न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः यदुक्तं मानसावदिति तत्प्रत्युच्यते । न मानसग्रहसामान्यादपि मनश्चिदादीनां क्रियाशेषत्वं कल्प्यम् । पूर्वोक्तेभ्यः श्रुत्यादिहेतुभ्यः केवलपुरुषार्थत्वोपलब्धेः । नहि किञ्चित्कस्यचित्केनचित्सामान्यं न संभवति । नच तावता यथात्वं वैषम्यं निवर्तते । मृत्युवत् । यथा ऽस वा एष एव मृत्युर्य एष एतस्मिन्मण्डले पुरुषःऽ इति ऽअग्निर्वै मृत्युःऽ (बृ। ३।२।१०) इति चाग्न्यादित्यपुरुषयोः समाने ऽपि मृत्युशब्दप्रयोगे नात्यन्तसाम्यापत्तिः । यथा च ऽअसौ वाव लोको गौतमाग्निस्तस्यादित्य एव समित्ऽ (छा। ५।४।१) इत्यत्र न समिदादिसामान्याल्लोकस्याग्निभावापत्तिस्तद्वत् ॥ ५१ ॥
na sāmānyādapyupalabdhermṛtyuvanna hi lokāpattiḥ yaduktaṃ mānasāvaditi tatpratyucyate / na mānasagrahasāmānyādapi manaścidādīnāṃ kriyāśeṣatvaṃ kalpyam / pūrvoktebhyaḥ śrutyādihetubhyaḥ kevalapuruṣārthatvopalabdheḥ / nahi kiñcitkasyacitkenacitsāmānyaṃ na saṃbhavati / naca tāvatā yathātvaṃ vaiṣamyaṃ nivartate / mṛtyuvat / yathā 'sa vā eṣa eva mṛtyurya eṣa etasminmaṇḍale puruṣaḥ' iti 'agnirvai mṛtyuḥ' (bṛ. 3.2.10) iti cāgnyādityapuruṣayoḥ samāne 'pi mṛtyuśabdaprayoge nātyantasāmyāpattiḥ / yathā ca 'asau vāva loko gautamāgnistasyāditya eva samit' (chā. 5.4.1) ityatra na samidādisāmānyāllokasyāgnibhāvāpattistadvat // 51 //
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.