ननु यमाः नियमाश् चामानित्वादयः । न तैर् ज्ञेयं ज्ञायते । न ह्य् अमानित्वादि कस्यचित् वस्तुनः परिच्छेदकं दृष्टम् । सर्वत्रैव च यद्-विषयं ज्ञानं तद् एव तस्य ज्ञेयस्य परिच्छेदकं दृश्यते । न ह्य् अन्य-विषयेण ज्ञानेनान्यद् उपलभ्यते, यथा घट-विषयेण ज्ञानेनाग्निः । नैष दोषः । ज्ञान-निमित्तत्वाज् ज्ञानम् उच्यत इति ह्य् अवोचाम । ज्ञान-सहकारि-कारणत्वाच् च । ज्ञेयं ज्ञातव्यं यत् तत् प्रवक्ष्यामि प्रकर्षेण यथावत् वक्ष्यामि । किं-फलं तत् ? इति प्ररोचनेन श्रोतुर् अभिमुखीकरणायाह - यज् ज्ञेयं ज्ञात्वामृतम् अमृतत्वम् अश्नुते, न पुनर् म्रियत इत्य् अर्थः । अनादिमत् आदिर् अस्यास्तीति आदिमत्, नादिमद् अनादिमत् । किं तत् ? परं निरतिशयं ब्रह्म, ज्ञेयम् इति प्रकृतम् । अत्र केचित् अनादि मत्-परम् इति पदं छिन्दन्ति, बहु-व्रीहिणोक्ते ऽर्थे मतुप आनर्थक्यम् अनिष्टं स्याद् इति । अर्थ-विशेषं च दर्शयन्ति - अहं वासुदेवाख्या परा शक्तिर् यस्य तन् मत्-परम् इति । सत्यम् एवम् अपुनर्-उक्तं स्यात् । अर्थश् चेत् संभवति । न त्व् अर्थः संभवति, ब्रह्मणः सर्व-विशेष-प्रतिषेधेनैव विजिज्ञापयिषित्वान् न सत् तन् नासद् उच्यते इति । विशिष्ट-शक्तिमत्त्व-प्रदर्शनं विशेष-प्रतिषेधश् चेति विप्रतिषिद्धम् । तस्मात् मतुपो बहु-व्रीहिणा समानार्थत्वे ऽपि प्रयोगो श्लोक-पूरणार्थः । अमृतत्व-फलं ज्ञेयं मयोच्यत इति प्ररोचनेनाभिमुखीकृत्याह - न सत् तज् ज्ञेयम् उच्यते इति नाप्य् असत् तद् उच्यते ॥ ननु महता परिकर-बन्धेन कण्ठ-रवेणोद्घुष्य ज्ञेयं प्रवक्ष्यामीति, अननुरूपम् उक्तं न सत् तन् नासद् उच्यत इति । न, अनुरूपम् एवोक्तम् । कथम् ? सर्वासु ह्य् उपनिषत्सु ज्ञेयं ब्रह्म नेति नेति [ब्अउ २।३।६] अस्थूलम् अनणु [ब्अउ ३।८।८] इत्य् आदि-विशेष-प्रतिषेधेनैव निर्दिश्यते, नेदं तद् इति वाचो ऽगोचत्वात् ॥ ननु न तद् अस्ति, यद् वस्त्व् अस्ति-शब्देन नोच्यते । अथास्ति-शब्देन नोच्यते, नास्ति तज् ज्ञेयम् । विप्रतिषिद्धं च - ज्ञेयं तद् अस्ति-शब्देन नोच्यते इति च । न तावन् नास्ति, नास्ति-बुद्ध्य्-अविषयत्वात् ॥ ननु सर्वा बुद्धयो ऽस्ति-नास्ति-बुद्ध्य्-अनुगता एव । तत्रैवं सति ज्ञेयम् अप्य् अस्ति-बुद्ध्य्-अनुगत-प्रत्यय-विषयं वा स्यात्, नास्ति-बुद्ध्य्-अनुगत-प्रत्यय-विषयं वा स्यात् । न, अतीन्द्रियत्वेनोभय-बुद्ध्य्-अनुगत-प्रत्ययाविषयत्वात् । यद् धीन्द्रिय-गम्यं वस्तु घटादिकम्, तद् अस्ति-बुद्ध्य्-अनुगत-प्रत्यय-विषयं वा स्यात्, नास्ति-बुद्ध्य्-अनुगत-प्रत्यय-विषयं वा स्यात् । इदं तु ज्ञेयम् अतीन्द्रियत्वेन शब्दैक-प्रमाण-गम्यत्वान् न घटादिवद् उभय-बुद्ध्य्-अनुगत-प्रत्यय-विषयम् इत्य् अतो न सत् तन् नासद् इत्य् उच्यते ॥ यत् तूक्तम् - विरुद्धम् उच्यते, ज्ञेयं तन् न सत् तन् नासद् उच्यत इति । न विरुद्धम्, अन्यद् एव तद्-विदिताद् अथो अविदिताद् अधि [केनउ १।३] इति श्रुतेः । श्रुतिर् अपि विरुद्धार्था इति चेत् - यथा यज्ञाय शालाम् आरभ्य यज्ञम् को हि तद् वेद यद्य् अमुष्मिन् लोके ऽस्ति वा न वेति [तैत्त्स् ६।१।१] इत्य् एवम् इति चेत्, न । विदिताविदिताभ्याम् अन्यत्व-श्रुतेर् अवश्य-विज्ञेयार्थ-प्रतिपादन-परत्वात् यद्य् अमुष्मिन् इत्य् आदि तु विधि-शेषो ऽर्थ-वादः । उपपत्तेश् च सद्-असद्-आदि-शब्दैर् ब्रह्म नोच्यत इति । सर्वो हि शब्दो ऽर्थ-प्रकाशनाय प्रयुक्तः श्रूयमाणश् च श्रोतृभिर् जाति-क्रिया-गुण-संबन्ध-द्वारेण संकेत-ग्रहण-स-व्यपेक्षार्थं प्रत्याययति । नान्यथा, अदृष्टत्वात् । तद् यथा - गौर् अश्व इति वा जातितः, पचति पठतीति वा क्रियातः, शुक्लः कृष्ण इति वा गुणतः, धनी गोमान् इति वा संबन्धतः । न तु ब्रह्म जातिमत्, अतो न सद्-आदि-शब्द-वाच्यम् । नापि गुणवत्, येन गुण-शब्देनोच्येत, निर्गुणत्वात् । नापि क्रिया-शब्द-वाच्यं निष्क्रियत्वान् निष्कलं निष्क्रियं शान्तम् [श्वेतु ६।१९] इति श्रुतेः । न च संबन्धी, एकत्वात् । अद्वयत्वाद् अविषयत्वाद् आत्मत्वाच् च न केनचित्, शब्देनोच्यत इति युक्तम् । यतो वाचो निवर्तन्ते [तैत्तु २।९] इत्य् आदि-श्रुतिभिश् च
nanu yamāḥ niyamāś cāmānitvādayaḥ | na tair jñeyaṃ jñāyate | na hy amānitvādi kasyacit vastunaḥ paricchedakaṃ dṛṣṭam | sarvatraiva ca yad-viṣayaṃ jñānaṃ tad eva tasya jñeyasya paricchedakaṃ dṛśyate | na hy anya-viṣayeṇa jñānenānyad upalabhyate, yathā ghaṭa-viṣayeṇa jñānenāgniḥ | naiṣa doṣaḥ | jñāna-nimittatvāj jñānam ucyata iti hy avocāma | jñāna-sahakāri-kāraṇatvāc ca | jñeyaṃ jñātavyaṃ yat tat pravakṣyāmi prakarṣeṇa yathāvat vakṣyāmi | kiṃ-phalaṃ tat ? iti prarocanena śrotur abhimukhīkaraṇāyāha - yaj jñeyaṃ jñātvāmṛtam amṛtatvam aśnute, na punar mriyata ity arthaḥ | anādimat ādir asyāstīti ādimat, nādimad anādimat | kiṃ tat ? paraṃ niratiśayaṃ brahma, jñeyam iti prakṛtam | atra kecit anādi mat-param iti padaṃ chindanti, bahu-vrīhiṇokte 'rthe matupa ānarthakyam aniṣṭaṃ syād iti | artha-viśeṣaṃ ca darśayanti - ahaṃ vāsudevākhyā parā śaktir yasya tan mat-param iti | satyam evam apunar-uktaṃ syāt | arthaś cet saṃbhavati | na tv arthaḥ saṃbhavati, brahmaṇaḥ sarva-viśeṣa-pratiṣedhenaiva vijijñāpayiṣitvān na sat tan nāsad ucyate iti | viśiṣṭa-śaktimattva-pradarśanaṃ viśeṣa-pratiṣedhaś ceti vipratiṣiddham | tasmāt matupo bahu-vrīhiṇā samānārthatve 'pi prayogo śloka-pūraṇārthaḥ | amṛtatva-phalaṃ jñeyaṃ mayocyata iti