अनुष्ठेयं बादरायणः साम्यश्रुतेः अनुष्ठेयमाश्रमान्तरं बादरायण आचार्यो मन्यते । वेदे श्रवणात् । अग्निहोत्रादीनां चावश्यानुष्ठोयत्वात्तद्विरोधादनधिकृतानुष्ठेयमाश्रमान्तरमितिहीमां मतिं निराकरोति गार्हस्थ्यवदेवाश्रमान्तरमप्यनिच्छता प्रतिपत्तव्यमिति मन्यमानः । कुतः साम्यश्रुतेः । समा हि गार्हस्त्येनाश्रमान्तरस्य परामर्शश्रुतिर्दृश्यते ऽत्रयो धर्मस्कन्धाःऽ (छा। २।२।३।१)इत्याद्या । यथेह श्रुत्यन्तरविहितमेव गार्हस्त्यं परामृष्टमेवाश्रमान्तरमपीति प्रतिपत्तव्यम् । यथाच शास्त्रान्तरप्राप्तयोरेव निवीतप्राचीनवीतयोः परामर्श उपवीतविधिपरे वाक्ये । तस्मात्तुल्यमनुष्ठेयत्वं गार्हस्थ्येनाश्रमान्तरस्य । तथा ऽएतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्तिऽ (बृ। ४।४।२२) इत्यस्य वेदानुवचनादिभिः समभिव्याहारः । ऽये चेमे ऽरम्ये श्रद्दा तप इत्युपासतेऽ (छा। ५।१०१) इत्यस्य च पञ्चाग्निविद्यया । यत्तूक्तम् ऽतप एव द्वितीयः (छा। २।२।३।१) इत्यादिष्वाश्रमान्तराभिधानं संदिग्धमिति । नैष दोषः । निश्चयकारणसद्भावात् । ऽत्रयो धर्मस्कन्धाःऽ (छा। २।२३।१) इति हि धर्मस्कन्धत्रित्वं प्रतिज्ञातम् । नच यज्ञादयो भूयांसो धर्मा उत्पत्तिभिन्नाः सन्तो ऽन्यत्राश्रमसंबन्धात्रित्वे ऽन्तर्भावयितुं शक्यन्ते । तत्र यज्ञादिलिङ्गो गृहाश्रम एको धर्मस्कन्धो निर्दिष्टो ब्रह्मचारीति च स्पष्ट आश्रमनिर्देशस्तपैत्यपि को ऽन्यस्तपःप्रधानादाश्रमाद्धर्मस्कन्धो ऽभ्युपगम्येत । ऽये चेमे ऽरण्येऽ (छा। ५।१०।१) इति चारण्यलिङ्गाच्छ्रद्धातपोभ्यामाश्रमगृहीतिः । तस्मात्परामर्शे ऽप्यनुष्ठेयमाश्रमान्तरम् ॥ १९ ॥
anuṣṭheyaṃ bādarāyaṇaḥ sāmyaśruteḥ anuṣṭheyamāśramāntaraṃ bādarāyaṇa ācāryo manyate / vede śravaṇāt / agnihotrādīnāṃ cāvaśyānuṣṭhoyatvāttadvirodhādanadhikṛtānuṣṭheyamāśramāntaramitihīmāṃ matiṃ nirākaroti gārhasthyavadevāśramāntaramapyanicchatā pratipattavyamiti manyamānaḥ / kutaḥ sāmyaśruteḥ / samā hi gārhastyenāśramāntarasya parāmarśaśrutirdṛśyate 'trayo dharmaskandhāḥ' (chā. 2.2.3.1)ityādyā / yatheha śrutyantaravihitameva gārhastyaṃ parāmṛṣṭamevāśramāntaramapīti pratipattavyam / yathāca śāstrāntaraprāptayoreva nivītaprācīnavītayoḥ parāmarśa upavītavidhipare vākye / tasmāttulyamanuṣṭheyatvaṃ gārhasthyenāśramāntarasya / tathā 'etameva pravrājino lokamicchantaḥ pravrajanti' (bṛ. 4.4.22) ityasya vedānuvacanādibhiḥ samabhivyāhāraḥ / 'ye ceme 'ramye śraddā tapa ityupāsate' (chā. 5.101) ityasya ca pañcāgnividyayā / yattūktam 'tapa eva dvitīyaḥ (chā. 2.2.3.1) ityādiṣvāśramāntarābhidhānaṃ saṃdigdhamiti / naiṣa doṣaḥ / niścayakāraṇasadbhāvāt / 'trayo dharmaskandhāḥ' (chā. 2.23.1) iti hi dharmaskandhatritvaṃ pratijñātam / naca yajñādayo bhūyāṃso dharmā utpattibhinnāḥ santo 'nyatrāśramasaṃbandhātritve 'ntarbhāvayituṃ śakyante / tatra yajñādiliṅgo gṛhāśrama eko dharmaskandho nirdiṣṭo brahmacārīti ca spaṣṭa āśramanirdeśastapaityapi ko 'nyastapaḥpradhānādāśramāddharmaskandho 'bhyupagamyeta / 'ye ceme 'raṇye' (chā. 5.10.1) iti cāraṇyaliṅgācchraddhātapobhyāmāśramagṛhītiḥ / tasmātparāmarśe 'pyanuṣṭheyamāśramāntaram // 19 //
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.