Library·Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya·3·3.2·3.2.21

Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya 3.2.21

BSBh 3.2.21

दर्शनाच् च दर्शयति च श्रुतिः परस्यैव ब्रह्मणो देहादिषूपाधिष्वन्तरनुप्रवेशम् - ऽपुरुश्चक्रे द्विपदः पुरुश्चक्रे चतुश्पदः । पुरः स पक्षी भूत्वा पुरः पुरुष आविशत्ऽ (बृ। २।५।१८) इति । ऽअनेन जीवेनात्मनानुप्रविश्यऽ (छा। ६।३।२) इति च । तस्माद्युक्तमेतत् - ऽअत एव चैपमा सूर्यकादिवत्ऽ (ब्रसू। ३।२।१८) इति । तस्मान्निर्विकल्पकैकलिङ्गमेव ब्रह्म नोभयलिङ्गं विपरीतलिङ्गं चेति सिद्धम् । अत्र केचिद्द्वे अधिकरणे कल्पयन्ति । प्रथमं तावत्- किं प्रत्यस्तमिताशेषप्रपञ्चमेकाकारं ब्रह्मोत प्रपञ्चवदनेकाकारोपेतमिति । द्वितीयं तु - स्थिते प्रत्यस्तमितप्रपञ्चत्वे किं सल्लक्षणं ब्रह्मोत बोधलक्षणमुतोभयलक्षणमिति । अत्र वयं वदामः - सर्वथाप्यानर्थक्यमधिकरणान्तरारम्भस्येति । यदि तावदनेकलिङ्गत्वं परस्यब्रह्मणो निराकर्तव्यमित्ययं प्रयासस्तत्पूर्वेणैव न स्थानतो ऽपि इत्यनेनाधिकरणेन निराकर्तव्यमित्ययमुत्तरमधिकरणं प्रकाशवच्च एतद्व्यर्थमेव भवेत् । नच सल्लक्षणमेव भ्म न बोधलक्षणमिति शक्यं वक्तुम् । विज्ञानघन एवेत्यादिश्रुतिवैयर्थ्यप्रसङ्गात् । कथं वा निरस्तचैतन्यं ब्रह्म चेतनस्य जीवस्यात्मत्वेनोपदिश्येत । नापि बोधलक्षणमेव ब्रह्म न सल्लक्षणमिति शक्यं वक्तुम् अस्तीत्येवोपलब्धव्यः (फ। ६।१३) इत्यादिश्रुतिवैयर्थ्यप्रसङ्गात् । कथं वा निरस्तसत्ताको बोधो ऽभ्युपगम्येत । नाप्युभयलक्षणमेव ब्रह्मेति शक्यं वक्तुम् । पूर्वाभ्युपगमविरोधप्रसङ्गात् । सत्ताव्यावृत्तेन च बोधेन बोधव्यावृत्तया च सत्तयोपेतं ब्रह्म प्रतिजानानस्य तदेव पूर्वाधिकरणप्रतिषिद्धं सप्रपञ्चत्वं ब्रह्मणः प्रसज्येत । श्रुतत्वाददोष इति चेत् । न । एकस्यानेकस्वभावत्वानुपपत्तेः । अथ सत्तैव बोधो बोध एव च सत्ता नानयोः परस्परव्यावृत्तिरस्तीति यद्युच्येत तथापि किं सल्लक्षणं ब्रह्मोत बोधलक्षणमुतोभयलक्षणमित्येवं विकल्पो निरालम्बन एव स्यात् । सूत्राणि त्वेकाधिकरणत्वेनैवास्माभिर्नीतानि । अपिच ब्रह्मविषयासु श्रुतिष्वाकारवदनाकारप्रतिपादनेन विप्रतिपन्नस्वानाकारे ब्रह्मणि परिगृहीते ऽवश्यं वक्तव्येतरासां श्रुतीनां गतिः । तादर्थ्येन प्रकाशवच्चेत्यादीनि सूत्राण्यर्थवत्तराणि संपद्यन्ते । यद्यप्याहुराकारवादिन्यो ऽपि श्रुतयः प्रपञ्चप्रविलयमुखेनानाकारप्रतिपत्त्यर्था एव न पृथगर्था इति तदपि न समीचीनमिव लक्ष्यते । कथम् । ये हि परविद्याधिकारे केचित्प्रपञ्चा उच्यन्ते यथा - ऽयुक्ता ह्यस्य हरयः शता देशेत्यय वै हरयो ऽयं वै सहस्राणि बहूनि चानन्तानि चऽ (बृ। २।५।