रतं चरेत्ऽ (बृ। १।५।२३) इति चेक्त्वा ऽतेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति (बृ। १।५।२३) इति वायुप्राप्तिं फलं ब्रुवन्वायुव्रतमनिवर्तितं दर्शयति ।
द्वतेत्यत्र वायुः स्यादपरिच्चिन्नात्मकत्वस्य प्रेप्सितत्वात् ।
पुरस्तात्प्रयोगाच्च ऽसैषानस्तमिता देवता यद्वायुःऽ (बृ। १।५।२२) इति ।
तथा ऽतौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषुऽ (छा। ४।३।४) इति भेदेन व्यपदिशति ऽते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतम्ऽ (छा। ४।३।८) इति च भेदेनैवोपसंहरति ।
तस्मात्पृथगेवोपगमनम् ।
प्रदानवत् ।
यथेन्द्राय राज्ञे पुरोडाशमेकादशकपालमिन्द्रायाधिराजायेन्द्राय स्वराज्ञ इत्यस्यां त्रिपुरोडाशिन्यामिष्टौ सर्वेषामभिगमयन्नवद्यत्यछंबट्कारमिति ।
अतो वचनादिन्द्राभेदाच्च सहप्रदानाशङ्कायां राजादिगुणभेदाद्याज्यानुवाक्यव्यत्यासविधानाच्च यथान्यसमेव देवतापृथक्त्वात्प्रदानपृथक्त्वं भवति ।
एवं तत्त्वाभेदे ऽप्याध्येयांशपृथक्त्वादाध्यानपृथक्त्वमित्यर्थः ।
तदुक्तं संकर्षे ऽनाना वा देवता पृथग्ज्ञानात्ऽ इति ।
तत्र तु द्रव्यदेवताभेदाद्यागभेदो विद्यते नैवमिह विद्याभेदो ऽस्ति ।
उपक्रमोपसंहाराभ्यामध्यात्माधिदैवोपदेशेष्वेकविद्याविधानप्रतीतेः ।
विद्यैकस्थे ऽपि त्वध्यात्माधिदैवभेदात्प्रवृत्तिभेदो भवति अग्निहोत्र इव सायंप्रातःकालभेदात् ।
इत्येतावदभिप्रेत्य प्रदानवदित्युक्तम् ॥ ४३ ॥
२९ लिङ्गभूयस्त्वाधिकरणम् । सू। ४४-५२
pradānavadeva taduktam
vājasaneyake - 'vadiṣyāmyevāhamīti vāgdadhre' (bṛ. 1.5.21) ityatrādhyātmaṃ vāgādīnāṃ śreṣṭho 'vadhārito 'dhidaivatamagnyādīnāṃ vāyuḥ tathā chāndogye - 'vāyurvāva saṃvargaḥ' (chā. 4.3.1) ityatrādhidaivatamagnyādīnāṃ vāyuḥ sarṅgo 'vadhāritaḥ 'prāṇo vāva saṃvargaḥ' (chā. 4.3.2) ityatrādhyātmaṃ vāgādīnāṃ prāṇaḥ /
tatra saṃśayaḥ - kiṃ pṛthagevemau vāyuprāṇāvupagantavyau syātāmapṛthagveti /
apṛthageveti tāvatprāptaṃ tattvabhedāt /
nahyabhinne tattve pṛthaganucintanaṃ nyāyyam /
darśayati ca śrutiradhyātmamadhidaivataṃ ca tattvābhedam - 'agnirvāgbhūtvā mukhaṃ prāviśat' (ai. 2.4) ityārabhya /
tathā 'ta ete sarva eva samāḥ sarvo 'nantāḥ' (bṛ. 1.5.13) ityādhyātmikānāṃ prāmānāmādhidaivikīṃ vibūtimātmabhūtāṃ darśayati /
tathānyatrāpi tatra tatrādhyātmamadhidaivataṃ ca bahudhā tattvabhedadarśanaṃ bhavati /
kvacicca 'yaḥ prāṇaḥ sa vāyuḥ iti spaṣṭameva vāyuṃ prāṇaṃ caikaṃ karoti /
tathodāhṛte 'pi vājasaneyibrāhmaṇe yataścedeti sūryaḥ (bṛ. 1.5.23) ityasminnupasaṃhāraśloke 'prāṇādvā eṣa udeti prāṇe 'stameti' (bṛ. 1.5.23) iti prāṇenaivopasaṃharannetvaṃ darśayati /
tasmādekameva vrataṃ caretprāṇyāccaivāpāyānyācca' (bṛ. 1.5.23) iti ca prāṇavratenaikenopasaṃharennetadeva draḍhayati /
