यस्मात् संन्यासिनो नोद्विजते नोद्वेगं गच्छति न सन्तप्यते न संक्षुभ्यति लोकः, तथा लोकान् नोद्विजते च यः, हर्षामर्ष-भयोद्वेगैर् हर्षश् चामर्षश् च भयं चोद्वेगश् च तैर् हर्षामर्ष-भयोद्वेगैर् मुक्तः । हर्षः प्रिय-लाभे ऽन्तः-करणस्योत्कर्षो रोमाञ्चनाश्रुपातादि-लिङ्गः । अमर्षो ऽसहिष्णुता । भयं त्रासः । उद्वेग उद्विग्नता । तैर् मुक्तो यः स च मे प्रियः
yasmāt saṃnyāsino nodvijate nodvegaṃ gacchati na santapyate na saṃkṣubhyati lokaḥ, tathā lokān nodvijate ca yaḥ, harṣāmarṣa-bhayodvegair harṣaś cāmarṣaś ca bhayaṃ codvegaś ca tair harṣāmarṣa-bhayodvegair muktaḥ | harṣaḥ priya-lābhe 'ntaḥ-karaṇasyotkarṣo romāñcanāśrupātādi-liṅgaḥ | amarṣo 'sahiṣṇutā | bhayaṃ trāsaḥ | udvega udvignatā | tair mukto yaḥ sa ca me priyaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.