१९) इत्येवमादयस्ते भवन्ति प्रविलयार्थाः ऽतदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्ऽ (बृ। २।५।१९) इत्युपसंहारात् । ये पुनरुपासनाधिकारे प्रपञ्चा उच्यन्ते यथा ऽमनोमयः प्राणसीरो भारूपःऽ (छा। ३।१४।२) इत्येवमादयो न तेषां प्रविलयार्थत्वं न्याय्यम् । ऽस क्रतुं कुर्वीतऽ (छा। ३।१४।१) इत्येवञ्जातीयकेन प्रकृतेनैवोपासनविधिना तेषां संबन्धात् । श्रुत्या चैवञ्जातीयकानां गुणानामुपासनार्थत्वे ऽवकल्प्यमाने न लक्षणया प्रविलयार्तत्वमवकल्पते । सर्वेषां च साधारणे प्रविलयार्थत्वे सति ऽअरूपवदेव हि तत्प्रधानत्वात्ऽ (ब्र। सू। ३।२।१४) इति विनिगमनकारणवचनमनवकाशं स्यात् । फलमप्येषां यथोपदेशं क्वचिद्दुरितक्षयः क्वचिदैश्वर्यप्राप्तिः क्वचित्क्रममुक्तिरित्यवगम्यत एवेत्यतः पार्थगर्त्यमेवोपासनावाक्यानां ब्रह्मवाक्यानां च न्याय्यं नैकवाक्यत्वम् । कथं चैषामेकवाक्यतोत्प्रेक्ष्यत इति वक्तव्यम् । एकनियोगप्रतीतेः प्रयाजदर्शपूर्णमासवाक्यवदिति चेत् । न । ब्रह्मवाक्येषु नियोगाभावात् । वस्तुमात्रपर्यवसायीनि हि ब्रकह्मवाक्यानि न नियोगोपदेशीनीत्येतद्विस्तरे प्रतिष्ठापितं ऽतत्तु समन्वयात् (ब्र। सू। १।१।४) इत्यत्र । किंविषयश्चात्र नियोगो ऽभिप्रेयत इति वक्तव्यम् । पुरुषो हि नियुज्यमानः कुर्विति स्वव्यापारे कस्मिंश्चिन्नियुज्यते । ननु द्वैतप्रपञ्चविलयो न योगविषयो भविष्यति । अप्रविलापिते हि द्वैतप्रपञ्चे ब्रह्मतत्त्वावबोधो न भवत्यतो ब्रह्मतत्त्वावबोधप्रत्यनीकभूतो द्वैतप्रपञ्चः प्रविलाप्यः । यथा स्वर्गामस्य यागो ऽनुष्ठातव्य उपदिश्यत एवमपवर्गकामस्य प्रपञ्चप्रविलयः । यथाच तमसि व्यवस्थितं घटादितत्त्वमवबुभुत्समानेन तत्प्रत्यनीकभूतं तमः प्रविलाप्यत एवं ब्रह्मतत्तवमवबुभुत्समानेन तत्प्रत्यनीकभूतः प्रपञ्चः प्रविलापयितव्यः । ब्रह्मस्वभावो हि प्रपञ्चो न प्रपञ्चस्वभावं ब्रह्म, तेन नामरूपप्रपञ्चप्रविलापनेन ब्रह्मतत्त्वावबोधो भवतीति । अत्र वयं पृच्छामः - को ऽयं प्रपञ्चप्रविलयो नाम । किमग्निप्रतापसंपर्काद्घृतकाठिन्यप्रविलय इव प्पपञ्चप्रविलयः कर्तव्य आहोस्विदेकस्मिंश्चन्द्रे तिमिरकृतानेकचन्द्रप्रपञ्चवदविद्याकृतो ब्रह्मणि नामरूपप्रपञ्चो विद्यया प्रविलापितव्य इति । तत्र तावद्विद्यामनो ऽयं प्रपञ्चो देहादिलक्षण आध्यत्मिको बाह्यश्च पृथिव्यादिलक्षणः प्रविलापयितव्य इत्युच्येत स पुरुषमात्रेणाशक्यः प्रविलापयितुमिति तत्प्रविलयोपदेशो ऽशक्यविषय एव स्यात् । एकेन चादिमुक्तेन पृथिव्यादिप्रविलयः कृत इतीदानीं पृथिव्यादिशून्यं जगदभविष्यत् । अथाविद्याध्यस्तो ब्रह्मण्येकस्मिन्नयं प्रपञ्चो विद्यया प्रविलाप्यत इति ब्रूयात् । ततो ब्रह्मैवाविद्याध्यस्तप्रपञ्चप्रत्याख्यानेनावेदयितव्यम् एकमेवाद्वितीयं ब्रह्म, तत्सत्यं स आत्मा तत्वमसि (छा। ६।८।