Library·Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya·4·4.3

Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya 4.3

अर्चिरादिना तत्प्रथितेः आसृति उपक्रमात् समान उत्क्रान्तिः इति उक्तम् । सृतिस्तु श्रुत्यन्तरेषु अनेकधा श्रूयते । नाडीरश्मिसंबन्धेन एकधा ऽअथैतैरेव रश्मिभिरूर्ध्व आक्रमतेऽ (छा। ८।६।५) इति । अर्चिरादिक एका ऽते ऽर्चिषमभिसंभवन्त्यर्चिषो ऽहःऽ (बृ। ६।२।१५) इति । ऽस एतं देवयानं पन्थानमासाद्याग्निलोकमागच्छतिऽ (कौ। १।३) इति अन्या । ऽयदा वै पुरुषो ऽस्माल्लोकात्प्रैति स वायुमागच्छतिऽ (बृ। ५।१०।१) इति अपरा । ऽसूर्यद्वारेण ते विरजाः प्रयान्तिऽ (मुण्ड, १।२।११) इति च अपरा । तत्र संशयः - किं परस्परं भिन्ना एताः सृतय किं व एक एव अनेकविशेषण इति । तत्र प्राप्तं तावत् भिन्नाः एताः सृतय इति । भिन्नप्रकरणत्वात् । भिन्न उपासनाशेषत्वात् च । अपि च ऽअथैतैरेव रश्मिभिःऽ(छा। ८।६।५) इति अवधारणम् अर्चिरादि अपेक्षायाम् उपरुध्येत । त्वरावचनं च पीड्येत ऽस यावत्क्षिप्येन्मनस्तावदादित्यं गच्छतिऽ (छा। ८।६।५) इति । तस्मात् अन्योन्यभिन्ना एव एते पन्थान इति । एवं प्राप्ते अभिदध्महे - अर्चिरादिन इति - सर्वो ब्रह्मप्रेप्सुः अर्चिरादिन एव अध्वना रंहति इति प्रतिजानीमहे । कुतः - तत् प्रथितेः । प्रथितो हि एष मार्गः सर्वेषां विदुषाम् । तथा हि पञ्चाग्निविद्याप्रकरणे ऽये ऽचामी अरण्ये श्रद्धां सत्यमुपासतेऽ (बृ। ६।२।१५) इति विद्यान्तरशीलिनाम् अपि अर्चिरादिका सृतिः श्राव्यते । स्यात् एतत् । यासु विद्यासु न काचित् गतिः उच्यते तासु इयम् अर्चिरादिक उपतिष्ठतां यासु तु अन्या श्राव्यते तासु किम् इति अर्चिरादि आश्रयणम् इति । अत्र उच्यते - भवेत् एतदेवं यदि अत्यन्तभिन्ना एव एताः सृतयः स्युः । एक एव तु एषा सृतिःअनेकविशेषणा ब्रह्मलोकप्रपदनी क्वचित् केनचित् विशेषणेन उपलक्षित इति वदामः । सर्वत्र एकदेशप्रत्यभिज्ञानात् इतरेतर विशेषणविशेष्यभाव उपपत्तेः । प्रकरणभेदे अपि हि विद्या एकत्वे भवति इतरेतर विशेषण उपसंहारवत् गतिविशेषणानाम् अपि उपसंहारः । विद्याभेदे अपि तु गति एकदेशप्रत्यभिज्ञानात् गन्तव्य अभेदात् च गति अभेद एव । तथा हि ऽते तेषु ब्रह्मलोकेषु पराः परावतो वसन्तिऽ (बृ। ६।२।१५) ऽतस्मिन्वसन्ति शाश्वतीः समाःऽ (बृ। ५।१०१) ऽसा या ब्रह्मणो जितिर्या व्युष्टिस्तां जितिं जयति तां व्युष्टिं व्यश्नुतेऽ (कौषी। १।४) ऽतद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दतिऽ (छा। ८।४।३) इति च तत्र तत्र तत् एव एकं फलं ब्रह्मलोकप्राप्तिलक्षणं प्रदर्श्यते । यत् तु एतैः एव इति अवधारणम् अर्चिरादि आश्रयणे न स्यात् इति । न एष दोषः । रश्मिप्राप्तिपरत्वात् अस्य । न हि एक एव शब्दो रश्मीन् च प्रापयितुम् अर्हति अर्चिरादीन् च व्यावर्तयितुम् । तस्मात् रश्मिसंबन्ध एव अयमवधार्यत इति द्रष्टव्यम् । त्वरावचनं तु अर्चिरादि अपेक्षायाम् अपि गन्तव्यान्तरापेक्षा शैघ्र्यार्थत्वात् न उपरुध्यते । यथा निमिषमात्रेण अत्र आगम्यत इति । अपि च ऽअथैतयोः पथोर्नकतरेणाचनऽ (छा। ५।१०८) इति मार्गद्वयभ्रष्टानां कष्टं तृतीयं स्थानम् आचक्षाणा पितृयाणव्यतिरिक्तम् एकमेव देवयानम् अर्चिरादिपर्वाणं पन्थानं प्रथयति । भूयांसि अर्चिरादिसृतौ मार्गपर्वाणि अल्पीयांसि तु अन्यत्र । भूयसां च अनुगुण्येन अल्पीयसां नयनं न्याय्यम् इति अतः अपि अर्चिरादिना तत् प्रथितेः इति उक्तम् ॥ १ ॥

arcirādinā tatprathiteḥ āsṛti upakramāt samāna utkrāntiḥ iti uktam / sṛtistu śrutyantareṣu anekadhā śrūyate / nāḍīraśmisaṃbandhena ekadhā 'athaitaireva raśmibhirūrdhva ākramate' (chā. 8.6.5) iti / arcirādika ekā 'te 'rciṣamabhisaṃbhavantyarciṣo 'haḥ' (bṛ. 6.2.15) iti / 'sa etaṃ devayānaṃ panthānamāsādyāgnilokamāgacchati' (kau. 1.3) iti anyā / 'yadā vai puruṣo 'smāllokātpraiti sa vāyumāgacchati' (bṛ. 5.10.1) iti aparā / 'sūryadvāreṇa te virajāḥ prayānti' (muṇḍa, 1.2.11) iti ca aparā / tatra saṃśayaḥ - kiṃ parasparaṃ bhinnā etāḥ sṛtaya kiṃ va eka eva anekaviśeṣaṇa iti / tatra prāptaṃ tāvat bhinnāḥ etāḥ sṛtaya iti / bhinnaprakaraṇatvāt / bhinna upāsanāśeṣatvāt ca / api ca 'athaitaireva raśmibhiḥ'(chā. 8.6.5) iti avadhāraṇam arcirādi apekṣāyām uparudhyeta / tvarāvacanaṃ ca pīḍyeta 'sa yāvatkṣipyenmanastāvadādityaṃ gacchati' (chā. 8.6.5) iti / tasmāt anyonyabhinnā eva ete panthāna iti / evaṃ prāpte abhidadhmahe - arcirādina iti - sarvo brahmaprepsuḥ arcirādina eva adhvanā raṃhati iti pratijānīmahe / kutaḥ - tat prathiteḥ / prathito hi eṣa mārgaḥ sarveṣāṃ viduṣām / tathā hi pañcāgnividyāprakaraṇe 'ye 'cāmī araṇye śraddhāṃ satyamupāsate' (bṛ. 6.2.15) iti vidyāntaraśīlinām api arcirādikā sṛtiḥ śrāvyate / syāt etat / yāsu vidyāsu na kācit gatiḥ ucyate tāsu iyam arcirādika upatiṣṭhatāṃ yāsu tu anyā śrāvyate tāsu kim iti arcirādi āśrayaṇam iti / atra ucyate - bhavet etadevaṃ yadi atyantabhinnā eva etāḥ sṛtayaḥ syuḥ / eka eva tu eṣā sṛtiḥanekaviśeṣaṇā brahmalokaprapadanī kvacit kenacit viśeṣaṇena upalakṣita iti vadāmaḥ / sarvatra ekadeśapratyabhijñānāt itaretara viśeṣaṇaviśeṣyabhāva upapatteḥ / prakaraṇabhede api hi vidyā ekatve bhavati itaretara viśeṣaṇa upasaṃhāravat gativiśeṣaṇānām api upasaṃhāraḥ / vidyābhede api tu gati ekadeśapratyabhijñānāt gantavya abhedāt ca gati abheda eva / tathā hi 'te teṣu brahmalokeṣu parāḥ parāvato vasanti' (bṛ. 6.2.15) 'tasminvasanti śāśvatīḥ samāḥ' (bṛ. 5.101) 'sā yā brahmaṇo jitiryā vyuṣṭistāṃ jitiṃ jayati tāṃ vyuṣṭiṃ vyaśnute' (kauṣī. 1.4) 'tadya evaitaṃ brahmalokaṃ brahmacaryeṇānuvindati' (chā. 8.4.3) iti ca tatra tatra tat eva ekaṃ phalaṃ brahmalokaprāptilakṣaṇaṃ pradarśyate / yat tu etaiḥ eva iti avadhāraṇam arcirādi āśrayaṇe na syāt iti / na eṣa doṣaḥ / raśmiprāptiparatvāt asya / na hi eka eva śabdo raśmīn ca prāpayitum arhati arcirādīn ca vyāvartayitum / tasmāt raśmisaṃbandha eva ayamavadhāryata iti draṣṭavyam / tvarāvacanaṃ tu arcirādi apekṣāyām api gantavyāntarāpekṣā śaighryārthatvāt na uparudhyate / yathā nimiṣamātreṇa atra āgamyata iti / api ca 'athaitayoḥ pathornakatareṇācana' (chā. 5.108) iti mārgadvayabhraṣṭānāṃ kaṣṭaṃ tṛtīyaṃ sthānam ācakṣāṇā pitṛyāṇavyatiriktam ekameva devayānam arcirādiparvāṇaṃ panthānaṃ prathayati / bhūyāṃsi arcirādisṛtau mārgaparvāṇi alpīyāṃsi tu anyatra / bhūyasāṃ ca anuguṇyena alpīyasāṃ nayanaṃ nyāyyam iti ataḥ api arcirādinā tat prathiteḥ iti uktam // 1 //

Sanskrit only: no published translation is held for this verse.

