ऊर्ध्वरेतस्सु च शब्दे हि ऊर्ध्वरेतःसु चाश्रमेषु विद्या श्रूयते । नच तत्र कर्माङ्गत्वं विद्याया उपपद्यते । कर्माभावात् । नह्यग्निहोत्रादीनि वैदिकानि कर्माणि तेषां सन्ति । स्यादेतत् । ऊर्ध्वरेतस आश्रमा न श्रूयन्ते वेद इति तदपि नास्ति । ते ऽपि हि वैदिकेषु शब्देष्ववगम्यन्ते ऽत्रयो धर्मस्कन्धाःऽ (छा। २।२३।१) ऽये चेमे ऽरण्ये श्रद्धा तप इत्युपासतेऽ (छा। ५।१०।१) ऽतपःश्रद्धे यो ह्युपवसन्त्यरण्येऽ (मु। १।२।११) ऽएतमेव प्रवाजिनो लोकमिच्छन्तः प्रवजन्तिऽ (बृ। ४।४।२२) ऽब्रह्मचर्यादेव प्रव्रजेत्ऽ (जा। ४) इत्येवमादिषु । प्रतिपन्नाप्रतिपन्नगार्हस्थ्यानामपाकृतानापाकृतर्णत्रयाणां चोर्ध्वरेतस्त्वं श्रुतिस्मृतिप्रसिद्धम् । तस्मादपि स्वातन्त्र्यं विद्यायाः ॥ १७ ॥ २ परामर्शाधिकरणम् । सू। १८-२०
ūrdhvaretassu ca śabde hi ūrdhvaretaḥsu cāśrameṣu vidyā śrūyate / naca tatra karmāṅgatvaṃ vidyāyā upapadyate / karmābhāvāt / nahyagnihotrādīni vaidikāni karmāṇi teṣāṃ santi / syādetat / ūrdhvaretasa āśramā na śrūyante veda iti tadapi nāsti / te 'pi hi vaidikeṣu śabdeṣvavagamyante 'trayo dharmaskandhāḥ' (chā. 2.23.1) 'ye ceme 'raṇye śraddhā tapa ityupāsate' (chā. 5.10.1) 'tapaḥśraddhe yo hyupavasantyaraṇye' (mu. 1.2.11) 'etameva pravājino lokamicchantaḥ pravajanti' (bṛ. 4.4.22) 'brahmacaryādeva pravrajet' (jā. 4) ityevamādiṣu / pratipannāpratipannagārhasthyānāmapākṛtānāpākṛtarṇatrayāṇāṃ cordhvaretastvaṃ śrutismṛtiprasiddham / tasmādapi svātantryaṃ vidyāyāḥ // 17 // 2 parāmarśādhikaraṇam / sū. 18-20
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.