७) इति तस्मिन्नावेदिते विद्या स्वयमेवोत्पद्यते तया चाविद्या बाध्यते। ततश्चाविद्यध्यस्तः सकलो ऽयं नामरूपप्रपञ्चः स्वप्नप्रपञ्चवत्प्रविलीयते । अनावेदिते तु ब्रह्मणि ब्रह्मविज्ञानं कुरु प्रपञ्चप्रविलयं चेति शतकृत्वो ऽप्युक्ते, न ब्रह्मविज्ञानं प्रपञ्पप्रविलयो वा जायते । नन्वावेदिते ब्रह्मणि तद्विज्ञानविषयः प्रपञ्चविलयविषयो वा नियोगः स्यात् । न । निष्प्रपञ्चब्रह्मात्मत्वावेदनेनैवोभयसिद्धेः । रज्जुस्वरूपप्रकाशनेनैव हि तत्स्वरूपविज्ञानमविद्याध्यस्तसर्पादिप्रपञ्चप्रविलयश्च भवति । नच कृतमेव पुनः क्रियते । नियोज्योञपि च प्रपञ्चावस्थायां यो ऽवगम्यते जीवो नाम स प्रपञ्चस्यैव वा स्याद्ब्रह्मपक्षस्यैव वा । प्रथमे विकल्पे निष्प्रपञ्चब्रह्मतत्त्वप्रतिपादनेन पृथिव्यादिवज्जीवस्यापि प्रविलापितत्वात्कस्य प्रपञ्चविलये नियोग उच्येत कस्य वा नियोगनिष्ठतया मोक्षो ऽवाप्तव्य उच्येत । द्वितीये ऽपि ब्रह्मैवानियोज्यस्वभावं जीवस्य स्वरूपं जीवत्वं त्वविद्याकृतमेवेति प्रतिपादिते ब्रह्मणि नियोज्याभावान्नियोगाभाव एव । द्रष्टव्यादिशब्दा अपि परविद्याधिकारपठितास्तत्त्वाभिमुखीकरणप्रधाना न तत्वावबोधविधिप्रधाना भवन्ति । लोके ऽपीदं पश्येदमाकार्णयेति चैवञ्जातीयकेषु निर्देशेषु प्रणिधानमात्रं कुर्वित्युच्यते न साक्षाज्ज्ञानमेव कुर्विति । ज्ञेयाभिमुखस्यापि ज्ञानं कदाचिज्जायते कदाचिन्न जायते तस्मात्तं प्रति ज्ञानविषय एव दर्शयितव्यो ज्ञापयितुकामेन । तस्मिन्दर्शिते स्वयमेव यथाविषयं यथाप्रमाणं च ज्ञानमुत्पद्यते । नच प्रमाणान्तरेणान्यथाप्रसिद्धेर्ऽथे ऽन्यथाज्ञानं नियुक्तस्याप्युपपद्यते । यदि पुनर्नियुक्तो ऽहमित्यन्यथा ज्ञानं कुर्यान्न तु तज्ज्ञानं किं तर्हि मानसी सा क्रिया । स्वयमेव चेदन्यथोत्पद्येत भ्रान्तिरेव स्यात् । ज्ञानं तु प्रमाणजन्यं यथाभूतविषयं च न तन्नियोगशतेनापि कारयितुं शक्यते । नच प्रतिषेधेनापि वारयितुं शक्यते । नहि तत्पुरुशतन्त्रं, वस्तुतन्त्रमेव हि तत् । अतो ऽपि नियोगाभावः । किञ्चान्यन्नियोगनिष्ठतयैव पर्यवस्याम्नाये यदभ्युपगतमनियोज्यब्रह्मात्मत्वं जीवस्य तदप्रमाणकमेव स्यात् । अथ शास्त्रमेवानियोज्यब्रह्मात्मत्वमप्याचक्षीत तदवबोधे च पुरुषं नियुञ्जीत ततो ब्रह्मशास्त्रस्यैकस्य द्व्यर्थपरता विरुद्धार्थपरता च प्रसज्येताम् । नियोगपरतायां च श्रुतहानिरश्रुतकल्पना कर्मफलवन्मोक्षस्यादृष्टफलत्वमनित्यत्वं चेत्येवमादयो दोषा न केनचित्परिहर्तुं शक्याः । तस्मादवगतनिष्ठान्येव ब्रह्मवाक्यानि न नियोगनिष्ठानि । अतश्चैकनियोगप्रतीतेरेकवाक्यतेत्ययुक्तम् । अभ्युपगम्यमाने ऽपि च ब्रह्मवाक्येछु नियोगसद्भावे तदेकत्वं निष्प्रपञ्चोपदेशेषु सप्रपञ्चोपजदेशेषु चासिद्धम् । नहि शब्दान्तरादिभिः प्रमाणैर्नियोगभेदे ऽवगम्यमाने