तदभावो नाडीषु तच्छ्रुतेर् आत्मनि च स्वप्नावस्था परीक्षिता सुषुप्तावस्थेदानीं परीक्ष्यते । तत्रैताः सुषुप्तिविषयाः श्रुतयो भवन्ति । क्वचिच्छ्रूयते- ऽतद्यत्रैतत्सुप्तः समस्तः स्वप्नं न विजानात्यासु तदा नाडीषु सृपो भवतिऽ (छा। ८।६।३) इति । अन्यत्र तु नाडीरेवानुक्रम्य श्रूयते - ऽताभिः प्रत्यवसृप्य पुरीतति शेतेऽ (बृ। २।१।१९) इति । तथान्यत्र नाडीरेवानुक्रम्य ऽतासु तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवतिऽ (कौषी। ४।१९) इति । तथान्यत्र ऽय एषो ऽन्तर्हृदय आकाशस्तस्मिञ्छेतेऽ (बृ। २।१।१७) इति । तथान्यत्र ऽसता सोम्य तदा संपन्नो भवति स्वमपीतो भवतिऽ (छा। ६।८।१) इति । ऽप्राज्ञेनात्मना संपरिश्वक्तो न बाह्यं किञ्चन वेद नान्तरम्ऽ (बृ। ४।३।२१) इति च । तत्र संशयः - किमेतानि नाड्यादीनि परस्परनिरपेक्षाणि भिन्नानि सुषुप्तिस्थानान्याहोस्वित्परस्परापेक्षयैकं सुषुप्तिस्थानमस्ति । किं तावत्प्राप्तं भिन्नानीति । कुतः - एकार्थत्वात् । नह्येकार्थानीं क्वचित्परस्परापेक्षत्वं दृश्यते व्रीहियवादीनाम् । नाड्यादीनां त्वेकार्थता सुषुप्तौ दृश्यते - ऽनाडीशु सृप्तो भवतिऽ (छा। ८।६।३) ऽपुरीतति शेतेऽ (बृ। २।१।१९) इति च तत्र तत्र सप्तमीनिर्देशस्य तुल्यत्वात् । ननु नैवं सति सप्तमीनिर्देशो दृश्यते - ऽसता सोम्य तदा संपन्नो भवतिऽ (छा। ६।८।१) इति । नैष दोषः । तत्रापि सप्तम्यर्थस्य गम्यमानत्वात् । वाक्यशेषो हि तत्रायतनैषी जीवः सदुपसर्पतीत्याह - ऽअन्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयतेऽ (छा। ६।८।२) इति प्राणशब्देन तत्र प्रकृतस्य सत उपादनात् । आयतनं च सप्तम्यर्थः । सप्तमीनिर्देशो ऽपि तत्र वाक्यशेषे दृश्यते - ऽसति संपद्य न विदुः सति संपद्यामहेऽ (छा। ६।९।२) इति । सर्वत्र च विशेषविज्ञानोपरमलक्षणं सुषुप्तं न विशिष्यते । तस्मादेकार्तत्वान्नाड्यादीनां विकल्पेन कदाचित्किञ्चित्स्थानं स्वापायोपसर्पतीति । एवं प्राप्ते प्रतिपाद्यते - तदभावो नाडीष्वात्नि चेति । तदभाव इति तस्य प्रकृतस्य स्वप्नदर्शनस्याभावः सुषुप्तमित्यर्थः । नाडीष्वात्मनि चेति समुच्चयेनैतानि नाड्यादीनि स्वापायोपैति न विकल्पेनेत्यर्थः । कुतः - तच्छ्रुतेः । तथाहि - सर्वेषामेव नाड्यादीनां तत्र तत्र सुषुप्तिस्थानत्वं श्रूयते तच्च मसुच्चये संगृहीतं भवति । विकल्पे ह्येषां पक्षे बाधः स्यात् । नन्वेकार्थत्वाद्विकल्पो नाड्यादीनां व्रीहियवादिवत्युक्तम् । नेत्युच्यते । नह्येकविभक्तिनिर्देशमात्रेणैकार्थत्वं विकल्पश्चापतति । नानार्थत्वसमुच्चययोरप्येकविभक्तिनिर्देशदर्शनाप्रासादे शेते पर्यङ् के शेत इत्येवमादिषु । तथेहापि नाडीषु पुरीतति ब्रह्मणि च स्वपितीत्येतदुपपद्यते समुच्चयः । तथाच श्रुतिः - ऽतासु तदा भवति यदा सुप्तः स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवतिऽ (कौषी। ४।