tathā chāndogye 'pi parastāt 'mahātmanaścaturo deva ekaḥ kaḥ sa jāgara bhuvanasya gopāḥ' (chā. 4.3.6) ityekameva saṃvargaṃ gamayati na bravītyeka ekeṣāṃ caturṇāṃ saṃvargo 'paro 'pareṣāmiti /
tasmādapṛthaktvamupagamanasyeti /
evaṃ prāpte brūmaḥ - pṛthageva vāyuprāṇāvupagantavyāviti /
kasmāt /
pṛthagupadeśāt /
ādhyānārtho hyayamadhyātmādhidaivavibhāgopadeśaḥ so 'satyādhyānapṛthaktve 'narthaka eva syāt /
nanūktaṃ na pṛthaganucintanaṃ tattvābhedāditi /
naiṣa doṣaḥ /
tattvābhede 'pyavasthābhedādupadeśabhedavaśenānucintanabhedopapatteḥ /
ślokopanyāsasya ca tattvābhedābhiprāyeṇāpyupapadyamānasya pūrvoditadhyeyabhedanirākaraṇasāmarthyābhāvāt /
'sa yathaiṣāṃ prāṇānāṃ madhyamaḥ prāṇa evametāsāṃ devatānāṃ vāyuḥ' (bṛ. 1.5.22) iti copamānopameyakaraṇāt /
etena vratopadeśo vyākhyātaḥ /
'ekameva vratam' (bṛ. 1.5.23) iti caivakāro vāgādivratanivartanena prāṇavratapratipattyarthaḥ /
bhagnavratāni hi vāgādīnyuktāni 'tāni mṛtyuḥ śramo bhūtvopayeme' (bṛ. 1.5.21) iti śruteḥ /
'na vāyuvratanivṛttyarthaḥ athāto vratamīmāṃsā' (bṛ. 1.5.21) iti prastutya tulyavadvāyuprāṇayorabhagnavratatvasya nirdhāritatvāt /
'ekameva vrataṃ caret' (bṛ. 1.5.23) iti cektvā 'teno etasyai devatāyai sāyujyaṃ salokatāṃ jayati (bṛ. 1.5.23) iti vāyuprāptiṃ phalaṃ bruvanvāyuvratamanivartitaṃ darśayati /
dvatetyatra vāyuḥ syādapariccinnātmakatvasya prepsitatvāt /
purastātprayogācca 'saiṣānastamitā devatā yadvāyuḥ' (bṛ. 1.5.22) iti /
tathā 'tau vā etau dvau saṃvargau vāyureva deveṣu prāṇaḥ prāṇeṣu' (chā. 4.3.4) iti bhedena vyapadiśati 'te vā ete pañcānye pañcānye daśa santastatkṛtam' (chā. 4.3.8) iti ca bhedenaivopasaṃharati /
tasmātpṛthagevopagamanam /
pradānavat /
yathendrāya rājñe puroḍāśamekādaśakapālamindrāyādhirājāyendrāya svarājña ityasyāṃ tripuroḍāśinyāmiṣṭau sarveṣāmabhigamayannavadyatyachaṃbaṭkāramiti /
ato vacanādindrābhedācca sahapradānāśaṅkāyāṃ rājādiguṇabhedādyājyānuvākyavyatyāsavidhānācca yathānyasameva devatāpṛthaktvātpradānapṛthaktvaṃ bhavati /
evaṃ tattvābhede 'pyādhyeyāṃśapṛthaktvādādhyānapṛthaktvamityarthaḥ /
taduktaṃ saṃkarṣe 'nānā vā devatā pṛthagjñānāt' iti /
tatra tu dravyadevatābhedādyāgabhedo vidyate naivamiha vidyābhedo 'sti /
upakramopasaṃhārābhyāmadhyātmādhidaivopadeśeṣvekavidyāvidhānapratīteḥ /
vidyaikasthe 'pi tvadhyātmādhidaivabhedātpravṛttibhedo bhavati agnihotra iva sāyaṃprātaḥkālabhedāt /
ityetāvadabhipretya pradānavadityuktam // 43 //
29 liṅgabhūyastvādhikaraṇam / sū. 44-52
Sanskrit only: no published translation is held for this verse.
लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि
वाजसनेयिनो ऽग्निरहस्ये - ऽनैव इदमग्रे सदासीत्ऽ इत्येतस्मिन्ब्राह्मणे मनो ऽधिकृत्याधीयते ऽतत्षट्त्रिंशत्सहस्राण्यपश्यदात्मनो ऽग्नीनर्कान्मनोमयामनश्चितःऽ इत्यादि ।
तथैव ऽवाक्चितः प्राणचितश्चक्षुश्चितः श्रोत्रचितः कर्मचितो ऽग्निचितःऽ इति पृथगगमनीनामनन्ति सांपादिकान् ।
तेषु संशयः - किमेते मनश्चिदादयः क्रियानुप्रवेशिनस्तच्छेषभूता उत स्वतन्त्राः केवलविद्यात्मका इति ।
तत्र प्रकरणाक्रियानुप्रवेशे प्राप्ते स्वातन्त्र्यं तावत्प्रतिजानीते लिङ्गभयस्त्वादिति ।
भूयांसि हिलिङ्गान्यस्मिन्ब्राह्मणे केवलविद्यात्मकत्वमेषामुपोद्बलयन्ति दृश्यन्ते तद्यत्किञ्चेमानि भूतानि मनसा संकल्पयन्ति तेषामेव सा कृतिः इति, ऽतान्हैतानेवंविदे सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपतेऽ इति चैवञ्जातीयकानि ।
तद्धि लिङ्गं प्रकरणाद्बलीयः ।
तदप्युक्तं पूर्वस्मिन्काण्डे - ऽश्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवायेपारदौर्बल्यमर्थविप्रकर्षात्ऽ (जैसू। ३।३।१३) इति ॥ ४४ ॥
liṅgabhūyastvāttaddhi balīyastadapi
vājasaneyino 'gnirahasye - 'naiva idamagre sadāsīt' ityetasminbrāhmaṇe mano 'dhikṛtyādhīyate 'tatṣaṭtriṃśatsahasrāṇyapaśyadātmano 'gnīnarkānmanomayāmanaścitaḥ' ityādi /
tathaiva 'vākcitaḥ prāṇacitaścakṣuścitaḥ śrotracitaḥ karmacito 'gnicitaḥ' iti pṛthagagamanīnāmananti sāṃpādikān /
teṣu saṃśayaḥ - kimete manaścidādayaḥ kriyānupraveśinastaccheṣabhūtā uta svatantrāḥ kevalavidyātmakā iti /
tatra prakaraṇākriyānupraveśe prāpte svātantryaṃ tāvatpratijānīte liṅgabhayastvāditi /
bhūyāṃsi hiliṅgānyasminbrāhmaṇe kevalavidyātmakatvameṣāmupodbalayanti dṛśyante tadyatkiñcemāni bhūtāni manasā saṃkalpayanti teṣāmeva sā kṛtiḥ iti, 'tānhaitānevaṃvide sarvadā sarvāṇi bhūtāni cinvantyapi svapate' iti caivañjātīyakāni /
taddhi liṅgaṃ prakaraṇādbalīyaḥ /
tadapyuktaṃ pūrvasminkāṇḍe - 'śrutiliṅgavākyaprakaraṇasthānasamākhyānāṃ samavāyepāradaurbalyamarthaviprakarṣāt' (jai.sū. 3.3.13) iti // 44 //
Sanskrit only: no published translation is held for this verse.
पूर्वविकल्पः प्रकरणात्स्यात् क्रियामानसवत्
नैतदुक्तं स्वतन्त्रा एते ऽग्नयो ऽनन्यशेषभूता इति ।
पूर्वस्य क्रियामयस्याग्नेः प्रकरणात्तद्विषय एवायं विकल्पविशेषोपदेशः स्यान्न स्वतन्त्रः ।
ननु प्रकरणाल्लिङ्गं बलीयः ।
सत्यमेतत् ।
लिङ्गमपि त्वेवञ्जातीयकं न प्रकरणाद्बलीयो भवति ।
अन्यार्थदर्शनं ह्येतत् ।
सांपादिकाग्निप्रशंसारूपत्वात् ।
अन्यार्थदर्शनं चासत्यामन्यस्यां प्राप्तौ गुणवादेनाप्युपपद्यमानं न प्रकरणं बाधितुमुत्सहते ।
तस्मातसांपादिका अप्येते ऽग्नयः प्रकरणात्क्रियानुप्रवेशिन एव स्युः ।
मानसवत् ।
यथा दशरात्रस्य दसणे ऽहन्यविवाक्ये पृथिव्या पात्रेण समुद्रस्य सोमस्य प्रजापतये देवतायै गुह्यमाणस्य ग्रहणासादनहवनाहरणोपह्वानभक्षणानि मानसान्येवाम्नायन्ते ।
स च मानसो ऽपि ग्रहकल्पः क्रियाप्रकरणात्क्रियाशेष एव भवत्येवमयमप्यग्निकल्प इत्यर्थः ॥ ४५ ॥
----------------------
फ़्न्: अविवाक्यमिति दशमस्याह्नो नामधेयम् ।
pūrvavikalpaḥ prakaraṇātsyāt kriyāmānasavat
naitaduktaṃ svatantrā ete 'gnayo 'nanyaśeṣabhūtā iti /
pūrvasya kriyāmayasyāgneḥ prakaraṇāttadviṣaya evāyaṃ vikalpaviśeṣopadeśaḥ syānna svatantraḥ /
nanu prakaraṇālliṅgaṃ balīyaḥ /
satyametat /
liṅgamapi tvevañjātīyakaṃ na prakaraṇādbalīyo bhavati /
anyārthadarśanaṃ hyetat /
sāṃpādikāgnipraśaṃsārūpatvāt /
anyārthadarśanaṃ cāsatyāmanyasyāṃ prāptau guṇavādenāpyupapadyamānaṃ na prakaraṇaṃ bādhitumutsahate /
tasmātasāṃpādikā apyete 'gnayaḥ prakaraṇātkriyānupraveśina eva syuḥ /
mānasavat /
yathā daśarātrasya dasaṇe 'hanyavivākye pṛthivyā pātreṇa samudrasya somasya prajāpataye devatāyai guhyamāṇasya grahaṇāsādanahavanāharaṇopahvānabhakṣaṇāni mānasānyevāmnāyante /
sa ca mānaso 'pi grahakalpaḥ kriyāprakaraṇātkriyāśeṣa eva bhavatyevamayamapyagnikalpa ityarthaḥ // 45 //
----------------------
FN: avivākyamiti daśamasyāhno nāmadheyam /
Sanskrit only: no published translation is held for this verse.
अतिदेशाच् च
अतिदेशश्चैषामग्नीनाङ्क्रियानुप्रवेशमुपोद्बलयति - ऽषट्त्रिंशत्सहसस्राण्यग्नयोर्ऽकास्तेषामेकैक एव तावन्यावानसौ पूर्वःऽ इति ।
सति हि सामान्ये ऽतिदेशः प्रवर्तते ।
ततश्च पूर्वेणेष्टकाचितेन क्रियानुप्रवेशिनाग्निना संपादिकानग्नीनतिदिशन्क्रियानुप्रवेशमेवैषां द्योतयति ॥ ४६ ॥
atideśāc ca
atideśaścaiṣāmagnīnāṅkriyānupraveśamupodbalayati - 'ṣaṭtriṃśatsahasasrāṇyagnayor'kāsteṣāmekaika eva tāvanyāvānasau pūrvaḥ' iti /
sati hi sāmānye 'tideśaḥ pravartate /
tataśca pūrveṇeṣṭakācitena kriyānupraveśināgninā saṃpādikānagnīnatidiśankriyānupraveśamevaiṣāṃ dyotayati // 46 //
Sanskrit only: no published translation is held for this verse.
विद्यैव तु निर्धारणात्
तुशब्दः पक्षं व्यावर्तयति ।
विद्यात्मका एवैते स्वतन्त्रा मनश्चिदादयो ऽग्नयः स्युर्न क्रियाशेषभूताः ।
तथाहि निर्धारयति - ऽते हैते विद्याचित एवऽ इति ।
विद्यया हैवैत एवंविदश्चिता भवन्ति इति च ॥ ४७ ॥
vidyaiva tu nirdhāraṇāt
tuśabdaḥ pakṣaṃ vyāvartayati /
vidyātmakā evaite svatantrā manaścidādayo 'gnayaḥ syurna kriyāśeṣabhūtāḥ /
tathāhi nirdhārayati - 'te haite vidyācita eva' iti /
vidyayā haivaita evaṃvidaścitā bhavanti iti ca // 47 //
Sanskrit only: no published translation is held for this verse.
दर्शनाच् च
दृश्यते चैषां स्वातन्त्र्ये लिङ्गम् ।
तत्पुरस्ताद्दर्शितम् लिङ्गभूयस्त्वात् (ब्र। सू। ३।३।४४) इत्यत्र ॥ ४८ ॥
ननु लिङ्गमप्यसत्यांमन्यस्यां प्राप्तावसाधकं कस्यचिदर्थस्येत्यपास्य तत्प्रकरणसामर्थ्यात्क्रियाशेषत्वमध्यवसितमित्यत उत्तरं पठति -
darśanāc ca
dṛśyate caiṣāṃ svātantrye liṅgam /
tatpurastāddarśitam liṅgabhūyastvāt (bra. sū. 3.3.44) ityatra // 48 //
nanu liṅgamapyasatyāṃmanyasyāṃ prāptāvasādhakaṃ kasyacidarthasyetyapāsya tatprakaraṇasāmarthyātkriyāśeṣatvamadhyavasitamityata uttaraṃ paṭhati -
Sanskrit only: no published translation is held for this verse.