वायुम् अब्दाद् अविशेषविशेषाभ्याम् केन पुनः संनिवेशविशेषेण गतिविशेषाणानाम् इतरेतर विशेषणविशेष्यभाव इति तत् एतत् सुहृत् भूत्वा आचार्यो ग्रथयति । ऽस एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकम्ऽ(कौ। १।३) इति कौषीतकीनां देवयानः पन्थाः पठ्यते । तत्र अर्चिः अग्निलोकशब्दौ तावत् एकार्थौ ज्वलनवचनत्वात् इति न अत्र संनिवेशक्रमः क्वचित् अन्वेष्यः । वायुः तु अर्चिरादौ वर्त्मनि न श्रुतः कतम् अस्मिन् स्थाने निवेशयितव्य इति । उच्यते - ऽते ऽर्चिषमेवाभिसंभवन्त्यर्चिषो ऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति मांसास्तान् मासेभ्यःसंवत्सरं संवत्सरादित्यम्ऽ (छा। ५।१०।१,२) इति अत्र संवत्सरात् पराञ्चम् आदित्यात् अर्वाञ्चं वायुम् अभिसंभवन्ति । कस्मात् । अविशेषविशेषाभ्याम् । तथा हि - ऽस वायुलोकम् ऽ(कौ। १।३) इति अत्राविशेष उपदिष्टस्य वायोः श्रुत्यन्तरे विशेष उपदोशो दृश्यते ऽयदा वै पुरुषो ऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छतिऽ (बृ। ५।१०१) इति । एतस्मात् आदित्यात् वायोः पूर्वत्वदर्शनात् विशेषात् अब्द आदित्ययोः अन्तराले वायुः निवेशयितव्यः । कस्मात् पुनः अग्नेः परत्वदर्शनात् विशेषात् अर्चिषः अनन्तरं वायुः न निवेश्यते । न एषः अस्ति विशेष इति वदामः । ननु उदाहृता श्रुतिः - ऽस एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकम्ऽ (कौषी। १।३) इति । उच्यते - केवल- अत्र पाठः पौर्वापर्येणावस्थितो न अत्र क्रमवचनः । कश्चित् शब्दः अस्ति । पदार्थ उपदर्शनमात्रं हि अत्र क्रियते एतम् एतं च आगच्छति इति इतरत्र पुनः वायुप्रत्तेन रथचक्रमात्रेण च्छिद्रेण ऊर्ध्वम् आक्रम्य आदित्यम् आगच्छति इति अवगम्यते क्रमः । तस्मात् सूक्तम् अविशेषविशेषाभ्याम् इति । वाजसनेयिनः तु ऽमासेभ्यो देवलोकं देवलोकादादित्यम्ऽ (बृ। ६।२।१५) इति समामनन्ति । तत्र आदित्यान् अन्तर्याय देवलोकात् वायुम् अभिसंभवेयुः । वायुम् अब्दात् इति तु छन्दोगश्रुति अपेक्षया उक्तम् । छान्दोग्य वाजसनेयकयोः तु एकत्र देवलोको न विद्यते परत्र संवत्सरः । तत्र श्रुतिद्वयप्रत्ययात् उभौ अपि उभयत्र ग्रथयितव्यौ । तत्र अपि माससंबन्धात् संवत्सरः पूर्वः पश्चिमो देवलोक इति विवेक्तव्यम् ॥ २ ॥

vāyum abdād aviśeṣaviśeṣābhyām kena punaḥ saṃniveśaviśeṣeṇa gativiśeṣāṇānām itaretara viśeṣaṇaviśeṣyabhāva iti tat etat suhṛt bhūtvā ācāryo grathayati / 'sa etaṃ devayānaṃ panthānamāpadyāgnilokamāgacchati sa vāyulokaṃ sa indralokaṃ sa prajāpatilokaṃ sa brahmalokam'(kau. 1.3) iti kauṣītakīnāṃ devayānaḥ panthāḥ paṭhyate / tatra arciḥ agnilokaśabdau tāvat ekārthau jvalanavacanatvāt iti na atra saṃniveśakramaḥ kvacit anveṣyaḥ / vāyuḥ tu arcirādau vartmani na śrutaḥ katam asmin sthāne niveśayitavya iti / ucyate - 'te 'rciṣamevābhisaṃbhavantyarciṣo 'harahna āpūryamāṇapakṣamāpūryamāṇapakṣādyānṣaḍudaṅṅeti māṃsāstān māsebhyaḥsaṃvatsaraṃ saṃvatsarādityam' (chā. 5.10.1,2) iti atra saṃvatsarāt parāñcam ādityāt arvāñcaṃ vāyum abhisaṃbhavanti / kasmāt / aviśeṣaviśeṣābhyām / tathā hi - 'sa vāyulokam '(kau. 1.3) iti atrāviśeṣa upadiṣṭasya vāyoḥ śrutyantare viśeṣa upadośo dṛśyate 'yadā vai puruṣo 'smāllokātpraiti sa vāyumāgacchati tasmai sa tatra vijihīte yathā rathacakrasya khaṃ tena sa ūrdhvamākramate sa ādityamāgacchati' (bṛ. 5.101) iti / etasmāt ādityāt vāyoḥ pūrvatvadarśanāt viśeṣāt abda ādityayoḥ antarāle vāyuḥ niveśayitavyaḥ / kasmāt punaḥ agneḥ paratvadarśanāt viśeṣāt arciṣaḥ anantaraṃ vāyuḥ na niveśyate / na eṣaḥ asti viśeṣa iti vadāmaḥ / nanu udāhṛtā śrutiḥ - 'sa etaṃ devayānaṃ panthānamāpadyāgnilokamāgacchati sa vāyulokaṃ sa varuṇalokam' (kauṣī. 1.3) iti / ucyate - kevala- atra pāṭhaḥ paurvāparyeṇāvasthito na atra kramavacanaḥ / kaścit śabdaḥ asti / padārtha upadarśanamātraṃ hi atra kriyate etam etaṃ ca āgacchati iti itaratra punaḥ vāyuprattena rathacakramātreṇa cchidreṇa ūrdhvam ākramya ādityam āgacchati iti avagamyate kramaḥ / tasmāt sūktam aviśeṣaviśeṣābhyām iti / vājasaneyinaḥ tu 'māsebhyo devalokaṃ devalokādādityam' (bṛ. 6.2.15) iti samāmananti / tatra ādityān antaryāya devalokāt vāyum abhisaṃbhaveyuḥ / vāyum abdāt iti tu chandogaśruti apekṣayā uktam / chāndogya vājasaneyakayoḥ tu ekatra devaloko na vidyate paratra saṃvatsaraḥ / tatra śrutidvayapratyayāt ubhau api ubhayatra grathayitavyau / tatra api māsasaṃbandhāt saṃvatsaraḥ pūrvaḥ paścimo devaloka iti vivektavyam // 2 //

Sanskrit only: no published translation is held for this verse.

तटितो ऽधि वरुणः संबन्धात् ऽआदित्याच्चन्द्रमसं चन्द्रमसो विद्युतम्ऽ (छा। ४।१५।५) इति अस्या विद्युत उपरिष्टात् स वरुणलोकम् इति अयं वरुणः संबध्यते । अस्ति हि संबन्धो विद्युत् वरुणयोः । यदा हि विशाल अविद्युतः तीव्रः तनितनिः घोषा जीमूत उदरेषु प्रनृत्यन्ति आथापः प्रपतन्ति । विद्योतते स्तनयति ऽवर्षिष्यति वाऽ (छा। ७।११।१) इति च ब्राह्मणम् । अपां च अधिपतिः वरुण इति श्रुतिस्मृतिप्रसिद्धिः । वरुणात् अधीन्द्रप्रजापती स्थानान्तर अभावात् पाठसामर्थ्यात् च । आनन्तुकत्वात् अपि वरुणादीनाम् अन्त एव निवेशो वैशेषिकस्थानाभावात् विद्युत् च अन्त्य अर्चिरादौ वर्त्मनि ॥ ३ ॥

taṭito 'dhi varuṇaḥ saṃbandhāt 'ādityāccandramasaṃ candramaso vidyutam' (chā. 4.15.5) iti asyā vidyuta upariṣṭāt sa varuṇalokam iti ayaṃ varuṇaḥ saṃbadhyate / asti hi saṃbandho vidyut varuṇayoḥ / yadā hi viśāla avidyutaḥ tīvraḥ tanitaniḥ ghoṣā jīmūta udareṣu pranṛtyanti āthāpaḥ prapatanti / vidyotate stanayati 'varṣiṣyati vā' (chā. 7.11.1) iti ca brāhmaṇam / apāṃ ca adhipatiḥ varuṇa iti śrutismṛtiprasiddhiḥ / varuṇāt adhīndraprajāpatī sthānāntara abhāvāt pāṭhasāmarthyāt ca / ānantukatvāt api varuṇādīnām anta eva niveśo vaiśeṣikasthānābhāvāt vidyut ca antya arcirādau vartmani // 3 //

Sanskrit only: no published translation is held for this verse.

आतिवाहिकास् तल्लिङ्गात् तेषु एव अर्चिरादिषु संशयः - किम् एतानि मार्गचिह्नानि उत भोगभूमयः अथवा नेतारो गन्तृणाम् इति । तत्र मार्गलक्षणभूता अर्चिरादय इति तावत् प्राप्तम् । तत्स्वरूपत्वात् उपदेशस्य । यथा हि लोके कश्चित् ग्रामं नगरं वा प्रतिष्ठासमानः अनुशिष्यते गच्छेतः त्वम् अमुं गिरिं ततो न्यग्रोधं ततो नदीं ततो ग्रामं ततो नगरं वा प्राप्स्यसि इति एवम् इह अपि अर्चिषो अहरह्न आपूर्यमाणपक्षिम् इत्यादि आह । अथवा भोगभूमय इति प्राप्तम् । तथा हि - ऽलोकशब्देनाग्न्यादीननुबध्नाति अग्निलोकमागच्छतिऽ (कौषी। १।३) इत्यादि । लोकशब्दः च प्राणिनां भोगायतनेषु भाष्यते - ऽमनुष्यलोकः पितृलोको देवलोकःऽ (बृ। १।५।१६) इति च । तथा च ब्राह्मणम् - ऽअहोरात्रेषु ते लोकेषु सज्जन्तेऽ इत्यादि । तस्मात् न अतिवाहिका अर्चिरादयः । अचेतनत्वात् अपि एतेषाम् अतिवाहिकत्व अनुपपत्तिः । चेतना हि लोके राजनियुक्ताः पुरुषा दुर्गेषु मार्गेषु अतिवाह्यान् अतिवाहयन्ति इति । एवं प्राप्ते ब्रूमः - आतिवाहिका एव एते भवितुम् अर्हन्ति । कुतः - तल्लिङ्गात् । तथा हि ऽचन्द्रमसो विद्युतं तत्पुरुषो ऽमानवः स एतान्ब्रह्म गमयतिऽ (छा। ४।१५।५) इति सिद्धत् गमयितृत्वं दर्शयति । तत् वचनं तत् विषयम् एव उपक्षीणम् इति चेत् । न । प्राप्तमानवत्व निवृत्तिपरत्वात् विशेषणस्य । यदि अर्चिरादिषु पुरुषा गमयितारः प्राप्ताः ते च मानवाः ततो युक्तं तत् निवृत्त्यर्थं पुरुषविशेषणम् अमानव इति ॥ ४ ॥ ननु तल्लिङ्गमात्रम् अगमकं न्याय अभावात् । न एष दोषः ।

