Library·Ramanuja: Bhagavadgitabhasya·13

Ramanuja: Bhagavadgitabhasya 13

इदं शरीरम् देवो ऽहम्, मनुष्यो ऽहम्, स्थूलो ऽहम्, कृशो ऽहम् इति आत्मनो भोक्त्रा सह सामानाधिकरण्येन प्रतीयमानं भोक्तुर् आत्मनो ऽर्थान्तरभूतस्य भोगक्षेत्रम् इति शरीरयाथात्म्यविद्भिर् अभिधीयते । एतद् अवयवशः संघातरूपेण च, इदम् अहं वेद्मीति यो वेत्ति, तं वेद्यभूताद् अस्माद् वेदितृत्वेनार्थान्तरभूतम्, क्षेत्रज्ञ इति तद्विदः आत्मयाथात्म्यविदः प्राहुः । यद्य् अपि देहव्यतिरिक्तघटाद्यर्थानुसन्धानवेलायां "देवो ऽहम्, मनुष्यो ऽहं घटादिकं जानामि" इति देहसामानाधिकरण्येन ज्ञातारम् आत्मानम् अनुसन्धत्ते, तथापि देहानुभववेलायां देहम् अपि घटादिकम् इव "इदम् अहं वेद्मि" इति वेद्यतया वेदितानुभवतीति वेदितुर् आत्मनो वेद्यतया शरीरम् अपि घटादिवद् अर्थान्तरभूतम् । तथा घटादेर् इव वेद्यभूताच् छरीराद् अपि वेदिता क्षेत्रज्ञो ऽर्थान्तरभूतः । सामानाधिकरण्येन प्रतीतिस् तु वस्तुतश् शरीरस्य गोत्वादिवद् अत्मविशेषणतैकस्वभावतया तदपृथक्सिद्धेर् उपपन्ना । तत्र वेदितुर् असाधारणाकारस्य चक्षुरादिकरणाविषयत्वाद् योगसंस्कृतमनोविषयत्वाच् च प्रकृतिसन्निधानाद् एव मूढाः प्रकृत्याकारम् एव वेदितारं पश्यन्ति, तथा च वक्ष्यति, "उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः" इति

idaṃ śarīram devo 'ham, manuṣyo 'ham, sthūlo 'ham, kṛśo 'ham iti ātmano bhoktrā saha sāmānādhikaraṇyena pratīyamānaṃ bhoktur ātmano 'rthāntarabhūtasya bhogakṣetram iti śarīrayāthātmyavidbhir abhidhīyate / etad avayavaśaḥ saṃghātarūpeṇa ca, idam ahaṃ vedmīti yo vetti, taṃ vedyabhūtād asmād veditṛtvenārthāntarabhūtam, kṣetrajña iti tadvidaḥ ātmayāthātmyavidaḥ prāhuḥ / yady api dehavyatiriktaghaṭādyarthānusandhānavelāyāṃ "devo 'ham, manuṣyo 'haṃ ghaṭādikaṃ jānāmi" iti dehasāmānādhikaraṇyena jñātāram ātmānam anusandhatte, tathāpi dehānubhavavelāyāṃ deham api ghaṭādikam iva "idam ahaṃ vedmi" iti vedyatayā veditānubhavatīti veditur ātmano vedyatayā śarīram api ghaṭādivad arthāntarabhūtam / tathā ghaṭāder iva vedyabhūtāc charīrād api veditā kṣetrajño 'rthāntarabhūtaḥ / sāmānādhikaraṇyena pratītis tu vastutaś śarīrasya gotvādivad atmaviśeṣaṇataikasvabhāvatayā tadapṛthaksiddher upapannā / tatra veditur asādhāraṇākārasya cakṣurādikaraṇāviṣayatvād yogasaṃskṛtamanoviṣayatvāc ca prakṛtisannidhānād eva mūḍhāḥ prakṛtyākāram eva veditāraṃ paśyanti, tathā ca vakṣyati, "utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam / vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ" iti

Sanskrit only: no published translation is held for this verse.

देवमनुष्यादिसर्वक्षेत्रेषु वेदितृत्वाकारं क्षेत्रज्ञं च मां विद्धि मदात्मकं विद्धि; क्षेत्रज्ञं चापीति अपिशब्दात् क्षेत्रम् अपि मां विद्धीत्य् उक्तम् इति गम्यते । यथा क्षेत्रं क्षेत्रज्ञविशेषणतैकस्वभावतया तदपृथक्सिद्धेः तत्सामानाधिकरण्येनैव निर्देश्यम्, तथा क्षेत्रं क्षेत्रज्ञं च मद्विशेषणतैकस्वभावतया मदपृथक्सिद्धेः मत्सामानाधिकरण्येनैव निर्देश्यौ विद्धि । पृथिव्यादिसंघातरूपस्य क्षेत्रस्य क्षेत्रज्ञस्य च भगवच्छरीरतैकस्वरूपतया भगवदात्मकत्वं श्रुतयो वदन्ति, "यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः" इत्य् आरभ्य, "य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः" इत्य् आद्याः । इदम् एवान्तर्यामितया सर्वक्षेत्रज्ञानाम् आत्मत्वेनावस्थानं भगवतः तत्सामानाधिकरण्येन व्यपदेशहेतुः । "अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः", "न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम्" ,"विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत्" इति पुरस्ताद् उपरिष्टाच् चाभिधाय, मध्ये सामानाधिकरण्येन व्यपदिशति, "आदित्यानाम् अहं विष्णुः" इत्यादिना । यद् इदं क्षेत्रक्षेत्रज्ञयोः विवेकविषयं तयोर् मदात्मकत्वविषयं च ज्ञानम् उक्तम्, तद् एवोपादेयं ज्ञानम् इति मम मतम् । केचिद् आहुः "क्षेत्रज्ञं चापि मां विद्धि" इति सामानाधिकरण्येनैकत्वम् अवगम्यते । ततश् चेश्वरस्यैव सतो ऽज्ञानात् क्षेत्रज्ञत्वम् इव भवतीत्य् अभ्युपगन्तव्यम् । तन्निवृत्त्यर्थश् चायम् एकत्वोपदेशः । अनेन च आप्ततमभगवदुपदेशेन, "रज्जुर् एषा न सर्पः" इत्य् आप्तोपदेशेन सर्पत्वभ्रमनिवृत्तिवत् क्षेत्रज्ञत्वभ्रमो निवर्तते इति । ते प्रष्टव्याः अयम् उपदेष्टा भगवान् वासुदेवः परमेश्वरः किम् आत्मयाथात्म्यसाक्षात्कारेण निवृत्ताज्ञानः उत नेति । निवृत्ताज्ञानश् चेत्, निर्विशेषचिन्मात्रैकस्वरूपे आत्मनि अन्यतद्रूपाध्यासासंभावनया कौन्तेयादिभेददर्शनं, तान् प्रत्य् उपदेशादिव्यापाराश् च न संभवन्ति । अथात्मसाक्षात्काराभावाद् अनिवृत्ताज्ञानः, न तर्ह्य् अज्ञत्वाद् एवात्मज्ञानोपदेशसंभवः; "उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्वदर्शिनः" इति ह्य् उक्तम् । अत एवम् आदिवादा अनाकलितश्रुतिस्मृतीतिहासपुराणन्यायस्ववाग्विरोधैर् अज्ञानिभिर् जगन्मोहनाय प्रवर्तिता इत्य् अनादरणीयाः । अत्रेदं तत्त्वम् अचिद्वस्तुनश् चिद्वस्तुनः परस्य च ब्रह्मणो भोग्यत्वेन भोक्तृत्वेन चेशितृत्वेन च स्वरूपविवेकम् आहुः काश्चन श्रुतयः, "अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् चान्यो मायया सन्निरुद्धः", "मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरं", "क्षरं प्रधानम् अमृताक्षरं हरः क्षरात्मानाव् ईशते देव एकः" अमृताक्षरं हरः इति भोक्ता निर्दिश्यते; प्रधानम् आत्मनो भोग्यत्वेन हरतीति हरः "स कारणं करणाधिपाधिपो न चास्य कश्चिञ् जनिता न चाधिपः", "प्रधानक्षेत्रज्ञपतिर् गुणेशः", "पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवम् अच्युतम्", "ज्ञाज्ञौ द्वाव् अजाव् ईशनीशौ", "नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान्", "भोक्ता भोग्यं प्रेरितारं च मत्वा", "पृथगात्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेनामृतत्वम् एति", "तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो ऽभिचाकशीति", "अजाम् एकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम् । अजो ह्य् एको जुषमाणो ऽनुशेते जहात्य् एनां भुक्तभोगाम् अजो ऽन्यः" इत्याद्याः । अत्रापि, "अहङ्कार इतीयं मे भिन्ना प्रकृतिर् अष्टधा । अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां", "सर्वभूतानि कौन्त्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम् ॥ प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः । भूतग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् ॥ ॥॥। मयाध्यक्षेण प्रकृतिस् सूयते सचराचरम् । हेतुनानेन कौन्तेय जगद् धि परिवर्तते ॥ भ्ग्र् १३।", "प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि", "मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् । संभवस् सर्वभूतानां ततो भवति भारत" इति । जगद्योनिभूतं महद् ब्रह्म मदीयं प्रकृत्याख्यं भूतसूक्ष्मम् अचिद्वस्तु यत्, तस्मिन् चेतनाख्यं गर्भं संयोजयामि; ततो मत्सङ्कल्पकृताच् चिदचित्संसर्गाद् एव देवादिस्थावरान्तानाम् अचिन्मिश्राणां सर्वभूतानां संभवो भवतीत्यर्थः । एवं भोक्तृभोग्यरूपेणावस्थितयोः सर्वावस्थावस्थितयोश् चिदचितोः परमपुरुषशरीरतया तन्नियाम्यत्वेन तदपृथक्स्थितिं परमपुरुषस्य चात्मत्वम् आहुः काश्चन श्रुतयः, "यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति" इत्य् आरभ्य, "य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्यमृताः" इति; तथा, "यः पृथिवीम् अन्तरे सञ्चरन् यस्य पृथिवी शरीरं यं पृथिवी न वेद" इत्य् आरभ्य, यो ऽक्षरम् अन्तरे सञ्चरन् यस्याक्षरं शरीरं यम् अक्षरं न वेद", "यो मृत्युम् अन्तरे सञ्चरन् यस्य मृत्युश् शरीरं यं मृत्युर् न वेद एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायण", अत्र मृत्युशब्देन तमश्शब्दवाच्यं सूक्ष्मावस्थम् अचिद्वस्त्व् अभिधीयते, अस्याम् एवोपनिषदि, "अव्यक्तम् अक्षरे लीयते अक्षरं तमसि लीयते" इति वचनात् "अन्तःप्रविष्टश् शास्ता जनानां सर्वात्मा" इति च । एवं सर्वावस्थावस्थितचिदचिद्वस्तुशरीरतया तत्प्रकारः परमपुरुष एव कार्यावस्थकारणावस्थजगद्रूपेणावस्थित इतीमम् अर्थं ज्ञापयितुं काश्चन श्रुतयः कार्यावथं कारणावथं च जगत् स एवेत्य् आहुः, "सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम्", "तद् ऐक्षत बहु स्यां प्रजायेयेति । तत् तेजो ऽसृजत" इत्य् आरभ्य, "सन्मूलास् सोम्येमास् सर्वाः प्रजास् सदायतनास् सत्प्रतिष्ठा", "ऐतदात्म्यम् इदं सर्वं तत् सत्यं स आत्मा तत् त्वम् असि श्वेतकेतो" इति । तथा, "सो ऽकामयत, बहु स्यां प्रजायेयेति । स तपो ऽतप्यत, स तपस् तप्त्वा, इदं सर्वम् असृजत" इत्य् आरभ्य, "सत्यं चामृतं च सत्यम् अभवत्" इति । अत्रापि श्रुत्यन्तरसिद्धिश् चिदचितोः परमपुरुषस्य च स्वरूपविवेकः स्मारितः, "हन्ताहम् इमास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि", "तत् सृष्ट्वा, तद् एवानुप्रविशत्, तदनुप्रविश्य, सच् च त्यच् चाभवत् ॥॥। विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यम् अभवत्" इति च । एवंभूतम् एव नामरूपव्याकरणम्, "तद् धेदं तर्ह्य् अव्याकृतम् आसीत्, तन्नामरूपाभ्यां व्याक्रियत" इत्य् अत्राप्य् उक्तम् । अतः कार्यावस्थः कारणावस्थश् च स्थूलसूक्ष्मचिदचिद्वस्तुशरीरः परमपुरुष एवेति, कारणात् कार्यस्यानन्यत्वेन कारणविज्ञानेन कार्यस्य ज्ञाततयैकविज्ञानेन सर्वविज्ञानं च समीहितम् उपपन्नतरम् । "हन्ताहम् इमास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि" इति, "तिस्रो देवताः" इति सर्वम् अचिद्वस्तु निर्दिश्य तत्र स्वात्मकजीवानुप्रवेशेन नामरूपव्याकरणवचनात् सर्वे वाचकाः शब्दाः अचिज्जीवविशिष्टपरमात्मन एव वाचका इति कारणावस्थपरमात्मवाचिना शब्देन कार्यवाचिनः शब्दस्य सामानाधिकरण्यं मुख्यवृत्तम् । अतः स्थूलसूक्ष्मचिदचित्प्रकारं ब्रह्मैव कार्यं कारणं चेति ब्रह्मोपादानं जगत् । सूक्ष्मचिदचिद्वस्तुशरीरं ब्रह्मैव कारणम् इति जगतो ब्रह्मोपादानत्वे ऽपि संघातस्योपादानत्वेन चिदचितोर् ब्रह्मणश् च स्वभावासङ्करो ऽप्य् उपपन्नतरः । यथा शुक्लकृष्णरक्ततन्तुसंघातोपादानत्वे ऽपि चित्रपटस्य तत्तत्तन्तुप्रदेश एव शौक्ल्यादिसंबन्ध इति कार्यावस्थायाम् अपि न सर्वत्र वर्णसङ्करः तथा चिदचिदीश्वरसंघातोपादानत्वे ऽपि जगतः कार्यावस्थायाम् अपि भोक्तृत्वभोग्यत्वनियन्तृत्वाद्यसङ्करः । तन्तूनां पृथक्स्थितियोग्यानाम् एव पुरुषेच्छया कदाचित् संहतानां कारणत्वं कार्यत्वं च; इह तु चिदचितोस् सर्वावस्थयोः परमपुरुषशरीरत्वेन तत्प्रकारतयैव पदार्थत्वात् तत्प्रकारः परमपुरुष एव कराण कार्यं च; स एव सर्वदा सर्वशब्दवाच्य इति विशेषः । स्वभावभेदस् तदसङ्करश् च तत्र चात्र च तुल्यः । एवं च सति परस्य ब्रह्मणः कार्यानुप्रवेशे ऽपि स्वरूपान्यथाभावाभावाद् अविकृतत्वम् उपपन्नतरम् । स्थूलावस्थस्य नामरूपविभागविभक्तस्य चिदचिद्वस्तुनः आत्मतयावस्थानात् कार्यत्वम् अप्य् उपपन्नम् । अवस्थान्तरापत्तिर् एव हि कार्यता । निर्गुणवादाश् च परस्य ब्रह्मणो हेयगुणसंबन्धाभावाद् उपपद्यन्ते । "अपहतपाप्मा विजरो विमृत्युर् विशोको विजिघत्सो ऽपिपासः" इति हेयगुणान् प्रतिषिध्य, "सत्यकामस् सत्यसङ्कल्पः" इति कल्याणगुणगणान् विदधतीयं श्रुतिर् एव अन्यत्र सामान्येनावगतं गुणनिषेधं हेयगुणविषयं व्यवस्थापयति । ज्ञानस्वरूप ब्रह्म इति वादश् च सर्वज्ञस्य सर्वशक्तेर् निखिलहेयप्रत्यनीककय्लाणगुणाकरस्य ब्रह्मणः स्वरूपं ज्ञानैकनिरूपणीयं स्वप्रकाशतया ज्ञानस्वरूपं चेत्य् अभ्युपगमाद् उपपन्नतरः । "यस् सर्वज्ञः सर्ववित्", "परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च, "विज्ञातारम् अरे केन विजानीयात्" इत्यादिकाः ज्ञातृत्वम् आवेदयन्ति । "सत्यं ज्ञानम्" इत्यादिकाश् च ज्ञानैकनिरूपणीयतया स्वप्रकाशतया च ज्ञानस्वरूपताम् । "सो ऽकामयत बहु स्याम्", "तद् ऐक्षत बहु स्याम्", "तन् नामरूपाभ्याम् एव व्याक्रियत" इति ब्रह्मैव स्वसङ्कल्पाद् विचित्रस्थिरत्रसरूपतया नानाप्रकारम् अवस्थितम् इति तत्प्रत्यनीकाब्रह्मात्मकवस्तुनानात्वम् अतत्त्वम् इति प्रतिषिध्यते, "मृत्युः स मृत्युम् आप्नोति य इह नानेव पश्यति ॥॥। नेह नानास्ति किञ्चन", "यत्र हि द्वैतम् इव भवति तद् इतर इतरं पश्यति । यत्र त्व् अस्य सर्वम् आत्मैवाभूत् तत् केन कं पश्येत्" इत्यादिना । न पुनः, "बहु स्यां प्रजायेय" इत्यादिश्रुतिसिद्धं स्वसङ्कल्पकृतं ब्रह्मणो नानानामरूपभाक्त्वेन नानाप्रकारत्वम् अपि निषिध्यते । "यत्र त्व् अस्य सर्वम् आत्मैवाभूत्" इति निषेधवाक्यारम्भे च तत् स्थापितम्, "सर्वं तं परादाद् यो ऽन्यतरात्मनस् सर्वं वेद", "तस्य एतस्य महतो भूतस्य निश्श्वसितम् एतद् यद् ऋग्वेदः" इत्यादिना । एवं चिदचिदीश्वराणां स्वरूपभेदं स्वभावभेदं च वदन्तीनां कार्यकारणभावं कार्यकारणयोर् अनन्यत्वं वदन्तीनां च सर्वासां श्रुतीनाम् अविरोधः, चिदचितोः परमात्मनश् च सर्वदा शरीरात्मभावं शरीरभूतयोः कारणदशायां नामरूपविभागानर्हसूक्ष्मदशापत्तिं कार्यदशायां च तदर्हस्थूलदशापत्तिं वदन्तीभिः श्रुतिभिर् एव ज्ञायत इति ब्रह्माज्ञानवादस्याउपाधिकब्रह्मभेदवादस्य अन्यस्यापि अपन्यायमूलस्य सकलश्रुतिविरुद्धस्य न कथंचिद् अप्य् अवकाशो दृश्यत इत्य् अलम् अतिविस्तरेण

