भेदान् नेति चेन् नैकस्याम् अपि स्यादेतत् । सर्ववेदान्तप्रत्ययत्वं विज्ञानानां गुणभेदान्नोपपद्यते । तथाहि वाजसनेयिनः पञ्चाग्निविद्यां प्रस्तुत्यः ष्ठमपरमग्निमामनन्ति - ऽतस्याग्निरेवाग्निर्भवतिऽ (बृ। ६।२।१४) इत्यादिना । छन्दोगास्तु तं नामनन्ति पञ्चसंख्ययैव च त उपसंहरन्ति ऽअथ ह य एतानेवं पञ्चाग्नीन्वेदऽ (छा। ५।१०।१०) इति । योषां च स गुणो ऽस्ति येषां च नास्ति कथमुभयेषामेका विद्योपपद्येत । नचात्र गुणोपसंहारः शक्यते प्रत्येतुं, पञ्चसंख्याविरोधात् । तथा प्राणसंवादे श्रेष्ठादन्यांश्चतुरः प्राणान्वाक्चक्षुः श्रोतमनांसि छन्दोगा आमनन्ति । वाजसनेयिनस्तु पञ्चममप्यामनन्ति ऽरेतो वै प्रजापतिः प्रजायते ह प्रजया पशुभिर्य एवं वेदऽ (बृ। ६।१।६) इति । आवापोद्वापभेदाच्च वेद्यभेदो भवति वेद्यभेदाच्च विद्याभेदो द्रव्यदेवताभेदादिव यागस्येति चेत् । नैष दोषः । यत एकस्यामपि विद्यायामेवञ्जातीयको गुणभेद उपपद्यते । यद्यपि षष्ठस्याग्नेरुपसंहारो न संभवति तथापि द्युप्रभृतीनां पञ्चानामग्नीनामुभयत्र प्रत्यभिज्ञायामानत्वान्न विद्याभेदो भवितुमर्हति । नहि षोडशिग्रहणाग्रहणयोरतिरात्रो भिद्यते । पठ्यते ऽपि च षष्ठो ऽग्निश्छन्दोगैः - ऽतं प्रेतं दिष्टमितो ऽग्नय एवं हरन्तिऽ (छा। ५।९।२) इति । वाजसनेयिनस्तु सांपादिकेषु पञ्चस्वग्निष्वनुवृत्तायाः समिद्धूमादिकल्पनाया निवृत्तये ऽतस्याग्निरेवाग्निर्भवति समित्समित्ऽ (बृ। ६।२।१४) इत्यादि समामनन्ति स नित्यानुवादः । अथाप्युपासनार्थ एष वादस्तथापि स गुणः शक्यतेछन्दोगैरप्युपसंहर्तुम् । नचात्र पञ्चसंख्याविरोधे आशङ्क्यः । सांपादिकाग्न्यभिप्राया ह्येषा पञ्चसंख्या नित्यानुवादभूता न विधिसमवायिनीत्यदोषः । एवं प्राणसंवादेष्वप्यधिकस्य गुणस्येतरत्रोपसंहारो न विरुध्यते । नचावापोद्वापभेदाद्वेद्यभेदो विद्याभेदश्चाशङ्क्यः । कस्यचिद्वेद्यांशस्यावापोद्वापयोरपि भूयसो वेद्यराशेरभेदावगमात् । तस्मादैकविद्यमेव ॥ २ ॥ ---------------------- फ़्न्: इतो ऽस्माल्लोकान् दिष्टं लोकान्तरं प्रेतं गतं ज्ञातयो ऽग्नये हरन्तीत्यर्थः ।
bhedān neti cen naikasyām api syādetat / sarvavedāntapratyayatvaṃ vijñānānāṃ guṇabhedānnopapadyate / tathāhi vājasaneyinaḥ pañcāgnividyāṃ prastutyaḥ ṣṭhamaparamagnimāmananti - 'tasyāgnirevāgnirbhavati' (bṛ. 6.2.14) ityādinā / chandogāstu taṃ nāmananti pañcasaṃkhyayaiva ca ta upasaṃharanti 'atha ha ya etānevaṃ pañcāgnīnveda' (chā. 5.10.10) iti / yoṣāṃ ca sa guṇo 'sti yeṣāṃ ca nāsti kathamubhayeṣāmekā vidyopapadyeta / nacātra guṇopasaṃhāraḥ śakyate pratyetuṃ, pañcasaṃkhyāvirodhāt / tathā prāṇasaṃvāde śreṣṭhādanyāṃścaturaḥ prāṇānvākcakṣuḥ śrotamanāṃsi chandogā āmananti / vājasaneyinastu pañcamamapyāmananti 'reto vai prajāpatiḥ prajāyate ha prajayā paśubhirya evaṃ veda' (bṛ. 6.1.6) iti / āvāpodvāpabhedācca vedyabhedo bhavati vedyabhedācca vidyābhedo dravyadevatābhedādiva yāgasyeti cet / naiṣa doṣaḥ / yata ekasyāmapi vidyāyāmevañjātīyako guṇabheda upapadyate / yadyapi ṣaṣṭhasyāgnerupasaṃhāro na saṃbhavati tathāpi dyuprabhṛtīnāṃ pañcānāmagnīnāmubhayatra pratyabhijñāyāmānatvānna vidyābhedo bhavitumarhati / nahi ṣoḍaśigrahaṇāgrahaṇayoratirātro bhidyate / paṭhyate 'pi ca ṣaṣṭho 'gniśchandogaiḥ - 'taṃ pretaṃ diṣṭamito 'gnaya evaṃ haranti' (chā. 5.9.2) iti / vājasaneyinastu sāṃpādikeṣu pañcasvagniṣvanuvṛttāyāḥ samiddhūmādikalpanāyā nivṛttaye 'tasyāgnirevāgnirbhavati samitsamit' (bṛ. 6.2.14) ityādi samāmananti sa nityānuvādaḥ / athāpyupāsanārtha eṣa vādastathāpi sa guṇaḥ śakyatechandogairapyupasaṃhartum / nacātra pañcasaṃkhyāvirodhe āśaṅkyaḥ / sāṃpādikāgnyabhiprāyā hyeṣā pañcasaṃkhyā nityānuvādabhūtā na vidhisamavāyinītyadoṣaḥ / evaṃ prāṇasaṃvādeṣvapyadhikasya guṇasyetaratropasaṃhāro na virudhyate / nacāvāpodvāpabhedādvedyabhedo vidyābhedaścāśaṅkyaḥ / kasyacidvedyāṃśasyāvāpodvāpayorapi bhūyaso vedyarāśerabhedāvagamāt / tasmādaikavidyameva // 2 // ---------------------- FN: ito 'smāllokān diṣṭaṃ lokāntaraṃ pretaṃ gataṃ jñātayo 'gnaye harantītyarthaḥ /
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.