अथातो व्रतमीमांसा । प्रजापतिर् ह कर्माणि ससृजे । तानि सृष्टान्य् अन्यो ऽन्येनास्पर्धन्त । वदिष्याम्य् एवाहम् इति वाग् दध्रे । द्रक्ष्याम्य् अहम् इति चक्षुः । श्रोष्याम्य् अहम् इति श्रोत्रम् । एवम् अन्यानि कर्माणि यथाकर्मम् । तानि मृत्युः श्रमो भूत्वोपयेमे । तान्य् आप्नोत् । तान्य् आप्त्वा मृत्युर् अवारुन्ध । तस्माच् छ्राम्यत्य् एव वाक् । श्राम्यति चक्षुः । श्राम्यति श्रोत्रम् । अथेमम् एव नाप्नोत् यो ऽयं मध्यमः प्राणः । तानि ज्ञातुं दध्रिरे । अयं वै नः श्रेष्ठो यः संचरंश् चासंचरंश् च न व्यथते ऽथो न रिष्यति । हन्तास्यैव सर्वे रूपं भवामेति । त एतस्यैव सर्वे रूपम् अभवन् । तस्माद् एत एतेनाख्यायन्ते प्राणा इति । तेन ह वाव तत् कुलम् आचक्षते यस्मिन् कुले भवति य एवं वेद । य उ हैवंविदा स्पर्धते ऽनुशुष्यति । अनुशुष्य हैवान्ततो म्रियत इत्य् अध्यात्मम्
athāto vratamīmāṃsā | prajāpatir ha karmāṇi sasṛje | tāni sṛṣṭāny anyo 'nyenāspardhanta | vadiṣyāmy evāham iti vāg dadhre | drakṣyāmy aham iti cakṣuḥ | śroṣyāmy aham iti śrotram | evam anyāni karmāṇi yathākarmam | tāni mṛtyuḥ śramo bhūtvopayeme | tāny āpnot | tāny āptvā mṛtyur avārundha | tasmāc chrāmyaty eva vāk | śrāmyati cakṣuḥ | śrāmyati śrotram | athemam eva nāpnot yo 'yaṃ madhyamaḥ prāṇaḥ | tāni jñātuṃ dadhrire | ayaṃ vai naḥ śreṣṭho yaḥ saṃcaraṃś cāsaṃcaraṃś ca na vyathate 'tho na riṣyati | hantāsyaiva sarve rūpaṃ bhavāmeti | ta etasyaiva sarve rūpam abhavan | tasmād eta etenākhyāyante prāṇā iti | tena ha vāva tat kulam ācakṣate yasmin kule bhavati ya evaṃ veda | ya u haivaṃvidā spardhate 'nuśuṣyati | anuśuṣya haivāntato mriyata ity adhyātmam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.