Library·Ramanuja: Bhagavadgitabhasya·13·13.2

Ramanuja: Bhagavadgitabhasya 13.2

BhGR 13.2

देवमनुष्यादिसर्वक्षेत्रेषु वेदितृत्वाकारं क्षेत्रज्ञं च मां विद्धि मदात्मकं विद्धि; क्षेत्रज्ञं चापीति अपिशब्दात् क्षेत्रम् अपि मां विद्धीत्य् उक्तम् इति गम्यते । यथा क्षेत्रं क्षेत्रज्ञविशेषणतैकस्वभावतया तदपृथक्सिद्धेः तत्सामानाधिकरण्येनैव निर्देश्यम्, तथा क्षेत्रं क्षेत्रज्ञं च मद्विशेषणतैकस्वभावतया मदपृथक्सिद्धेः मत्सामानाधिकरण्येनैव निर्देश्यौ विद्धि । पृथिव्यादिसंघातरूपस्य क्षेत्रस्य क्षेत्रज्ञस्य च भगवच्छरीरतैकस्वरूपतया भगवदात्मकत्वं श्रुतयो वदन्ति, "यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः" इत्य् आरभ्य, "य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्य् अमृतः" इत्य् आद्याः । इदम् एवान्तर्यामितया सर्वक्षेत्रज्ञानाम् आत्मत्वेनावस्थानं भगवतः तत्सामानाधिकरण्येन व्यपदेशहेतुः । "अहम् आत्मा गुडाकेश सर्वभूताशयस्थितः", "न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम्" ,"विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत्" इति पुरस्ताद् उपरिष्टाच् चाभिधाय, मध्ये सामानाधिकरण्येन व्यपदिशति, "आदित्यानाम् अहं विष्णुः" इत्यादिना । यद् इदं क्षेत्रक्षेत्रज्ञयोः विवेकविषयं तयोर् मदात्मकत्वविषयं च ज्ञानम् उक्तम्, तद् एवोपादेयं ज्ञानम् इति मम मतम् । केचिद् आहुः "क्षेत्रज्ञं चापि मां विद्धि" इति सामानाधिकरण्येनैकत्वम् अवगम्यते । ततश् चेश्वरस्यैव सतो ऽज्ञानात् क्षेत्रज्ञत्वम् इव भवतीत्य् अभ्युपगन्तव्यम् । तन्निवृत्त्यर्थश् चायम् एकत्वोपदेशः । अनेन च आप्ततमभगवदुपदेशेन, "रज्जुर् एषा न सर्पः" इत्य् आप्तोपदेशेन सर्पत्वभ्रमनिवृत्तिवत् क्षेत्रज्ञत्वभ्रमो निवर्तते इति । ते प्रष्टव्याः अयम् उपदेष्टा भगवान् वासुदेवः परमेश्वरः किम् आत्मयाथात्म्यसाक्षात्कारेण निवृत्ताज्ञानः उत नेति । निवृत्ताज्ञानश् चेत्, निर्विशेषचिन्मात्रैकस्वरूपे आत्मनि अन्यतद्रूपाध्यासासंभावनया कौन्तेयादिभेददर्शनं, तान् प्रत्य् उपदेशादिव्यापाराश् च न संभवन्ति । अथात्मसाक्षात्काराभावाद् अनिवृत्ताज्ञानः, न तर्ह्य् अज्ञत्वाद् एवात्मज्ञानोपदेशसंभवः; "उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्वदर्शिनः" इति ह्य् उक्तम् । अत एवम् आदिवादा अनाकलितश्रुतिस्मृतीतिहासपुराणन्यायस्ववाग्विरोधैर् अज्ञानिभिर् जगन्मोहनाय प्रवर्तिता इत्य् अनादरणीयाः । अत्रेदं तत्त्वम् अचिद्वस्तुनश् चिद्वस्तुनः परस्य च ब्रह्मणो भोग्यत्वेन भोक्तृत्वेन चेशितृत्वेन च स्वरूपविवेकम् आहुः काश्चन श्रुतयः, "अस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् चान्यो मायया सन्निरुद्धः", "मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरं", "क्षरं प्रधानम् अमृताक्षरं हरः