सैव हि सत्यादयः ऽस यो हैतं महद्यक्षं प्रथमजं वेद ब्रह्मऽ (बृ। ५।४।१) इत्यादिना वाजसनेयके सत्यविद्यां सनामाक्षरोपासनां विधायानन्तिमाम्नायते - ऽतद्यत्तत्सत्यमसो स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणे ऽक्षन्पुरुषःऽ (बृ। ५।५।२) इत्यादि । तत्र संशयः -ऽ किं द्वे एते सत्यविद्ये किंवैकैवेति । द्वे इति तावत्प्राप्तम् । भेदेन हि फलसंयोगो भवति जयतीमांल्लोकान्ऽ (बृ। ५।४।१२) इति पुरस्तात् । हन्ति पाप्मानं जहाति च (बृ। ५।५।३,४) इत्युपरिष्चात् । प्रकृताकर्षणं तूपास्यैकत्वादिति । एवं प्राप्ते ब्रूमः - एकैवेयं सत्यविद्येति । कुतः - ऽतद्यत्तत्सत्यम्ऽ (बृ। ५।५।२) इति प्रकृताकर्षणात् । ननु विद्याभेदे ऽपि प्रकृताकर्षणमुपास्यैकत्वादुपपद्यत इत्युक्तम् । नैतदेवम् । यत्र तु विस्पष्टात्कारणान्तराद्विद्याभेदः प्रतीयते तत्रैतदेवं स्यात् । अत्र तूक्षया संभवे तद्यत्तत्सत्यमिति प्रकृताकर्षणात्पूर्वविद्यासंबद्दमेव सत्यमुत्तरत्राकृष्यत इत्येकविद्यात्वनिश्चयः । यत्पुनरुक्तं फलान्तरश्रवणाद्विद्यान्तरमिति । अत्रोच्यते - तस्योपनिषदहरहमिति चाङ्गान्तरोपदेशस्य स्तावकमिदं फलान्तरश्रवणमित्यदोषः । अपिचार्थवादादेव फले कल्पयितव्ये सति विद्यैकत्वे चावयवेषु श्रूयमाणानि बहून्यपि फलान्यवयविन्यामेव विद्यायामुपसंहर्तव्यानि भवन्ति । तस्मात्सैवेयमेका सत्यविद्या तेन तेन विशेषणोपेताम्नातेत्यतः सर्व एव सत्यादयो गुणा एकस्मिन्नेव प्रयोग उपसंहर्तव्याः । केचित्पुनरस्मिन्सूत्र इदं च वाजसनेयकमक्ष्यादित्यपुरुषविषयं वाक्यं, छान्दोग्ये च - ऽअथ य एषो ऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यतेऽ (छा। १।६।६) ऽअथ य एषो ऽक्षिणि पुरुषो दृश्यतेऽ (छा। ४।१५।१) इत्युदाह-त्य सैवेयमक्ष्यादित्यपुरुषविषया विद्योभयत्रैकैवेति कृत्वा सत्यादीन्गुणान्वाजसनेयिभ्यश्छन्दोगानामुपसंहार्यान्मन्यन्ते । तन्न साधु लक्ष्यते । छान्दोग्ये हि ज्योतिष्टोमकर्मसमबन्धिनीयमुद्गीथव्यपाश्रया विद्या विज्ञायते तत्र ह्यदिमध्यावसानेषु हि कर्मसंबन्धचिह्नानि भवन्ति ऽइयमेवर्गग्निः सामऽ (छा। १।६।१) इत्युपक्रमे, ऽतस्यर्क्क साम च गेष्णौ तस्मादुद्गीथःऽ (छा। १।६।८) इति मध्ये, ऽय एवं विद्वान्साम गायतिऽ (छा। १।७।९) इत्युपसंहारे । नैवं वाजसनेयके किञ्चित्कर्मसंबन्धि चिह्नमस्ति । तत्र प्रक्रमभेदाद्विद्याभेदे सति गुण्यवस्थैव युक्तेति ॥ ३८ ॥ ---------------------- फ़्न्: गेष्णौ गायकौ । तस्मादृक्सामगेष्णत्वात् । २५ कामाद्यधिकाराधिकरमम् । सू। ३९