श्रुत्यादिबलीयस्त्वाच् च न बाधः
नैवं प्रकरणसामर्थ्यात्क्रियाशेषत्वमध्यवसाय स्वातन्त्रयपक्षो बाधितव्यः ।
श्रुत्यादेर्बलीयस्त्वात् ।
बलीयांसि हि प्रकरणाच्छ्रुतिलिङ्गवाक्यानीति स्थितं श्रुतिलिङ्गसूत्रे ।
तानि चेह स्वातन्त्र्यपक्षं साधयन्ति दृश्यन्ते ।
कथम् ।
श्रुतिस्तावत् ऽते हैते विद्याचित एवऽ इति ।
तथा लिङ्म् ऽसर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपतेऽ इति ।
तथा वाक्यमपि ऽविद्यया हैवैत एवंविदाश्रिताभवन्तिऽ इति ।
ऽविद्याचित एवऽ इति हि सावधारणेयं श्रुतिः क्रियानुप्रवेशे ऽमीषामभ्युपगम्यमाने पीडिता स्यात् ।
नन्वबाह्यसाधनत्वाभिप्रायमिदवधारणं भविष्यति ।
नेत्युच्यते ।
तदभिप्रायतायां हिविद्योचित इतीयता स्वरूपसमकीर्तनेनैव कृतत्वादनर्थकमवधारणं भवेत् ।
स्वरूपमेव ह्येषामबाह्यसाधनमिति ।
अबाह्यसाधनत्वे ऽपि तु मानसग्रहवत्क्रियानुप्रवेशशङ्कायां तन्निवृत्तिफलमवधारणर्थवद्भविष्यति ।
तथा ऽस्वपते जाग्रते चैवंविदे सर्वदा सर्वाणि भूतान्येतान्येतानग्निंश्चिन्वन्तिऽ इति सातत्यदर्शनमेषां स्वातन्त्र्ये ऽवकल्पते ।
यथा सांपादिके वाक्यप्राणमये ऽग्निहोत्रे ऽप्राणं तदा वाचि जुहोति - वाचं तदा प्राणे जुहोतिऽ (कौ। २।५) इति चोक्त्वोच्यते - ऽएते अनन्ते आहुती जाग्रच्च स्वपंश्च सततं - जुहोतिऽ (कौषी। २।५) इति ।
तद्वत् ।
क्रियानुप्रवेशे तु क्रियाप्रयोगस्याल्पकालत्वेन न सातत्येषां प्रयोगः कल्पेत ।
नचेदमर्थवादमात्रमिति न्याय्यम् ।
यत्र हि विस्पष्टो विधायको लिङ्गादिरुपलभ्यते युक्तं तत्र संकीर्तनमात्रस्यार्थवादत्वम् ।
इह हि विस्पष्टोविध्यन्तरानुपलब्धेः संकीर्तनादेवैषां विज्ञानविधानं कल्पनीयम् ।
तच्च यथासंकीर्तनमेव कल्पयितुं शक्यत इति सातत्यदर्शनात्तथाभूतमेव कल्प्यते ।
ततश्च सामर्थ्यादेषां स्वातन्त्र्यसिद्धिः ।
एतेन तद्यत्किञ्चेमानि भूतानि मनसा संकल्पयन्ति तेषामेव सा कृतिः इत्यादि व्याख्यातम् ।
तथा वाक्यमपि एवंविदे इति पुरुषविशेषसंबन्धमेवैषामाचक्षणं न क्रतुसंबन्धं मृष्यते ।
तस्मात्स्वातन्त्र्यपक्ष एव ज्यायानिति ॥ ४९ ॥
śrutyādibalīyastvāc ca na bādhaḥ
naivaṃ prakaraṇasāmarthyātkriyāśeṣatvamadhyavasāya svātantrayapakṣo bādhitavyaḥ /
śrutyāderbalīyastvāt /
balīyāṃsi hi prakaraṇācchrutiliṅgavākyānīti sthitaṃ śrutiliṅgasūtre /
tāni ceha svātantryapakṣaṃ sādhayanti dṛśyante /
katham /
śrutistāvat 'te haite vidyācita eva' iti /
tathā liṅm 'sarvadā sarvāṇi bhūtāni cinvantyapi svapate' iti /
tathā vākyamapi 'vidyayā haivaita evaṃvidāśritābhavanti' iti /
'vidyācita eva' iti hi sāvadhāraṇeyaṃ śrutiḥ kriyānupraveśe 'mīṣāmabhyupagamyamāne pīḍitā syāt /
nanvabāhyasādhanatvābhiprāyamidavadhāraṇaṃ bhaviṣyati /
netyucyate /
tadabhiprāyatāyāṃ hividyocita itīyatā svarūpasamakīrtanenaiva kṛtatvādanarthakamavadhāraṇaṃ bhavet /
svarūpameva hyeṣāmabāhyasādhanamiti /
abāhyasādhanatve 'pi tu mānasagrahavatkriyānupraveśaśaṅkāyāṃ tannivṛttiphalamavadhāraṇarthavadbhaviṣyati /
tathā 'svapate jāgrate caivaṃvide sarvadā sarvāṇi bhūtānyetānyetānagniṃścinvanti' iti sātatyadarśanameṣāṃ svātantrye 'vakalpate /
yathā sāṃpādike vākyaprāṇamaye 'gnihotre 'prāṇaṃ tadā vāci juhoti - vācaṃ tadā prāṇe juhoti' (kau. 2.5) iti coktvocyate - 'ete anante āhutī jāgracca svapaṃśca satataṃ - juhoti' (kauṣī. 2.5) iti /
tadvat /
kriyānupraveśe tu kriyāprayogasyālpakālatvena na sātatyeṣāṃ prayogaḥ kalpeta /
nacedamarthavādamātramiti nyāyyam /
yatra hi vispaṣṭo vidhāyako liṅgādirupalabhyate yuktaṃ tatra saṃkīrtanamātrasyārthavādatvam /
iha hi vispaṣṭovidhyantarānupalabdheḥ saṃkīrtanādevaiṣāṃ vijñānavidhānaṃ kalpanīyam /
tacca yathāsaṃkīrtanameva kalpayituṃ śakyata iti sātatyadarśanāttathābhūtameva kalpyate /
tataśca sāmarthyādeṣāṃ svātantryasiddhiḥ /
etena tadyatkiñcemāni bhūtāni manasā saṃkalpayanti teṣāmeva sā kṛtiḥ ityādi vyākhyātam /
tathā vākyamapi evaṃvide iti puruṣaviśeṣasaṃbandhamevaiṣāmācakṣaṇaṃ na kratusaṃbandhaṃ mṛṣyate /
tasmātsvātantryapakṣa eva jyāyāniti // 49 //
Sanskrit only: no published translation is held for this verse.
अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश् च तदुक्तम्
इतश्च प्रकरणमुपमृद्य स्वातन्त्र्यं मनश्चिदादीनां प्रतिपत्तव्यम् ।
यत्क्रियावयवान्मन-आदिव्यापारेष्वनुबध्नाति ऽते मनसैवाधीयन्त मनसाचीयन्त मनसैव ग्रहा अगृह्यन्त मनसास्तुवन्मनसाशंसन्यत्किञ्च यज्ञे कर्म क्रियते यत्किञ्च यज्ञियं कर्म मनसैव तेषु तन्मनोमयेषु मनश्चित्सु मनोमयमेव क्रियतेऽ इत्यादिना ।
संपत्फलो ह्ययमनुबन्धः ।
नच प्रत्यक्षाः क्रियावयवाः सन्तः संपदा लिप्सितव्याः ।
नचात्रोद्गीथाद्युपासनवत्क्रियाङ्गसंबन्धात्तदनुप्रवेशित्वमाशङ्कितव्यं श्रुतिवैरूप्यात् ।
नह्यत्र क्रियाङ्गं किञ्चिदादाय तस्मिन्नदो नामाध्यवसितव्यमिति वदति ।
षट्त्रिंशत्सहस्राणि तु मनोवृत्तिभेदानादाय तेष्वग्नित्वं ग्रहादींश्च कल्पयति पुरुषयादिवत् ।
संख्या चेयं पुरुषायुषस्याहःसु दृष्टा सती तत्संबन्धिनीषु मनोवृत्तिष्वारोप्यत इति द्रष्टव्यम् ।
एवमनुबन्धात्स्वातन्त्र्यं मनश्चिदादीनाम् ।
आदिशब्दादतिदेशाद्यपि यथासंभवं योजयितव्यम् ।
तथाहि - ऽतेषामेकैक एव तावान्यानानसौ पूर्वःऽ इति क्रियामयस्याग्नेर्माहात्म्यं ज्ञानमयानामेकैकस्यातिदिशन्किरियायामनादरं दर्शयति ।
नच सत्येव क्रियासंबन्धे विकल्पः पूर्वेणोत्तरेषामिति शक्यं वक्तुम् ।
नहि येन व्यापारेणाहनीयधारणादिना पूर्वः क्रियायामुपकरोति तेनोत्तर उपकर्तुं शक्नुवन्ति ।
यत्तु पूर्वपक्षे ऽप्यतिदेश उपोद्बलक इत्युक्तं सति हि सामान्ये ऽतिदेशः प्रवर्तत इति तदस्मात्पक्षे ऽग्नित्वसामान्येनातिदेशसंभवात्प्रत्युक्तम् ।
अस्ति हि सांपादिकानामप्यग्नीनामग्नित्वमिति ।
श्रुत्यादीनि च कारणानि दर्शितानि ।