ātivāhikās talliṅgāt teṣu eva arcirādiṣu saṃśayaḥ - kim etāni mārgacihnāni uta bhogabhūmayaḥ athavā netāro gantṛṇām iti / tatra mārgalakṣaṇabhūtā arcirādaya iti tāvat prāptam / tatsvarūpatvāt upadeśasya / yathā hi loke kaścit grāmaṃ nagaraṃ vā pratiṣṭhāsamānaḥ anuśiṣyate gacchetaḥ tvam amuṃ giriṃ tato nyagrodhaṃ tato nadīṃ tato grāmaṃ tato nagaraṃ vā prāpsyasi iti evam iha api arciṣo aharahna āpūryamāṇapakṣim ityādi āha / athavā bhogabhūmaya iti prāptam / tathā hi - 'lokaśabdenāgnyādīnanubadhnāti agnilokamāgacchati' (kauṣī. 1.3) ityādi / lokaśabdaḥ ca prāṇināṃ bhogāyataneṣu bhāṣyate - 'manuṣyalokaḥ pitṛloko devalokaḥ' (bṛ. 1.5.16) iti ca / tathā ca brāhmaṇam - 'ahorātreṣu te lokeṣu sajjante' ityādi / tasmāt na ativāhikā arcirādayaḥ / acetanatvāt api eteṣām ativāhikatva anupapattiḥ / cetanā hi loke rājaniyuktāḥ puruṣā durgeṣu mārgeṣu ativāhyān ativāhayanti iti / evaṃ prāpte brūmaḥ - ātivāhikā eva ete bhavitum arhanti / kutaḥ - talliṅgāt / tathā hi 'candramaso vidyutaṃ tatpuruṣo 'mānavaḥ sa etānbrahma gamayati' (chā. 4.15.5) iti siddhat gamayitṛtvaṃ darśayati / tat vacanaṃ tat viṣayam eva upakṣīṇam iti cet / na / prāptamānavatva nivṛttiparatvāt viśeṣaṇasya / yadi arcirādiṣu puruṣā gamayitāraḥ prāptāḥ te ca mānavāḥ tato yuktaṃ tat nivṛttyarthaṃ puruṣaviśeṣaṇam amānava iti // 4 // nanu talliṅgamātram agamakaṃ nyāya abhāvāt / na eṣa doṣaḥ /

Sanskrit only: no published translation is held for this verse.

उभयव्यामोहात् तत् सिद्धेः ये तावत् अर्चिरादिमार्गाः ते देहवियोगात् संपिण्डितकरणग्रामा इति अस्वतन्त्रा अर्चिरादीनाम् अपि अचेतनत्वात् अस्वातन्त्र्यम् इति अतः अर्चिरादि अभिमानिनः चेतना देवताविशेषा अतियात्रायां नियुक्ता इति गम्यते । लोके अपि हि मत्त मूर्च्छितादयः संपिण्डितकरणाः परप्रयुक्तवर्त्मानो भवन्ति । अनवस्थितत्वात् अपि अर्चिरादीनां न मार्गलक्षणत्व उपपत्तिः । न हि रात्रौ प्रेतस्य अहःस्वरूप अभिसंभव उपपद्यते । न च प्रतिपालनमस्ति इति उक्तं पुरस्तात् । ध्रुवत्वात् तु देवता आत्मानां न अयं दोषो भवति । अर्चिरादि शब्दता च एषाम् अर्चिरादि अभिमानात् उपपद्यते ऽअर्चिषो ऽहःऽ(छा। ४।१५।५, ५,१०।१) इत्यादिनिर्देशः तु अतिवाहिकत्वे अपि न विरुध्यते अर्चिषा हेतुना अहः अभिसंभवति । अह्ना हेतुना आपूर्यमाणपक्षम् इति । तथा च लोके प्रसिद्धेषु अपि अतिवाहिकेषु एवञ्जातीयक उपदेशो दृश्यते । गच्छ त्वम् इतो बलवर्माणं ततो जयसिंहं ततः कृष्णगुप्तम् इति । अपि च उपक्रमे ऽते ऽर्चिरभिसंभवन्तिऽ (बृ। ६।२।१५) इति संबन्धमात्रमुक्तं न संबन्धविशेषः कश्चित् । उपसंहारे तु ऽस एतान्ब्रह्म गमयति (छा। ४।१५।६) इति संबन्धविशेषः अतिवाहि अतिवाहकत्व लक्षण उक्तः तेन स एव उपक्रमे अपि इति निर्धार्यते । संपिण्डितकरणत्वात् एव च गन्तृषु न तत्र उपभोगसंभवः । लोकशब्दः तु अनुपभुञ्जानेषु अपि गन्तृषु गमयितुं शक्यते । अन्येषां तत् लोकवासिनां भोगभूमित्वात् । अतः अग्निस्वामिकं लोकं प्राप्तः अग्निना अतिवाह्यते वायुस्वामिकं प्राप्तो वायुना इति योजयितव्यम् ॥ ५ ॥ कथं पुनः अतिवाहिकत्वपक्षे वरुणादिषु तत्संभवः । विद्युतो हि अधि वरुणादय उपक्षिप्ता विद्युतः तु अनन्तरमा ब्रह्मप्राप्तेः अमानवस्य एव पुरुषस्य गमयितृत्वं श्रुतम् इति । अत उत्तरं पठति -

ubhayavyāmohāt tat siddheḥ ye tāvat arcirādimārgāḥ te dehaviyogāt saṃpiṇḍitakaraṇagrāmā iti asvatantrā arcirādīnām api acetanatvāt asvātantryam iti ataḥ arcirādi abhimāninaḥ cetanā devatāviśeṣā atiyātrāyāṃ niyuktā iti gamyate / loke api hi matta mūrcchitādayaḥ saṃpiṇḍitakaraṇāḥ paraprayuktavartmāno bhavanti / anavasthitatvāt api arcirādīnāṃ na mārgalakṣaṇatva upapattiḥ / na hi rātrau pretasya ahaḥsvarūpa abhisaṃbhava upapadyate / na ca pratipālanamasti iti uktaṃ purastāt / dhruvatvāt tu devatā ātmānāṃ na ayaṃ doṣo bhavati / arcirādi śabdatā ca eṣām arcirādi abhimānāt upapadyate 'arciṣo 'haḥ'(chā. 4.15.5, 5,10.1) ityādinirdeśaḥ tu ativāhikatve api na virudhyate arciṣā hetunā ahaḥ abhisaṃbhavati / ahnā hetunā āpūryamāṇapakṣam iti / tathā ca loke prasiddheṣu api ativāhikeṣu evañjātīyaka upadeśo dṛśyate / gaccha tvam ito balavarmāṇaṃ tato jayasiṃhaṃ tataḥ kṛṣṇaguptam iti / api ca upakrame 'te 'rcirabhisaṃbhavanti' (bṛ. 6.2.15) iti saṃbandhamātramuktaṃ na saṃbandhaviśeṣaḥ kaścit / upasaṃhāre tu 'sa etānbrahma gamayati (chā. 4.15.6) iti saṃbandhaviśeṣaḥ ativāhi ativāhakatva lakṣaṇa uktaḥ tena sa eva upakrame api iti nirdhāryate / saṃpiṇḍitakaraṇatvāt eva ca gantṛṣu na tatra upabhogasaṃbhavaḥ / lokaśabdaḥ tu anupabhuñjāneṣu api gantṛṣu gamayituṃ śakyate / anyeṣāṃ tat lokavāsināṃ bhogabhūmitvāt / ataḥ agnisvāmikaṃ lokaṃ prāptaḥ agninā ativāhyate vāyusvāmikaṃ prāpto vāyunā iti yojayitavyam // 5 // kathaṃ punaḥ ativāhikatvapakṣe varuṇādiṣu tatsaṃbhavaḥ / vidyuto hi adhi varuṇādaya upakṣiptā vidyutaḥ tu anantaramā brahmaprāpteḥ amānavasya eva puruṣasya gamayitṛtvaṃ śrutam iti / ata uttaraṃ paṭhati -

Sanskrit only: no published translation is held for this verse.

वैद्युतेनैव ततस् तच्छ्रुतेः ततो विद्युत् अभिसंभवनात् ऊर्ध्वं विद्युत् अनन्तरवर्तिन एव अमानवेन पुरुषेण वरुणलोकादिषु अतिवाह्यमाना ब्रह्मलोकं गच्छन्ति इति अवगन्तव्यम् । ऽतान्वैद्युतात्पुरुषो ऽमानवः स एत्य ब्रह्मलोकं गमयतिऽ इति तस्य एव गमयितृत्वश्रुतेः । वरुणादयः तु तस्य एव अप्रतिबन्धकरणेन साहाय्य अनुष्ठानेन वा केनचित् अनुग्राहका इति अवगन्तव्यम् । तस्मात् साधु उक्तम् अतिवाहिका देवतात्मानः अर्चिरादय इति ॥ ६ ॥

vaidyutenaiva tatas tacchruteḥ tato vidyut abhisaṃbhavanāt ūrdhvaṃ vidyut anantaravartina eva amānavena puruṣeṇa varuṇalokādiṣu ativāhyamānā brahmalokaṃ gacchanti iti avagantavyam / 'tānvaidyutātpuruṣo 'mānavaḥ sa etya brahmalokaṃ gamayati' iti tasya eva gamayitṛtvaśruteḥ / varuṇādayaḥ tu tasya eva apratibandhakaraṇena sāhāyya anuṣṭhānena vā kenacit anugrāhakā iti avagantavyam / tasmāt sādhu uktam ativāhikā devatātmānaḥ arcirādaya iti // 6 //

Sanskrit only: no published translation is held for this verse.

कार्यं बादरिरस्य गत्युपपत्तेः ऽस एनान्ब्रह्म गमयति (छा। ४।१५।५) इति अत्र विचिकित्स्यते - किं कार्यम् अपरं ब्रह्म गमयति आहोस्वित् परम् एव अविकृतं मुख्यं ब्रह्म इति । कुतः संशयः । ब्रह्मशब्दप्रयोगात् गतिश्रुतेः च । तत्र कार्यमेव सगुणम् अपरं ब्रह्म एनान् गमयति अमानवः पुरुष इति बादरिः आचार्यो मन्यते । कुतः - अस्य गति उपपत्तेः । अस्य हि कार्यब्रह्मणो गन्तव्यत्वम् उपपत्तेः । अस्य हि कार्यब्रह्मणो गन्तव्यत्वम् उपपद्यते प्रदेशवत्त्वात् । न तु परस्मिन् ब्रह्मणि गन्तृत्वं गन्तव्यत्वं गतिः वा अवकल्पते । सर्वगतत्वात् प्रत्यगात्मत्वात् च गन्तृणाम् ॥ ७ ॥

kāryaṃ bādarirasya gatyupapatteḥ 'sa enānbrahma gamayati (chā. 4.15.5) iti atra vicikitsyate - kiṃ kāryam aparaṃ brahma gamayati āhosvit param eva avikṛtaṃ mukhyaṃ brahma iti / kutaḥ saṃśayaḥ / brahmaśabdaprayogāt gatiśruteḥ ca / tatra kāryameva saguṇam aparaṃ brahma enān gamayati amānavaḥ puruṣa iti bādariḥ ācāryo manyate / kutaḥ - asya gati upapatteḥ / asya hi kāryabrahmaṇo gantavyatvam upapatteḥ / asya hi kāryabrahmaṇo gantavyatvam upapadyate pradeśavattvāt / na tu parasmin brahmaṇi gantṛtvaṃ gantavyatvaṃ gatiḥ vā avakalpate / sarvagatatvāt pratyagātmatvāt ca gantṛṇām // 7 //

Sanskrit only: no published translation is held for this verse.

