Library·Bṛhadāraṇyaka Upaniṣad (Kāṇva)·6·6.5

Bṛhadāraṇyaka Upaniṣad (Kāṇva) 6.5

अथ वंशः । पौतिमाषीपुत्रः कात्यायनीपुत्रात् । कात्यायनीपुत्रो गौतमीपुत्रात् । गौतमीपुत्रो भारद्वाजीपुत्रात् । भारद्वाजीपुत्रः पाराशरीपुत्रात् । पाराशरीपुत्र औपस्वस्तीपुत्रात् । औपस्वस्तीपुत्रः पाराशरीपुत्रात् । पाराशरीपुत्रः कात्यायनीपुत्रात् । कात्यायनीपुत्रः कौशिकीपुत्रात् । कौशिकीपुत्र आलम्बीपुत्राच् च वैयाघ्रपदीपुत्राच् च । वैयाघ्रपदीपुत्रह् काण्वीपुत्राच् च कापीपुत्राच् च । कापीपुत्रः

atha vaṃśaḥ | pautimāṣīputraḥ kātyāyanīputrāt | kātyāyanīputro gautamīputrāt | gautamīputro bhāradvājīputrāt | bhāradvājīputraḥ pārāśarīputrāt | pārāśarīputra aupasvastīputrāt | aupasvastīputraḥ pārāśarīputrāt | pārāśarīputraḥ kātyāyanīputrāt | kātyāyanīputraḥ kauśikīputrāt | kauśikīputra ālambīputrāc ca vaiyāghrapadīputrāc ca | vaiyāghrapadīputrah kāṇvīputrāc ca kāpīputrāc ca | kāpīputraḥ

Sanskrit only: no published translation is held for this verse.

आत्रेयीपुत्रात् । आत्रेयीपुत्रो गौतमीपुत्रात् । गौतमीपुत्रो भारद्वाजीपुत्रात् । भारद्वाजीपुत्रः पाराशरीपुत्रात् । पाराशरीपुत्रो वात्सीपुत्रात् । वात्सीपुत्रः पाराशरीपुत्रात् । पाराशरीपुत्रो वार्कारुनीपुत्रात् । वार्कारुणीपुत्रो वार्कारुणीपुत्रात् । वार्कारुणीपुत्र आर्तभागीपुत्रात् । आर्तभागीपुत्रः शौङ्गीपुत्रात् । शौङ्गीपुत्रः सान्कृतीपुत्रात् । साङृतीपुत्र आलम्बायनीपुत्रात् । आलम्बायनीपुत्र आलम्बीपुत्रात् । आलम्बीपुत्रो जायन्तीपुत्रात् । जायन्तीपुत्रो माण्डूकायनीपुत्रात् । माण्डूकायनीपुत्रो माण्डूकीपुत्रात् । माण्डूकीपुत्रः शाण्डिलीपुत्रात् । शाण्डिलीपुत्रो राथीतरीपुत्रात् । राथीतरीपुत्रो भालुकीपुत्रात् । भालुकीपुत्रः क्रौञ्चिकीपुत्राभ्याम् । क्रौञ्चिकीपुत्रौ वैदभृतीपुत्रात् । वैदभृतीपुत्रः कार्शकेयीपुत्रात् । कार्शकेयीपुत्रः प्राचीनयोगीपुत्रात् । प्राचीनयोगीपुत्रः साञ्जीवीपुत्रात् । साञ्जीवीपुत्रः प्राश्नीपुत्राद् आसुरिवासिनः । प्राश्नीपुत्र आसुरायणात् । आसुरायण आसुरेः । आसुरिः