devamanuṣyādisarvakṣetreṣu veditṛtvākāraṃ kṣetrajñaṃ ca māṃ viddhi madātmakaṃ viddhi; kṣetrajñaṃ cāpīti apiśabdāt kṣetram api māṃ viddhīty uktam iti gamyate / yathā kṣetraṃ kṣetrajñaviśeṣaṇataikasvabhāvatayā tadapṛthaksiddheḥ tatsāmānādhikaraṇyenaiva nirdeśyam, tathā kṣetraṃ kṣetrajñaṃ ca madviśeṣaṇataikasvabhāvatayā madapṛthaksiddheḥ matsāmānādhikaraṇyenaiva nirdeśyau viddhi / pṛthivyādisaṃghātarūpasya kṣetrasya kṣetrajñasya ca bhagavaccharīrataikasvarūpatayā bhagavadātmakatvaṃ śrutayo vadanti, "yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayati sa ta ātmāntaryāmy amṛtaḥ" ity ārabhya, "ya ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati sa ta ātmāntaryāmy amṛtaḥ" ity ādyāḥ / idam evāntaryāmitayā sarvakṣetrajñānām ātmatvenāvasthānaṃ bhagavataḥ tatsāmānādhikaraṇyena vyapadeśahetuḥ / "aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ", "na tad asti vinā yat syān mayā bhūtaṃ carācaram" ,"viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat" iti purastād upariṣṭāc cābhidhāya, madhye sāmānādhikaraṇyena vyapadiśati, "ādityānām ahaṃ viṣṇuḥ" ityādinā / yad idaṃ kṣetrakṣetrajñayoḥ vivekaviṣayaṃ tayor madātmakatvaviṣayaṃ ca jñānam uktam, tad evopādeyaṃ jñānam iti mama matam / kecid āhuḥ "kṣetrajñaṃ cāpi māṃ viddhi" iti sāmānādhikaraṇyenaikatvam avagamyate / tataś ceśvarasyaiva sato 'jñānāt kṣetrajñatvam iva bhavatīty abhyupagantavyam / tannivṛttyarthaś cāyam ekatvopadeśaḥ / anena ca āptatamabhagavadupadeśena, "rajjur eṣā na sarpaḥ" ity āptopadeśena sarpatvabhramanivṛttivat kṣetrajñatvabhramo nivartate iti / te praṣṭavyāḥ ayam upadeṣṭā bhagavān vāsudevaḥ parameśvaraḥ kim ātmayāthātmyasākṣātkāreṇa nivṛttājñānaḥ uta neti / nivṛttājñānaś cet, nirviśeṣacinmātraikasvarūpe ātmani anyatadrūpādhyāsāsaṃbhāvanayā kaunteyādibhedadarśanaṃ, tān praty upadeśādivyāpārāś ca na saṃbhavanti / athātmasākṣātkārābhāvād anivṛttājñānaḥ, na tarhy ajñatvād evātmajñānopadeśasaṃbhavaḥ; "upadekṣyanti te jñānaṃ jñāninas tattvadarśinaḥ" iti hy uktam / ata evam ādivādā anākalitaśrutismṛtītihāsapurāṇanyāyasvavāgvirodhair ajñānibhir jaganmohanāya pravartitā ity anādaraṇīyāḥ / atredaṃ tattvam acidvastunaś cidvastunaḥ parasya ca brahmaṇo bhogyatvena bhoktṛtvena ceśitṛtvena ca svarūpavivekam āhuḥ kāścana śrutayaḥ, "asmān māyī sṛjate viśvam etat tasmiṃś cānyo māyayā sanniruddhaḥ", "māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaraṃ", "kṣaraṃ pradhānam amṛtākṣaraṃ haraḥ kṣarātmānāv īśate deva ekaḥ" amṛtākṣaraṃ haraḥ iti bhoktā nirdiśyate; pradhānam ātmano bhogyatvena haratīti haraḥ "sa kāraṇaṃ karaṇādhipādhipo na cāsya kaściñ janitā na cādhipaḥ", "pradhānakṣetrajñapatir guṇeśaḥ", "patiṃ viśvasyātmeśvaraṃ śāśvataṃ śivam acyutam", "jñājñau dvāv ajāv īśanīśau", "nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān", "bhoktā bhogyaṃ preritāraṃ ca matvā", "pṛthagātmānaṃ preritāraṃ ca matvā juṣṭas tatas tenāmṛtatvam eti", "tayor anyaḥ pippalaṃ svādv atty anaśnann anyo 'bhicākaśīti", "ajām ekāṃ lohitaśuklakṛṣṇāṃ bahvīṃ prajāṃ janayantīṃ sarūpām / ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhuktabhogām ajo 'nyaḥ" ityādyāḥ / atrāpi, "ahaṅkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā / apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām / jīvabhūtāṃ", "sarvabhūtāni kauntteya prakṛtiṃ yānti māmikām / kalpakṣaye punas tāni kalpādau visṛjāmy aham // prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ / bhūtagrāmam imaṃ kṛtsnam avaśaṃ prakṛter vaśāt // ..... mayādhyakṣeṇa prakṛtis sūyate sacarācaram / hetunānena kaunteya jagad dhi parivartate // BhGR 13.", "prakṛtiṃ puruṣaṃ caiva viddhy anādī ubhāv api", "mama yonir mahad brahma tasmin garbhaṃ dadhāmy aham / saṃbhavas sarvabhūtānāṃ tato bhavati bhārata" iti / jagadyonibhūtaṃ mahad brahma madīyaṃ prakṛtyākhyaṃ bhūtasūkṣmam acidvastu yat, tasmin cetanākhyaṃ garbhaṃ saṃyojayāmi; tato matsaṅkalpakṛtāc cidacitsaṃsargād eva devādisthāvarāntānām acinmiśrāṇāṃ sarvabhūtānāṃ saṃbhavo bhavatītyarthaḥ / evaṃ bhoktṛbhogyarūpeṇāvasthitayoḥ sarvāvasthāvasthitayoś cidacitoḥ paramapuruṣaśarīratayā tanniyāmyatvena tadapṛthaksthitiṃ paramapuruṣasya cātmatvam āhuḥ kāścana śrutayaḥ, "yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayati" ity ārabhya, "ya ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati sa ta ātmāntaryāmyamṛtāḥ" iti; tathā, "yaḥ pṛthivīm antare sañcaran yasya pṛthivī śarīraṃ yaṃ pṛthivī na veda" ity ārabhya, yo 'kṣaram antare sañcaran yasyākṣaraṃ śarīraṃ yam akṣaraṃ na veda", "yo mṛtyum antare sañcaran yasya mṛtyuś śarīraṃ yaṃ mṛtyur na veda eṣa sarvabhūtāntarātmāpahatapāpmā divyo deva eko nārāyaṇa", atra mṛtyuśabdena tamaśśabdavācyaṃ sūkṣmāvastham acidvastv abhidhīyate, asyām evopaniṣadi, "avyaktam akṣare līyate akṣaraṃ tamasi līyate" iti vacanāt "antaḥpraviṣṭaś śāstā janānāṃ sarvātmā" iti ca / evaṃ sarvāvasthāvasthitacidacidvastuśarīratayā tatprakāraḥ paramapuruṣa eva kāryāvasthakāraṇāvasthajagadrūpeṇāvasthita itīmam arthaṃ jñāpayituṃ kāścana śrutayaḥ kāryāvathaṃ kāraṇāvathaṃ ca jagat sa evety āhuḥ, "sad eva somyedam agra āsīd ekam evādvitīyam", "tad aikṣata bahu syāṃ prajāyeyeti / tat tejo 'sṛjata" ity ārabhya, "sanmūlās somyemās sarvāḥ prajās sadāyatanās satpratiṣṭhā", "aitadātmyam idaṃ sarvaṃ tat satyaṃ sa ātmā tat tvam asi śvetaketo" iti / tathā, "so 'kāmayata, bahu syāṃ prajāyeyeti / sa tapo 'tapyata, sa tapas taptvā, idaṃ sarvam asṛjata" ity ārabhya, "satyaṃ cāmṛtaṃ ca satyam abhavat" iti / atrāpi śrutyantarasiddhiś cidacitoḥ paramapuruṣasya ca svarūpavivekaḥ smāritaḥ, "hantāham imās tisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi", "tat sṛṣṭvā, tad evānupraviśat, tadanupraviśya, sac ca tyac cābhavat ..... vijñānaṃ cāvijñānaṃ ca satyaṃ cānṛtaṃ ca satyam abhavat" iti ca / evaṃbhūtam eva nāmarūpavyākaraṇam, "tad dhedaṃ tarhy avyākṛtam āsīt, tannāmarūpābhyāṃ vyākriyata" ity atrāpy uktam / ataḥ kāryāvasthaḥ kāraṇāvasthaś ca sthūlasūkṣmacidacidvastuśarīraḥ paramapuruṣa eveti, kāraṇāt kāryasyānanyatvena kāraṇavijñānena kāryasya jñātatayaikavijñānena sarvavijñānaṃ ca samīhitam upapannataram / "hantāham imās tisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi" iti, "tisro devatāḥ" iti sarvam acidvastu nirdiśya tatra svātmakajīvānupraveśena nāmarūpavyākaraṇavacanāt sarve vācakāḥ śabdāḥ acijjīvaviśiṣṭaparamātmana eva vācakā iti kāraṇāvasthaparamātmavācinā śabdena kāryavācinaḥ śabdasya sāmānādhikaraṇyaṃ mukhyavṛttam / ataḥ sthūlasūkṣmacidacitprakāraṃ brahmaiva kāryaṃ kāraṇaṃ ceti brahmopādānaṃ jagat / sūkṣmacidacidvastuśarīraṃ brahmaiva kāraṇam iti jagato brahmopādānatve 'pi saṃghātasyopādānatvena cidacitor brahmaṇaś ca svabhāvāsaṅkaro 'py upapannataraḥ / yathā śuklakṛṣṇaraktatantusaṃghātopādānatve 'pi citrapaṭasya tattattantupradeśa eva śauklyādisaṃbandha iti kāryāvasthāyām api na sarvatra varṇasaṅkaraḥ tathā cidacidīśvarasaṃghātopādānatve 'pi jagataḥ kāryāvasthāyām api bhoktṛtvabhogyatvaniyantṛtvādyasaṅkaraḥ / tantūnāṃ pṛthaksthitiyogyānām eva puruṣecchayā kadācit saṃhatānāṃ kāraṇatvaṃ kāryatvaṃ ca; iha tu cidacitos sarvāvasthayoḥ paramapuruṣaśarīratvena tatprakāratayaiva padārthatvāt tatprakāraḥ paramapuruṣa eva karāṇa kāryaṃ ca; sa eva sarvadā sarvaśabdavācya iti viśeṣaḥ / svabhāvabhedas tadasaṅkaraś ca tatra cātra ca tulyaḥ / evaṃ ca sati parasya brahmaṇaḥ kāryānupraveśe 'pi svarūpānyathābhāvābhāvād avikṛtatvam upapannataram / sthūlāvasthasya nāmarūpavibhāgavibhaktasya cidacidvastunaḥ ātmatayāvasthānāt kāryatvam apy upapannam / avasthāntarāpattir eva hi kāryatā / nirguṇavādāś ca parasya brahmaṇo heyaguṇasaṃbandhābhāvād upapadyante / "apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ" iti heyaguṇān pratiṣidhya, "satyakāmas satyasaṅkalpaḥ" iti kalyāṇaguṇagaṇān vidadhatīyaṃ śrutir eva anyatra sāmānyenāvagataṃ guṇaniṣedhaṃ heyaguṇaviṣayaṃ vyavasthāpayati / jñānasvarūpa brahma iti vādaś ca sarvajñasya sarvaśakter nikhilaheyapratyanīkakaylāṇaguṇākarasya brahmaṇaḥ svarūpaṃ jñānaikanirūpaṇīyaṃ svaprakāśatayā jñānasvarūpaṃ cety abhyupagamād upapannataraḥ / "yas sarvajñaḥ sarvavit", "parāsya śaktir vividhaiva śrūyate svābhāvikī jñānabalakriyā ca, "vijñātāram are kena vijānīyāt" ityādikāḥ jñātṛtvam āvedayanti / "satyaṃ jñānam" ityādikāś ca jñānaikanirūpaṇīyatayā svaprakāśatayā ca jñānasvarūpatām / "so 'kāmayata bahu syām", "tad aikṣata bahu syām", "tan nāmarūpābhyām eva vyākriyata" iti brahmaiva svasaṅkalpād vicitrasthiratrasarūpatayā nānāprakāram avasthitam iti tatpratyanīkābrahmātmakavastunānātvam atattvam iti pratiṣidhyate, "mṛtyuḥ sa mṛtyum āpnoti ya iha nāneva paśyati ..... neha nānāsti kiñcana", "yatra hi dvaitam iva bhavati tad itara itaraṃ paśyati / yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet" ityādinā / na punaḥ, "bahu syāṃ prajāyeya" ityādiśrutisiddhaṃ svasaṅkalpakṛtaṃ brahmaṇo nānānāmarūpabhāktvena nānāprakāratvam api niṣidhyate / "yatra tv asya sarvam ātmaivābhūt" iti niṣedhavākyārambhe ca tat sthāpitam, "sarvaṃ taṃ parādād yo 'nyatarātmanas sarvaṃ veda", "tasya etasya mahato bhūtasya niśśvasitam etad yad ṛgvedaḥ" ityādinā / evaṃ cidacidīśvarāṇāṃ svarūpabhedaṃ svabhāvabhedaṃ ca vadantīnāṃ kāryakāraṇabhāvaṃ kāryakāraṇayor ananyatvaṃ vadantīnāṃ ca sarvāsāṃ śrutīnām avirodhaḥ, cidacitoḥ paramātmanaś ca sarvadā śarīrātmabhāvaṃ śarīrabhūtayoḥ kāraṇadaśāyāṃ nāmarūpavibhāgānarhasūkṣmadaśāpattiṃ kāryadaśāyāṃ ca tadarhasthūladaśāpattiṃ vadantībhiḥ śrutibhir eva jñāyata iti brahmājñānavādasyāupādhikabrahmabhedavādasya anyasyāpi apanyāyamūlasya sakalaśrutiviruddhasya na kathaṃcid apy avakāśo dṛśyata ity alam ativistareṇa