विशेषितत्वाच् च ब्रह्मलोकान्गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्तिऽ (बृ। ६।२।१५) इति च श्रुत्यन्तरे विशेषितत्वात् कार्यब्रह्मविषय एव गतिः इति गम्यते । नहि बहुवचनेन विशेषणं परस्मिन् ब्रह्मणि अवकल्पते । कार्ये तु अवस्थाभेद उपपत्तेः संभवति बहुवचनम् । लोकश्रुतिः अपि विकारगोचरायाम एव संनिवेशविशिष्टायां भोगभूमावौ आञ्जसी । गौणी तु अन्यत्र ऽब्रह्मैव लोक एष सम्राट्ऽ इत्यादिषु । अधिकरण अधिकर्तव्यनिर्देशः अपि परस्मिन् ब्रह्मणि अनाञ्जसः स्यात् । तस्मात् कार्यविषयमेव इदं नयनम् ॥ ८ ॥ ननु कार्यविषये अपि ब्रह्मशब्दो न उपपद्यते समन्वये हि समस्तस्य जगतो जन्मादिकारणं स्थापितम् इति । अत्र उच्यते -

viśeṣitatvāc ca brahmalokāngamayati te teṣu brahmalokeṣu parāḥ parāvato vasanti' (bṛ. 6.2.15) iti ca śrutyantare viśeṣitatvāt kāryabrahmaviṣaya eva gatiḥ iti gamyate / nahi bahuvacanena viśeṣaṇaṃ parasmin brahmaṇi avakalpate / kārye tu avasthābheda upapatteḥ saṃbhavati bahuvacanam / lokaśrutiḥ api vikāragocarāyāma eva saṃniveśaviśiṣṭāyāṃ bhogabhūmāvau āñjasī / gauṇī tu anyatra 'brahmaiva loka eṣa samrāṭ' ityādiṣu / adhikaraṇa adhikartavyanirdeśaḥ api parasmin brahmaṇi anāñjasaḥ syāt / tasmāt kāryaviṣayameva idaṃ nayanam // 8 // nanu kāryaviṣaye api brahmaśabdo na upapadyate samanvaye hi samastasya jagato janmādikāraṇaṃ sthāpitam iti / atra ucyate -

Sanskrit only: no published translation is held for this verse.

सामीप्यात् तु तद्व्यपदेशः तु शब्द आशङ्का व्यावृत्त्यर्थः । परब्रह्मसामीप्यात् अपरस्य ब्रह्मणः तस्मिन् अपि ब्रह्मशब्दप्रयोगो न विरुध्यते । परम् एव हि ब्रह्म विशुद्ध उपाधिसंबन्धं क्वचित् कैश्चित् विकारधर्मैः मनोमयत्वादिभिः उपासनाय उपदिश्यमानम् अपरम् इति स्थितिः ॥ ९ ॥ ननु कार्यप्राप्तौ अनावृत्तिश्रवणं न घटते । न हि परस्मात् ब्रह्मणः अन्यत्र क्वचित् नित्यतां संभावयन्ति । दर्शयति च देवयानेन पथा प्रस्थितानाम् अनावृत्तिम् । ऽएतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्तेऽ (छा। ४।१५।६) इति तेषाम् इह न पुनरावृत्तिः अस्ति ऽतयोर्ध्वमायन्नमृतत्वमेतिऽ (छा। ८।६।६), क। ६।१६) इति चेत् । अत्र ब्रूमः -

sāmīpyāt tu tadvyapadeśaḥ tu śabda āśaṅkā vyāvṛttyarthaḥ / parabrahmasāmīpyāt aparasya brahmaṇaḥ tasmin api brahmaśabdaprayogo na virudhyate / param eva hi brahma viśuddha upādhisaṃbandhaṃ kvacit kaiścit vikāradharmaiḥ manomayatvādibhiḥ upāsanāya upadiśyamānam aparam iti sthitiḥ // 9 // nanu kāryaprāptau anāvṛttiśravaṇaṃ na ghaṭate / na hi parasmāt brahmaṇaḥ anyatra kvacit nityatāṃ saṃbhāvayanti / darśayati ca devayānena pathā prasthitānām anāvṛttim / 'etena pratipadyamānā imaṃ mānavamāvartaṃ nāvartante' (chā. 4.15.6) iti teṣām iha na punarāvṛttiḥ asti 'tayordhvamāyannamṛtatvameti' (chā. 8.6.6), ka. 6.16) iti cet / atra brūmaḥ -

Sanskrit only: no published translation is held for this verse.

कार्यात्यये तदध्यक्षेण सहातः परम् अभिधानात् कार्यब्रह्मलोकप्रलयप्रत्युपस्थाने सति तत्र एव उत्पन्नसम्यग्दर्शनाः सन्तः तत् अध्यक्षेण हिरण्यगर्भेण सहातः परं परिशुद्धं विष्णोः परमं पदं प्रतिपद्यन्त इति । क्रममुक्तिः अनावृत्त्यादि श्रुति अभिधानेभ्यो अभ्युपगन्तव्या । न हि आञ्जस एव गतिपूर्विका परप्राप्तिः संभवति इति उपपदितम् ॥ १० ॥

kāryātyaye tadadhyakṣeṇa sahātaḥ param abhidhānāt kāryabrahmalokapralayapratyupasthāne sati tatra eva utpannasamyagdarśanāḥ santaḥ tat adhyakṣeṇa hiraṇyagarbheṇa sahātaḥ paraṃ pariśuddhaṃ viṣṇoḥ paramaṃ padaṃ pratipadyanta iti / kramamuktiḥ anāvṛttyādi śruti abhidhānebhyo abhyupagantavyā / na hi āñjasa eva gatipūrvikā paraprāptiḥ saṃbhavati iti upapaditam // 10 //

Sanskrit only: no published translation is held for this verse.

स्मृतेश् च स्मृतिः अपि एतम् अर्थम् अनुजानाति - ऽब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्ऽइति । तस्मात् कार्यब्रह्मविषया गतिः श्रूयत इति सिद्धान्तः ॥ ११ ॥ कं पुन- पूर्वपक्षम् आशङ्क्य अयं सिद्धान्तः प्रतिष्ठापितः ऽकार्यं बादरिःऽ (ब्रसू। ४।३।७) इत्यादिन इति । स इदानीं सूत्रैः एव उपदर्श्यते -

smṛteś ca smṛtiḥ api etam artham anujānāti - 'brahmaṇā saha te sarve saṃprāpte pratisaṃcare / parasyānte kṛtātmānaḥ praviśanti paraṃ padam'iti / tasmāt kāryabrahmaviṣayā gatiḥ śrūyata iti siddhāntaḥ // 11 // kaṃ puna- pūrvapakṣam āśaṅkya ayaṃ siddhāntaḥ pratiṣṭhāpitaḥ 'kāryaṃ bādariḥ' (bra.sū. 4.3.7) ityādina iti / sa idānīṃ sūtraiḥ eva upadarśyate -

Sanskrit only: no published translation is held for this verse.

परं जैमिनिर् मुख्यत्वात् जैमिनिः तु आचार्यः ऽस एनान्ब्रह्म गमयतिऽ(छा। ४।१५।६) इति अत्र परमेव ब्रह्म प्रापयति इति मन्यते । कुतः - मुख्यत्वात् । परं हि ब्रह्म ब्रह्मशब्दस्य मुख्यम् आलम्बनं, गौणम् अपरं, मुख्यगौणयोगः च मुख्ये संप्रत्ययो भवति ॥ १२ ॥

paraṃ jaiminir mukhyatvāt jaiminiḥ tu ācāryaḥ 'sa enānbrahma gamayati'(chā. 4.15.6) iti atra parameva brahma prāpayati iti manyate / kutaḥ - mukhyatvāt / paraṃ hi brahma brahmaśabdasya mukhyam ālambanaṃ, gauṇam aparaṃ, mukhyagauṇayogaḥ ca mukhye saṃpratyayo bhavati // 12 //

Sanskrit only: no published translation is held for this verse.

दर्शनाच् च ऽतयोर्ध्वमायन्नमृतत्वमेतिऽ (छा। ८।६।६, क। ६।१६) इति च गतिपूर्वकम् अमृतत्वं दर्शयति । अमृतत्वं च परस्मिन् ब्रह्मणि उपपद्यते न कार्ये, विनाशित्वात् कार्यस्य । ऽअथ यत्रान्यत्पश्यति तदल्पं तन्मर्त्यम्ऽ (छा। ७।२४।१) इति प्रवचनात् । परविषय एव च एषा गतिः कठवल्लीषु पठ्यते । न हि तत्र विद्यान्तरप्रक्रमः अस्ति ऽअन्यत्र धर्मादन्यत्राधर्मात्ऽ (क। २।१४) इति परस्य एव ब्रह्मणः प्रक्रान्तत्वात् ॥ १३ ॥

darśanāc ca 'tayordhvamāyannamṛtatvameti' (chā. 8.6.6, ka. 6.16) iti ca gatipūrvakam amṛtatvaṃ darśayati / amṛtatvaṃ ca parasmin brahmaṇi upapadyate na kārye, vināśitvāt kāryasya / 'atha yatrānyatpaśyati tadalpaṃ tanmartyam' (chā. 7.24.1) iti pravacanāt / paraviṣaya eva ca eṣā gatiḥ kaṭhavallīṣu paṭhyate / na hi tatra vidyāntaraprakramaḥ asti 'anyatra dharmādanyatrādharmāt' (ka. 2.14) iti parasya eva brahmaṇaḥ prakrāntatvāt // 13 //

Sanskrit only: no published translation is held for this verse.