१९) इति समुच्चयं नाडीनां प्राणस्य च सुषुप्तौ श्रावयत्येकवाक्योपादानात् । प्राणस्य च ब्रह्मत्वं समधिगतम् - ऽप्राणस्तथानुगमात्ऽ (ब्रसू। १।१।२८) इत्यत्र । यत्रापि निरपेक्षा इव नाडीः सुप्तिस्थानत्वेन श्रावयति - ऽआसु तदा नाडीषु सृप्तो भवतिऽ (छा। ८।६।३) इति । तत्रापि प्रदेशान्तरप्रसिद्धस्य ब्रह्मणो ऽप्रतिषेधान्नाडीद्वारेणैव ब्रह्मण्येवावतिष्ठत इति प्रतीयते । नचैवमपि नाडीषु सप्तमी विरुध्यते । नाडीद्वारापि ब्रह्मोपसर्पन्सृप्त एव नाडीषु भवति । यो हि गङ्गया सागरं गच्छति गत एव स गङ्गायां भवति । अपिचात्र रश्मीनाडीद्वारात्मकस्य ब्रह्मलोकमार्गस्य विवक्षितत्वान्नाडीस्तुत्यर्थं सृप्तिसंकीर्तनम् । ऽनाडीषु सृप्तो भवतिऽ (छा। ८।६।३) इत्युक्त्वा ऽतं न कश्चन पाप्मा स्पृशतिऽ (छा। ८।६।३) इति ब्रुवन्नाडीः प्रशंसति । ब्रवीति च पाप्मस्पर्शाभावे हेतुम् - तेजसा नाडीगतेन पित्ताख्येनाभिव्याप्तकरणो न बाह्यान्विषयानीक्षत इत्यर्थः । अथवा तेजसेति ब्रह्मण एवायं निर्देशः । श्रुत्यन्तरे -ऽ ब्रह्मैव तेज एवऽ (बृ। ४।४।७) इति तेजः शब्दस्य ब्रह्मणि प्रत्युक्तत्वात् । ब्रह्मणा हि तदा संपन्नो भवति नाडीद्वारेणातस्तं न कश्चन पाप्मान स्पृशतीत्यर्थः । ब्रह्मसमपत्तिश्च पाप्मस्पर्शाभावे हेतुः समधिगतः - ऽसर्वे पाप्मानो ऽत निवर्तन्ते ऽपहतपाप्मा ह्येष ब्रह्मलोकःऽ (छा। ८।४।२) इत्यादिश्रुतिभ्यः । एवञ्च सति प्रदेशान्तरप्रसिद्धेन ब्रह्मणा सुषुप्तिस्थानेनानुगतो नाडीनां समुच्चयः समधिगतो भवति । तथा पुरीततो ऽपि ब्रह्मप्रक्रियायां संकीर्तनात्तदनुगुणमेव सुप्तिस्थानत्वं विज्ञायते - ऽय एषो ऽन्तर्हृदय आकाशस्तस्मिञ्छेतेऽ (बृ। २।१।१७) इति हृदयाकाशे सुप्तिस्थाने प्रकृत इदमुच्यते ऽपुरीतति शेतेऽ (बृ। २।१।१९) इति । पुरीतदिति हृदयपरिवेष्टनमुच्यते । तदन्तर्वर्तिन्यापि हृदयाकाशे शयानः शक्यते पुरीतति शेत इति वक्तुम् । प्राकारपरिक्षिप्ते ऽपि पुरे वर्तमानः प्राकारे वर्तत इत्युच्यते । हृदयाकाशस्य च ब्रह्मत्वं समधिगतम् - ऽदहर उत्तरेभ्यःऽ (ब्रसू। १।३।१४) इत्यत्र । तथा नाडीपुरीतत्समुच्चयो ऽपि - ऽताभिः प्रत्यवसृत्य पुरीतति शेतेऽ (बृ। २।१।