Sanskrit only: no published translation is held for this verse.

तत् क्षेत्रं यच् च यद् द्रव्यम्, यादृक् च येषाम् आश्रयभूतम्, यद्विकारि ये चास्य विकाराः, यतश् च यतो हेतोर् इदम् उत्पन्नम्; यस्मै प्रयोजनायोत्पन्नम् इत्यर्थः, यत् यत्स्वरूपं चेदम्, स च यः स च क्षेत्रज्ञो यः यत्स्वरूपः, यत्प्रभावश् च ये चास्य प्रभावाः, तत् सर्वम्, समासेन संक्षेपेण मत्तः शृणु

tat kṣetraṃ yac ca yad dravyam, yādṛk ca yeṣām āśrayabhūtam, yadvikāri ye cāsya vikārāḥ, yataś ca yato hetor idam utpannam; yasmai prayojanāyotpannam ityarthaḥ, yat yatsvarūpaṃ cedam, sa ca yaḥ sa ca kṣetrajño yaḥ yatsvarūpaḥ, yatprabhāvaś ca ye cāsya prabhāvāḥ, tat sarvam, samāsena saṃkṣepeṇa mattaḥ śṛṇu

Sanskrit only: no published translation is held for this verse.

तद् इदं क्षेत्रक्षेत्रज्ञयाथात्म्यम् ऋषिभिः पराशरादिभिः बहुधा बहुप्रकारं गीतम् "अहं त्वम् च तथान्ये च भूतैर् उह्याम पार्थिव । गुणप्रवाहपतितो भूतवर्गो ऽपि यात्ययम् ॥ कर्मवश्या गुणा ह्य् एते सत्त्वाद्याः पृथिवीपते । अविद्यासञ्चितं कर्म तच् चाशेषेषु जन्तुषु ॥ आत्मा शुद्धो ऽक्षरश् शान्तो निर्गुणः प्रकृतेः परः ॥ भ्ग्र् १३।"; तथा, "पिण्डः पृथक् यतः पुंसः शिरःपाण्यादिलक्षणः । ततो ऽहम् इति कुत्रैतां संज्ञां राजन् करोम्य् अहम्"; तथा च, "किं त्वम् एतच्छिरः किं नु उरस्तव तथोदरम् । किम् उ पादादिकं त्वं वै तवैतत् किं महीपते ॥ समस्तावयवेभ्यस् त्वं पृथक् भूय व्यवस्थितः । को ऽहम् इत्य् एव निपुणो भूत्वा चिन्तय पार्थिव ॥ भ्ग्र् १३।" इति । एवं विविक्तयोर् द्वयोः वासुदेवात्मकत्वं चाहुः, "इन्द्रियाणि मनो बुद्धिस् सत्त्वं तेजो बलं धृतिः । वासुदेवात्मकान्य् आहुः क्षेत्रं क्षेत्रज्ञम् एव च ॥ भ्ग्र् १३।" इति । छन्दोभिर् विविधैः पृथक् पृथग्विधैश् छन्दोभिश् च ऋग्यजुस्सामाथर्वभिः देहात्मनोः स्वरूपं पृथग् गीतम् "तस्माद् वा एतस्माद् आत्मन आकाशस् संभूतः । आकाशाद् वायुः । वायोर् अग्निः । अग्नेर् आपः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्यो ऽन्नम् । अन्नात् पुरुषः । स वा एष पुरुषो ऽन्नरसमयः" इति शरीरस्वरूपम् अभिधाय तस्माद् अन्तरं प्राणमयं तस्माच् चान्तरं मनोमयम् अभिधाय, "तस्माद् वा एतस्माद् मनोमयाद् अन्यो ऽन्तर आत्मा विज्ञानमयः" इति क्षेत्रज्ञस्वरूपम् अभिधाय, "तस्माद् वा एतस्माद् विज्ञानमयाद् अन्यो ऽन्तर आत्मानन्दमयः" इति क्षेत्रज्ञस्याप्य् अन्तरात्मतया आनन्न्दमयः परमात्माभिहितः । एवम् ऋक्सामाथर्वसु च तत्र तत्र क्षेत्रक्षेत्रज्ञयोः पृथग्भावस् तयोर् ब्रह्मात्मकत्वं च सुस्पष्टं गीतम् । ब्रह्मसूत्रपदैश् चैव ब्रह्मप्रतिपादनसूत्राख्यैः पदैः शारीरकसूत्रैः, हेतुमद्भिः हेययुक्तैः, विनिश्चितैः निर्णयान्तैः; "न वियद् अश्रुतेः" इत्यारभ्य क्षेत्रप्रकारनिर्णय उक्तः । "नात्मा श्रुतेर् नित्यत्वाच् च ताभ्यः" इत्यारभ्य क्षेत्रज्ञयाथात्म्यनिर्णय उक्तः । "परात् तु तच्छ्रुतेः" इति भगवत्प्रवर्त्यत्वेन भगवदात्मकत्वम् उक्तम् । एवं बहुधा गीतं क्षेत्रक्षेत्रज्ञयाथात्म्यं मया संक्षेपेण सुस्पष्टम् उच्यमानं शृण्व् इत्यर्थः

tad idaṃ kṣetrakṣetrajñayāthātmyam ṛṣibhiḥ parāśarādibhiḥ bahudhā bahuprakāraṃ gītam "ahaṃ tvam ca tathānye ca bhūtair uhyāma pārthiva / guṇapravāhapatito bhūtavargo 'pi yātyayam // karmavaśyā guṇā hy ete sattvādyāḥ pṛthivīpate / avidyāsañcitaṃ karma tac cāśeṣeṣu jantuṣu // ātmā śuddho 'kṣaraś śānto nirguṇaḥ prakṛteḥ paraḥ // BhGR 13."; tathā, "piṇḍaḥ pṛthak yataḥ puṃsaḥ śiraḥpāṇyādilakṣaṇaḥ / tato 'ham iti kutraitāṃ saṃjñāṃ rājan karomy aham"; tathā ca, "kiṃ tvam etacchiraḥ kiṃ nu urastava tathodaram / kim u pādādikaṃ tvaṃ vai tavaitat kiṃ mahīpate // samastāvayavebhyas tvaṃ pṛthak bhūya vyavasthitaḥ / ko 'ham ity eva nipuṇo bhūtvā cintaya pārthiva // BhGR 13." iti / evaṃ viviktayor dvayoḥ vāsudevātmakatvaṃ cāhuḥ, "indriyāṇi mano buddhis sattvaṃ tejo balaṃ dhṛtiḥ / vāsudevātmakāny āhuḥ kṣetraṃ kṣetrajñam eva ca // BhGR 13." iti / chandobhir vividhaiḥ pṛthak pṛthagvidhaiś chandobhiś ca ṛgyajussāmātharvabhiḥ dehātmanoḥ svarūpaṃ pṛthag gītam "tasmād vā etasmād ātmana ākāśas saṃbhūtaḥ / ākāśād vāyuḥ / vāyor agniḥ / agner āpaḥ / adbhyaḥ pṛthivī / pṛthivyā oṣadhayaḥ / oṣadhībhyo 'nnam / annāt puruṣaḥ / sa vā eṣa puruṣo 'nnarasamayaḥ" iti śarīrasvarūpam abhidhāya tasmād antaraṃ prāṇamayaṃ tasmāc cāntaraṃ manomayam abhidhāya, "tasmād vā etasmād manomayād anyo 'ntara ātmā vijñānamayaḥ" iti kṣetrajñasvarūpam abhidhāya, "tasmād vā etasmād vijñānamayād anyo 'ntara ātmānandamayaḥ" iti kṣetrajñasyāpy antarātmatayā ānanndamayaḥ paramātmābhihitaḥ / evam ṛksāmātharvasu ca tatra tatra kṣetrakṣetrajñayoḥ pṛthagbhāvas tayor brahmātmakatvaṃ ca suspaṣṭaṃ gītam / brahmasūtrapadaiś caiva brahmapratipādanasūtrākhyaiḥ padaiḥ śārīrakasūtraiḥ, hetumadbhiḥ heyayuktaiḥ, viniścitaiḥ nirṇayāntaiḥ; "na viyad aśruteḥ" ityārabhya kṣetraprakāranirṇaya uktaḥ / "nātmā śruter nityatvāc ca tābhyaḥ" ityārabhya kṣetrajñayāthātmyanirṇaya uktaḥ / "parāt tu tacchruteḥ" iti bhagavatpravartyatvena bhagavadātmakatvam uktam / evaṃ bahudhā gītaṃ kṣetrakṣetrajñayāthātmyaṃ mayā saṃkṣepeṇa suspaṣṭam ucyamānaṃ śṛṇv ityarthaḥ

Sanskrit only: no published translation is held for this verse.

महाभूतान्य् अहंकारो बुद्धिर् अव्यक्तम् एव चेति क्षेत्रारम्भकद्रव्याणि; पृथिव्यप्तेजोवाय्वाकाशाः महाभूतानि, अहंकारो भूतादिः, बुद्धिः महान्, अव्यक्तं प्रकृतिः; इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचरा इति क्षेत्राश्रितानि तत्त्वानि; श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च ज्ञानेन्द्रियाणि, वाक्पाणिपादपायूपस्थानि पञ्च कर्मेन्द्रियाणीति तानि दश, एकम् इति मनः; इन्द्रियगोचराश् च पञ्च शब्दस्पर्शरूपरसगन्धाः; इच्छा द्वेषस् सुखं दुःखम् इति क्षेत्रकार्याणि क्षेत्रविकारा उच्यन्ते; यद्य् अपीच्छाद्वेषसुखदुःखान्य् आत्मधर्मभूतानि, तथाप्य् आत्मनः क्षेत्रसंबन्धप्रयुक्तानीति क्षेत्रकार्यतया क्षेत्रविकारा उच्यन्ते । तेषां पुरुषधर्मत्वम्, "पुरुषस् सुखदुःखानां भोक्तृत्वे हेतुर् उच्यते" इति वक्ष्यते; संघातश् चेतनाधृतिः । आधृतिः आधारः सुखदुःखे भुञ्जानस्य भोगापवर्गौ साधयतश् च चेतनस्याधारतयोत्पन्नो भूतसंघातः । प्रकृत्यादिपृथिव्यन्तद्रव्यारब्धम् इन्द्रियाश्रयभूतम् इच्छाद्वेषसुखदुःखविकारि भूतसंघातरूपं चेतनसुखदुःखोपभोगाधारत्वप्रयोजनं क्षेत्रम् इत्य् उक्तं भवति; एतत् क्षेत्रं समासेन संक्षेपेण सकिवारं सकार्यम् उदाहृतम्

mahābhūtāny ahaṃkāro buddhir avyaktam eva ceti kṣetrārambhakadravyāṇi; pṛthivyaptejovāyvākāśāḥ mahābhūtāni, ahaṃkāro bhūtādiḥ, buddhiḥ mahān, avyaktaṃ prakṛtiḥ; indriyāṇi daśaikaṃ ca pañca cendriyagocarā iti kṣetrāśritāni tattvāni; śrotratvakcakṣurjihvāghrāṇāni pañca jñānendriyāṇi, vākpāṇipādapāyūpasthāni pañca karmendriyāṇīti tāni daśa, ekam iti manaḥ; indriyagocarāś ca pañca śabdasparśarūparasagandhāḥ; icchā dveṣas sukhaṃ duḥkham iti kṣetrakāryāṇi kṣetravikārā ucyante; yady apīcchādveṣasukhaduḥkhāny ātmadharmabhūtāni, tathāpy ātmanaḥ kṣetrasaṃbandhaprayuktānīti kṣetrakāryatayā kṣetravikārā ucyante / teṣāṃ puruṣadharmatvam, "puruṣas sukhaduḥkhānāṃ bhoktṛtve hetur ucyate" iti vakṣyate; saṃghātaś cetanādhṛtiḥ / ādhṛtiḥ ādhāraḥ sukhaduḥkhe bhuñjānasya bhogāpavargau sādhayataś ca cetanasyādhāratayotpanno bhūtasaṃghātaḥ / prakṛtyādipṛthivyantadravyārabdham indriyāśrayabhūtam icchādveṣasukhaduḥkhavikāri bhūtasaṃghātarūpaṃ cetanasukhaduḥkhopabhogādhāratvaprayojanaṃ kṣetram ity uktaṃ bhavati; etat kṣetraṃ samāsena saṃkṣepeṇa sakivāraṃ sakāryam udāhṛtam

Sanskrit only: no published translation is held for this verse.

