अहम् आत्मा प्रत्यग्-आत्मा गुडाकेश, गुडाका निद्रा तस्याः ईशो गुडाकेशः, जित-निद्र इत्य् अर्थः । घन-केशेति वा । सर्व-भूताशय-स्थितः सर्वेषां भूतानाम् आशये ऽन्तर्-हृदि स्थितो ऽहम् आत्मा प्रत्यग्-आत्मा नित्यं ध्येयः । तद्-अशक्तेन चोत्तरेषु भावेषु चिन्त्यो ऽहम् । यस्माद् अहम् एव आदिर् भूतानां कारणं तथा मध्यं च स्थितिर् अन्तः प्रलयश् च
aham ātmā pratyag-ātmā guḍākeśa, guḍākā nidrā tasyāḥ īśo guḍākeśaḥ, jita-nidra ity arthaḥ | ghana-keśeti vā | sarva-bhūtāśaya-sthitaḥ sarveṣāṃ bhūtānām āśaye 'ntar-hṛdi sthito 'ham ātmā pratyag-ātmā nityaṃ dhyeyaḥ | tad-aśaktena cottareṣu bhāveṣu cintyo 'ham | yasmād aham eva ādir bhūtānāṃ kāraṇaṃ tathā madhyaṃ ca sthitir antaḥ pralayaś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.