१९) इत्येकवाक्योपादानादवगम्यते । सत्प्राज्ञयोश्च प्रसिद्धमेव ब्रह्मत्वम् । एवमेतासु श्रुतिषु त्रीण्येव सुषुप्तिस्थानानि संकीर्तितानि नाड्यः पुरीतद्ब्रह्म चेति । तत्रापि द्वारमात्रं नाड्यः पुरीतच्च, ब्रह्मैव त्वेकं सुषुप्ति स्थानम् । अपिच नाड्यः पुरीतद्वा जीवस्योपाध्याधार एव भवति तत्रास्य करणानि वर्तन्त इति । नह्युपाधिसंबन्धमन्तरेण स्वत एव जीवस्याधारः कश्चित्संभवति, ब्रह्माव्यतिरेकेण स्वमहिमप्रतिष्ठितत्वात् । ब्रह्माधारत्वमप्यस्य सुषुप्ते नैवाधाराधेयभेदाभिप्रायेणोच्यते कथं तर्हि तादात्म्याभिप्रायेण । यत आह - ऽसता सोम्य तदा संपन्नो भवति स्वमपीतो भवतिऽ (छा। ६।८।१) इति । स्वशब्देनात्माभिलप्यते, स्वरूपमापन्नः सुप्तो भवतीत्यर्थः । अपिच न कदाचिज्जीवस्य ब्रह्मणा संपत्तिर्नास्ति स्वरूपस्यानपायित्वात् । स्वप्नजागरितयोस्तूपाधिसंपर्कवशात्पररूपापत्तिमिवापेक्ष्य तदुपशमात्सुषुप्तेः स्वरूपापत्तिर्वक्ष्यते । अतश्च सुप्तावस्थायां कदाचित्सतां संपद्यते कदाचिन्न संपद्यत इत्ययुक्तम् । अपिच स्थानविकल्पाभ्युपगमे ऽपि विशेषविज्ञानोपलक्षणं तावत्सुषुप्तं न क्वचिद्विशिष्यते । तत्र सति संपन्नस्तावत्तदेकत्वान्न विजानतीति युक्तम् । ऽत्तकेन कं विजानीयात् । ऽ (बृ। २।४।१४) इति श्रुतेः । नाडीषु पुरतीति च शयानस्य न किञ्चिदविज्ञाने कारणं शक्यं विज्ञातुं, भेदविषयत्वात् ऽयत्र वा अन्यदिव स्यात्तत्रान्यो ऽन्यत्पश्येत्ऽ (बृ। ४।३।३१) इति श्रुतेः । ननु भेदविषयस्याप्यतिदूरादिकारणमविज्ञाने स्यात् । बाढम् । एवं स्याद्यदि जीवः स्वतःपरिच्छिन्नो ऽभ्युपगम्यते, यथा विष्णुमित्रः प्रवासी स्वगृहं न पश्यति । नतु जीवस्योपाधिव्यतिरेकेण परिच्छेदो विद्यते । उपाधिगतमेवातिदूरादिकारणमविज्ञान इति यद्युच्येत तथाप्युपाधेरुपशान्तत्वात्सत्येव संपन्नो न विजानतीति युक्तम् । नच वयमिह तुल्यवन्नाड्यादिसमुच्चयं प्रतिपादयामः । नहि नाड्यः सुप्तिस्थानं पुरीतद्वेत्यनेन विज्ञानेन किञ्चित्प्रयोजनमस्ति । नह्येतद्विज्ञानप्रतिबद्धं किञ्चित्फलं श्रूयते । नाप्येतद्विज्ञानं फलवतः कस्यचिदङ्गमुपदिश्यते । ब्रह्म त्वनपायि सुप्तिस्थानमित्येतत्प्रतिपादयामः । तेन तु विज्ञानेन प्रयोजनमस्ति जीवस्य ब्रह्मात्मत्वावधारणं स्वप्नजागरितव्यवहारविमुक्तत्वावधारणं च । तस्मादात्मैव सुप्तिस्थानम् ।