saiva hi satyādayaḥ 'sa yo haitaṃ mahadyakṣaṃ prathamajaṃ veda brahma' (bṛ. 5.4.1) ityādinā vājasaneyake satyavidyāṃ sanāmākṣaropāsanāṃ vidhāyānantimāmnāyate - 'tadyattatsatyamaso sa ādityo ya eṣa etasminmaṇḍale puruṣo yaścāyaṃ dakṣiṇe 'kṣanpuruṣaḥ' (bṛ. 5.5.2) ityādi / tatra saṃśayaḥ -' kiṃ dve ete satyavidye kiṃvaikaiveti / dve iti tāvatprāptam / bhedena hi phalasaṃyogo bhavati jayatīmāṃllokān' (bṛ. 5.4.12) iti purastāt / hanti pāpmānaṃ jahāti ca (bṛ. 5.5.3,4) ityupariṣcāt / prakṛtākarṣaṇaṃ tūpāsyaikatvāditi / evaṃ prāpte brūmaḥ - ekaiveyaṃ satyavidyeti / kutaḥ - 'tadyattatsatyam' (bṛ. 5.5.2) iti prakṛtākarṣaṇāt / nanu vidyābhede 'pi prakṛtākarṣaṇamupāsyaikatvādupapadyata ityuktam / naitadevam / yatra tu vispaṣṭātkāraṇāntarādvidyābhedaḥ pratīyate tatraitadevaṃ syāt / atra tūkṣayā saṃbhave tadyattatsatyamiti prakṛtākarṣaṇātpūrvavidyāsaṃbaddameva satyamuttaratrākṛṣyata ityekavidyātvaniścayaḥ / yatpunaruktaṃ phalāntaraśravaṇādvidyāntaramiti / atrocyate - tasyopaniṣadaharahamiti cāṅgāntaropadeśasya stāvakamidaṃ phalāntaraśravaṇamityadoṣaḥ / apicārthavādādeva phale kalpayitavye sati vidyaikatve cāvayaveṣu śrūyamāṇāni bahūnyapi phalānyavayavinyāmeva vidyāyāmupasaṃhartavyāni bhavanti / tasmātsaiveyamekā satyavidyā tena tena viśeṣaṇopetāmnātetyataḥ sarva eva satyādayo guṇā ekasminneva prayoga upasaṃhartavyāḥ / kecitpunarasminsūtra idaṃ ca vājasaneyakamakṣyādityapuruṣaviṣayaṃ vākyaṃ, chāndogye ca - 'atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate' (chā. 1.6.6) 'atha ya eṣo 'kṣiṇi puruṣo dṛśyate' (chā. 4.15.1) ityudāha-tya saiveyamakṣyādityapuruṣaviṣayā vidyobhayatraikaiveti kṛtvā satyādīnguṇānvājasaneyibhyaśchandogānāmupasaṃhāryānmanyante / tanna sādhu lakṣyate / chāndogye hi jyotiṣṭomakarmasamabandhinīyamudgīthavyapāśrayā vidyā vijñāyate tatra hyadimadhyāvasāneṣu hi karmasaṃbandhacihnāni bhavanti 'iyamevargagniḥ sāma' (chā. 1.6.1) ityupakrame, 'tasyarkka sāma ca geṣṇau tasmādudgīthaḥ' (chā. 1.6.8) iti madhye, 'ya evaṃ vidvānsāma gāyati' (chā. 1.7.9) ityupasaṃhāre / naivaṃ vājasaneyake kiñcitkarmasaṃbandhi cihnamasti / tatra prakramabhedādvidyābhede sati guṇyavasthaiva yukteti // 38 // ---------------------- FN: geṣṇau gāyakau / tasmādṛksāmageṣṇatvāt / 25 kāmādyadhikārādhikaramam / sū. 39
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.