prarocanenābhimukhīkṛtyāha - na sat taj jñeyam ucyate iti nāpy asat tad ucyate || nanu mahatā parikara-bandhena kaṇṭha-raveṇodghuṣya jñeyaṃ pravakṣyāmīti, ananurūpam uktaṃ na sat tan nāsad ucyata iti | na, anurūpam evoktam | katham ? sarvāsu hy upaniṣatsu jñeyaṃ brahma neti neti [BAU 2.3.6] asthūlam anaṇu [BAU 3.8.8] ity ādi-viśeṣa-pratiṣedhenaiva nirdiśyate, nedaṃ tad iti vāco 'gocatvāt || nanu na tad asti, yad vastv asti-śabdena nocyate | athāsti-śabdena nocyate, nāsti taj jñeyam | vipratiṣiddhaṃ ca - jñeyaṃ tad asti-śabdena nocyate iti ca | na tāvan nāsti, nāsti-buddhy-aviṣayatvāt || nanu sarvā buddhayo 'sti-nāsti-buddhy-anugatā eva | tatraivaṃ sati jñeyam apy asti-buddhy-anugata-pratyaya-viṣayaṃ vā syāt, nāsti-buddhy-anugata-pratyaya-viṣayaṃ vā syāt | na, atīndriyatvenobhaya-buddhy-anugata-pratyayāviṣayatvāt | yad dhīndriya-gamyaṃ vastu ghaṭādikam, tad asti-buddhy-anugata-pratyaya-viṣayaṃ vā syāt, nāsti-buddhy-anugata-pratyaya-viṣayaṃ vā syāt | idaṃ tu jñeyam atīndriyatvena śabdaika-pramāṇa-gamyatvān na ghaṭādivad ubhaya-buddhy-anugata-pratyaya-viṣayam ity ato na sat tan nāsad ity ucyate || yat tūktam - viruddham ucyate, jñeyaṃ tan na sat tan nāsad ucyata iti | na viruddham, anyad eva tad-viditād atho aviditād adhi [KenaU 1.3] iti śruteḥ | śrutir api viruddhārthā iti cet - yathā yajñāya śālām ārabhya yajñam ko hi tad veda yady amuṣmin loke 'sti vā na veti [TaittS 6.1.1] ity evam iti cet, na | viditāviditābhyām anyatva-śruter avaśya-vijñeyārtha-pratipādana-paratvāt yady amuṣmin ity ādi tu vidhi-śeṣo 'rtha-vādaḥ | upapatteś ca sad-asad-ādi-śabdair brahma nocyata iti | sarvo hi śabdo 'rtha-prakāśanāya prayuktaḥ śrūyamāṇaś ca śrotṛbhir jāti-kriyā-guṇa-saṃbandha-dvāreṇa saṃketa-grahaṇa-sa-vyapekṣārthaṃ pratyāyayati | nānyathā, adṛṣṭatvāt | tad yathā - gaur aśva iti vā jātitaḥ, pacati paṭhatīti vā kriyātaḥ, śuklaḥ kṛṣṇa iti vā guṇataḥ, dhanī gomān iti vā saṃbandhataḥ | na tu brahma jātimat, ato na sad-ādi-śabda-vācyam | nāpi guṇavat, yena guṇa-śabdenocyeta, nirguṇatvāt | nāpi kriyā-śabda-vācyaṃ niṣkriyatvān niṣkalaṃ niṣkriyaṃ śāntam [ŚvetU 6.19] iti śruteḥ | na ca saṃbandhī, ekatvāt | advayatvād aviṣayatvād ātmatvāc ca na kenacit, śabdenocyata iti yuktam | yato vāco nivartante [TaittU 2.9] ity ādi-śrutibhiś ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.