tadabhāvo nāḍīṣu tacchruter ātmani ca svapnāvasthā parīkṣitā suṣuptāvasthedānīṃ parīkṣyate / tatraitāḥ suṣuptiviṣayāḥ śrutayo bhavanti / kvacicchrūyate- 'tadyatraitatsuptaḥ samastaḥ svapnaṃ na vijānātyāsu tadā nāḍīṣu sṛpo bhavati' (chā. 8.6.3) iti / anyatra tu nāḍīrevānukramya śrūyate - 'tābhiḥ pratyavasṛpya purītati śete' (bṛ. 2.1.19) iti / tathānyatra nāḍīrevānukramya 'tāsu tadā bhavati yadā suptaḥ svapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati' (kauṣī. 4.19) iti / tathānyatra 'ya eṣo 'ntarhṛdaya ākāśastasmiñchete' (bṛ. 2.1.17) iti / tathānyatra 'satā somya tadā saṃpanno bhavati svamapīto bhavati' (chā. 6.8.1) iti / 'prājñenātmanā saṃpariśvakto na bāhyaṃ kiñcana veda nāntaram' (bṛ. 4.3.21) iti ca / tatra saṃśayaḥ - kimetāni nāḍyādīni parasparanirapekṣāṇi bhinnāni suṣuptisthānānyāhosvitparasparāpekṣayaikaṃ suṣuptisthānamasti / kiṃ tāvatprāptaṃ bhinnānīti / kutaḥ - ekārthatvāt / nahyekārthānīṃ kvacitparasparāpekṣatvaṃ dṛśyate vrīhiyavādīnām / nāḍyādīnāṃ tvekārthatā suṣuptau dṛśyate - 'nāḍīśu sṛpto bhavati' (chā. 8.6.3) 'purītati śete' (bṛ. 2.1.19) iti ca tatra tatra saptamīnirdeśasya tulyatvāt / nanu naivaṃ sati saptamīnirdeśo dṛśyate - 'satā somya tadā saṃpanno bhavati' (chā. 6.8.1) iti / naiṣa doṣaḥ / tatrāpi saptamyarthasya gamyamānatvāt / vākyaśeṣo hi tatrāyatanaiṣī jīvaḥ sadupasarpatītyāha - 'anyatrāyatanamalabdhvā prāṇamevopaśrayate' (chā. 6.8.2) iti prāṇaśabdena tatra prakṛtasya sata upādanāt / āyatanaṃ ca saptamyarthaḥ / saptamīnirdeśo 'pi tatra vākyaśeṣe dṛśyate - 'sati saṃpadya na viduḥ sati saṃpadyāmahe' (chā. 6.9.2) iti / sarvatra ca viśeṣavijñānoparamalakṣaṇaṃ suṣuptaṃ na viśiṣyate / tasmādekārtatvānnāḍyādīnāṃ vikalpena kadācitkiñcitsthānaṃ svāpāyopasarpatīti / evaṃ prāpte pratipādyate - tadabhāvo nāḍīṣvātni ceti / tadabhāva iti tasya prakṛtasya svapnadarśanasyābhāvaḥ suṣuptamityarthaḥ / nāḍīṣvātmani ceti samuccayenaitāni nāḍyādīni svāpāyopaiti na vikalpenetyarthaḥ / kutaḥ - tacchruteḥ / tathāhi - sarveṣāmeva nāḍyādīnāṃ tatra tatra suṣuptisthānatvaṃ śrūyate tacca masuccaye saṃgṛhītaṃ bhavati / vikalpe hyeṣāṃ pakṣe bādhaḥ syāt / nanvekārthatvādvikalpo nāḍyādīnāṃ vrīhiyavādivatyuktam / netyucyate / nahyekavibhaktinirdeśamātreṇaikārthatvaṃ vikalpaścāpatati / nānārthatvasamuccayayorapyekavibhaktinirdeśadarśanāprāsāde śete paryaṅ ke śeta ityevamādiṣu / tathehāpi nāḍīṣu purītati brahmaṇi ca svapitītyetadupapadyate samuccayaḥ / tathāca śrutiḥ - 'tāsu tadā bhavati yadā suptaḥ svapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati' (kauṣī. 