न च कार्ये प्रतिपत्त्यभिसंधिः अपि च ऽप्रजापतेः सभां वेश्म प्रपद्येऽ (छा। ८।१४।१) इति न अयं कार्यविषयः प्रतिपत्ति अभिसंधिः ऽनामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्मऽ (छा। ८।१४।१) इति कार्यविलक्षणस्य परस्य एव ब्रह्मणः प्रकृतत्वात् । ऽयशो ऽहं भवामि ब्राह्मणानाम्ऽ (छा। ८।१४।१) इति च सर्वात्मत्वेन उपक्रमणात् । ऽन तस्य प्रतिमा अस्ति, यस्य नाममहद्यशःऽ (श्वेता। ४।१९) इति च परस्य एव ब्रह्मणो यशोनामत्व प्रसिद्धेः । ऽसा चेयं वेश्मप्रतिपत्तिर्गतिपूर्विका हार्दविद्यायामुदिता तदपराजिता पूर्ब्रह्मणः प्रभुविमितं हिरण्मयम्ऽ (छा। ८।५।३) इति अत्र । पदेरपि च गत्यर्थत्वात् मार्ग अपेक्षा अवसीयते । तस्मात् परब्रह्मविषया गतिश्रुतय इति पक्षान्तरम् । तौ एतौ द्वौ पक्षौ आचार्येण सूत्रितौ गति उपपत्त्यादिभिः एको मुख्यत्वादिभिः अपरः । तत्र गति उपपत्त्यादयः प्रभवन्ति मुख्यत्वादीन आभासयितुं न तु मुख्यत्वादयो गति उपपत्त्यादीन् इत्याद्य एव सिद्धान्तो व्याख्यातो द्वितीयः पूर्वपक्षः । न हि असति अपि संभवे मुख्यस्य एव अर्थस्य ग्रहणम् इति कश्चित् आज्ञापयिता विद्यते । परविद्याप्रकरणे अपि च तत् स्तुत्यर्थं विद्यान्तर आश्रयगति अनुकीर्तनम् उपपद्यते ऽविष्वङ्ङन्या उत्क्रमणे भवन्तिऽ (छा। ८।६।६) इतिवत् । ऽप्रजापतेः सभां वेश्म प्रपद्येऽ (छा। ८।१४।१) इति तु पूर्ववाक्यविच्छेदेन कार्ये अपि प्रतिपत्ति अभिसंधिः न विरुध्यते । सगुणे अपि च ब्रह्मणि सर्वात्मत्व संकीर्तनं सर्वकर्मा सर्वकाम इत्यादिवत् अवकल्पते । तस्मात् अपरविषया एव गतिश्रुतयः । केचित् पुनः पूर्वाणि पूर्वपक्षसूत्राणि भवन्ति उत्तराणि सिद्धान्तसूत्राणि इति एतां व्यवस्थानम् अनुरुध्यमानाः परविषया एव गतिश्रुतीः प्रतिष्ठापयन्ति तत् अनुपपन्नं गन्तव्यत्व अनुपपत्तेः ब्रह्मणः । यत् सर्वगतं सर्वान्तरं सर्वात्मकं च परं ब्रह्म ऽआकाशवत्सर्वगतश्च नित्यःऽ ऽयत्साक्षादपरोक्षाद्ब्रह्मऽ (बृ। ३।४।१) ऽय आत्मा सर्वान्तरःऽ (बृ। ३।४।१) ऽआत्मैवेदं सर्वम्ऽ (छा। ७।२५।२) ऽब्रह्मैवेदं विश्वमिदं वरिष्ठम्ऽ (मु। २।२।११) इत्यादि श्रुतिनिर्धारित विशेषं तस्य गन्तव्यता न कदाचित् अपि उपपद्यते । न हि गतमेव गम्यते । अन्यो हि अन्यत् गच्छति इति प्रसिद्धं लोके । ननु लोके गतस्य अपि गन्तव्यता देशान्तरविशिष्टा दृष्टा । यथा पृथिवीस्थ एव पृथिवीं देशान्तरद्वारेण गच्छति इति । तथा अनन्यत्वे अपि सर्वशक्ति उपेतत्वात् कथञ्चित् गन्तव्यता स्यात् इति । न । प्रतिषिद्धसर्वविशेषत्वात् ब्रह्मणः । ऽनिष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्ऽ(श्वेता। ६।१९) ऽअस्थूलमनण्वह्रस्वमदीर्घम्ऽ(बृ। ३।८।८) ऽसबाह्याभ्यन्तरो ह्यजःऽ(मु। २।१।२) ऽस वा एष महानज आत्माजरो ऽमरो ऽमृतो ऽभयो ब्रह्मऽ(बृ। ४।४।२५) ऽस एष नेति नेत्यात्माऽ(बृ। ३।९।२३) इत्यादि श्रुति स्मृति न्यायेभ्यो न देशकालादि विशेषयोगः परमात्मनि कल्पयितुं शक्यते । येन भूप्रदेश वयोवस्था न्यायेन अस्य गन्तव्यता स्यात् । भूवयसोः तु प्रदेश अवस्थादि विशेषयोगात् उपपद्यते देश काल विशिष्टा गन्तव्यता । जगत् उत्पत्ति स्थिति प्रलयहेतुत्व श्रुतेः अनेकशक्तित्वं ब्रह्मण इति चेत् । न । विशेषनिराकरणश्रुतीनाम् अनन्यार्थत्वात् । उत्पत्त्यादिश्रुतीनाम् अपि समानम् अनन्यार्थत्वम् इति चेत् । न । तासाम् एकत्वप्रतिपादनपरत्वात् । मृदादि दृष्टान्तैः हि सतो ब्रह्मण एकस्य सत्यत्वं विकारस्य च आवृतत्वं प्रतिपादयत् शास्त्रं न उत्पत्त्यादिपरं भवितुम् अर्हति । कस्मात् पुनः उत्पत्त्यादि श्रुतीनां विशेषत्वं न पुनः इतर शेषत्वम् इतरासाम् इति । उच्यते - विशेषनिराकरणश्रुतीनां निराकाङ्क्षार्थत्वात् । न हि आत्मन एकत्व नित्यत्व शुद्धत्वादि अवगतौ सत्यां भूयः काचित् आकाङ्क्षा उपजायते पुरुषार्थसमाप्तिबुद्धि उपपत्तेः । ऽतत्र को मोहः कः शोक एकत्वमनुपश्यतःऽ (ईशा। ७) ऽअभयं वै जनक प्राप्तो ऽसिऽ (बृ। ४।२।४) ऽविद्वान्न बिभेति कुतश्चन । एतं ह वाव न तपति किमहं साधु नाकरवं किमहं पापमकरवम्ऽ (तैत्ति। २।९।१) इत्यादिश्रुतिभ्यः । तथा एव च विदुषां तुष्टि अनुभवादि दर्शनात् । विकार अनृत अभिसंधि अपवादात् च ऽमृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिऽ इति । अतो न विशेषनिराकरण श्रुतीनाम् अन्यशेषत्वम् अवगन्तुं शक्यते । न एवम् उत्पत्त्यादि श्रुतीनां निराकाङ्क्षार्थ प्रतिपादनसामर्थ्यम् अस्ति । प्रत्यक्षं तु तासाम् अन्यार्थत्वं समनुगम्यते । तथा हि ऽतत्रैतच्छ्रुङ्गमुत्पतितं सोम्य विजानीहि नेदममूलं भविष्यतिऽ (छा। ६।८।३) इति उपन्यस्य उदर्के सत एव एकस्य जगत् मूलस्य विज्ञेयत्वं दर्शयति । ऽयतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेतिऽ (तै। ३।१।१) इति च । एवम् उत्पत्त्यादिश्रुतीनाम् ऐकात्म्य अवगमपरत्वात् न अनेकशक्तियोगो ब्रह्मणः । अतः च गन्तव्यत्व अनुपपत्तिः । ऽन तस्य प्राणा उत्क्रमन्ति ब्रह्मैव सन्ब्रह्माप्येतिऽ (बृ। ४।४।६) इति च परस्मिन् ब्रह्मणि गतिं निवारयति । तत् व्याख्यातं ऽस्पष्टो ह्येकेषाम्ऽ (ब्र। सू। ४।२।१३) इत्यत्र । गतिकल्पनायां च गन्ता जीवो गन्तव्यस्य ब्रह्मणः अवयवो विकारो वा ततः स्यात् । अत्यन्त तादात्म्ये गमन अनुपपत्तेः । यदि एवं ततः किं स्यात् । उच्यते । यदि एकदेशः तेन एकदेशिनो नित्यप्राप्तत्वात् न पुनः ब्रह्मगमनम् उपपद्यते । एकदेशित्व कल्पना च ब्रह्मणि अनुपपन्ना निरवयवत्व प्रसिद्धेः । विकारपक्षे अपि एतत् अतुल्यं विकारेण अपि विकारिणो नित्यप्राप्तत्वात् । न हि घटो मृदात्मतां परित्यज्य अवतिष्ठते परित्यागे वा अभावप्राप्तेः । विकार अवयवपक्षयोः च तद्वतः स्थिरत्वात् ब्रह्मणः संसारगमनम् अपि अनवकॢप्तम् । अथ अन्य एव जीवो ब्रह्मणः । सः अणुः व्यापी मद्यम परिमाणो वा भवितुम् अर्हति । व्यापित्वे गमन अनुपपत्तिः । मध्यम परिमाणत्वे च अनित्यत्वप्रसङ्गः । अणुत्वे कृत्स्नशरीरवेदना अनुपपत्तिः । प्रतिषिद्धे च अणुत्व मध्यम परिमाणत्वे विस्तरेण पुरस्तात् । परस्मात् च अन्यत्वे जीवस्य ऽतत्त्वमसिऽ (छा। ६।८।