तदव्यक्तमाह हि यत्प्रतिषिद्धात्प्रपञ्चजातादन्यत्परं ब्रह्म तदस्ति चेत्कस्मान्न गृह्यत इति । उच्यते - तदव्यक्तमनिन्द्रियग्राह्यं सर्वदृश्यसाक्षित्वात् । आह ह्येवं श्रुतिः ऽन चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वाऽ (मुण्ड। ३।१।८) ऽस एष नेति नेत्यात्मागृह्यो नहि गृह्यतेऽ (बृ। ३।९।२३) यत्तदद्रेश्यमग्राह्यम् (मुण्ड। १।१।६) ऽयदा ह्येवैष एतस्मिन्नदृश्ये ऽनात्म्ये ऽनिरुक्ते ऽनिलयनेऽ (तै। २।७।१) इत्याद्या । स्मृतिरपि - ऽअव्यक्तो ऽयमचिन्त्यो ऽयमविकार्यो ऽयमुच्यतेऽ (भ। गी। २।२५) इत्याद्या ॥ २३ ॥
tadavyaktamāha hi yatpratiṣiddhātprapañcajātādanyatparaṃ brahma tadasti cetkasmānna gṛhyata iti / ucyate - tadavyaktamanindriyagrāhyaṃ sarvadṛśyasākṣitvāt / āha hyevaṃ śrutiḥ 'na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇā vā' (muṇḍa. 3.1.8) 'sa eṣa neti netyātmāgṛhyo nahi gṛhyate' (bṛ. 3.9.23) yattadadreśyamagrāhyam (muṇḍa. 1.1.6) 'yadā hyevaiṣa etasminnadṛśye 'nātmye 'nirukte 'nilayane' (tai. 2.7.1) ityādyā / smṛtirapi - 'avyakto 'yamacintyo 'yamavikāryo 'yamucyate' (bha. gī. 2.25) ityādyā // 23 //
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.