अमानित्वम् उत्कृष्टजनेष्व् अवधीरणारहितत्वम्; अदम्भित्वम् धार्मिकत्वयशःप्रयोजनतया धर्मानुष्ठानं दम्भः, तद्रहितत्वम्; अहिंसा वाङ्मनःकायैः परपीडारहितत्वम्; क्षान्तिः परैः पीड्यमानस्यापि तान् प्रति अविकृतचित्तत्वम् । आर्जवम् परान् प्रति वाङ्मनःकायप्रभृतीनाम् एकरूपता; आचार्योपासनम् आत्मज्ञानप्रदायिनि आचार्ये प्रणिपातपरिप्रश्नसेवादिनिरतत्वम्; शौचं आत्मज्ञानतत्साधनयोग्यता मनोवाक्कायगता शास्त्रसिद्धा; स्तैर्यम् अध्यात्मशास्त्रोदिते ऽर्थे निश्चलत्वम्; आत्मविनिग्रहः आत्मस्वरूपव्यतिरिक्तविषयेभ्यो मनसो निवर्तनम्

amānitvam utkṛṣṭajaneṣv avadhīraṇārahitatvam; adambhitvam dhārmikatvayaśaḥprayojanatayā dharmānuṣṭhānaṃ dambhaḥ, tadrahitatvam; ahiṃsā vāṅmanaḥkāyaiḥ parapīḍārahitatvam; kṣāntiḥ paraiḥ pīḍyamānasyāpi tān prati avikṛtacittatvam / ārjavam parān prati vāṅmanaḥkāyaprabhṛtīnām ekarūpatā; ācāryopāsanam ātmajñānapradāyini ācārye praṇipātaparipraśnasevādiniratatvam; śaucaṃ ātmajñānatatsādhanayogyatā manovākkāyagatā śāstrasiddhā; stairyam adhyātmaśāstrodite 'rthe niścalatvam; ātmavinigrahaḥ ātmasvarūpavyatiriktaviṣayebhyo manaso nivartanam

Sanskrit only: no published translation is held for this verse.

इन्द्रियार्थेषु वैराग्यम् आत्मव्यतिरिक्तेषु विषयेषु सदोषतानुसंधानेनोद्वेजनम्; अनहंकारः अनात्मनि देहे आत्माभिमानरहितत्वम्; प्रदर्शनार्थम् इदम्; अनात्मीयेष्व् आत्मीयाभिमानरहितत्वं च विवक्षितम् । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् सशरीरत्वे जन्ममृत्युजराव्याधिदुःखरूपस्य दोषस्यावर्जनीयत्वानुसंधानम्

indriyārtheṣu vairāgyam ātmavyatirikteṣu viṣayeṣu sadoṣatānusaṃdhānenodvejanam; anahaṃkāraḥ anātmani dehe ātmābhimānarahitatvam; pradarśanārtham idam; anātmīyeṣv ātmīyābhimānarahitatvaṃ ca vivakṣitam / janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam saśarīratve janmamṛtyujarāvyādhiduḥkharūpasya doṣasyāvarjanīyatvānusaṃdhānam

Sanskrit only: no published translation is held for this verse.

असक्तिः आत्मव्यतिरिक्तपरिग्रहेषु सङ्गरहितत्वम्; अनभिष्वङ्गः पुत्रदारगृहादिषु तेषु शास्त्रीयकर्मोपकरणत्वातिरेकेण श्लेषरहितत्वम्; संकल्पप्रभवेष्व् इष्टानिष्टोपनिपातेषु हर्षोद्वेगरहितत्वम्

asaktiḥ ātmavyatiriktaparigraheṣu saṅgarahitatvam; anabhiṣvaṅgaḥ putradāragṛhādiṣu teṣu śāstrīyakarmopakaraṇatvātirekeṇa śleṣarahitatvam; saṃkalpaprabhaveṣv iṣṭāniṣṭopanipāteṣu harṣodvegarahitatvam

Sanskrit only: no published translation is held for this verse.

मयि सर्वेश्वरे च ऐकान्त्ययोगेन स्थिरा भक्तिः, जनवर्जितदेशवासित्वम्, जनसंसदि चाप्रीतिः

mayi sarveśvare ca aikāntyayogena sthirā bhaktiḥ, janavarjitadeśavāsitvam, janasaṃsadi cāprītiḥ

Sanskrit only: no published translation is held for this verse.

आत्मनि ज्ञानम् अध्यात्मज्ञानम् तन्निष्ठत्वम्, तत्त्वज्ञानार्थचिन्तनम् तत्त्वज्ञानप्रयोजनं यच् चिन्तनं तन् निरतत्वम् इत्यर्थः । ज्ञायते ऽनेनात्मेति ज्ञानम्, आत्मज्ञानसाधनम् इत्यर्थः; क्षेत्रसंबन्धिनः पुरुषस्यामानित्वादिकम् उक्तं गुणबृन्हम् एवात्मज्ञानोपयोगि, एतद्व्यतिरिक्तं सर्वं क्षेत्रकार्यम् आत्मज्ञानविरोधीति अज्ञानम्

ātmani jñānam adhyātmajñānam tanniṣṭhatvam, tattvajñānārthacintanam tattvajñānaprayojanaṃ yac cintanaṃ tan niratatvam ityarthaḥ / jñāyate 'nenātmeti jñānam, ātmajñānasādhanam ityarthaḥ; kṣetrasaṃbandhinaḥ puruṣasyāmānitvādikam uktaṃ guṇabṛnham evātmajñānopayogi, etadvyatiriktaṃ sarvaṃ kṣetrakāryam ātmajñānavirodhīti ajñānam

Sanskrit only: no published translation is held for this verse.

अमानित्वादिभिः साधनैः ज्ञेयं प्राप्यं यत् प्रत्यगात्मस्वरूपं तत् प्रवक्ष्यामि, यज् ज्ञात्वा जन्मजरामरणादिप्राकृतधर्मरहितम् अमृतम् आत्मानं प्राप्नोति; आदिर् यस्य न विद्यते, तद् अनादि; अस्य हि प्रत्यगात्मन उत्पत्तिर् न विद्यते; तत एवान्तो न विद्यते । श्रुतिश् च, "न जायते म्रियते वा विपश्चित्" इति, मत्परम् अहं परो यस्य तन् मत्परम् । "इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम्, जीवभूताम्" इति ह्य् उक्तम् । भगवच्छरीरतया भगवच्छेषतैकरसं ह्य् आत्मस्वरूपम्; तथा च श्रुतिः, "य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् अत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति" इति, तथा, "स कारणं करणाधिपाधिपो न चास्य कश्चिञ् जनिता न चाधिपः", "प्रधानक्षेत्रज्ञपतिर् गुणेशः" इत्यादिका । ब्रह्म बृहत्त्वगुणयोगि, शरीरादेर् अर्थान्तरभूतम्, स्वतः शरीरादिभिः परिच्छेदरहितं क्षेत्रज्ञतत्त्वम् इत्यर्थः; "स चानन्त्याय कल्पते" इति हि श्रूयते; शरीरपरिच्छिन्नत्वम् अणुत्वं चास्य कर्मकृतम् । कर्मबन्धान् मुक्तस्यानन्त्यम् । आत्मन्य् अपि ब्रह्मशब्दः प्रयुज्यते, "स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते । ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च", "ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ भ्ग्र् १३।" इति । न सत् तन् नासद् उच्यते कार्यकारणरूपावस्थाद्वयरहिततया सदसच्छब्दाभ्याम् आत्मसवरूपं नोच्यते । कार्यावस्थायां हि देवादिनामरूपभाक्त्वेन सद् इत्य् उच्यते, तदनर्हता कारणावस्थायाम् असद् इत्य् उच्यते । तथा च श्रुतिः, "असद् वा इदम् अग्र आसीत् । ततो वै सद् अजायत","तद् धेदं तर्ह्य् अव्याकृतम् आसीत् तन्नामरूपाभ्यां व्याक्रियत" इत्यादिका । कार्यकारणावस्थाद्वयान्वयस् त्व् आत्मनः कर्मरूपाविद्यावेष्टनकृतः, न स्वरूपकृत इति सदसच्छब्दाभ्याम् आत्मस्वरूपं नोच्यते । यद्य् अपि "असद् वा इदम् अग्र आसीत्" इति कारणावस्थं परं ब्रह्मोच्यते, तथापि नामरूपविभागानर्हसूक्ष्मचिदचिद्वस्तुशरीरं परं ब्रह्म कारणावस्थम् इति कारणावस्थायां क्षेत्रक्षेत्रज्ञस्वरूपम् अपि असच्छब्दवाच्यम्, क्षेत्रज्ञस्य सावस्था कर्मकृतेति परिशुद्धस्वरूपं न सदसच्छब्दनिर्देश्यम्

amānitvādibhiḥ sādhanaiḥ jñeyaṃ prāpyaṃ yat pratyagātmasvarūpaṃ tat pravakṣyāmi, yaj jñātvā janmajarāmaraṇādiprākṛtadharmarahitam amṛtam ātmānaṃ prāpnoti; ādir yasya na vidyate, tad anādi; asya hi pratyagātmana utpattir na vidyate; tata evānto na vidyate / śrutiś ca, "na jāyate mriyate vā vipaścit" iti, matparam ahaṃ paro yasya tan matparam / "itas tv anyāṃ prakṛtiṃ viddhi me parām, jīvabhūtām" iti hy uktam / bhagavaccharīratayā bhagavaccheṣataikarasaṃ hy ātmasvarūpam; tathā ca śrutiḥ, "ya ātmani tiṣṭhan ātmano 'ntaro yam atmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati" iti, tathā, "sa kāraṇaṃ karaṇādhipādhipo na cāsya kaściñ janitā na cādhipaḥ", "pradhānakṣetrajñapatir guṇeśaḥ" ityādikā / brahma bṛhattvaguṇayogi, śarīrāder arthāntarabhūtam, svataḥ śarīrādibhiḥ paricchedarahitaṃ kṣetrajñatattvam ityarthaḥ; "sa cānantyāya kalpate" iti hi śrūyate; śarīraparicchinnatvam aṇutvaṃ cāsya karmakṛtam / karmabandhān muktasyānantyam / ātmany api brahmaśabdaḥ prayujyate, "sa guṇān samatītyaitān brahmabhūyāya kalpate / brahmaṇo hi pratiṣṭhāham amṛtasyāvyayasya ca", "brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati / samaḥ sarveṣu bhūteṣu madbhaktiṃ labhate parām // BhGR 13." iti / na sat tan nāsad ucyate kāryakāraṇarūpāvasthādvayarahitatayā sadasacchabdābhyām ātmasavarūpaṃ nocyate / kāryāvasthāyāṃ hi devādināmarūpabhāktvena sad ity ucyate, tadanarhatā kāraṇāvasthāyām asad ity ucyate / tathā ca śrutiḥ, "asad vā idam agra āsīt / tato vai sad ajāyata","tad dhedaṃ tarhy avyākṛtam āsīt tannāmarūpābhyāṃ vyākriyata" ityādikā / kāryakāraṇāvasthādvayānvayas tv ātmanaḥ karmarūpāvidyāveṣṭanakṛtaḥ, na svarūpakṛta iti sadasacchabdābhyām ātmasvarūpaṃ nocyate / yady api "asad vā idam agra āsīt" iti kāraṇāvasthaṃ paraṃ brahmocyate, tathāpi nāmarūpavibhāgānarhasūkṣmacidacidvastuśarīraṃ paraṃ brahma kāraṇāvastham iti kāraṇāvasthāyāṃ kṣetrakṣetrajñasvarūpam api asacchabdavācyam, kṣetrajñasya sāvasthā karmakṛteti pariśuddhasvarūpaṃ na sadasacchabdanirdeśyam

Sanskrit only: no published translation is held for this verse.