सर्वत्रैका नियोग इति शक्यमाश्रयितुम् । प्रयाजदर्शपूर्णमासवाक्येछु त्वधिकारांशेनाभेदाद्युक्तमेकत्वम् । नत्विह सगुणनिर्गुणचोदनासु कश्चिदेकत्वाधिकीरांसो ऽस्ति । नहि भारूपतावादयो गुणाः प्रपञ्चप्रविलयोपकारिणः । नापि प्रपञ्चप्रविलयो भारूपत्वादिगुणोपकारी, परस्परविरोधित्वात् । नहि कृत्स्नप्रपञ्चप्रविलापनं प्रपञ्चैकदेशापेक्षणं चैकस्मिन्धर्मिणि युक्तं समावेशयितुम् । तस्मादस्मादुक्त एव विभाग आकारवदनाकारोपदेशानां युक्ततर इति ॥ २१ ॥ ---------------------- फ़्न्: अस्य जीवभावं प्राप्तस्येश्वरस्य दश हरयो विषया इन्द्रियाणि वा । तं ज्ञानार्थिनम् । भिन्नवाक्यार्थविषयः शब्दः शब्दान्तरम् । ६ प्रकृतैतावत्त्वाधिकरणम् । सू। २२-३०

darśanāc ca darśayati ca śrutiḥ parasyaiva brahmaṇo dehādiṣūpādhiṣvantaranupraveśam - 'puruścakre dvipadaḥ puruścakre catuśpadaḥ / puraḥ sa pakṣī bhūtvā puraḥ puruṣa āviśat' (bṛ. 2.5.18) iti / 'anena jīvenātmanānupraviśya' (chā. 6.3.2) iti ca / tasmādyuktametat - 'ata eva caipamā sūryakādivat' (bra.sū. 3.2.18) iti / tasmānnirvikalpakaikaliṅgameva brahma nobhayaliṅgaṃ viparītaliṅgaṃ ceti siddham / atra keciddve adhikaraṇe kalpayanti / prathamaṃ tāvat- kiṃ pratyastamitāśeṣaprapañcamekākāraṃ brahmota prapañcavadanekākāropetamiti / dvitīyaṃ tu - sthite pratyastamitaprapañcatve kiṃ sallakṣaṇaṃ brahmota bodhalakṣaṇamutobhayalakṣaṇamiti / atra vayaṃ vadāmaḥ - sarvathāpyānarthakyamadhikaraṇāntarārambhasyeti / yadi tāvadanekaliṅgatvaṃ parasyabrahmaṇo nirākartavyamityayaṃ prayāsastatpūrveṇaiva na sthānato 'pi ityanenādhikaraṇena nirākartavyamityayamuttaramadhikaraṇaṃ prakāśavacca etadvyarthameva bhavet / naca sallakṣaṇameva bhma na bodhalakṣaṇamiti śakyaṃ vaktum / vijñānaghana evetyādiśrutivaiyarthyaprasaṅgāt / kathaṃ vā nirastacaitanyaṃ brahma cetanasya jīvasyātmatvenopadiśyeta / nāpi bodhalakṣaṇameva brahma na sallakṣaṇamiti śakyaṃ vaktum astītyevopalabdhavyaḥ (pha. 6.13) ityādiśrutivaiyarthyaprasaṅgāt / kathaṃ vā nirastasattāko bodho 'bhyupagamyeta / nāpyubhayalakṣaṇameva brahmeti śakyaṃ vaktum / pūrvābhyupagamavirodhaprasaṅgāt / sattāvyāvṛttena ca bodhena bodhavyāvṛttayā ca sattayopetaṃ brahma pratijānānasya tadeva pūrvādhikaraṇapratiṣiddhaṃ saprapañcatvaṃ brahmaṇaḥ prasajyeta / śrutatvādadoṣa iti cet / na / ekasyānekasvabhāvatvānupapatteḥ / atha sattaiva bodho bodha eva ca sattā nānayoḥ parasparavyāvṛttirastīti yadyucyeta tathāpi kiṃ sallakṣaṇaṃ brahmota bodhalakṣaṇamutobhayalakṣaṇamityevaṃ vikalpo nirālambana eva syāt / sūtrāṇi tvekādhikaraṇatvenaivāsmābhirnītāni / apica brahmaviṣayāsu śrutiṣvākāravadanākārapratipādanena vipratipannasvānākāre brahmaṇi parigṛhīte 'vaśyaṃ vaktavyetarāsāṃ śrutīnāṃ gatiḥ / tādarthyena prakāśavaccetyādīni sūtrāṇyarthavattarāṇi saṃpadyante / yadyapyāhurākāravādinyo 'pi śrutayaḥ prapañcapravilayamukhenānākārapratipattyarthā eva na pṛthagarthā iti tadapi na samīcīnamiva lakṣyate / katham / ye hi paravidyādhikāre kecitprapañcā ucyante yathā - 'yuktā hyasya harayaḥ śatā deśetyaya vai harayo 'yaṃ vai sahasrāṇi bahūni cānantāni ca' (bṛ. 2.5.19) ityevamādayaste bhavanti pravilayārthāḥ 'tadetadbrahmāpūrvamanaparamanantaramabāhyam' (bṛ. 2.5.19) ityupasaṃhārāt / ye punarupāsanādhikāre prapañcā ucyante yathā 'manomayaḥ prāṇasīro bhārūpaḥ' (chā. 3.14.2) ityevamādayo na teṣāṃ pravilayārthatvaṃ nyāyyam / 'sa kratuṃ kurvīta' (chā. 3.14.1) ityevañjātīyakena prakṛtenaivopāsanavidhinā teṣāṃ saṃbandhāt / śrutyā caivañjātīyakānāṃ guṇānāmupāsanārthatve 'vakalpyamāne na lakṣaṇayā pravilayārtatvamavakalpate / sarveṣāṃ ca sādhāraṇe pravilayārthatve sati 'arūpavadeva hi tatpradhānatvāt' (bra. sū. 3.2.14) iti vinigamanakāraṇavacanamanavakāśaṃ syāt / phalamapyeṣāṃ yathopadeśaṃ kvacidduritakṣayaḥ kvacidaiśvaryaprāptiḥ kvacitkramamuktirityavagamyata evetyataḥ pārthagartyamevopāsanāvākyānāṃ brahmavākyānāṃ ca nyāyyaṃ naikavākyatvam / kathaṃ caiṣāmekavākyatotprekṣyata iti vaktavyam / ekaniyogapratīteḥ prayājadarśapūrṇamāsavākyavaditi cet / na / brahmavākyeṣu niyogābhāvāt / vastumātraparyavasāyīni hi brakahmavākyāni na niyogopadeśīnītyetadvistare pratiṣṭhāpitaṃ 'tattu samanvayāt (bra. sū. 1.1.4) ityatra / kiṃviṣayaścātra niyogo 'bhipreyata iti vaktavyam / puruṣo hi niyujyamānaḥ kurviti svavyāpāre kasmiṃścinniyujyate / nanu dvaitaprapañcavilayo na yogaviṣayo bhaviṣyati / apravilāpite hi dvaitaprapañce brahmatattvāvabodho na bhavatyato brahmatattvāvabodhapratyanīkabhūto dvaitaprapañcaḥ pravilāpyaḥ / yathā svargāmasya yāgo 'nuṣṭhātavya upadiśyata evamapavargakāmasya prapañcapravilayaḥ / yathāca tamasi vyavasthitaṃ ghaṭāditattvamavabubhutsamānena tatpratyanīkabhūtaṃ tamaḥ pravilāpyata evaṃ brahmatattavamavabubhutsamānena tatpratyanīkabhūtaḥ prapañcaḥ pravilāpayitavyaḥ / brahmasvabhāvo hi prapañco na prapañcasvabhāvaṃ brahma, tena nāmarūpaprapañcapravilāpanena brahmatattvāvabodho bhavatīti / atra vayaṃ pṛcchāmaḥ - ko 'yaṃ prapañcapravilayo nāma / kimagnipratāpasaṃparkādghṛtakāṭhinyapravilaya iva ppapañcapravilayaḥ kartavya āhosvidekasmiṃścandre timirakṛtānekacandraprapañcavadavidyākṛto brahmaṇi nāmarūpaprapañco vidyayā pravilāpitavya iti / tatra tāvadvidyāmano 'yaṃ prapañco dehādilakṣaṇa ādhyatmiko bāhyaśca pṛthivyādilakṣaṇaḥ pravilāpayitavya ityucyeta sa puruṣamātreṇāśakyaḥ pravilāpayitumiti tatpravilayopadeśo 'śakyaviṣaya eva syāt / ekena cādimuktena pṛthivyādipravilayaḥ kṛta itīdānīṃ pṛthivyādiśūnyaṃ jagadabhaviṣyat / athāvidyādhyasto brahmaṇyekasminnayaṃ prapañco vidyayā pravilāpyata iti brūyāt / tato brahmaivāvidyādhyastaprapañcapratyākhyānenāvedayitavyam ekamevādvitīyaṃ brahma, tatsatyaṃ sa ātmā tatvamasi (chā. 6.8.7) iti tasminnāvedite vidyā svayamevotpadyate tayā cāvidyā bādhyate. tataścāvidyadhyastaḥ sakalo 'yaṃ nāmarūpaprapañcaḥ svapnaprapañcavatpravilīyate / anāvedite tu brahmaṇi brahmavijñānaṃ kuru prapañcapravilayaṃ ceti śatakṛtvo 'pyukte, na brahmavijñānaṃ prapañpapravilayo vā jāyate / nanvāvedite brahmaṇi tadvijñānaviṣayaḥ prapañcavilayaviṣayo vā niyogaḥ syāt / na / niṣprapañcabrahmātmatvāvedanenaivobhayasiddheḥ / rajjusvarūpaprakāśanenaiva hi tatsvarūpavijñānamavidyādhyastasarpādiprapañcapravilayaśca bhavati / naca kṛtameva punaḥ kriyate / niyojyoñapi ca prapañcāvasthāyāṃ yo 'vagamyate jīvo nāma sa prapañcasyaiva vā syādbrahmapakṣasyaiva vā / prathame vikalpe niṣprapañcabrahmatattvapratipādanena pṛthivyādivajjīvasyāpi pravilāpitatvātkasya prapañcavilaye niyoga ucyeta kasya vā niyoganiṣṭhatayā mokṣo 'vāptavya ucyeta / dvitīye 'pi brahmaivāniyojyasvabhāvaṃ jīvasya svarūpaṃ jīvatvaṃ tvavidyākṛtameveti pratipādite brahmaṇi niyojyābhāvānniyogābhāva eva / draṣṭavyādiśabdā api paravidyādhikārapaṭhitāstattvābhimukhīkaraṇapradhānā na tatvāvabodhavidhipradhānā bhavanti / loke 'pīdaṃ paśyedamākārṇayeti caivañjātīyakeṣu nirdeśeṣu praṇidhānamātraṃ kurvityucyate na sākṣājjñānameva kurviti / jñeyābhimukhasyāpi jñānaṃ kadācijjāyate kadācinna jāyate tasmāttaṃ prati jñānaviṣaya eva darśayitavyo jñāpayitukāmena / tasmindarśite svayameva yathāviṣayaṃ yathāpramāṇaṃ ca jñānamutpadyate / naca pramāṇāntareṇānyathāprasiddher'the 