७) इत्यादि शास्त्र बाध प्रसङ्गः । विकार अवयवपक्षयोः अपि समानः अयं दोषः । विकार अवयवयोः तद्वतोः अनन्यत्वात् अदोष इति चेत् । न । मुख्य एकत्व अनुपपत्तेः । सर्वेषु एतेषु पक्षेषु अनिर्मोक्षप्रसङ्गः । संसारि आत्मत्व अनिवृत्तेः । निवृत्तौ वा स्वरूपनाशप्रसङ्गः । ब्रह्मात्मत्व अनभ्युपगमात् च । यत् तु कैश्चित् जल्प्यते नित्यानि नैमित्तिकानि कर्माणि अनुष्ठीयन्ते प्रत्यवाय अनुत्पत्तये काम्यानि प्रतिषिद्धानि च परिह्रियन्ते स्वर्गनरकान् अवाप्तये सांप्रतदेह उपभोग्यानि च कर्माणि उपभोगेन एव क्षप्यन्त इत्यतो वर्तमानदेहपातात् ऊर्ध्वं देहान्तर प्रतिसंधान कारण अभावात् स्वरूप अवस्थानलक्षणं कैवल्यं विना अपि ब्रह्मात्मतय एवंवृत्तस्य सेत्स्यति इति । तत् असत् । प्रमाण अभावात् । न हि एतत् शास्त्रेण केनचित् प्रतिपादितं मोक्षार्थि इत्थं समाचरेत् इति । स्वमनीषया तु एतत् तर्कितं यस्मात् कर्मनिमित्तः संसारः तस्मात् निमित्त अभावात् न भविष्यति इति । न च एतत् तर्कयितुम् अपि शक्यते निमित्त अभावस्य दुर्ज्ञानत्वात् । बहूनि हि कर्माणि जात्यन्तरसंचितानि इष्ट अनिष्टविपाकानि एकैकस्य जन्तोः संभाव्यन्ते । तेषां विरुद्ध फलानां युगपत् उपभोग असंभवात् कानिचित् लब्ध अवसराणि इदं जन्म निर्मिमते कानिचित् तु देशकालनिमित्तप्रतीक्षाणि असत इति अतः तेषाम् अवशिष्टानां सांप्रतेन उपभोगेन क्षपणासंभवात् न यथावर्णितचरितस्य अपि वर्तमानदेहपाते देहान्तरनिमित्त अभावः शक्यते निश्चेतुम् । कर्मशेषसद्बावसिद्धः च ऽतद्य इह रमणीयचरणास्ततः शेषेणऽ इत्यादि श्रुति स्मृतिभ्यः । स्यात् एतत् । नित्य नैमित्तिकानि तेषां क्षेपकाणि भविष्यन्ति इति । तत् न । विरोध अभावात् । सति हि विरोधे क्षेप्यक्षेपकभावो भवति । न च जन्मान्तर संचितानां सुकृतानां नित्य नैमित्तिकैः अस्ति विरोधः । शुद्धरूपत्व अविशेषात् । दुरितानां तु अशुद्धिरूपत्वात् सति विरोधे भवतु क्षपणं न तु तावता देहान्तर निमित्त अभावसिद्धिः । सुकृतनिमित्तत्व उपपत्तेः । दुश्चरितस्य अपि अशेषक्षपण अनवगमात् । न च नित्य नैमित्तिकानुष्ठानात् प्रत्यवाय अनुत्पत्तिमात्रं न पुनः फलान्तर उत्पत्तिः इति प्रमाणम् अस्ति फलान्तरस्य अपि अनुनिष्पादिनः संभवात् । स्मरति हि आपस्तम्बः - ऽतद्यथाम्रे फलार्ते निमित्ते छायागन्धावनूत्पद्येते एवं धर्मं चर्यमाणार्था अनूत्पद्यन्तेऽ इति । न च असति सम्यक् दर्शने सर्वात्मना काम्यप्रतिषिद्धवर्जनं जन्मप्रायणान्तरालं केनचित् प्रतिज्ञातुं शक्यम् । सुनिपुणानम् अपि सूक्ष्म अपराधदर्शनात् । संशयितव्यं तु भवति तथा अपि निमित्त अभावस्य दुर्ज्ञानत्वमेव । न च अनभ्युपगम्यमाने ज्ञानगम्ये ब्रह्मात्मत्वे कर्तृत्व भोक्तृत्व स्वभावस्य आत्मनः कैवल्यम् आकाङ्क्षितुं शक्यम् । अग्नि औष्ण्यवत् स्वभावस्य अपरिहार्यत्वात् । स्यात् एतत् । कर्तृत्व भोक्तृत्व कार्यम् अनर्थो न तत् शक्तिः तेन शक्ति अवस्थाने ऽपि कार्यपरिहारत् उपपन्नो मोक्ष इति । तत्च न । शक्तिसद्भावे कार्यप्रसवस्य दुर्निवारत्वात् । अथ अपि स्यात् न केवला शक्तिः कार्यम् आरभते अनपेक्ष्य अन्यानि निमित्तानि । अत एकाकिनी सा स्थितापि न अपराध्यति इति । तत् च न । निमित्तानाम् अपि शक्तिलक्षणेन संबन्धेन नित्यसंबद्धत्वात् । तस्मात् कर्तृत्व भोक्तृत्व स्वभावे सत्याम् अन्यसत्यां विद्यागम्यायां ब्रह्मात्मतायां न कथञ्चन मोक्षं प्रत्याशा अस्ति । श्रुतिः च - ऽनान्यः पन्था विद्यते ऽयनायऽ (श्वेता। ३।८) इति ज्ञानात् अन्यं मोक्षमार्गं वारयति । परस्मात् अनन्यत्वे अपि जीवस्य सर्वव्यवहार लोपप्रसङ्गः । प्रत्यक्षादि प्रमाण अप्रवृत्तेः इति चेत् । न । प्राक् प्रबोधात् स्वप्नव्यवहारवत् तत् उपपत्तेः । शास्त्रं च ऽयत्र हि द्वैतमिव भवति तदितर इतरं पश्यति (बृ। २।४।१४, ४।५।१५) इत्यादिना अप्रबुद्धविषये प्रत्यक्षादि व्यवहारम् उक्त्वा पुनः प्रबुद्धविषये ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृ। २।४।१४, ४।५।१५) इत्यादिना तत् अभावं दर्शयति । तत् एवं परब्रह्मविदो गन्तव्यादि विज्ञानस्य बाधितत्वात् न कथञ्चन गतिः उपपादयितुं शक्या । किंविषयाः पुनः गतिश्रुतय इति । उच्यते - सगुणविद्याविषया भविष्यन्ति । तथा हि क्वचित् पञ्चाग्निविद्यां प्रकृत्य गतिः उच्यते यथा ऽप्राणो ब्रह्म कं ब्रह्म खं ब्रह्मऽ (छा। ४।१०।५) इति ऽअथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्मऽ (छा। ८।१।१) इति च तत्र अपि वामनीत्वादिभिः सत्यकामादिभिः च गुणैः सगुणस्य एव उपास्यत्वात् संभवति गतिः । न क्वचित् परब्रह्मविषया गतिः श्राव्यते यथा गतिप्रतिषेधः श्रावितः ऽन तस्य प्राणा उत्क्रामन्तिऽ (बृ। ४।४।६) इति । ऽब्रह्मविदाप्नोति परम्ऽ(तै। २।१।१) इत्यादिषु तु सत्यपि आप्नोतेः गत्यर्थत्वे वर्णितेन न्यायेन देशान्तरप्राप्ति असंभवात् स्वरूपप्रतिपत्तिः एव इयम् अविद्या अध्यारोपित नाम रूप प्रविलय अपेक्षया अभिधीयते ऽब्रह्मैव सन्ब्रह्माप्येतिऽ (बृ। ४।४।७) इत्यादिवत् इति द्रष्टव्यम् । अपि च परविषया गतिः व्याख्यायमाना प्ररोचनाय वा स्यात् अनुचिन्तनाय वा । तत्र प्ररोचनं तावत् ब्रह्मविदो न गति उक्त्या क्रियते । स्वसंवेद्येन एव अव्यवहितेन विद्यासमर्पितेन स्वास्थ्येन तत् सिद्धेः । न च नित्यसिद्धनिःश्रेयसनिवेदनस्य असाध्यफलस्य विज्ञानस्य गति अनुचिन्तने काचित् अपेक्षा उपपद्यते । तस्मात् अपरब्रह्मणि वर्तमाना गतिः । तत्र पर अपरब्रह्मविवेक अनवधारणेन अपरस्मिन् ब्रह्मणि वर्तमाना गतिश्रुतयः परस्मिन् अध्यारोप्यन्ते । किं द्वे ब्रह्मणी परम् अपरं च इति । बाढं द्वे ऽएतद्वै सत्यकाम परं चापरं ब्रह्मयदोङ्कारःऽ (प्र। ५।२) इत्यादि दर्शनात् । किं पुनः परं ब्रह्म किम् अपरम् इति । उच्यते । यत्र अविद्याकृत नाम रूपादि विशेषप्रतिषेधात् अस्थूलादिशब्दैः ब्रह्म उपदिश्यते तत् परम् । तत् एव यत्र नामरूपादिविशेषेण केनचित् विशिष्टम् उपासनाय उपदिश्यते ऽमनोमयः प्राणशरीरो भारूपःऽ (छा। ३।१४।२) इत्यादिशब्दैस्तदपरम् । ननु एवम् अद्वितीयश्रुतिः उपरुध्येत । न । अविद्याकृत नाम रूप उपाधिकतया परिहृतत्वात् । तस्य च अपरब्रह्म उपासनस्य तत् संनिधौ श्रूयमाणम् ऽस यदि पितृलोककामो भवतिऽ (छा। ८।२।१) इत्यादि जगत् ऐश्वर्यलक्षणं संसारगोचरम् एव फलं भवति । अनिवर्तितत्वात् अविद्यायाः । तस्य च देशविशेष अवबद्धत्वात् तत्प्राप्त्यर्थं गमनम् अविरुद्धम् । सर्वगतत्वे अपि च आत्मन आकाशस्य इव घटादिगमने बुध्यादि उपाधिगमने गमनप्रसिद्धिः इति अवादिष्म ऽतद्गुणसारत्वात्ऽ (ब्रसू। २।३।२९) इत्यत्र । तस्मात् ऽकार्यं बादरिः (ब्र। सू। ४।३।७) इत्येष एव स्थितः पक्षः । ऽपरं जैमिनिःऽ (ब्रसू। ४।३।१२) इति तु पक्षान्तरप्रतिभानमात्रप्रदर्शनं प्रज्ञाविकासनाय इति द्रष्टव्यम् ॥ १४ ॥