ātreyīputrāt | ātreyīputro gautamīputrāt | gautamīputro bhāradvājīputrāt | bhāradvājīputraḥ pārāśarīputrāt | pārāśarīputro vātsīputrāt | vātsīputraḥ pārāśarīputrāt | pārāśarīputro vārkārunīputrāt | vārkāruṇīputro vārkāruṇīputrāt | vārkāruṇīputra ārtabhāgīputrāt | ārtabhāgīputraḥ śauṅgīputrāt | śauṅgīputraḥ sānkṛtīputrāt | sāṅṛtīputra ālambāyanīputrāt | ālambāyanīputra ālambīputrāt | ālambīputro jāyantīputrāt | jāyantīputro māṇḍūkāyanīputrāt | māṇḍūkāyanīputro māṇḍūkīputrāt | māṇḍūkīputraḥ śāṇḍilīputrāt | śāṇḍilīputro rāthītarīputrāt | rāthītarīputro bhālukīputrāt | bhālukīputraḥ krauñcikīputrābhyām | krauñcikīputrau vaidabhṛtīputrāt | vaidabhṛtīputraḥ kārśakeyīputrāt | kārśakeyīputraḥ prācīnayogīputrāt | prācīnayogīputraḥ sāñjīvīputrāt | sāñjīvīputraḥ prāśnīputrād āsurivāsinaḥ | prāśnīputra āsurāyaṇāt | āsurāyaṇa āsureḥ | āsuriḥ

Sanskrit only: no published translation is held for this verse.

याज्ञवल्क्यात् । याज्ञवल्क्य उद्दालकात् । उद्दालको ऽरुणात् । अरुण उपवेशेः । उपवेशिः कुश्रेः । कुश्रिर् वाजश्रवसः । वाजश्रवा जीह्वावतो बाध्योगात् । जीह्वावान् बाध्योगो ऽसिताद् वार्षगणात् । असितो वार्षगणो हरितात् कश्यपात् । हरितः कश्यपः शिल्पात् कश्यपात् । शिल्पः कश्यपः कश्यपान् नैध्रुवेः । कश्यपो नैध्रुविर् वाचः । वाग् अम्भिण्याः । अम्भिण्य् आदित्यात् । आदित्यानीमानि शुक्लानि यजूंषि वाजसनेयेन याज्ञवल्क्येनाख्ययन्ते

yājñavalkyāt | yājñavalkya uddālakāt | uddālako 'ruṇāt | aruṇa upaveśeḥ | upaveśiḥ kuśreḥ | kuśrir vājaśravasaḥ | vājaśravā jīhvāvato bādhyogāt | jīhvāvān bādhyogo 'sitād vārṣagaṇāt | asito vārṣagaṇo haritāt kaśyapāt | haritaḥ kaśyapaḥ śilpāt kaśyapāt | śilpaḥ kaśyapaḥ kaśyapān naidhruveḥ | kaśyapo naidhruvir vācaḥ | vāg ambhiṇyāḥ | ambhiṇy ādityāt | ādityānīmāni śuklāni yajūṃṣi vājasaneyena yājñavalkyenākhyayante

Sanskrit only: no published translation is held for this verse.

समानम् आ साञ्जीवीपुत्रात् । सञ्जिवीपुत्रो माण्डूकायनेः । माण्डूकायनिर् माण्डव्यात् । माण्डव्यः कौत्सात् । कौत्सो माहित्थेः । माहित्थिर् वामकक्षायणात् । वामकक्षायणः शाण्डिल्यात् । शाण्डिल्यो वात्स्यात् । वात्स्यः कुश्रेः । कुश्रिर् यज्ञवचसः राजस्तम्बायनात् । यज्ञवचा राजस्तम्बायनः तुरात् कावषेयात् । तुरः कावषेयः प्रजापतेः । प्रजापतिर् ब्रह्मणः । ब्रह्म स्वयंभु । ब्रह्मणे नमः

samānam ā sāñjīvīputrāt | sañjivīputro māṇḍūkāyaneḥ | māṇḍūkāyanir māṇḍavyāt | māṇḍavyaḥ kautsāt | kautso māhittheḥ | māhitthir vāmakakṣāyaṇāt | vāmakakṣāyaṇaḥ śāṇḍilyāt | śāṇḍilyo vātsyāt | vātsyaḥ kuśreḥ | kuśrir yajñavacasaḥ rājastambāyanāt | yajñavacā rājastambāyanaḥ turāt kāvaṣeyāt | turaḥ kāvaṣeyaḥ prajāpateḥ | prajāpatir brahmaṇaḥ | brahma svayaṃbhu | brahmaṇe namaḥ

Sanskrit only: no published translation is held for this verse.