Library·Bhagavadgita with Samkara's commentary·13

Bhagavadgita with Samkara's commentary 13

इदम् इति सर्व-नाम्नोक्तं विशिनष्टि शरिरम् इति । हे कौन्तेय ! क्षत-त्राणात् क्षयात् क्षरणात्, क्षेत्रवद् वास्मिन् कर्म-फल-निष्पत्तेः क्षेत्रम् इति । इति-शब्द एवं-शब्देदार्थकः । क्षेत्रम् इत्य् एवम् अभिधीयते कथ्यते । एतच् छरीरं क्षेत्रं यो वेत्ति विजानाति, आपाद-तल-मस्तकं ज्ञानेन विषयीकरोति, स्वाभाविकेनौपदेशिकेन वा वेदनेन विषयीकरोति विभागशः, तं वेदितारं प्राहुः कथयन्ति क्षेत्रज्ञ इति । इति-शब्दः एवं-शब्द-पदार्थक एव पूर्ववत् । क्षेत्रज्ञः इत्य् एवम् आहुः । के ? तद्-विदस् तौ क्षेत्र-क्षेत्रज्ञौ ये विदन्ति ते तद्-विदः

idam iti sarva-nāmnoktaṃ viśinaṣṭi śariram iti | he kaunteya ! kṣata-trāṇāt kṣayāt kṣaraṇāt, kṣetravad vāsmin karma-phala-niṣpatteḥ kṣetram iti | iti-śabda evaṃ-śabdedārthakaḥ | kṣetram ity evam abhidhīyate kathyate | etac charīraṃ kṣetraṃ yo vetti vijānāti, āpāda-tala-mastakaṃ jñānena viṣayīkaroti, svābhāvikenaupadeśikena vā vedanena viṣayīkaroti vibhāgaśaḥ, taṃ veditāraṃ prāhuḥ kathayanti kṣetrajña iti | iti-śabdaḥ evaṃ-śabda-padārthaka eva pūrvavat | kṣetrajñaḥ ity evam āhuḥ | ke ? tad-vidas tau kṣetra-kṣetrajñau ye vidanti te tad-vidaḥ

Sanskrit only: no published translation is held for this verse.

