नित्ये नैमित्तिके काम्ये च केनचित् फलविशेषेण संबन्धितया श्रूयमाणे कर्मणि नित्यसत्त्वस्थस्य मुमुक्षोस् ते कर्ममात्रे ऽधिकारः । तत्संबन्धितयावगतेषु फलेषु न कदाचिद् अप्य् अधिकारः । सफलस्य बन्धरूपत्वात् फलरहितस्य केवलस्य मदाराधनरूपस्य मोक्षहेतुत्वाच् च । मा च कर्मफलयोर् हेतुभूः । त्वयानुष्ठीयमाने ऽपि कर्मणि नित्यसत्त्वस्थस्य मुमुक्षोस् तव अकर्तृत्वम् अप्य् अनुसन्धेयम् । फलस्यापि क्षुन्निवृत्त्यादेर् न त्वं हेतुर् इत्य् अनुसन्धेयम् । तदुभयं गुणेषु वा सर्वेश्वरे मयि वानुसन्धेयम् इत्य् उत्तरत्र वक्ष्यते । एवम् अनुसन्धाय कर्म कुरु । अकर्मणि अननुष्ठाने, न योत्स्यामीति यत् त्वयाभिहितम्, न तत्र ते सङ्गो ऽस्तु; उक्तेन प्रकारेण युद्धादिकर्मण्य् एव सङ्गो ऽस्त्व् इत्यर्थः
nitye naimittike kāmye ca kenacit phalaviśeṣeṇa saṃbandhitayā śrūyamāṇe karmaṇi nityasattvasthasya mumukṣos te karmamātre 'dhikāraḥ / tatsaṃbandhitayāvagateṣu phaleṣu na kadācid apy adhikāraḥ / saphalasya bandharūpatvāt phalarahitasya kevalasya madārādhanarūpasya mokṣahetutvāc ca / mā ca karmaphalayor hetubhūḥ / tvayānuṣṭhīyamāne 'pi karmaṇi nityasattvasthasya mumukṣos tava akartṛtvam apy anusandheyam / phalasyāpi kṣunnivṛttyāder na tvaṃ hetur ity anusandheyam / tadubhayaṃ guṇeṣu vā sarveśvare mayi vānusandheyam ity uttaratra vakṣyate / evam anusandhāya karma kuru / akarmaṇi ananuṣṭhāne, na yotsyāmīti yat tvayābhihitam, na tatra te saṅgo 'stu; uktena prakāreṇa yuddhādikarmaṇy eva saṅgo 'stv ityarthaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.