na ca kārye pratipattyabhisaṃdhiḥ api ca 'prajāpateḥ sabhāṃ veśma prapadye' (chā. 8.14.1) iti na ayaṃ kāryaviṣayaḥ pratipatti abhisaṃdhiḥ 'nāmarūpayornirvahitā te yadantarā tadbrahma' (chā. 8.14.1) iti kāryavilakṣaṇasya parasya eva brahmaṇaḥ prakṛtatvāt / 'yaśo 'haṃ bhavāmi brāhmaṇānām' (chā. 8.14.1) iti ca sarvātmatvena upakramaṇāt / 'na tasya pratimā asti, yasya nāmamahadyaśaḥ' (śvetā. 4.19) iti ca parasya eva brahmaṇo yaśonāmatva prasiddheḥ / 'sā ceyaṃ veśmapratipattirgatipūrvikā hārdavidyāyāmuditā tadaparājitā pūrbrahmaṇaḥ prabhuvimitaṃ hiraṇmayam' (chā. 8.5.3) iti atra / paderapi ca gatyarthatvāt mārga apekṣā avasīyate / tasmāt parabrahmaviṣayā gatiśrutaya iti pakṣāntaram / tau etau dvau pakṣau ācāryeṇa sūtritau gati upapattyādibhiḥ eko mukhyatvādibhiḥ aparaḥ / tatra gati upapattyādayaḥ prabhavanti mukhyatvādīna ābhāsayituṃ na tu mukhyatvādayo gati upapattyādīn ityādya eva siddhānto vyākhyāto dvitīyaḥ pūrvapakṣaḥ / na hi asati api saṃbhave mukhyasya eva arthasya grahaṇam iti kaścit ājñāpayitā vidyate / paravidyāprakaraṇe api ca tat stutyarthaṃ vidyāntara āśrayagati anukīrtanam upapadyate 'viṣvaṅṅanyā utkramaṇe bhavanti' (chā. 8.6.6) itivat / 'prajāpateḥ sabhāṃ veśma prapadye' (chā. 8.14.1) iti tu pūrvavākyavicchedena kārye api pratipatti abhisaṃdhiḥ na virudhyate / saguṇe api ca brahmaṇi sarvātmatva saṃkīrtanaṃ sarvakarmā sarvakāma ityādivat avakalpate / tasmāt aparaviṣayā eva gatiśrutayaḥ / kecit punaḥ pūrvāṇi pūrvapakṣasūtrāṇi bhavanti uttarāṇi siddhāntasūtrāṇi iti etāṃ vyavasthānam anurudhyamānāḥ paraviṣayā eva gatiśrutīḥ pratiṣṭhāpayanti tat anupapannaṃ gantavyatva anupapatteḥ brahmaṇaḥ / yat sarvagataṃ sarvāntaraṃ sarvātmakaṃ ca paraṃ brahma 'ākāśavatsarvagataśca nityaḥ' 'yatsākṣādaparokṣādbrahma' (bṛ. 3.4.1) 'ya ātmā sarvāntaraḥ' (bṛ. 3.4.1) 'ātmaivedaṃ sarvam' (chā. 7.25.2) 'brahmaivedaṃ viśvamidaṃ variṣṭham' (mu. 2.2.11) ityādi śrutinirdhārita viśeṣaṃ tasya gantavyatā na kadācit api upapadyate / na hi gatameva gamyate / anyo hi anyat gacchati iti prasiddhaṃ loke / nanu loke gatasya api gantavyatā deśāntaraviśiṣṭā dṛṣṭā / yathā pṛthivīstha eva pṛthivīṃ deśāntaradvāreṇa gacchati iti / tathā ananyatve api sarvaśakti upetatvāt kathañcit gantavyatā syāt iti / na / pratiṣiddhasarvaviśeṣatvāt brahmaṇaḥ / 'niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam'(śvetā. 6.19) 'asthūlamanaṇvahrasvamadīrgham'(bṛ. 3.8.8) 'sabāhyābhyantaro hyajaḥ'(mu. 2.1.2) 'sa vā eṣa mahānaja ātmājaro 'maro 'mṛto 'bhayo brahma'(bṛ. 4.4.25) 'sa eṣa neti netyātmā'(bṛ. 3.9.23) ityādi śruti smṛti nyāyebhyo na deśakālādi viśeṣayogaḥ paramātmani kalpayituṃ śakyate / yena bhūpradeśa vayovasthā nyāyena asya gantavyatā syāt / bhūvayasoḥ tu pradeśa avasthādi viśeṣayogāt upapadyate deśa kāla viśiṣṭā gantavyatā / jagat utpatti sthiti pralayahetutva śruteḥ anekaśaktitvaṃ brahmaṇa iti cet / na / viśeṣanirākaraṇaśrutīnām ananyārthatvāt / utpattyādiśrutīnām api samānam ananyārthatvam iti cet / na / tāsām ekatvapratipādanaparatvāt / mṛdādi dṛṣṭāntaiḥ hi sato brahmaṇa ekasya satyatvaṃ vikārasya ca āvṛtatvaṃ pratipādayat śāstraṃ na utpattyādiparaṃ bhavitum arhati / kasmāt punaḥ utpattyādi śrutīnāṃ viśeṣatvaṃ na punaḥ itara śeṣatvam itarāsām iti / ucyate - viśeṣanirākaraṇaśrutīnāṃ nirākāṅkṣārthatvāt / na hi ātmana ekatva nityatva śuddhatvādi avagatau satyāṃ bhūyaḥ kācit ākāṅkṣā upajāyate puruṣārthasamāptibuddhi upapatteḥ / 'tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ' (īśā. 7) 'abhayaṃ vai janaka prāpto 'si' (bṛ. 4.2.4) 'vidvānna bibheti kutaścana / etaṃ ha vāva na tapati kimahaṃ sādhu nākaravaṃ kimahaṃ pāpamakaravam' (taitti. 2.9.1) ityādiśrutibhyaḥ / tathā eva ca viduṣāṃ tuṣṭi anubhavādi darśanāt / vikāra anṛta abhisaṃdhi apavādāt ca 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' iti / ato na viśeṣanirākaraṇa śrutīnām anyaśeṣatvam avagantuṃ śakyate / na evam utpattyādi śrutīnāṃ nirākāṅkṣārtha pratipādanasāmarthyam asti / pratyakṣaṃ tu tāsām anyārthatvaṃ samanugamyate / tathā hi 'tatraitacchruṅgamutpatitaṃ somya vijānīhi nedamamūlaṃ bhaviṣyati' (chā. 6.8.3) iti upanyasya udarke sata eva ekasya jagat mūlasya vijñeyatvaṃ darśayati / 'yato vā imāni bhūtāni jāyante / yena jātāni jīvanti yatprayantyabhisaṃviśanti / tadvijijñāsasva / tadbrahmeti' (tai. 3.1.1) iti ca / evam utpattyādiśrutīnām aikātmya avagamaparatvāt na anekaśaktiyogo brahmaṇaḥ / ataḥ ca gantavyatva anupapattiḥ / 'na tasya prāṇā utkramanti brahmaiva sanbrahmāpyeti' (bṛ. 4.4.6) iti ca parasmin brahmaṇi gatiṃ nivārayati / tat vyākhyātaṃ 'spaṣṭo hyekeṣām' (bra. sū. 4.2.13) ityatra / gatikalpanāyāṃ ca gantā jīvo gantavyasya brahmaṇaḥ avayavo vikāro vā tataḥ syāt / atyanta tādātmye gamana anupapatteḥ / yadi evaṃ tataḥ kiṃ syāt / ucyate / yadi ekadeśaḥ tena ekadeśino nityaprāptatvāt na punaḥ brahmagamanam upapadyate / ekadeśitva kalpanā ca brahmaṇi anupapannā niravayavatva prasiddheḥ / vikārapakṣe api etat atulyaṃ vikāreṇa api vikāriṇo nityaprāptatvāt / na hi ghaṭo mṛdātmatāṃ parityajya avatiṣṭhate parityāge vā abhāvaprāpteḥ / vikāra avayavapakṣayoḥ ca tadvataḥ sthiratvāt brahmaṇaḥ saṃsāragamanam api anavakḷptam / atha anya eva jīvo brahmaṇaḥ / saḥ aṇuḥ vyāpī madyama parimāṇo vā bhavitum arhati / vyāpitve gamana anupapattiḥ / madhyama parimāṇatve ca anityatvaprasaṅgaḥ / aṇutve kṛtsnaśarīravedanā anupapattiḥ / pratiṣiddhe ca aṇutva madhyama parimāṇatve vistareṇa purastāt / parasmāt ca anyatve jīvasya 'tattvamasi' (chā. 6.8.7) ityādi śāstra bādha prasaṅgaḥ / vikāra avayavapakṣayoḥ api samānaḥ ayaṃ doṣaḥ / vikāra avayavayoḥ tadvatoḥ ananyatvāt adoṣa iti cet / na / mukhya ekatva anupapatteḥ / sarveṣu eteṣu pakṣeṣu anirmokṣaprasaṅgaḥ / saṃsāri ātmatva anivṛtteḥ / nivṛttau vā svarūpanāśaprasaṅgaḥ / brahmātmatva anabhyupagamāt ca / yat tu kaiścit jalpyate nityāni naimittikāni karmāṇi anuṣṭhīyante pratyavāya anutpattaye kāmyāni pratiṣiddhāni ca parihriyante svarganarakān avāptaye sāṃpratadeha upabhogyāni ca karmāṇi upabhogena eva kṣapyanta ityato vartamānadehapātāt ūrdhvaṃ dehāntara pratisaṃdhāna kāraṇa abhāvāt svarūpa avasthānalakṣaṇaṃ kaivalyaṃ vinā api brahmātmataya evaṃvṛttasya setsyati iti / tat asat / pramāṇa abhāvāt / na hi etat śāstreṇa kenacit pratipāditaṃ mokṣārthi itthaṃ samācaret iti / svamanīṣayā tu etat tarkitaṃ yasmāt karmanimittaḥ saṃsāraḥ tasmāt nimitta abhāvāt na bhaviṣyati iti / na ca etat tarkayitum api śakyate nimitta abhāvasya durjñānatvāt / bahūni hi karmāṇi jātyantarasaṃcitāni iṣṭa aniṣṭavipākāni ekaikasya jantoḥ saṃbhāvyante / teṣāṃ viruddha phalānāṃ yugapat upabhoga asaṃbhavāt kānicit labdha avasarāṇi idaṃ janma nirmimate kānicit tu deśakālanimittapratīkṣāṇi asata iti ataḥ teṣām avaśiṣṭānāṃ sāṃpratena upabhogena kṣapaṇāsaṃbhavāt na yathāvarṇitacaritasya api vartamānadehapāte dehāntaranimitta abhāvaḥ śakyate niścetum / karmaśeṣasadbāvasiddhaḥ ca 'tadya iha ramaṇīyacaraṇāstataḥ śeṣeṇa' ityādi śruti smṛtibhyaḥ / syāt etat / nitya naimittikāni teṣāṃ kṣepakāṇi bhaviṣyanti iti / tat na / virodha abhāvāt / sati hi virodhe kṣepyakṣepakabhāvo bhavati / na ca janmāntara saṃcitānāṃ sukṛtānāṃ nitya naimittikaiḥ asti virodhaḥ / śuddharūpatva aviśeṣāt / duritānāṃ tu aśuddhirūpatvāt sati virodhe bhavatu kṣapaṇaṃ na tu tāvatā dehāntara nimitta abhāvasiddhiḥ / sukṛtanimittatva upapatteḥ / duścaritasya api aśeṣakṣapaṇa anavagamāt / na ca nitya naimittikānuṣṭhānāt pratyavāya anutpattimātraṃ na punaḥ phalāntara utpattiḥ iti pramāṇam asti phalāntarasya api anuniṣpādinaḥ saṃbhavāt / smarati hi āpastambaḥ - 'tadyathāmre phalārte nimitte chāyāgandhāvanūtpadyete evaṃ dharmaṃ caryamāṇārthā anūtpadyante' iti / na ca asati samyak darśane sarvātmanā kāmyapratiṣiddhavarjanaṃ janmaprāyaṇāntarālaṃ kenacit pratijñātuṃ śakyam / sunipuṇānam api sūkṣma aparādhadarśanāt / saṃśayitavyaṃ tu bhavati tathā api nimitta abhāvasya durjñānatvameva / na ca anabhyupagamyamāne jñānagamye brahmātmatve kartṛtva bhoktṛtva svabhāvasya ātmanaḥ kaivalyam ākāṅkṣituṃ śakyam / agni auṣṇyavat svabhāvasya aparihāryatvāt / syāt etat / kartṛtva bhoktṛtva kāryam anartho na tat śaktiḥ tena śakti avasthāne 'pi kāryaparihārat upapanno mokṣa iti / tatca na / śaktisadbhāve kāryaprasavasya durnivāratvāt / atha api syāt na kevalā śaktiḥ kāryam ārabhate anapekṣya anyāni nimittāni / ata ekākinī sā sthitāpi na aparādhyati iti / tat ca na / nimittānām api śaktilakṣaṇena saṃbandhena nityasaṃbaddhatvāt / tasmāt kartṛtva bhoktṛtva svabhāve satyām anyasatyāṃ vidyāgamyāyāṃ brahmātmatāyāṃ na kathañcana mokṣaṃ pratyāśā asti / śrutiḥ ca - 'nānyaḥ panthā vidyate 'yanāya' (śvetā. 3.8) iti jñānāt anyaṃ mokṣamārgaṃ vārayati / parasmāt ananyatve api jīvasya sarvavyavahāra lopaprasaṅgaḥ / pratyakṣādi pramāṇa apravṛtteḥ iti cet / na / prāk prabodhāt svapnavyavahāravat tat upapatteḥ / śāstraṃ ca 'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati (bṛ. 2.4.14, 4.5.15) ityādinā aprabuddhaviṣaye pratyakṣādi vyavahāram uktvā punaḥ prabuddhaviṣaye 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 2.4.14, 4.5.15) ityādinā tat abhāvaṃ darśayati / tat evaṃ parabrahmavido gantavyādi vijñānasya bādhitatvāt na kathañcana gatiḥ upapādayituṃ śakyā / kiṃviṣayāḥ punaḥ gatiśrutaya iti / ucyate - saguṇavidyāviṣayā bhaviṣyanti / tathā hi kvacit pañcāgnividyāṃ prakṛtya gatiḥ ucyate yathā 'prāṇo brahma kaṃ brahma khaṃ brahma' (chā. 4.10.5) iti 'atha yadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma' (chā. 8.1.1) iti ca tatra api vāmanītvādibhiḥ satyakāmādibhiḥ ca guṇaiḥ saguṇasya eva upāsyatvāt saṃbhavati gatiḥ / na kvacit parabrahmaviṣayā gatiḥ śrāvyate yathā gatipratiṣedhaḥ śrāvitaḥ 'na tasya prāṇā utkrāmanti' (bṛ. 4.4.6) iti / 'brahmavidāpnoti param'(tai. 2.1.1) ityādiṣu tu satyapi āpnoteḥ gatyarthatve varṇitena nyāyena deśāntaraprāpti asaṃbhavāt svarūpapratipattiḥ eva iyam avidyā adhyāropita nāma rūpa pravilaya apekṣayā abhidhīyate 'brahmaiva sanbrahmāpyeti' (bṛ. 4.4.7) ityādivat iti draṣṭavyam / api ca paraviṣayā gatiḥ vyākhyāyamānā prarocanāya vā syāt anucintanāya vā / tatra prarocanaṃ tāvat brahmavido na gati uktyā kriyate / svasaṃvedyena eva avyavahitena vidyāsamarpitena svāsthyena tat siddheḥ / na ca nityasiddhaniḥśreyasanivedanasya asādhyaphalasya vijñānasya gati anucintane kācit apekṣā upapadyate / tasmāt aparabrahmaṇi vartamānā gatiḥ / tatra para aparabrahmaviveka anavadhāraṇena aparasmin brahmaṇi vartamānā gatiśrutayaḥ parasmin adhyāropyante / kiṃ dve brahmaṇī param aparaṃ ca iti / bāḍhaṃ dve 'etadvai satyakāma paraṃ cāparaṃ brahmayadoṅkāraḥ' (pra. 5.2) ityādi darśanāt / kiṃ punaḥ paraṃ brahma kim aparam iti / ucyate / yatra avidyākṛta nāma rūpādi viśeṣapratiṣedhāt asthūlādiśabdaiḥ brahma upadiśyate tat param / tat eva yatra nāmarūpādiviśeṣeṇa kenacit viśiṣṭam upāsanāya upadiśyate 'manomayaḥ prāṇaśarīro bhārūpaḥ' (chā. 3.14.2) ityādiśabdaistadaparam / nanu evam advitīyaśrutiḥ uparudhyeta / na / avidyākṛta nāma rūpa upādhikatayā parihṛtatvāt / tasya ca aparabrahma upāsanasya tat saṃnidhau śrūyamāṇam 'sa yadi pitṛlokakāmo bhavati' (chā. 8.2.1) ityādi jagat aiśvaryalakṣaṇaṃ saṃsāragocaram eva phalaṃ bhavati / anivartitatvāt avidyāyāḥ / tasya ca deśaviśeṣa avabaddhatvāt tatprāptyarthaṃ gamanam aviruddham / sarvagatatve api ca ātmana ākāśasya iva ghaṭādigamane budhyādi upādhigamane gamanaprasiddhiḥ iti avādiṣma 'tadguṇasāratvāt' (bra.sū. 2.3.29) ityatra / tasmāt 'kāryaṃ bādariḥ (bra. sū. 4.3.7) ityeṣa eva sthitaḥ pakṣaḥ / 'paraṃ jaiminiḥ' (bra.sū. 4.3.12) iti tu pakṣāntarapratibhānamātrapradarśanaṃ prajñāvikāsanāya iti draṣṭavyam // 14 //