सर्वतः पाणिपादं तत् परिशुद्धात्मस्वरूपं सर्वतः पाणिपादकार्यशक्तम्, तथा सर्वतो ऽक्षिशिरोमुखं सर्वतश् श्रुतिमत् सर्वतश् चक्षुरादिकार्यकृत्, "अपाणिपादो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः" इति परस्य ब्रह्मणो ऽपाणिपादस्यापि सर्वतः पाणिपादादिकार्यकृत्त्वं श्रूयते । प्रत्यगात्मनो ऽपि परिशुद्धस्य तत्साम्यापत्त्या सर्वतः पाणिपादादिकार्यकृत्त्वं श्रुतिसिद्धम् एव । "तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यम् उपैति" इति हि श्रूयते । "इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः" इति च वक्ष्यते । लोके सर्वम् आवृत्य तिष्ठति लोके यद् वस्तुजातं तत् सर्वं व्याप्य तिष्ठति, परिशुद्धस्वरूपं देशादिपरिच्छेदरहिततया सर्वगतम् इत्यर्थः

sarvataḥ pāṇipādaṃ tat pariśuddhātmasvarūpaṃ sarvataḥ pāṇipādakāryaśaktam, tathā sarvato 'kṣiśiromukhaṃ sarvataś śrutimat sarvataś cakṣurādikāryakṛt, "apāṇipādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ" iti parasya brahmaṇo 'pāṇipādasyāpi sarvataḥ pāṇipādādikāryakṛttvaṃ śrūyate / pratyagātmano 'pi pariśuddhasya tatsāmyāpattyā sarvataḥ pāṇipādādikāryakṛttvaṃ śrutisiddham eva / "tadā vidvān puṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyam upaiti" iti hi śrūyate / "idaṃ jñānam upāśritya mama sādharmyam āgatāḥ" iti ca vakṣyate / loke sarvam āvṛtya tiṣṭhati loke yad vastujātaṃ tat sarvaṃ vyāpya tiṣṭhati, pariśuddhasvarūpaṃ deśādiparicchedarahitatayā sarvagatam ityarthaḥ

Sanskrit only: no published translation is held for this verse.

सर्वेन्द्रियगुणाभासम् सर्वेन्द्रियगुणैर् आभासो यस्य तत् सर्वेन्द्रियाभासम् । इन्द्रियगुणा इन्द्रियवृत्तयः । इन्द्रियवृत्तिभिर् अपि विषयान् ज्ञतुं समर्थम् इत्यर्थः । स्वभावतस् सर्वेन्द्रियविवर्जितम् विनैवेन्द्रियवृत्तिभिः स्वत एव सर्वं जानातीत्यर्थः । असक्तम् स्वभावतो देवादिदेहसङ्गरहितम्, सर्वभृच् चैव देवादिसर्वदेहभरणसमर्थं च; "स एकधा भवति त्रिधा भवति" इत्यादिश्रुतेः । निर्गुणम् तथा स्वभावतस् सत्त्वादिगुणरहितम् । गुणभोक्तृ च सत्त्वादीनां गुणानां भोगसमर्थं च

sarvendriyaguṇābhāsam sarvendriyaguṇair ābhāso yasya tat sarvendriyābhāsam / indriyaguṇā indriyavṛttayaḥ / indriyavṛttibhir api viṣayān jñatuṃ samartham ityarthaḥ / svabhāvatas sarvendriyavivarjitam vinaivendriyavṛttibhiḥ svata eva sarvaṃ jānātītyarthaḥ / asaktam svabhāvato devādidehasaṅgarahitam, sarvabhṛc caiva devādisarvadehabharaṇasamarthaṃ ca; "sa ekadhā bhavati tridhā bhavati" ityādiśruteḥ / nirguṇam tathā svabhāvatas sattvādiguṇarahitam / guṇabhoktṛ ca sattvādīnāṃ guṇānāṃ bhogasamarthaṃ ca

Sanskrit only: no published translation is held for this verse.

पृथिव्यादीनि भूतानि परित्यज्याशरीरो बहिर् वर्तते; तेषाम् अन्तश् च वर्तते, "जक्षत् क्रीडन् रममाणः स्त्रीभिर् वा यानैर् वा" इत्यादिश्रुतिसिद्धस्वच्छन्दवृत्तिषु । अचरं चरम् एव च स्वभावतो ऽचरम्; चरम् च देहित्वे । सूक्ष्मत्वात् तदविज्ञेयम् एवं सर्वशक्तियुक्तं सर्वज्ञां तद् अत्मतत्त्वम् अस्मिन् क्षेत्रे वर्तमानम् अप्य् अतिसूक्ष्मत्वाद् देहात् पृथक्त्वेन संसारिभिर् अविज्ञेयम्, दूरस्थं चान्तिके च तद् अमानित्वाद्युक्तगुणरहितानां विपरीतगुणाणां पुंसां स्वदेहे वर्तमानम् अप्य् अतिदूरस्थम्, तथा अमानित्वादिगुणोपेतानां तद् एवान्तिके वर्तते

pṛthivyādīni bhūtāni parityajyāśarīro bahir vartate; teṣām antaś ca vartate, "jakṣat krīḍan ramamāṇaḥ strībhir vā yānair vā" ityādiśrutisiddhasvacchandavṛttiṣu / acaraṃ caram eva ca svabhāvato 'caram; caram ca dehitve / sūkṣmatvāt tadavijñeyam evaṃ sarvaśaktiyuktaṃ sarvajñāṃ tad atmatattvam asmin kṣetre vartamānam apy atisūkṣmatvād dehāt pṛthaktvena saṃsāribhir avijñeyam, dūrasthaṃ cāntike ca tad amānitvādyuktaguṇarahitānāṃ viparītaguṇāṇāṃ puṃsāṃ svadehe vartamānam apy atidūrastham, tathā amānitvādiguṇopetānāṃ tad evāntike vartate

Sanskrit only: no published translation is held for this verse.

देवमनुष्यादिभूतेषु सर्वत्र स्थितम् आत्मवस्तु वेदितृत्वैकाकारतया अविभक्तम् । अविदुषां देवाद्याकारेण "अयं देवो मनुष्यः" इति विभक्तम् इव च स्थितम् । देवो ऽहम्, मनुष्यो ऽहम् इति देहसामानाधिकरण्येनानुसन्धीयमानम् अपि वेदितृत्वेन देहाद् अर्थान्तरभूतं ज्ञातुं शक्यम् इति आदाव् उक्तम् एव, "एतद् यो वेत्ति" इति, इदानीं प्रकारान्तरैश् च ज्ञातुं शक्यम् इत्य् आज भूतभर्तृ चेति । भूतानां पृथिव्यादीनां देहरूपेण संहतानां यद् भर्तृ, तद् भर्तव्येभ्यो भूतेभ्यो ऽर्थान्तरं ज्ञेयम्; अर्थान्तरम् इति ज्ञातुं शक्यम् इत्यर्थः । तथा ग्रसिष्णु अन्नादीनां भौतिकानां ग्रसिष्णु, ग्रस्यमानेभ्यो भूतेभ्यो ग्रसितृत्वेनार्थान्त्रभूतम् इति ज्ञातुं शक्यम् । प्रभविष्णु च प्रभवहेतुश् च, ग्रस्तानाम् अन्नादीनाम् आकारान्तरेण परिणतानां प्रभहेतुः, तेभ्यो ऽर्थान्तरम् इति ज्ञातुं शक्यम् इत्यर्थः; मृतशरीरे ग्रसनप्रभवादीनाम् अदर्शनान् न भूतसंघातरूपं क्षेत्रं ग्रसनप्रभवभरणहेतुर् इति निश्चीयते

devamanuṣyādibhūteṣu sarvatra sthitam ātmavastu veditṛtvaikākāratayā avibhaktam / aviduṣāṃ devādyākāreṇa "ayaṃ devo manuṣyaḥ" iti vibhaktam iva ca sthitam / devo 'ham, manuṣyo 'ham iti dehasāmānādhikaraṇyenānusandhīyamānam api veditṛtvena dehād arthāntarabhūtaṃ jñātuṃ śakyam iti ādāv uktam eva, "etad yo vetti" iti, idānīṃ prakārāntaraiś ca jñātuṃ śakyam ity āja bhūtabhartṛ ceti / bhūtānāṃ pṛthivyādīnāṃ deharūpeṇa saṃhatānāṃ yad bhartṛ, tad bhartavyebhyo bhūtebhyo 'rthāntaraṃ jñeyam; arthāntaram iti jñātuṃ śakyam ityarthaḥ / tathā grasiṣṇu annādīnāṃ bhautikānāṃ grasiṣṇu, grasyamānebhyo bhūtebhyo grasitṛtvenārthāntrabhūtam iti jñātuṃ śakyam / prabhaviṣṇu ca prabhavahetuś ca, grastānām annādīnām ākārāntareṇa pariṇatānāṃ prabhahetuḥ, tebhyo 'rthāntaram iti jñātuṃ śakyam ityarthaḥ; mṛtaśarīre grasanaprabhavādīnām adarśanān na bhūtasaṃghātarūpaṃ kṣetraṃ grasanaprabhavabharaṇahetur iti niścīyate

Sanskrit only: no published translation is held for this verse.

ज्योतिशाम् दीपादित्यमणिप्रभृतीनाम् अपि तद् एव ज्योतिः प्रकाशकम्, दीपादित्यादीनाम् अप्य् आत्मप्रभारूपं । ज्ञानम् एव प्रकाशकम् । दीपादयस् तु विषयेन्द्रियसन्निकर्षविरोधिसंतमसनिरसनमात्रं कुर्वते । तावन् मात्रेण तेषां प्रकाशकत्वम् । तमसः परम् उच्यते । तमश्शब्दः सूक्ष्मावस्थप्रकृतिवचनः । प्रकृतेः परम् उच्यत इत्यर्थः । अतो ज्ञानं ज्ञेयं ज्ञानैकाकारम् इति ज्ञेयम् । तच् च ज्ञानगम्यम् अमानित्वादिभिर् ज्ञानसाधनैर् उक्तैः प्राप्यम् इत्यर्थः । हृदि सर्वस्य विष्ठितम् सर्वस्य मनुष्यादेः हृदि विशेषणावस्थितम् सन्निहितम्

jyotiśām dīpādityamaṇiprabhṛtīnām api tad eva jyotiḥ prakāśakam, dīpādityādīnām apy ātmaprabhārūpaṃ / jñānam eva prakāśakam / dīpādayas tu viṣayendriyasannikarṣavirodhisaṃtamasanirasanamātraṃ kurvate / tāvan mātreṇa teṣāṃ prakāśakatvam / tamasaḥ param ucyate / tamaśśabdaḥ sūkṣmāvasthaprakṛtivacanaḥ / prakṛteḥ param ucyata ityarthaḥ / ato jñānaṃ jñeyaṃ jñānaikākāram iti jñeyam / tac ca jñānagamyam amānitvādibhir jñānasādhanair uktaiḥ prāpyam ityarthaḥ / hṛdi sarvasya viṣṭhitam sarvasya manuṣyādeḥ hṛdi viśeṣaṇāvasthitam sannihitam

Sanskrit only: no published translation is held for this verse.