4.19) iti samuccayaṃ nāḍīnāṃ prāṇasya ca suṣuptau śrāvayatyekavākyopādānāt / prāṇasya ca brahmatvaṃ samadhigatam - 'prāṇastathānugamāt' (bra.sū. 1.1.28) ityatra / yatrāpi nirapekṣā iva nāḍīḥ suptisthānatvena śrāvayati - 'āsu tadā nāḍīṣu sṛpto bhavati' (chā. 8.6.3) iti / tatrāpi pradeśāntaraprasiddhasya brahmaṇo 'pratiṣedhānnāḍīdvāreṇaiva brahmaṇyevāvatiṣṭhata iti pratīyate / nacaivamapi nāḍīṣu saptamī virudhyate / nāḍīdvārāpi brahmopasarpansṛpta eva nāḍīṣu bhavati / yo hi gaṅgayā sāgaraṃ gacchati gata eva sa gaṅgāyāṃ bhavati / apicātra raśmīnāḍīdvārātmakasya brahmalokamārgasya vivakṣitatvānnāḍīstutyarthaṃ sṛptisaṃkīrtanam / 'nāḍīṣu sṛpto bhavati' (chā. 8.6.3) ityuktvā 'taṃ na kaścana pāpmā spṛśati' (chā. 8.6.3) iti bruvannāḍīḥ praśaṃsati / bravīti ca pāpmasparśābhāve hetum - tejasā nāḍīgatena pittākhyenābhivyāptakaraṇo na bāhyānviṣayānīkṣata ityarthaḥ / athavā tejaseti brahmaṇa evāyaṃ nirdeśaḥ / śrutyantare -' brahmaiva teja eva' (bṛ. 4.4.7) iti tejaḥ śabdasya brahmaṇi pratyuktatvāt / brahmaṇā hi tadā saṃpanno bhavati nāḍīdvāreṇātastaṃ na kaścana pāpmāna spṛśatītyarthaḥ / brahmasamapattiśca pāpmasparśābhāve hetuḥ samadhigataḥ - 'sarve pāpmāno 'ta nivartante 'pahatapāpmā hyeṣa brahmalokaḥ' (chā. 8.4.2) ityādiśrutibhyaḥ / evañca sati pradeśāntaraprasiddhena brahmaṇā suṣuptisthānenānugato nāḍīnāṃ samuccayaḥ samadhigato bhavati / tathā purītato 'pi brahmaprakriyāyāṃ saṃkīrtanāttadanuguṇameva suptisthānatvaṃ vijñāyate - 'ya eṣo 'ntarhṛdaya ākāśastasmiñchete' (bṛ. 2.1.17) iti hṛdayākāśe suptisthāne prakṛta idamucyate 'purītati śete' (bṛ. 2.1.19) iti / purītaditi hṛdayapariveṣṭanamucyate / tadantarvartinyāpi hṛdayākāśe śayānaḥ śakyate purītati śeta iti vaktum / prākāraparikṣipte 'pi pure vartamānaḥ prākāre vartata ityucyate / hṛdayākāśasya ca brahmatvaṃ samadhigatam - 'dahara uttarebhyaḥ' (bra.sū. 1.3.14) ityatra / tathā nāḍīpurītatsamuccayo 'pi - 'tābhiḥ pratyavasṛtya purītati śete' (bṛ. 2.1.19) ityekavākyopādānādavagamyate / satprājñayośca prasiddhameva brahmatvam / evametāsu śrutiṣu trīṇyeva suṣuptisthānāni saṃkīrtitāni nāḍyaḥ purītadbrahma ceti / tatrāpi dvāramātraṃ nāḍyaḥ purītacca, brahmaiva tvekaṃ suṣupti sthānam / apica nāḍyaḥ purītadvā jīvasyopādhyādhāra eva bhavati tatrāsya karaṇāni vartanta iti / nahyupādhisaṃbandhamantareṇa svata eva jīvasyādhāraḥ kaścitsaṃbhavati, brahmāvyatirekeṇa svamahimapratiṣṭhitatvāt / brahmādhāratvamapyasya suṣupte naivādhārādheyabhedābhiprāyeṇocyate kathaṃ tarhi tādātmyābhiprāyeṇa / yata āha - 'satā somya tadā saṃpanno bhavati svamapīto bhavati' (chā. 6.8.1) iti / svaśabdenātmābhilapyate, svarūpamāpannaḥ supto bhavatītyarthaḥ / apica na kadācijjīvasya brahmaṇā saṃpattirnāsti svarūpasyānapāyitvāt / svapnajāgaritayostūpādhisaṃparkavaśātpararūpāpattimivāpekṣya tadupaśamātsuṣupteḥ svarūpāpattirvakṣyate / ataśca suptāvasthāyāṃ kadācitsatāṃ saṃpadyate kadācinna saṃpadyata ityayuktam / apica sthānavikalpābhyupagame 'pi viśeṣavijñānopalakṣaṇaṃ tāvatsuṣuptaṃ na kvacidviśiṣyate / tatra sati saṃpannastāvattadekatvānna vijānatīti yuktam / 'ttakena kaṃ vijānīyāt / ' (bṛ. 2.4.14) iti śruteḥ / nāḍīṣu puratīti ca śayānasya na kiñcidavijñāne kāraṇaṃ śakyaṃ vijñātuṃ, bhedaviṣayatvāt 'yatra vā anyadiva syāttatrānyo 'nyatpaśyet' (bṛ. 4.3.31) iti śruteḥ / nanu bhedaviṣayasyāpyatidūrādikāraṇamavijñāne syāt / bāḍham / evaṃ syādyadi jīvaḥ svataḥparicchinno 'bhyupagamyate, yathā viṣṇumitraḥ pravāsī svagṛhaṃ na paśyati / natu jīvasyopādhivyatirekeṇa paricchedo vidyate / upādhigatamevātidūrādikāraṇamavijñāna iti yadyucyeta tathāpyupādherupaśāntatvātsatyeva saṃpanno na vijānatīti yuktam / naca vayamiha tulyavannāḍyādisamuccayaṃ pratipādayāmaḥ / nahi nāḍyaḥ suptisthānaṃ purītadvetyanena vijñānena kiñcitprayojanamasti / nahyetadvijñānapratibaddhaṃ kiñcitphalaṃ śrūyate / nāpyetadvijñānaṃ phalavataḥ kasyacidaṅgamupadiśyate / brahma tvanapāyi suptisthānamityetatpratipādayāmaḥ / tena tu vijñānena prayojanamasti jīvasya brahmātmatvāvadhāraṇaṃ svapnajāgaritavyavahāravimuktatvāvadhāraṇaṃ ca / tasmādātmaiva suptisthānam /
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.