कार्यं बादरिरस्य गत्युपपत्तेः ऽस एनान्ब्रह्म गमयति (छा। ४।१५।५) इति अत्र विचिकित्स्यते - किं कार्यम् अपरं ब्रह्म गमयति आहोस्वित् परम् एव अविकृतं मुख्यं ब्रह्म इति । कुतः संशयः । ब्रह्मशब्दप्रयोगात् गतिश्रुतेः च । तत्र कार्यमेव सगुणम् अपरं ब्रह्म एनान् गमयति अमानवः पुरुष इति बादरिः आचार्यो मन्यते । कुतः - अस्य गति उपपत्तेः । अस्य हि कार्यब्रह्मणो गन्तव्यत्वम् उपपत्तेः । अस्य हि कार्यब्रह्मणो गन्तव्यत्वम् उपपद्यते प्रदेशवत्त्वात् । न तु परस्मिन् ब्रह्मणि गन्तृत्वं गन्तव्यत्वं गतिः वा अवकल्पते । सर्वगतत्वात् प्रत्यगात्मत्वात् च गन्तृणाम् ॥ ७ ॥
kāryaṃ bādarirasya gatyupapatteḥ 'sa enānbrahma gamayati (chā. 4.15.5) iti atra vicikitsyate - kiṃ kāryam aparaṃ brahma gamayati āhosvit param eva avikṛtaṃ mukhyaṃ brahma iti / kutaḥ saṃśayaḥ / brahmaśabdaprayogāt gatiśruteḥ ca / tatra kāryameva saguṇam aparaṃ brahma enān gamayati amānavaḥ puruṣa iti bādariḥ ācāryo manyate / kutaḥ - asya gati upapatteḥ / asya hi kāryabrahmaṇo gantavyatvam upapatteḥ / asya hi kāryabrahmaṇo gantavyatvam upapadyate pradeśavattvāt / na tu parasmin brahmaṇi gantṛtvaṃ gantavyatvaṃ gatiḥ vā avakalpate / sarvagatatvāt pratyagātmatvāt ca gantṛṇām // 7 //
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.