एवं "महाभूतान्य् अहङ्कारः" इत्यादिना "संघातश् चेतनाधृतिर्" इत्यन्तेन क्षेत्रतत्त्वं समासेनोक्तम् । "अमानित्वम्" इत्यादिना "तत्त्वज्ञानार्थचिन्तनम्" इत्यन्तेन ज्ञातव्यस्यात्मतत्त्वस्य ज्ञानसाधनम् उक्तम् । "अनादि मत्परम्" इत्यादिना "हृदि सर्वस्य विष्ठितम्" इत्यन्तेन ज्ञेयस्य क्षेत्रज्ञस्य याथात्म्यं च संक्षेपेणोक्तम् । मद्भक्तः एतत् क्षेत्रयाथात्म्यं, क्षेत्राद् विविक्तात्मस्वरूपप्राप्त्युपाययाथात्म्यं क्षेत्रज्ञयाथात्म्यं च विज्ञाय, मद्भावायोपपद्यते । मम यो भावः स्वभावः, असंसारित्वम् असंसारित्वप्राप्तये उपपन्नो भवतीत्यर्थः

evaṃ "mahābhūtāny ahaṅkāraḥ" ityādinā "saṃghātaś cetanādhṛtir" ityantena kṣetratattvaṃ samāsenoktam / "amānitvam" ityādinā "tattvajñānārthacintanam" ityantena jñātavyasyātmatattvasya jñānasādhanam uktam / "anādi matparam" ityādinā "hṛdi sarvasya viṣṭhitam" ityantena jñeyasya kṣetrajñasya yāthātmyaṃ ca saṃkṣepeṇoktam / madbhaktaḥ etat kṣetrayāthātmyaṃ, kṣetrād viviktātmasvarūpaprāptyupāyayāthātmyaṃ kṣetrajñayāthātmyaṃ ca vijñāya, madbhāvāyopapadyate / mama yo bhāvaḥ svabhāvaḥ, asaṃsāritvam asaṃsāritvaprāptaye upapanno bhavatītyarthaḥ

Sanskrit only: no published translation is held for this verse.

प्रकृतिपुरुषौ उभौ अन्योन्यसंसृष्टौ अनादी इति विद्धि; बन्धहेतुभूतान् विकारान् इच्छाद्वेषादीन्, अमानित्वादिकांश् च गुणाम् मोक्षहेतुभूतान् प्रकृतिसंभवान् विद्धि । पुरुषेण संसृष्टेयम् अनादिकालप्रवृत्ता क्षेत्राकारपरिणाता प्रकृतिः स्वविकारैर् इच्छाद्वेषादिभिः पुरुषस्य बन्धुहेतुर् भवति; सैवामानित्वादिभिः स्वविकारैः पुरुषस्यापवर्गहेतुर् भवतीत्यर्थः

prakṛtipuruṣau ubhau anyonyasaṃsṛṣṭau anādī iti viddhi; bandhahetubhūtān vikārān icchādveṣādīn, amānitvādikāṃś ca guṇām mokṣahetubhūtān prakṛtisaṃbhavān viddhi / puruṣeṇa saṃsṛṣṭeyam anādikālapravṛttā kṣetrākārapariṇātā prakṛtiḥ svavikārair icchādveṣādibhiḥ puruṣasya bandhuhetur bhavati; saivāmānitvādibhiḥ svavikāraiḥ puruṣasyāpavargahetur bhavatītyarthaḥ

Sanskrit only: no published translation is held for this verse.

कार्यं शरीरम्; कारणानि ज्ञानकर्मात्मकानि समनस्कानीन्द्रियाणि । तेषां क्रियाकारित्वे पुरुषाधिष्ठिता प्रकृतिर् एव हेतुः; पुरुषाधिष्ठितक्षेत्राकारपरिणतप्रकृत्याश्रयाः भोगसाधनभूताः क्रिया इत्यर्थः । पुरुषस्याधिष्ठातृत्वम् एव; तदपेक्षया, "कर्ता शास्त्रार्थवत्त्वात्" इत्यादिकम् उक्तम्; शरीराधिष्ठानप्रयत्नहेतुत्वम् एव हि पुरुषस्य कर्तृत्वम् । प्रकृतिसंसृष्टः पुरुषः सुखदुःखानां भोक्तृत्वे हेतुः, सुखदुःखानुभवाश्रय इत्यर्थः

kāryaṃ śarīram; kāraṇāni jñānakarmātmakāni samanaskānīndriyāṇi / teṣāṃ kriyākāritve puruṣādhiṣṭhitā prakṛtir eva hetuḥ; puruṣādhiṣṭhitakṣetrākārapariṇataprakṛtyāśrayāḥ bhogasādhanabhūtāḥ kriyā ityarthaḥ / puruṣasyādhiṣṭhātṛtvam eva; tadapekṣayā, "kartā śāstrārthavattvāt" ityādikam uktam; śarīrādhiṣṭhānaprayatnahetutvam eva hi puruṣasya kartṛtvam / prakṛtisaṃsṛṣṭaḥ puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve hetuḥ, sukhaduḥkhānubhavāśraya ityarthaḥ

Sanskrit only: no published translation is held for this verse.

पूर्वपूर्वप्रकृतिपरिणामरूपदेवमनुष्यादियोनिविशेषेषु स्थितो ऽयं पुरुषस् तत्तद्योनिप्रयुक्तसत्त्वादिगुणमयेषु सुखदुःखादिषु सक्तः तत्साधनभूतेषु पुण्यपापकर्मसु प्रवर्तते; ततस् तत्पुण्यपापफलानुभवाय सदसद्योनिषु साध्वसाधुषु योनिषु जायते; ततश् च कर्मारभते; ततो जायते; यावद् अमानित्वादिकान् आत्मप्राप्तिसाधनभूतान् गुणान् सेवते, तावद् एव संसरति । तद् इदम् उक्तं कारणं गुणसङ्गो ऽस्य सदसद्योनिजन्मसु इति

pūrvapūrvaprakṛtipariṇāmarūpadevamanuṣyādiyoniviśeṣeṣu sthito 'yaṃ puruṣas tattadyoniprayuktasattvādiguṇamayeṣu sukhaduḥkhādiṣu saktaḥ tatsādhanabhūteṣu puṇyapāpakarmasu pravartate; tatas tatpuṇyapāpaphalānubhavāya sadasadyoniṣu sādhvasādhuṣu yoniṣu jāyate; tataś ca karmārabhate; tato jāyate; yāvad amānitvādikān ātmaprāptisādhanabhūtān guṇān sevate, tāvad eva saṃsarati / tad idam uktaṃ kāraṇaṃ guṇasaṅgo 'sya sadasadyonijanmasu iti

Sanskrit only: no published translation is held for this verse.

अस्मिन् देहे ऽवस्थितो ऽयं पुरुषो देहप्रवृत्त्यनुगुणसङ्कल्पादिरूपेण देहस्योपद्रष्टा अनुमन्ता च भवति । तथा देहस्य भर्ता च भवति; तथा देहप्रवृत्तिजनितसुखदुःखयोर् भोक्ता च भवति । एवं देहनियमनेन, देहभरणेन, देहशेषित्वेन च देहेन्द्रियमनांसि प्रति महेश्वरो भवति । तथा च वक्ष्यते, "शरीरं यद् अवाप्नोति यच् चाप्य् उत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर् गन्धान् इवाशयात् ॥ भ्ग्र् १३।" इति । अस्मिन् देहे देहेन्द्रियमनांसि प्रति परमात्मेति चाप्य् उक्तः । देहे मनसि च आत्मशब्दो ऽनन्तरम् एव प्रयुज्यते, "ध्यानेनात्मनि पश्यन्ति केचिद् आत्मानम् आत्मना" इति; अपिशब्दान् महेश्वर इत्य् अप्य् उक्त इति गम्यते; पुरुषः परः "अनादि मत्परम्" इत्यादिनोक्तो ऽपरिच्छिन्नज्ञानशक्तिर् अयं पुरुषो ऽनादिप्रकृतिसंबन्धकृतगुणसङ्गाद् एतद् देहमात्रमहेश्वरो देहमात्रपरमात्मा च भवति

asmin dehe 'vasthito 'yaṃ puruṣo dehapravṛttyanuguṇasaṅkalpādirūpeṇa dehasyopadraṣṭā anumantā ca bhavati / tathā dehasya bhartā ca bhavati; tathā dehapravṛttijanitasukhaduḥkhayor bhoktā ca bhavati / evaṃ dehaniyamanena, dehabharaṇena, dehaśeṣitvena ca dehendriyamanāṃsi prati maheśvaro bhavati / tathā ca vakṣyate, "śarīraṃ yad avāpnoti yac cāpy utkrāmatīśvaraḥ / gṛhītvaitāni saṃyāti vāyur gandhān ivāśayāt // BhGR 13." iti / asmin dehe dehendriyamanāṃsi prati paramātmeti cāpy uktaḥ / dehe manasi ca ātmaśabdo 'nantaram eva prayujyate, "dhyānenātmani paśyanti kecid ātmānam ātmanā" iti; apiśabdān maheśvara ity apy ukta iti gamyate; puruṣaḥ paraḥ "anādi matparam" ityādinokto 'paricchinnajñānaśaktir ayaṃ puruṣo 'nādiprakṛtisaṃbandhakṛtaguṇasaṅgād etad dehamātramaheśvaro dehamātraparamātmā ca bhavati

Sanskrit only: no published translation is held for this verse.

एनम् उक्तस्वभावं पुरुषम्, उक्तस्वभावां च प्रकृतिं वक्ष्यमाणस्वभावयुक्तैः सत्त्वादिभिर् गुणैः सह, यो वेत्ति यथावद् विवेकेन जानाति, स सर्वथा देवमनुष्यादिदेहेष्व् अतिमात्रक्लिष्टप्रकारेण वर्तमानो ऽपि, न भूयो ऽभिजायते न भूयः प्रकृत्या संसर्गम् अर्हति, अपरिच्छिन्नज्ञानलकषणम् अपहतपाप्मानम् आत्मानं तद्देहावसानसमये प्राप्नोतीत्यर्थः

enam uktasvabhāvaṃ puruṣam, uktasvabhāvāṃ ca prakṛtiṃ vakṣyamāṇasvabhāvayuktaiḥ sattvādibhir guṇaiḥ saha, yo vetti yathāvad vivekena jānāti, sa sarvathā devamanuṣyādideheṣv atimātrakliṣṭaprakāreṇa vartamāno 'pi, na bhūyo 'bhijāyate na bhūyaḥ prakṛtyā saṃsargam arhati, aparicchinnajñānalakaṣaṇam apahatapāpmānam ātmānaṃ taddehāvasānasamaye prāpnotītyarthaḥ

Sanskrit only: no published translation is held for this verse.

केचिन् निष्पन्नयोगाः आत्मनि शरीरे ऽवस्थितम् आत्मानम् आत्मना मनसा ध्यानेन योगेन पश्यन्ति । अन्ये च अनिष्पन्नयोगाः, सांख्येन योगेन ज्ञानयोगेन योगयोग्यं मनः कृत्वा आत्मानं पश्यन्ति । अपरे ज्ञानयोगानधिकारिणः, तदधिकारिणश् च सुकरोपायसक्ताः, व्यपदेश्याश् च कर्मयोगेनान्तर्गतज्ञानेन मनसो योगयोग्यताम् आपाद्य आत्मानं पश्यन्ति

kecin niṣpannayogāḥ ātmani śarīre 'vasthitam ātmānam ātmanā manasā dhyānena yogena paśyanti / anye ca aniṣpannayogāḥ, sāṃkhyena yogena jñānayogena yogayogyaṃ manaḥ kṛtvā ātmānaṃ paśyanti / apare jñānayogānadhikāriṇaḥ, tadadhikāriṇaś ca sukaropāyasaktāḥ, vyapadeśyāś ca karmayogenāntargatajñānena manaso yogayogyatām āpādya ātmānaṃ paśyanti

Sanskrit only: no published translation is held for this verse.