एवमनुबन्धादिभ्यः कारणेभ्यः स्वतान्त्र्यं मनश्चिदादीनाम ।
प्रज्ञान्तरपृथक्त्ववत् ।
यथा प्रज्ञान्तराणि शाण्डिल्यविद्याप्रभृतीनि स्वेन स्वेनानुबध्यमानानि पृथगेव कर्मभ्यः प्रज्ञान्तरेभ्यश्च स्वतन्त्राणि भवन्त्येवमिति ।
दृष्टश्चावेष्टे राजसूयप्रकरणपठितायाः प्रकरणादुत्कर्षो वर्णत्रयानुबन्धाद्राजयज्ञत्वाच्च राजसूयस्य ।
तदुक्तं प्रथमे काण्डे - ऽक्रत्वर्थायामिति चेन्न वर्णत्रयसंयोगात्ऽ (जैसू। ११।४।७) इति ॥ ५० ॥
----------------------
फ़्न्: अवेष्टिरेतन्नाम्नी इष्टिः ।
anubandhādibhyaḥ prajñāntarapṛthaktvavaddṛṣṭaś ca taduktam
itaśca prakaraṇamupamṛdya svātantryaṃ manaścidādīnāṃ pratipattavyam /
yatkriyāvayavānmana-ādivyāpāreṣvanubadhnāti 'te manasaivādhīyanta manasācīyanta manasaiva grahā agṛhyanta manasāstuvanmanasāśaṃsanyatkiñca yajñe karma kriyate yatkiñca yajñiyaṃ karma manasaiva teṣu tanmanomayeṣu manaścitsu manomayameva kriyate' ityādinā /
saṃpatphalo hyayamanubandhaḥ /
naca pratyakṣāḥ kriyāvayavāḥ santaḥ saṃpadā lipsitavyāḥ /
nacātrodgīthādyupāsanavatkriyāṅgasaṃbandhāttadanupraveśitvamāśaṅkitavyaṃ śrutivairūpyāt /
nahyatra kriyāṅgaṃ kiñcidādāya tasminnado nāmādhyavasitavyamiti vadati /
ṣaṭtriṃśatsahasrāṇi tu manovṛttibhedānādāya teṣvagnitvaṃ grahādīṃśca kalpayati puruṣayādivat /
saṃkhyā ceyaṃ puruṣāyuṣasyāhaḥsu dṛṣṭā satī tatsaṃbandhinīṣu manovṛttiṣvāropyata iti draṣṭavyam /
evamanubandhātsvātantryaṃ manaścidādīnām /
ādiśabdādatideśādyapi yathāsaṃbhavaṃ yojayitavyam /
tathāhi - 'teṣāmekaika eva tāvānyānānasau pūrvaḥ' iti kriyāmayasyāgnermāhātmyaṃ jñānamayānāmekaikasyātidiśankiriyāyāmanādaraṃ darśayati /
naca satyeva kriyāsaṃbandhe vikalpaḥ pūrveṇottareṣāmiti śakyaṃ vaktum /
nahi yena vyāpāreṇāhanīyadhāraṇādinā pūrvaḥ kriyāyāmupakaroti tenottara upakartuṃ śaknuvanti /
yattu pūrvapakṣe 'pyatideśa upodbalaka ityuktaṃ sati hi sāmānye 'tideśaḥ pravartata iti tadasmātpakṣe 'gnitvasāmānyenātideśasaṃbhavātpratyuktam /
asti hi sāṃpādikānāmapyagnīnāmagnitvamiti /
śrutyādīni ca kāraṇāni darśitāni /
evamanubandhādibhyaḥ kāraṇebhyaḥ svatāntryaṃ manaścidādīnāma /
prajñāntarapṛthaktvavat /
yathā prajñāntarāṇi śāṇḍilyavidyāprabhṛtīni svena svenānubadhyamānāni pṛthageva karmabhyaḥ prajñāntarebhyaśca svatantrāṇi bhavantyevamiti /
dṛṣṭaścāveṣṭe rājasūyaprakaraṇapaṭhitāyāḥ prakaraṇādutkarṣo varṇatrayānubandhādrājayajñatvācca rājasūyasya /
taduktaṃ prathame kāṇḍe - 'kratvarthāyāmiti cenna varṇatrayasaṃyogāt' (jai.sū. 11.4.7) iti // 50 //
----------------------
FN: aveṣṭiretannāmnī iṣṭiḥ /
Sanskrit only: no published translation is held for this verse.
