घृतकौशिकात् । घृतकौशिकः पाराशर्यात् । पाराशर्यः पाराशर्यात् । पाराशर्यो जातुकर्ण्यात् । जातुकर्ण्य आसुरायणाच् च यस्काच् च । आसुरायणस् त्रैवणेः । त्रैवणिर् औपजन्धनेः । औपजन्धनिर् आसुरेः । आसुरिर् भारद्वाजात् । भारद्वाज आत्रेयात् । आत्रेयो माण्टेः । माण्टिर् गौतमात् । गौतमो गौतमात् । गौतमो वात्स्यात् । वात्स्यः शाण्डिल्यात् । शाण्डिल्यः कैशोर्यात् काप्यात् । कैशोर्यः काप्यः कुमारहरितात् । कुमारहरितो गालवात् । गालवो विदर्भीकौण्डिन्यात् । विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवात् । वत्सनपाद् बाभ्रवः पथः सौभरात् । पन्थाः सौभरो ऽयास्याद् अङ्गिरसात् । अयास्य आङ्गिरस आभुतेस् त्वाष्ट्रात् । आभुतिस् त्वाष्ट्रो विश्वरूपात् त्वाष्ट्रात् । विश्वरूपस् त्वाष्ट्रो ऽश्विभ्याम् । अश्विनौ दधिच आथर्वणात् । दध्यङ्ङ् आथर्वणो ऽथर्वणो दैवात् । अथर्वा दैवो मृत्योः प्राध्वंसनात् । मृत्युः प्राध्वंसनः प्राध्वंसनात् । प्राध्वंसनः एकर्षेः । एकर्षिर् विप्रजित्तेः । विप्रजित्तिर् व्यष्टेर् । व्यष्टिः सनारोः । सनारुः सनातनात् । सनातनः सनगात् । सनगः परमेष्टिणः । परमेष्टी ब्रह्मणः । ब्रह्म स्वयम्भु । ब्रह्मणे नमः
ghṛtakauśikāt | ghṛtakauśikaḥ pārāśaryāt | pārāśaryaḥ pārāśaryāt | pārāśaryo jātukarṇyāt | jātukarṇya āsurāyaṇāc ca yaskāc ca | āsurāyaṇas traivaṇeḥ | traivaṇir aupajandhaneḥ | aupajandhanir āsureḥ | āsurir bhāradvājāt | bhāradvāja ātreyāt | ātreyo māṇṭeḥ | māṇṭir gautamāt | gautamo gautamāt | gautamo vātsyāt | vātsyaḥ śāṇḍilyāt | śāṇḍilyaḥ kaiśoryāt kāpyāt | kaiśoryaḥ kāpyaḥ kumāraharitāt | kumāraharito gālavāt | gālavo vidarbhīkauṇḍinyāt | vidarbhīkauṇḍinyo vatsanapāto bābhravāt | vatsanapād bābhravaḥ pathaḥ saubharāt | panthāḥ saubharo 'yāsyād aṅgirasāt | ayāsya āṅgirasa ābhutes tvāṣṭrāt | ābhutis tvāṣṭro viśvarūpāt tvāṣṭrāt | viśvarūpas tvāṣṭro 'śvibhyām | aśvinau dadhica ātharvaṇāt | dadhyaṅṅ ātharvaṇo 'tharvaṇo daivāt | atharvā daivo mṛtyoḥ prādhvaṃsanāt | mṛtyuḥ prādhvaṃsanaḥ prādhvaṃsanāt | prādhvaṃsanaḥ ekarṣeḥ | ekarṣir viprajitteḥ | viprajittir vyaṣṭer | vyaṣṭiḥ sanāroḥ | sanāruḥ sanātanāt | sanātanaḥ sanagāt | sanagaḥ parameṣṭiṇaḥ | parameṣṭī brahmaṇaḥ | brahma svayambhu | brahmaṇe namaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.