क्षरात्मानाव् ईशते देव एकः" अमृताक्षरं हरः इति भोक्ता निर्दिश्यते; प्रधानम् आत्मनो भोग्यत्वेन हरतीति हरः "स कारणं करणाधिपाधिपो न चास्य कश्चिञ् जनिता न चाधिपः", "प्रधानक्षेत्रज्ञपतिर् गुणेशः", "पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवम् अच्युतम्", "ज्ञाज्ञौ द्वाव् अजाव् ईशनीशौ", "नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान्", "भोक्ता भोग्यं प्रेरितारं च मत्वा", "पृथगात्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेनामृतत्वम् एति", "तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य् अनश्नन्न् अन्यो ऽभिचाकशीति", "अजाम् एकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम् । अजो ह्य् एको जुषमाणो ऽनुशेते जहात्य् एनां भुक्तभोगाम् अजो ऽन्यः" इत्याद्याः । अत्रापि, "अहङ्कार इतीयं मे भिन्ना प्रकृतिर् अष्टधा । अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां", "सर्वभूतानि कौन्त्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम् ॥ प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः । भूतग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् ॥ ॥॥। मयाध्यक्षेण प्रकृतिस् सूयते सचराचरम् । हेतुनानेन कौन्तेय जगद् धि परिवर्तते ॥ भ्ग्र् १३।", "प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि", "मम योनिर् महद् ब्रह्म तस्मिन् गर्भं दधाम्य् अहम् । संभवस् सर्वभूतानां ततो भवति भारत" इति । जगद्योनिभूतं महद् ब्रह्म मदीयं प्रकृत्याख्यं भूतसूक्ष्मम् अचिद्वस्तु यत्, तस्मिन् चेतनाख्यं गर्भं संयोजयामि; ततो मत्सङ्कल्पकृताच् चिदचित्संसर्गाद् एव देवादिस्थावरान्तानाम् अचिन्मिश्राणां सर्वभूतानां संभवो भवतीत्यर्थः । एवं भोक्तृभोग्यरूपेणावस्थितयोः सर्वावस्थावस्थितयोश् चिदचितोः परमपुरुषशरीरतया तन्नियाम्यत्वेन तदपृथक्स्थितिं परमपुरुषस्य चात्मत्वम् आहुः काश्चन श्रुतयः, "यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीम् अन्तरो यमयति" इत्य् आरभ्य, "य आत्मनि तिष्ठन् आत्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्यमृताः" इति; तथा, "यः पृथिवीम् अन्तरे सञ्चरन् यस्य पृथिवी शरीरं यं पृथिवी न वेद" इत्य् आरभ्य, यो ऽक्षरम् अन्तरे सञ्चरन् यस्याक्षरं शरीरं यम् अक्षरं न वेद", "यो मृत्युम् अन्तरे सञ्चरन् यस्य मृत्युश् शरीरं यं मृत्युर् न वेद एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायण", अत्र मृत्युशब्देन तमश्शब्दवाच्यं सूक्ष्मावस्थम् अचिद्वस्त्व् अभिधीयते, अस्याम् एवोपनिषदि, "अव्यक्तम् अक्षरे लीयते अक्षरं तमसि लीयते" इति वचनात् "अन्तःप्रविष्टश् शास्ता जनानां सर्वात्मा" इति च । एवं सर्वावस्थावस्थितचिदचिद्वस्तुशरीरतया तत्प्रकारः परमपुरुष एव कार्यावस्थकारणावस्थजगद्रूपेणावस्थित इतीमम् अर्थं