न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः
यदुक्तं मानसावदिति तत्प्रत्युच्यते ।
न मानसग्रहसामान्यादपि मनश्चिदादीनां क्रियाशेषत्वं कल्प्यम् ।
पूर्वोक्तेभ्यः श्रुत्यादिहेतुभ्यः केवलपुरुषार्थत्वोपलब्धेः ।
नहि किञ्चित्कस्यचित्केनचित्सामान्यं न संभवति ।
नच तावता यथात्वं वैषम्यं निवर्तते ।
मृत्युवत् ।
यथा ऽस वा एष एव मृत्युर्य एष एतस्मिन्मण्डले पुरुषःऽ इति ऽअग्निर्वै मृत्युःऽ (बृ। ३।२।१०) इति चाग्न्यादित्यपुरुषयोः समाने ऽपि मृत्युशब्दप्रयोगे नात्यन्तसाम्यापत्तिः ।
यथा च ऽअसौ वाव लोको गौतमाग्निस्तस्यादित्य एव समित्ऽ (छा। ५।४।१) इत्यत्र न समिदादिसामान्याल्लोकस्याग्निभावापत्तिस्तद्वत् ॥ ५१ ॥
na sāmānyādapyupalabdhermṛtyuvanna hi lokāpattiḥ
yaduktaṃ mānasāvaditi tatpratyucyate /
na mānasagrahasāmānyādapi manaścidādīnāṃ kriyāśeṣatvaṃ kalpyam /
pūrvoktebhyaḥ śrutyādihetubhyaḥ kevalapuruṣārthatvopalabdheḥ /
nahi kiñcitkasyacitkenacitsāmānyaṃ na saṃbhavati /
naca tāvatā yathātvaṃ vaiṣamyaṃ nivartate /
mṛtyuvat /
yathā 'sa vā eṣa eva mṛtyurya eṣa etasminmaṇḍale puruṣaḥ' iti 'agnirvai mṛtyuḥ' (bṛ. 3.2.10) iti cāgnyādityapuruṣayoḥ samāne 'pi mṛtyuśabdaprayoge nātyantasāmyāpattiḥ /
yathā ca 'asau vāva loko gautamāgnistasyāditya eva samit' (chā. 5.4.1) ityatra na samidādisāmānyāllokasyāgnibhāvāpattistadvat // 51 //
Sanskrit only: no published translation is held for this verse.
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात् त्व् अनुबन्धः
परस्तादपि ऽअयं वाव लोक एषो ऽग्निश्चित्तःऽ इत्यस्मिन्ननन्तरे ब्राह्मणे तावद्वध्यं केवलविद्याविधित्वं शब्दस्य प्रयोजनं लक्ष्यते न शुद्धकर्माङ्गविधित्वम् ।
तत्र हि -ऽ विद्यया तदारोहन्ति यत्र कामाः परागताः ।
न तत्र दक्षीणा यन्ति नाविद्वांसस्तपस्विनःऽ इत्यनेन श्लोकेन केवलं कर्मनिन्दन्विध्यां च प्रशंसन्निदं गमयति ।
तथा पुरस्तादपि यदेतन्मण्डलं तपति इत्यस्मिन्ब्राह्मणे विद्याप्रधानत्वमेव लक्ष्यते सो ऽमृतो भवति मृत्युर्ह्यस्यात्मा भवति इति विद्याफलेनैवोपसंहारान्न कर्मप्रधानता तत्सामान्यादिहापि तथात्वम् ।
भूयांसस्त्वग्न्यवयवाः संपादयितव्या विद्यायामित्येतस्मात्कारणादग्निनानुबध्यते विद्या न कर्माङ्गत्वात् ।
तस्मान्मनश्चिदादीनां केवलविद्यात्मकत्वसिद्धिः ॥ ५२ ॥
३० ऐकात्म्याधिकरणम् । सू। ५३-५४
pareṇa ca śabdasya tādvidhyaṃ bhūyastvāt tv anubandhaḥ
parastādapi 'ayaṃ vāva loka eṣo 'gniścittaḥ' ityasminnanantare brāhmaṇe tāvadvadhyaṃ kevalavidyāvidhitvaṃ śabdasya prayojanaṃ lakṣyate na śuddhakarmāṅgavidhitvam /
tatra hi -' vidyayā tadārohanti yatra kāmāḥ parāgatāḥ /
na tatra dakṣīṇā yanti nāvidvāṃsastapasvinaḥ' ityanena ślokena kevalaṃ karmanindanvidhyāṃ ca praśaṃsannidaṃ gamayati /
tathā purastādapi yadetanmaṇḍalaṃ tapati ityasminbrāhmaṇe vidyāpradhānatvameva lakṣyate so 'mṛto bhavati mṛtyurhyasyātmā bhavati iti vidyāphalenaivopasaṃhārānna karmapradhānatā tatsāmānyādihāpi tathātvam /
bhūyāṃsastvagnyavayavāḥ saṃpādayitavyā vidyāyāmityetasmātkāraṇādagninānubadhyate vidyā na karmāṅgatvāt /
tasmānmanaścidādīnāṃ kevalavidyātmakatvasiddhiḥ // 52 //
30 aikātmyādhikaraṇam / sū. 53-54
Sanskrit only: no published translation is held for this verse.
A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.