अन्ये तु कर्मयोगादिषु आत्मावलोकनसाधनेष्व् अनधिकृताः अन्येभ्यः तत्त्वदर्शिभ्यो ज्ञानिभ्यः श्रुत्वा कर्मयोगादिभिर् आत्मानम् उपासते; ते ऽप्य् आत्मदर्शनेन मृत्युम् अतितरन्ति । ये श्रुतिपरायणाः श्रवणमात्रनिष्ठाः, एते च श्रवणनिष्ठाः पूतपापाः क्रमेण कर्मयोगादिकम् आरभ्यातितरन्त्य् एव मृत्युम् । अपिशब्दाच् च पूर्वभेदो ऽवगम्यते

anye tu karmayogādiṣu ātmāvalokanasādhaneṣv anadhikṛtāḥ anyebhyaḥ tattvadarśibhyo jñānibhyaḥ śrutvā karmayogādibhir ātmānam upāsate; te 'py ātmadarśanena mṛtyum atitaranti / ye śrutiparāyaṇāḥ śravaṇamātraniṣṭhāḥ, ete ca śravaṇaniṣṭhāḥ pūtapāpāḥ krameṇa karmayogādikam ārabhyātitaranty eva mṛtyum / apiśabdāc ca pūrvabhedo 'vagamyate

Sanskrit only: no published translation is held for this verse.

यावत् स्थावरजङ्गमात्मना सत्त्वं जायते, तावत् क्षेत्रक्षेत्रज्ञयोर् इतरेतरसंयोगाद् एव जायते संयुक्तम् एव जायते, न त्व् इतरेतरवियुक्तम् इत्यर्थः

yāvat sthāvarajaṅgamātmanā sattvaṃ jāyate, tāvat kṣetrakṣetrajñayor itaretarasaṃyogād eva jāyate saṃyuktam eva jāyate, na tv itaretaraviyuktam ityarthaḥ

Sanskrit only: no published translation is held for this verse.

एवम् इतरेतरयुक्तेषु सर्वेषु भूतेषु देवादिविषमाकाराद् वियुक्तं तत्र तत्र तत्तद्देहेन्द्रियमनांसि प्रति परमेश्वरत्वेन स्थितम् आत्मानं ज्ञातृत्वेन समानाकारं तेषु देहादिषु विनश्यत्सु विनाशानर्हस्वभावेनाविनश्यन्तं यः पश्यति, स पश्यति स आत्मानं यथावद् अवस्थितं पश्यति । यस् तु देवादिविषमाकारेणात्मानम् अपि विषमाकारं जन्मविनाशादियुक्तं च पश्यति, स नित्यम् एव संसरतीत्यभिप्रायः

evam itaretarayukteṣu sarveṣu bhūteṣu devādiviṣamākārād viyuktaṃ tatra tatra tattaddehendriyamanāṃsi prati parameśvaratvena sthitam ātmānaṃ jñātṛtvena samānākāraṃ teṣu dehādiṣu vinaśyatsu vināśānarhasvabhāvenāvinaśyantaṃ yaḥ paśyati, sa paśyati sa ātmānaṃ yathāvad avasthitaṃ paśyati / yas tu devādiviṣamākāreṇātmānam api viṣamākāraṃ janmavināśādiyuktaṃ ca paśyati, sa nityam eva saṃsaratītyabhiprāyaḥ

Sanskrit only: no published translation is held for this verse.

सर्वत्र देवादिशरीरेषु तत्तच्छेषित्वेनाधारतया वियन्तृतया च स्थितम् ईश्वरम् आत्मानं देवादिविषमाकारवियुक्तं ज्ञानैकाकारतया समं पश्यन् आत्मना मनसा, स्वम् आत्मानं न हिनस्ति रक्षति, संसारान् मोचयति । ततः तस्माज् ज्ञातृतया सर्वत्र समानाकारदर्शनात् परां गतिं याति; गम्यत इति गतिः; परं गन्तव्यं यथावद् अवस्थितम् आत्मानं प्राप्नोति; देवाद्याकारयुक्ततया सर्वत्र विषमम् आत्मानं पश्यन् आत्मानं हिनस्ति भवजलधिमध्ये प्रक्षिपति

sarvatra devādiśarīreṣu tattaccheṣitvenādhāratayā viyantṛtayā ca sthitam īśvaram ātmānaṃ devādiviṣamākāraviyuktaṃ jñānaikākāratayā samaṃ paśyan ātmanā manasā, svam ātmānaṃ na hinasti rakṣati, saṃsārān mocayati / tataḥ tasmāj jñātṛtayā sarvatra samānākāradarśanāt parāṃ gatiṃ yāti; gamyata iti gatiḥ; paraṃ gantavyaṃ yathāvad avasthitam ātmānaṃ prāpnoti; devādyākārayuktatayā sarvatra viṣamam ātmānaṃ paśyan ātmānaṃ hinasti bhavajaladhimadhye prakṣipati

Sanskrit only: no published translation is held for this verse.

सर्वाणि कर्माणि, "कार्यकारणकर्तृत्वे हेतुः प्रकृतिर् उच्यते" इति पूर्वोक्तरीत्या प्रकृत्या क्रियमाणानीति यः पश्यति, तथा आत्मानं ज्ञानाकारं अकर्तारं च यः पश्यति, तस्य प्रकृतिसंयोगस् तदधिष्ठानं तज्जन्यसुखदुःखानुभवश् च कर्मरूपाज्ञानकृतानीति च यः पश्यति, स आत्मानं यथावद् अवस्थितं पश्यति

sarvāṇi karmāṇi, "kāryakāraṇakartṛtve hetuḥ prakṛtir ucyate" iti pūrvoktarītyā prakṛtyā kriyamāṇānīti yaḥ paśyati, tathā ātmānaṃ jñānākāraṃ akartāraṃ ca yaḥ paśyati, tasya prakṛtisaṃyogas tadadhiṣṭhānaṃ tajjanyasukhaduḥkhānubhavaś ca karmarūpājñānakṛtānīti ca yaḥ paśyati, sa ātmānaṃ yathāvad avasthitaṃ paśyati

Sanskrit only: no published translation is held for this verse.

प्रकृतिपुरुषतत्त्वद्वयात्मकेषु देवादिषु सर्वेषु भूतेषु सत्सु तेषां देवत्वमनुष्यत्वह्रस्वत्वदीर्घत्वादिपृथग्भावम् एकस्थम् एकतत्त्वस्थम् प्रकृतिस्थं यदा पश्यति, नात्मस्थम्, तत एव प्रकृतित एवोत्तरोत्तरपुत्रपौत्रादिभेदविस्तारं च यदा पश्यति, तदैव ब्रह्मसंपद्यते अनवच्छिन्नं ज्ञानैकाकारम् आत्मानं प्राप्नोतीत्यर्थः

prakṛtipuruṣatattvadvayātmakeṣu devādiṣu sarveṣu bhūteṣu satsu teṣāṃ devatvamanuṣyatvahrasvatvadīrghatvādipṛthagbhāvam ekastham ekatattvastham prakṛtisthaṃ yadā paśyati, nātmastham, tata eva prakṛtita evottarottaraputrapautrādibhedavistāraṃ ca yadā paśyati, tadaiva brahmasaṃpadyate anavacchinnaṃ jñānaikākāram ātmānaṃ prāpnotītyarthaḥ

Sanskrit only: no published translation is held for this verse.

अयं परमात्मा देहान् निष्कृष्य स्वस्वभावेन निरूपितः, शरीरस्थो ऽपि अनादित्वाद् अनारभ्यत्वाद् अव्ययः व्ययरहितः, निर्गुणत्वात् सत्त्वादिगुणरहितत्वान् न करोति, न लिप्यते देहस्वभावैर् न लिप्यते

ayaṃ paramātmā dehān niṣkṛṣya svasvabhāvena nirūpitaḥ, śarīrastho 'pi anāditvād anārabhyatvād avyayaḥ vyayarahitaḥ, nirguṇatvāt sattvādiguṇarahitatvān na karoti, na lipyate dehasvabhāvair na lipyate

Sanskrit only: no published translation is held for this verse.

यथा आकाशं सर्वगतम् अपि सर्वैर् वस्तुभिस् संयुक्तम् अपि सौक्ष्म्यात् सर्ववस्तुस्वभावैर् न लिप्यते, तथा आत्मा अतिसौक्ष्म्यात् सर्वत्र देवमनुष्यादौ देहे ऽवस्थितो ऽपि तत्तद्देहस्वभावैर् न लिप्यते

yathā ākāśaṃ sarvagatam api sarvair vastubhis saṃyuktam api saukṣmyāt sarvavastusvabhāvair na lipyate, tathā ātmā atisaukṣmyāt sarvatra devamanuṣyādau dehe 'vasthito 'pi tattaddehasvabhāvair na lipyate

Sanskrit only: no published translation is held for this verse.

यथैक आदित्यः स्वया प्रभया कृत्स्नम् इमं लोकं प्रकाशयति, तथा क्षेत्रम् अपि क्षेत्री, "ममेदं क्षेत्रम् ईदृशम्" इति कृत्स्नम् बहिरन्तश् चापादतलमस्तकं स्वकीयेन ज्ञानेन प्रकाशयति । अतः प्रकाश्याल् लोकात् प्रकाशकादित्यवद् वेदितृत्वेन वेद्यभूताद् अस्मात् क्षेत्राद् अत्यन्तविलक्षणो ऽयम् उक्तलक्षण आत्मेत्यर्थः

yathaika ādityaḥ svayā prabhayā kṛtsnam imaṃ lokaṃ prakāśayati, tathā kṣetram api kṣetrī, "mamedaṃ kṣetram īdṛśam" iti kṛtsnam bahirantaś cāpādatalamastakaṃ svakīyena jñānena prakāśayati / ataḥ prakāśyāl lokāt prakāśakādityavad veditṛtvena vedyabhūtād asmāt kṣetrād atyantavilakṣaṇo 'yam uktalakṣaṇa ātmetyarthaḥ

Sanskrit only: no published translation is held for this verse.

एवम् उक्तेन प्रकारेण क्षेत्रक्षेत्रज्ञयोर् अन्तरं विशेषं विवेकविषयज्ञानाख्येन चक्षुषा ये विदुः, भूतप्रकृतिमोक्षं च, ते परं यान्ति निर्मुक्तबन्धम् आत्मानं प्राप्नुवन्ति । मोक्ष्यते ऽनेनेति मोक्षः, अमानित्वादिकं मोक्षसाधनम् इत्यर्थः; क्षेत्रक्षेत्रज्ञयोर् विवेकविषयेणोक्तेन ज्ञानेन तयोर् विवेकं विदित्वा भूताकारपरिणतप्रकृतिमोक्षोपायम् अमानित्वादिकं चागम्य य आचरन्ति, ते निर्मुक्तबन्धाः स्वेन रूपेणावस्थितम् अनवच्छिन्नज्ञानलक्षणम् आत्मानं प्राप्नुवन्तीत्यर्थः

evam uktena prakāreṇa kṣetrakṣetrajñayor antaraṃ viśeṣaṃ vivekaviṣayajñānākhyena cakṣuṣā ye viduḥ, bhūtaprakṛtimokṣaṃ ca, te paraṃ yānti nirmuktabandham ātmānaṃ prāpnuvanti / mokṣyate 'neneti mokṣaḥ, amānitvādikaṃ mokṣasādhanam ityarthaḥ; kṣetrakṣetrajñayor vivekaviṣayeṇoktena jñānena tayor vivekaṃ viditvā bhūtākārapariṇataprakṛtimokṣopāyam amānitvādikaṃ cāgamya ya ācaranti, te nirmuktabandhāḥ svena rūpeṇāvasthitam anavacchinnajñānalakṣaṇam ātmānaṃ prāpnuvantītyarthaḥ

Sanskrit only: no published translation is held for this verse.