ज्ञापयितुं काश्चन श्रुतयः कार्यावथं कारणावथं च जगत् स एवेत्य् आहुः, "सद् एव सोम्येदम् अग्र आसीद् एकम् एवाद्वितीयम्", "तद् ऐक्षत बहु स्यां प्रजायेयेति । तत् तेजो ऽसृजत" इत्य् आरभ्य, "सन्मूलास् सोम्येमास् सर्वाः प्रजास् सदायतनास् सत्प्रतिष्ठा", "ऐतदात्म्यम् इदं सर्वं तत् सत्यं स आत्मा तत् त्वम् असि श्वेतकेतो" इति । तथा, "सो ऽकामयत, बहु स्यां प्रजायेयेति । स तपो ऽतप्यत, स तपस् तप्त्वा, इदं सर्वम् असृजत" इत्य् आरभ्य, "सत्यं चामृतं च सत्यम् अभवत्" इति । अत्रापि श्रुत्यन्तरसिद्धिश् चिदचितोः परमपुरुषस्य च स्वरूपविवेकः स्मारितः, "हन्ताहम् इमास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि", "तत् सृष्ट्वा, तद् एवानुप्रविशत्, तदनुप्रविश्य, सच् च त्यच् चाभवत् ॥॥। विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यम् अभवत्" इति च । एवंभूतम् एव नामरूपव्याकरणम्, "तद् धेदं तर्ह्य् अव्याकृतम् आसीत्, तन्नामरूपाभ्यां व्याक्रियत" इत्य् अत्राप्य् उक्तम् । अतः कार्यावस्थः कारणावस्थश् च स्थूलसूक्ष्मचिदचिद्वस्तुशरीरः परमपुरुष एवेति, कारणात् कार्यस्यानन्यत्वेन कारणविज्ञानेन कार्यस्य ज्ञाततयैकविज्ञानेन सर्वविज्ञानं च समीहितम् उपपन्नतरम् । "हन्ताहम् इमास् तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि" इति, "तिस्रो देवताः" इति सर्वम् अचिद्वस्तु निर्दिश्य तत्र स्वात्मकजीवानुप्रवेशेन नामरूपव्याकरणवचनात् सर्वे वाचकाः शब्दाः अचिज्जीवविशिष्टपरमात्मन एव वाचका इति कारणावस्थपरमात्मवाचिना शब्देन कार्यवाचिनः शब्दस्य सामानाधिकरण्यं मुख्यवृत्तम् । अतः स्थूलसूक्ष्मचिदचित्प्रकारं ब्रह्मैव कार्यं कारणं चेति ब्रह्मोपादानं जगत् । सूक्ष्मचिदचिद्वस्तुशरीरं ब्रह्मैव कारणम् इति जगतो ब्रह्मोपादानत्वे ऽपि संघातस्योपादानत्वेन चिदचितोर् ब्रह्मणश् च स्वभावासङ्करो ऽप्य् उपपन्नतरः । यथा शुक्लकृष्णरक्ततन्तुसंघातोपादानत्वे ऽपि चित्रपटस्य तत्तत्तन्तुप्रदेश एव शौक्ल्यादिसंबन्ध इति कार्यावस्थायाम् अपि न सर्वत्र वर्णसङ्करः तथा चिदचिदीश्वरसंघातोपादानत्वे ऽपि जगतः कार्यावस्थायाम् अपि भोक्तृत्वभोग्यत्वनियन्तृत्वाद्यसङ्करः । तन्तूनां पृथक्स्थितियोग्यानाम् एव पुरुषेच्छया कदाचित् संहतानां कारणत्वं कार्यत्वं च; इह तु चिदचितोस् सर्वावस्थयोः परमपुरुषशरीरत्वेन तत्प्रकारतयैव पदार्थत्वात् तत्प्रकारः परमपुरुष एव कराण कार्यं च; स एव सर्वदा सर्वशब्दवाच्य इति विशेषः । स्वभावभेदस् तदसङ्करश् च तत्र चात्र च तुल्यः । एवं च सति परस्य ब्रह्मणः कार्यानुप्रवेशे ऽपि स्वरूपान्यथाभावाभावाद् अविकृतत्वम् उपपन्नतरम् । स्थूलावस्थस्य नामरूपविभागविभक्तस्य चिदचिद्वस्तुनः आत्मतयावस्थानात् कार्यत्वम् अप्य् उपपन्नम् । अवस्थान्तरापत्तिर् एव हि कार्यता । निर्गुणवादाश् च परस्य ब्रह्मणो