आत्मशब्दाच् च इतश्च पुरुषप्रतिपत्त्यर्थैवेयमिन्द्रियादिप्रवाहोक्तिः । यत्कारणम् ऽएष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिःऽ (कठ। ३।१२) इति प्रकृतं पुरुषमात्मेत्याह । अतश्चानात्मत्वमितरेषां विवक्षितमिति गम्यते । तस्यैव च दुर्विज्ञानतां संस्कृतमितिगम्यतां च दर्शयति । तद्विज्ञानायैव ऽयच्छेद्वाङ्मनसी प्राज्ञःऽ (कठ। ३।१३) इत्याध्यानं विदधाति । तद्व्याख्यतम् ऽआनुमानिकमप्येकमप्येकेषाम्ऽ (ब्रसू। १।४।१) इत्यत्र । एवमनेकप्रकार आशयातिशयः श्रुतेः पुरुषे लक्ष्यते नेतरेषु । अपिच ऽसो ऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्ऽ (क। ३।९) इत्युक्ते किं तदध्वनः पारं विष्णोः परमं पदमित्यस्यामाकाङ्क्षायामिन्द्रियाद्यनुक्रमणात्परमपदप्रतिपत्त्यर्थ एवायमायाम इत्यवसीयते ॥ १५ ॥
ātmaśabdāc ca itaśca puruṣapratipattyarthaiveyamindriyādipravāhoktiḥ / yatkāraṇam 'eṣa sarveṣu bhūteṣu gūḍhotmā na prakāśate / dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ' (kaṭha. 3.12) iti prakṛtaṃ puruṣamātmetyāha / ataścānātmatvamitareṣāṃ vivakṣitamiti gamyate / tasyaiva ca durvijñānatāṃ saṃskṛtamitigamyatāṃ ca darśayati / tadvijñānāyaiva 'yacchedvāṅmanasī prājñaḥ' (kaṭha. 3.13) ityādhyānaṃ vidadhāti / tadvyākhyatam 'ānumānikamapyekamapyekeṣām' (bra.sū. 1.4.1) ityatra / evamanekaprakāra āśayātiśayaḥ śruteḥ puruṣe lakṣyate netareṣu / apica 'so 'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam' (ka. 3.9) ityukte kiṃ tadadhvanaḥ pāraṃ viṣṇoḥ paramaṃ padamityasyāmākāṅkṣāyāmindriyādyanukramaṇātparamapadapratipattyartha evāyamāyāma ityavasīyate // 15 //
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.