Sanskrit only: no published translation is held for this verse.

अप्रतीकालम्बनान् नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश् च स्थितम् एतत् कार्यविषया गतिः न परविषया इति । इदम् इदानीं संदिह्यते किं सर्वान् विकार आलम्बनान् अविशेषेण एव अमानवः पुरुषः प्रापयति ब्रह्मलोकम् उत कांश्चित् एव इति । किं तावत् प्राप्तं सर्वेषाम् एव एषां विदुषाम् अन्यत्र परस्मात् ब्रह्णणो गतिः स्यात् । तथा हि - ऽअनियमः सर्वासाम्ऽ - (ब्र। सू। ३।३।३१) इति अत्राविशेषेण एव एषां विद्यान्तरेषु अवतारित इति । एवं प्राप्ते प्रत्याह - अप्रतीक आलम्बनान् इति । प्रतीक आलम्बनान् वर्जयित्वा सर्वान् अन्यान् विकार आलम्बनान् नयति ब्रह्मलोकम् इति बादरायण आचार्यो मन्यते । न हि एवम् उभयथा अभाव अभ्युपगमे कश्चित् दोषः अस्ति । अनियम न्यायस्य प्रतीकव्यतिरिक्तेषु अपि उपासनेषु उपपत्तेः । तत्क्रतुः च अस्य उभयथाभावस्य समर्थको हेतुः द्रष्टव्यः । यो हि ब्रह्मक्रतुः स ब्राह्मम् ऐश्वर्यम् आसीदेदिति श्लिष्यते ऽतं यथा यतोपासते तदेव भवतिऽ इति श्रुतेः । न तु प्रतीकेषु ब्रह्म अक्रतुत्वम् अस्ति प्रतीकप्रधानत्वात् उपासनस्य । ननु अब्रह्मक्रतुः अपि ब्रह्मगच्छति इति श्रूयते यथा पञ्चाग्नि विद्यायाम् ऽस एनान्ब्रह्म गमयतिऽ (छा। ४।१५।५) इति भवतु यत्र एवम् आहत्यवाद उपलभ्यते तत् अभावे तु औत्सर्गिकेण तत् क्रतुन्यायेन ब्रह्मक्रतूनाम् एव तत्प्राप्तिः न इतरेषाम् इति गम्यते ॥ १५ ॥

apratīkālambanān nayatīti bādarāyaṇa ubhayathā ca doṣāt tatkratuś ca sthitam etat kāryaviṣayā gatiḥ na paraviṣayā iti / idam idānīṃ saṃdihyate kiṃ sarvān vikāra ālambanān aviśeṣeṇa eva amānavaḥ puruṣaḥ prāpayati brahmalokam uta kāṃścit eva iti / kiṃ tāvat prāptaṃ sarveṣām eva eṣāṃ viduṣām anyatra parasmāt brahṇaṇo gatiḥ syāt / tathā hi - 'aniyamaḥ sarvāsām' - (bra. sū. 3.3.31) iti atrāviśeṣeṇa eva eṣāṃ vidyāntareṣu avatārita iti / evaṃ prāpte pratyāha - apratīka ālambanān iti / pratīka ālambanān varjayitvā sarvān anyān vikāra ālambanān nayati brahmalokam iti bādarāyaṇa ācāryo manyate / na hi evam ubhayathā abhāva abhyupagame kaścit doṣaḥ asti / aniyama nyāyasya pratīkavyatirikteṣu api upāsaneṣu upapatteḥ / tatkratuḥ ca asya ubhayathābhāvasya samarthako hetuḥ draṣṭavyaḥ / yo hi brahmakratuḥ sa brāhmam aiśvaryam āsīdediti śliṣyate 'taṃ yathā yatopāsate tadeva bhavati' iti śruteḥ / na tu pratīkeṣu brahma akratutvam asti pratīkapradhānatvāt upāsanasya / nanu abrahmakratuḥ api brahmagacchati iti śrūyate yathā pañcāgni vidyāyām 'sa enānbrahma gamayati' (chā. 4.15.5) iti bhavatu yatra evam āhatyavāda upalabhyate tat abhāve tu autsargikeṇa tat kratunyāyena brahmakratūnām eva tatprāptiḥ na itareṣām iti gamyate // 15 //

Sanskrit only: no published translation is held for this verse.

विशेषं च दर्शयति नामादिषु प्रतीक उपासनेषु पूर्वस्मात् पूर्वस्मात् फलविशेषम् उत्तरस्मिन् उत्तरस्मिन् उपासने दर्शयति - ऽयावन्नाम्नो गतं तत्रास्य यथाकामचारो भवतिऽ (छा। ७।१।५) ऽवाग्वाव नाम्नो भूयसीऽ (छा। ७।२।१) ऽयावद्वाचो गतं तत्रास्य यथाकामचारो भवतिऽ(छा। ७।२।२) ऽमनो वाव वाचो भूयःऽ (छा। ७।३।१) इत्यादिना । स च अयं फलविशेषः प्रतीक तन्त्रत्वात् उपासनानाम् उपपद्यते । ब्रह्म तन्त्रत्वे तु ब्रह्मणः अविशिष्टत्वात् कथं फलविशेषः स्यात् । तस्मात् न प्रतीक आलम्बनानाम् इतरैः तुल्यफलत्वम् इति ॥ १६ ॥ इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीशङ्करभगवत्पादकृतौ श्रीमच्छारीरकमीमांसाभाष्ये चतुर्थाध्यायस्य तृतीयः पादः ॥ ३ ॥ ____________________________________________________________________________________________ ____________________________________________________________________________________________ चतुर्थो ऽध्याये चतुर्थः पादः । [अत्र पादे ब्रह्मप्राप्ति-ब्रह्मलोकस्थितिनिरूपणम्]

viśeṣaṃ ca darśayati nāmādiṣu pratīka upāsaneṣu pūrvasmāt pūrvasmāt phalaviśeṣam uttarasmin uttarasmin upāsane darśayati - 'yāvannāmno gataṃ tatrāsya yathākāmacāro bhavati' (chā. 7.1.5) 'vāgvāva nāmno bhūyasī' (chā. 7.2.1) 'yāvadvāco gataṃ tatrāsya yathākāmacāro bhavati'(chā. 7.2.2) 'mano vāva vāco bhūyaḥ' (chā. 7.3.1) ityādinā / sa ca ayaṃ phalaviśeṣaḥ pratīka tantratvāt upāsanānām upapadyate / brahma tantratve tu brahmaṇaḥ aviśiṣṭatvāt kathaṃ phalaviśeṣaḥ syāt / tasmāt na pratīka ālambanānām itaraiḥ tulyaphalatvam iti // 16 // iti śrīgovindabhagavatpūjyapādaśiṣyaśrīśaṅkarabhagavatpādakṛtau śrīmacchārīrakamīmāṃsābhāṣye caturthādhyāyasya tṛtīyaḥ pādaḥ // 3 // ____________________________________________________________________________________________ ____________________________________________________________________________________________ caturtho 'dhyāye caturthaḥ pādaḥ / [atra pāde brahmaprāpti-brahmalokasthitinirūpaṇam]

Sanskrit only: no published translation is held for this verse.