हेयगुणसंबन्धाभावाद् उपपद्यन्ते । "अपहतपाप्मा विजरो विमृत्युर् विशोको विजिघत्सो ऽपिपासः" इति हेयगुणान् प्रतिषिध्य, "सत्यकामस् सत्यसङ्कल्पः" इति कल्याणगुणगणान् विदधतीयं श्रुतिर् एव अन्यत्र सामान्येनावगतं गुणनिषेधं हेयगुणविषयं व्यवस्थापयति । ज्ञानस्वरूप ब्रह्म इति वादश् च सर्वज्ञस्य सर्वशक्तेर् निखिलहेयप्रत्यनीककय्लाणगुणाकरस्य ब्रह्मणः स्वरूपं ज्ञानैकनिरूपणीयं स्वप्रकाशतया ज्ञानस्वरूपं चेत्य् अभ्युपगमाद् उपपन्नतरः । "यस् सर्वज्ञः सर्ववित्", "परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च, "विज्ञातारम् अरे केन विजानीयात्" इत्यादिकाः ज्ञातृत्वम् आवेदयन्ति । "सत्यं ज्ञानम्" इत्यादिकाश् च ज्ञानैकनिरूपणीयतया स्वप्रकाशतया च ज्ञानस्वरूपताम् । "सो ऽकामयत बहु स्याम्", "तद् ऐक्षत बहु स्याम्", "तन् नामरूपाभ्याम् एव व्याक्रियत" इति ब्रह्मैव स्वसङ्कल्पाद् विचित्रस्थिरत्रसरूपतया नानाप्रकारम् अवस्थितम् इति तत्प्रत्यनीकाब्रह्मात्मकवस्तुनानात्वम् अतत्त्वम् इति प्रतिषिध्यते, "मृत्युः स मृत्युम् आप्नोति य इह नानेव पश्यति ॥॥। नेह नानास्ति किञ्चन", "यत्र हि द्वैतम् इव भवति तद् इतर इतरं पश्यति । यत्र त्व् अस्य सर्वम् आत्मैवाभूत् तत् केन कं पश्येत्" इत्यादिना । न पुनः, "बहु स्यां प्रजायेय" इत्यादिश्रुतिसिद्धं स्वसङ्कल्पकृतं ब्रह्मणो नानानामरूपभाक्त्वेन नानाप्रकारत्वम् अपि निषिध्यते । "यत्र त्व् अस्य सर्वम् आत्मैवाभूत्" इति निषेधवाक्यारम्भे च तत् स्थापितम्, "सर्वं तं परादाद् यो ऽन्यतरात्मनस् सर्वं वेद", "तस्य एतस्य महतो भूतस्य निश्श्वसितम् एतद् यद् ऋग्वेदः" इत्यादिना । एवं चिदचिदीश्वराणां स्वरूपभेदं स्वभावभेदं च वदन्तीनां कार्यकारणभावं कार्यकारणयोर् अनन्यत्वं वदन्तीनां च सर्वासां श्रुतीनाम् अविरोधः, चिदचितोः परमात्मनश् च सर्वदा शरीरात्मभावं शरीरभूतयोः कारणदशायां नामरूपविभागानर्हसूक्ष्मदशापत्तिं कार्यदशायां च तदर्हस्थूलदशापत्तिं वदन्तीभिः श्रुतिभिर् एव ज्ञायत इति ब्रह्माज्ञानवादस्याउपाधिकब्रह्मभेदवादस्य अन्यस्यापि अपन्यायमूलस्य सकलश्रुतिविरुद्धस्य न कथंचिद् अप्य् अवकाशो दृश्यत इत्य् अलम् अतिविस्तरेण

devamanuṣyādisarvakṣetreṣu veditṛtvākāraṃ kṣetrajñaṃ ca māṃ viddhi madātmakaṃ viddhi; kṣetrajñaṃ cāpīti apiśabdāt kṣetram api māṃ viddhīty uktam iti gamyate / yathā kṣetraṃ kṣetrajñaviśeṣaṇataikasvabhāvatayā tadapṛthaksiddheḥ tatsāmānādhikaraṇyenaiva nirdeśyam, tathā kṣetraṃ kṣetrajñaṃ ca madviśeṣaṇataikasvabhāvatayā madapṛthaksiddheḥ matsāmānādhikaraṇyenaiva nirdeśyau viddhi / pṛthivyādisaṃghātarūpasya kṣetrasya kṣetrajñasya ca bhagavaccharīrataikasvarūpatayā bhagavadātmakatvaṃ śrutayo vadanti, "yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayati sa ta ātmāntaryāmy amṛtaḥ" ity ārabhya, "ya ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati sa ta ātmāntaryāmy amṛtaḥ" ity ādyāḥ / idam evāntaryāmitayā sarvakṣetrajñānām ātmatvenāvasthānaṃ bhagavataḥ tatsāmānādhikaraṇyena vyapadeśahetuḥ / "aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ", "na tad asti vinā yat syān mayā bhūtaṃ carācaram" ,"viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat" iti purastād upariṣṭāc cābhidhāya, madhye sāmānādhikaraṇyena vyapadiśati, "ādityānām ahaṃ viṣṇuḥ" ityādinā / yad idaṃ kṣetrakṣetrajñayoḥ vivekaviṣayaṃ tayor madātmakatvaviṣayaṃ ca jñānam uktam, tad evopādeyaṃ jñānam iti mama matam / kecid āhuḥ "kṣetrajñaṃ cāpi māṃ viddhi" iti sāmānādhikaraṇyenaikatvam avagamyate / tataś ceśvarasyaiva sato 'jñānāt kṣetrajñatvam iva bhavatīty abhyupagantavyam / tannivṛttyarthaś cāyam ekatvopadeśaḥ / anena ca āptatamabhagavadupadeśena, "rajjur eṣā na sarpaḥ" ity āptopadeśena sarpatvabhramanivṛttivat kṣetrajñatvabhramo nivartate iti / te praṣṭavyāḥ ayam upadeṣṭā bhagavān vāsudevaḥ parameśvaraḥ kim ātmayāthātmyasākṣātkāreṇa nivṛttājñānaḥ uta neti / nivṛttājñānaś cet, nirviśeṣacinmātraikasvarūpe ātmani anyatadrūpādhyāsāsaṃbhāvanayā kaunteyādibhedadarśanaṃ, tān praty upadeśādivyāpārāś ca na saṃbhavanti / athātmasākṣātkārābhāvād anivṛttājñānaḥ, na tarhy ajñatvād evātmajñānopadeśasaṃbhavaḥ; "upadekṣyanti te jñānaṃ jñāninas tattvadarśinaḥ" iti hy uktam / ata evam ādivādā anākalitaśrutismṛtītihāsapurāṇanyāyasvavāgvirodhair ajñānibhir jaganmohanāya pravartitā ity anādaraṇīyāḥ / atredaṃ tattvam acidvastunaś cidvastunaḥ parasya ca brahmaṇo bhogyatvena bhoktṛtvena ceśitṛtvena ca svarūpavivekam āhuḥ kāścana śrutayaḥ, "asmān māyī sṛjate viśvam etat tasmiṃś cānyo māyayā sanniruddhaḥ", "māyāṃ tu prakṛtiṃ vidyān māyinaṃ tu maheśvaraṃ", "kṣaraṃ pradhānam amṛtākṣaraṃ haraḥ kṣarātmānāv īśate deva ekaḥ" amṛtākṣaraṃ haraḥ iti bhoktā nirdiśyate; pradhānam ātmano bhogyatvena haratīti haraḥ "sa kāraṇaṃ karaṇādhipādhipo na cāsya kaściñ janitā na cādhipaḥ", "pradhānakṣetrajñapatir guṇeśaḥ", "patiṃ viśvasyātmeśvaraṃ śāśvataṃ śivam acyutam", "jñājñau dvāv ajāv īśanīśau", "nityo nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān", "bhoktā bhogyaṃ preritāraṃ ca matvā", "pṛthagātmānaṃ preritāraṃ ca matvā juṣṭas tatas tenāmṛtatvam eti", "tayor anyaḥ pippalaṃ svādv atty anaśnann anyo 'bhicākaśīti", "ajām ekāṃ lohitaśuklakṛṣṇāṃ bahvīṃ prajāṃ janayantīṃ sarūpām / ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhuktabhogām ajo 'nyaḥ" ityādyāḥ / atrāpi, "ahaṅkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā / apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām / jīvabhūtāṃ", "sarvabhūtāni kauntteya prakṛtiṃ yānti māmikām / kalpakṣaye punas tāni kalpādau visṛjāmy aham // prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ / bhūtagrāmam imaṃ kṛtsnam avaśaṃ prakṛter vaśāt // ..... mayādhyakṣeṇa prakṛtis sūyate sacarācaram / hetunānena kaunteya jagad dhi parivartate // BhGR 13.", "prakṛtiṃ puruṣaṃ caiva viddhy anādī ubhāv api", "mama yonir mahad brahma tasmin garbhaṃ dadhāmy aham / saṃbhavas sarvabhūtānāṃ tato bhavati bhārata" iti / jagadyonibhūtaṃ mahad brahma madīyaṃ prakṛtyākhyaṃ bhūtasūkṣmam acidvastu yat, tasmin cetanākhyaṃ garbhaṃ saṃyojayāmi; tato matsaṅkalpakṛtāc cidacitsaṃsargād eva devādisthāvarāntānām acinmiśrāṇāṃ sarvabhūtānāṃ saṃbhavo bhavatītyarthaḥ / evaṃ bhoktṛbhogyarūpeṇāvasthitayoḥ sarvāvasthāvasthitayoś cidacitoḥ paramapuruṣaśarīratayā tanniyāmyatvena tadapṛthaksthitiṃ paramapuruṣasya cātmatvam āhuḥ kāścana śrutayaḥ, "yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayati" ity ārabhya, "ya ātmani tiṣṭhan ātmano 'ntaro yam ātmā na veda yasyātmā śarīraṃ ya ātmānam antaro yamayati sa ta ātmāntaryāmyamṛtāḥ" iti; tathā, "yaḥ pṛthivīm antare sañcaran yasya pṛthivī śarīraṃ yaṃ pṛthivī na veda" ity ārabhya, yo 'kṣaram antare sañcaran yasyākṣaraṃ śarīraṃ yam akṣaraṃ na veda", "yo mṛtyum antare sañcaran yasya mṛtyuś śarīraṃ yaṃ mṛtyur na veda eṣa sarvabhūtāntarātmāpahatapāpmā divyo deva eko nārāyaṇa", atra mṛtyuśabdena tamaśśabdavācyaṃ sūkṣmāvastham acidvastv abhidhīyate, asyām evopaniṣadi, "avyaktam akṣare līyate akṣaraṃ tamasi līyate" iti vacanāt "antaḥpraviṣṭaś śāstā janānāṃ sarvātmā" iti ca / evaṃ sarvāvasthāvasthitacidacidvastuśarīratayā tatprakāraḥ paramapuruṣa eva kāryāvasthakāraṇāvasthajagadrūpeṇāvasthita itīmam arthaṃ jñāpayituṃ kāścana śrutayaḥ kāryāvathaṃ kāraṇāvathaṃ ca jagat sa evety āhuḥ, "sad eva somyedam agra āsīd ekam evādvitīyam", "tad aikṣata bahu syāṃ prajāyeyeti / tat tejo 'sṛjata" ity ārabhya, "sanmūlās somyemās sarvāḥ prajās sadāyatanās satpratiṣṭhā", "aitadātmyam idaṃ sarvaṃ tat satyaṃ sa ātmā tat tvam asi śvetaketo" iti / tathā, "so 'kāmayata, bahu syāṃ prajāyeyeti / sa tapo 'tapyata, sa