'nyathājñānaṃ niyuktasyāpyupapadyate / yadi punarniyukto 'hamityanyathā jñānaṃ kuryānna tu tajjñānaṃ kiṃ tarhi mānasī sā kriyā / svayameva cedanyathotpadyeta bhrāntireva syāt / jñānaṃ tu pramāṇajanyaṃ yathābhūtaviṣayaṃ ca na tanniyogaśatenāpi kārayituṃ śakyate / naca pratiṣedhenāpi vārayituṃ śakyate / nahi tatpuruśatantraṃ, vastutantrameva hi tat / ato 'pi niyogābhāvaḥ / kiñcānyanniyoganiṣṭhatayaiva paryavasyāmnāye yadabhyupagatamaniyojyabrahmātmatvaṃ jīvasya tadapramāṇakameva syāt / atha śāstramevāniyojyabrahmātmatvamapyācakṣīta tadavabodhe ca puruṣaṃ niyuñjīta tato brahmaśāstrasyaikasya dvyarthaparatā viruddhārthaparatā ca prasajyetām / niyogaparatāyāṃ ca śrutahāniraśrutakalpanā karmaphalavanmokṣasyādṛṣṭaphalatvamanityatvaṃ cetyevamādayo doṣā na kenacitparihartuṃ śakyāḥ / tasmādavagataniṣṭhānyeva brahmavākyāni na niyoganiṣṭhāni / ataścaikaniyogapratīterekavākyatetyayuktam / abhyupagamyamāne 'pi ca brahmavākyechu niyogasadbhāve tadekatvaṃ niṣprapañcopadeśeṣu saprapañcopajadeśeṣu cāsiddham / nahi śabdāntarādibhiḥ pramāṇairniyogabhede 'vagamyamāne sarvatraikā niyoga iti śakyamāśrayitum / prayājadarśapūrṇamāsavākyechu tvadhikārāṃśenābhedādyuktamekatvam / natviha saguṇanirguṇacodanāsu kaścidekatvādhikīrāṃso 'sti / nahi bhārūpatāvādayo guṇāḥ prapañcapravilayopakāriṇaḥ / nāpi prapañcapravilayo bhārūpatvādiguṇopakārī, parasparavirodhitvāt / nahi kṛtsnaprapañcapravilāpanaṃ prapañcaikadeśāpekṣaṇaṃ caikasmindharmiṇi yuktaṃ samāveśayitum / tasmādasmādukta eva vibhāga ākāravadanākāropadeśānāṃ yuktatara iti // 21 // ---------------------- FN: asya jīvabhāvaṃ prāptasyeśvarasya daśa harayo viṣayā indriyāṇi vā / taṃ jñānārthinam / bhinnavākyārthaviṣayaḥ śabdaḥ śabdāntaram / 6 prakṛtaitāvattvādhikaraṇam / sū. 22-30

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/BSBh/3.2.21

Cite as: Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya 3.2.21, in HREEM (hreem.cc/library/BSBh/3.2.21), after GRETIL …, Each unit is one sūtra followed by Śaṅkara's commentary on it; ref = adhyāya.pāda.sūtra..

Edition, numbering and licence

GRETIL 6_sastra/3_phil/vedanta/brssbh1u.htm … brssbh4u.htm — Each unit is one sūtra followed by Śaṅkara's commentary on it; ref = adhyāya.pāda.sūtra.

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text