सर्वथापि त एवोभयलिङ्गात् सर्वथाप्याश्रमकर्मपक्षे विद्यासहकारित्वपक्षे च त एवाग्निहोत्रादयो धर्मा अनुष्टोयाः । त एवेत्यवधारयन्नाच्र्यः किं निवर्तयति । कर्मभेदशह् कामिति ब्रूमः । यथा कुण्डपायिनामयने ऽमासमग्निहोत्रं जिहोतिऽ इत्यत्र नित्यादग्निहोत्रात्कर्मान्तरमुपदिश्यते नैवमिह कर्मभेदो ऽस्तीत्यर्थः । कुतः -उभयलिङ्गात् । श्रुतिलिङ्गात्स्मृतिलिङ्गाच्च । श्रुतिलिङ्गं तावत् ऽतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्तिऽ (बृ। ४।४।२२) इति सिद्धवदुत्पन्नरूपाण्येव यज्ञादीनि विविदिषायां विनियुङ् क्ते नतु जुह्वतीत्यादिवदपूर्वमेषां रूपमुत्पादयतीति । स्मृतिलिङ्गमपि ऽअनाश्रितः कर्मफलं कार्यं कर्म करोति यःऽ (६।१) इति विज्ञातकर्तव्यताकमेव कर्म विद्योत्पत्त्यर्थं दर्शयति । यस्यैते ऽष्टाचत्वारिंशत्संस्कारा इत्याद्या च संस्कारत्वप्रसिद्धिर्वैदिकेषु कर्मसु तत्संस्कृतस्य विद्योत्पत्तिमभिप्रेत्य स्मृतौ भवति । तस्मात्साद्विदमभेदावधारणम् ॥ ३४ ॥
sarvathāpi ta evobhayaliṅgāt sarvathāpyāśramakarmapakṣe vidyāsahakāritvapakṣe ca ta evāgnihotrādayo dharmā anuṣṭoyāḥ / ta evetyavadhārayannācryaḥ kiṃ nivartayati / karmabhedaśah kāmiti brūmaḥ / yathā kuṇḍapāyināmayane 'māsamagnihotraṃ jihoti' ityatra nityādagnihotrātkarmāntaramupadiśyate naivamiha karmabhedo 'stītyarthaḥ / kutaḥ -ubhayaliṅgāt / śrutiliṅgātsmṛtiliṅgācca / śrutiliṅgaṃ tāvat 'tametaṃ vedānuvacanena brāhmaṇā vividiṣanti' (bṛ. 4.4.22) iti siddhavadutpannarūpāṇyeva yajñādīni vividiṣāyāṃ viniyuṅ kte natu juhvatītyādivadapūrvameṣāṃ rūpamutpādayatīti / smṛtiliṅgamapi 'anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ' (6.1) iti vijñātakartavyatākameva karma vidyotpattyarthaṃ darśayati / yasyaite 'ṣṭācatvāriṃśatsaṃskārā ityādyā ca saṃskāratvaprasiddhirvaidikeṣu karmasu tatsaṃskṛtasya vidyotpattimabhipretya smṛtau bhavati / tasmātsādvidamabhedāvadhāraṇam // 34 //
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.