tapas taptvā, idaṃ sarvam asṛjata" ity ārabhya, "satyaṃ cāmṛtaṃ ca satyam abhavat" iti / atrāpi śrutyantarasiddhiś cidacitoḥ paramapuruṣasya ca svarūpavivekaḥ smāritaḥ, "hantāham imās tisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi", "tat sṛṣṭvā, tad evānupraviśat, tadanupraviśya, sac ca tyac cābhavat ..... vijñānaṃ cāvijñānaṃ ca satyaṃ cānṛtaṃ ca satyam abhavat" iti ca / evaṃbhūtam eva nāmarūpavyākaraṇam, "tad dhedaṃ tarhy avyākṛtam āsīt, tannāmarūpābhyāṃ vyākriyata" ity atrāpy uktam / ataḥ kāryāvasthaḥ kāraṇāvasthaś ca sthūlasūkṣmacidacidvastuśarīraḥ paramapuruṣa eveti, kāraṇāt kāryasyānanyatvena kāraṇavijñānena kāryasya jñātatayaikavijñānena sarvavijñānaṃ ca samīhitam upapannataram / "hantāham imās tisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇi" iti, "tisro devatāḥ" iti sarvam acidvastu nirdiśya tatra svātmakajīvānupraveśena nāmarūpavyākaraṇavacanāt sarve vācakāḥ śabdāḥ acijjīvaviśiṣṭaparamātmana eva vācakā iti kāraṇāvasthaparamātmavācinā śabdena kāryavācinaḥ śabdasya sāmānādhikaraṇyaṃ mukhyavṛttam / ataḥ sthūlasūkṣmacidacitprakāraṃ brahmaiva kāryaṃ kāraṇaṃ ceti brahmopādānaṃ jagat / sūkṣmacidacidvastuśarīraṃ brahmaiva kāraṇam iti jagato brahmopādānatve 'pi saṃghātasyopādānatvena cidacitor brahmaṇaś ca svabhāvāsaṅkaro 'py upapannataraḥ / yathā śuklakṛṣṇaraktatantusaṃghātopādānatve 'pi citrapaṭasya tattattantupradeśa eva śauklyādisaṃbandha iti kāryāvasthāyām api na sarvatra varṇasaṅkaraḥ tathā cidacidīśvarasaṃghātopādānatve 'pi jagataḥ kāryāvasthāyām api bhoktṛtvabhogyatvaniyantṛtvādyasaṅkaraḥ / tantūnāṃ pṛthaksthitiyogyānām eva puruṣecchayā kadācit saṃhatānāṃ kāraṇatvaṃ kāryatvaṃ ca; iha tu cidacitos sarvāvasthayoḥ paramapuruṣaśarīratvena tatprakāratayaiva padārthatvāt tatprakāraḥ paramapuruṣa eva karāṇa kāryaṃ ca; sa eva sarvadā sarvaśabdavācya iti viśeṣaḥ / svabhāvabhedas tadasaṅkaraś ca tatra cātra ca tulyaḥ / evaṃ ca sati parasya brahmaṇaḥ kāryānupraveśe 'pi svarūpānyathābhāvābhāvād avikṛtatvam upapannataram / sthūlāvasthasya nāmarūpavibhāgavibhaktasya cidacidvastunaḥ ātmatayāvasthānāt kāryatvam apy upapannam / avasthāntarāpattir eva hi kāryatā / nirguṇavādāś ca parasya brahmaṇo heyaguṇasaṃbandhābhāvād upapadyante / "apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ" iti heyaguṇān pratiṣidhya, "satyakāmas satyasaṅkalpaḥ" iti kalyāṇaguṇagaṇān vidadhatīyaṃ śrutir eva anyatra sāmānyenāvagataṃ guṇaniṣedhaṃ heyaguṇaviṣayaṃ vyavasthāpayati / jñānasvarūpa brahma iti vādaś ca sarvajñasya sarvaśakter nikhilaheyapratyanīkakaylāṇaguṇākarasya brahmaṇaḥ svarūpaṃ jñānaikanirūpaṇīyaṃ svaprakāśatayā jñānasvarūpaṃ cety abhyupagamād upapannataraḥ / "yas sarvajñaḥ sarvavit", "parāsya śaktir vividhaiva śrūyate svābhāvikī jñānabalakriyā ca, "vijñātāram are kena vijānīyāt" ityādikāḥ jñātṛtvam āvedayanti / "satyaṃ jñānam" ityādikāś ca jñānaikanirūpaṇīyatayā svaprakāśatayā ca jñānasvarūpatām / "so 'kāmayata bahu syām", "tad aikṣata bahu syām", "tan nāmarūpābhyām eva vyākriyata" iti brahmaiva svasaṅkalpād vicitrasthiratrasarūpatayā nānāprakāram avasthitam iti tatpratyanīkābrahmātmakavastunānātvam atattvam iti pratiṣidhyate, "mṛtyuḥ sa mṛtyum āpnoti ya iha nāneva paśyati ..... neha nānāsti kiñcana", "yatra hi dvaitam iva bhavati tad itara itaraṃ paśyati / yatra tv asya sarvam ātmaivābhūt tat kena kaṃ paśyet" ityādinā / na punaḥ, "bahu syāṃ prajāyeya" ityādiśrutisiddhaṃ svasaṅkalpakṛtaṃ brahmaṇo nānānāmarūpabhāktvena nānāprakāratvam api niṣidhyate / "yatra tv asya sarvam ātmaivābhūt" iti niṣedhavākyārambhe ca tat sthāpitam, "sarvaṃ taṃ parādād yo 'nyatarātmanas sarvaṃ veda", "tasya etasya mahato bhūtasya niśśvasitam etad yad ṛgvedaḥ" ityādinā / evaṃ cidacidīśvarāṇāṃ svarūpabhedaṃ svabhāvabhedaṃ ca vadantīnāṃ kāryakāraṇabhāvaṃ kāryakāraṇayor ananyatvaṃ vadantīnāṃ ca sarvāsāṃ śrutīnām avirodhaḥ, cidacitoḥ paramātmanaś ca sarvadā śarīrātmabhāvaṃ śarīrabhūtayoḥ kāraṇadaśāyāṃ nāmarūpavibhāgānarhasūkṣmadaśāpattiṃ kāryadaśāyāṃ ca tadarhasthūladaśāpattiṃ vadantībhiḥ śrutibhir eva jñāyata iti brahmājñānavādasyāupādhikabrahmabhedavādasya anyasyāpi apanyāyamūlasya sakalaśrutiviruddhasya na kathaṃcid apy avakāśo dṛśyata ity alam ativistareṇa

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/BhGR/13.2

Cite as: Ramanuja: Bhagavadgitabhasya 13.2, in HREEM (hreem.cc/library/BhGR/13.2), after GRETIL, Ramanuja: Bhagavadgitabhasya Input by Sadanori ISHITOBI Downloaded 22.12.2002 REFERENCE SYSTEM: BhG_….

Edition, numbering and licence

GRETIL 6_sastra/3_phil/vedanta/ramgbhpu.htm — Ramanuja: Bhagavadgitabhasya Input by Sadanori ISHITOBI Downloaded 22.12.2002 REFERENCE SYSTEM: BhG_ = Bhagavadgita BhGR_ = Ramanuja's Bhasya PLAIN TEXT VERSION THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FI

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text