अं पश्य यथा-विशिष्टम् ॥ [म्भ् १२।२०१।१७] इति । तथा च - देहादिषु आत्म-बुद्धिर् अविद्वान् राग-द्वेषादि-प्रयुक्तो धर्माधर्मानुष्ठान-कृज् जायते म्रियते चेत्य् अवगम्यते । देहादि-व्यतिरिक्तात्म-दर्शिनो राग-द्वेषादि-प्रहाणापेक्ष-धर्माधर्म-प्रवृत्त्य्-उपशमान् मुच्यन्त इति न केनचित् प्रत्याख्यातुं शक्यं न्यायतः । तत्रैवं सति, क्षेत्रज्ञस्येश्वरस्यैव सतो ऽविद्या-कृतोपाधि-भेदतः संसारित्वम् इव भवति, यथा देहाद्य्-आत्मत्वम् आत्मनः । सर्व-जन्तूनां हि प्रसिद्धो देहादिष्व् अनात्मसु आत्म-भावो निश्चितो ऽविद्या-कृतः, यथा स्थाणौ पुरुष-निश्चयः । न चैतावता पुरुष-धर्मः स्थाणोर् भवति, स्थाणु-धर्मो वा पुरुषस्य । तथा न चैतन्य-धर्मो देहस्य, देह-धर्मो वा चेतनस्य सुख-दुःख-मोहात्मकत्वादिर् आत्मनो न युक्तः । अविद्या-कृतत्वाविशेषात्, जरा-मृत्युवत् । न, अतुल्यत्वात् । इति चेत् - स्थाणु-पुरुषौ ज्ञेयाव् एव सन्तौ ज्ञात्रान्योन्यस्मिन्न् अध्यस्ताव् अविद्यया । देहात्मनोस् तु ज्ञेय-ज्ञात्रोर् एव इतरेतराध्यासः, इति न समो दृष्टान्तः । अतो देह-धर्मो ज्ञेयो ऽपि ज्ञातुर् आत्मनो भवतीति चेत्, न । अचैतन्यादि-प्रसङ्गात् । यदि हि ज्ञेयस्य देहादेः क्षेत्रस्य धर्माः सुख-दुःख-मोहेच्छादयो ज्ञातुर् भवन्ति, तर्हि, ज्ञेयस्य क्षेत्रस्य धर्माः केचित् आत्मनो भवन्त्य् अविद्याध्यारोपिताः, जरा-मरणादयस् तु न भवन्तीति विशेष-हेतुर् वक्तव्यः । न भवन्तीत्य् अस्त्य् अनुमानम् - अविद्याध्यारोपितत्वाज् जरा-मरणादिवद् इति, हेयत्वात्, उपादेयत्वाच् चेत्य् आदि । तत्रैवं सति, कर्तृत्व-भोक्तृत्व-लक्षणः संसारो ज्ञेय-स्थो ज्ञातर्य् अविद्ययाध्यारोपित इति, न तेन ज्ञातुः किंचिद् दुष्यति । यथा बालैर् अध्यारोपितेनाकाशस्य तल-मलिनत्वादिना । एवं च सति, सर्व-क्षेत्रेष्व् अपि सतो भगवतः क्षेत्रज्ञस्येश्वरस्य संसारित्व-गन्ध-मात्रम् अपि नाशङ्कयम् । न हि क्वचिद् अपि लोके ऽविद्याध्यस्तेन धर्मेण कस्यचिद् उपकारो ऽपकारो वा दृष्टः । यत् तूक्तम् - न समो दृष्टान्त इति, तद् असत् । कथम् ? अविद्याध्यास-मात्रं हि दृष्टान्त-दार्ष्टान्तिकयोः साधर्म्यं विवक्षितम् । तन् न व्यभिचरति । यत् तु ज्ञातरि व्यभिचरतीति मन्यसे, तस्याप्य् अनैकान्तिकत्वं दर्शितं जरादिभिः ॥ अविद्यावत्त्वात् क्षेत्रज्ञस्य संसारित्वम् इति चेत्, न । अविद्यायास् तामसत्वात् । तामसो हि प्रत्ययः, आवरणात्मकत्वाद् अविद्या विपरीत-ग्राहकः, संशयोपस्थापको वा, अग्रहणात्मको वा । विवेक-प्रकाश-भावे तद्-अभावात् तामसे चावरणात्मके तिमिरादि-दोषे सत्य् अग्रहणादेर् अविद्या-त्रयस्य उपलब्धेः ॥ अत्राह - एवं तर्हि ज्ञातृ-धर्मो ऽविद्या । न । करणे चक्षुषि तैमिरिकत्वादि-दोषोपलब्धेः । यत् तु मन्यसे - ज्ञातृ-धर्मो ऽविद्या, तद् एव चाविद्या-धर्मवत्त्वं क्षेत्रज्ञस्य संसारित्वम् । तत्र यद् उक्तम् ईश्वर एव क्षेत्रज्ञः, न संसारीत्य् एतद् अयुक्तम् इति, तन् न । यथा करणे चक्षुषि विपरीत-ग्राहकादि-दोषस्य दर्शनात् । न विपरीतादि-ग्रहणं तन्-निमित्तं वा तैमिरिकत्वादि-दोषो ग्रहीतुः, चक्षुषः संस्कारेण तिमिरे ऽपनीते ग्रहीतुर् अदर्शनान् न ग्रहीतुर् धर्मो यथा । तथा सर्वत्रैवाग्रहण-विपरीत-संशय-प्रत्ययास् तन्-निमित्ताः करणस्यैव कस्यचित् भवितुम् अर्हन्ति, न ज्ञातुः क्षेत्रज्ञस्य । संवेद्यत्वाच् च तेषां प्रदीप-प्रकाशवन् न ज्ञातृ-धर्मत्वम् । संवेद्यत्वाद् एव स्वात्म-व्यतिरिक्त-संवेद्यत्वम् । सर्व-करण-वियोगे च कैवल्ये सर्व-वादिभिर् अविद्यादि-दोषवत्-त्वानभ्युपगमात् । आत्मनो यदि क्षेत्रज्ञस्याग्न्य्-उष्णवत् स्वो धर्मः, ततो न कदाचिद् अपि तेन वियोगः स्यात् । अविक्रियस्य च व्योमवत् सर्व-गतस्यामूर्तस्य आत्मनः केनचित् संयोग-वियोगानुपपत्तेः, सिद्धं क्षेत्रज्ञस्य नित्यम् एवेश्वरत्वम् । अनादित्वान् निर्गुणत्वाद् [गीता १३।३२] इत्य् आदीश्वर-वचनाच् च ॥ नन्व् एवं सति संसार-संसारित्वाभावे शास्त्रानर्थक्यादि-दोषः स्याद् इति चेत्, न । सर्वैर् अभ्युपगतत्वात् । सर्वैर् ह्य् आत्म-वादिभिर् अभ्युपगतो दोषो नैकेन परिहर्तव्यो भवति । कथम् अभ्युपगत इति ? मुक्तात्मनां हि संसार-संसारित्व-व्यवहाराभावः सर्वैर् एव आत्म-वादिभिर् इष्यते । न च तेषां शास्त्रानर्थक्यादि-दोष-प्राप्तिर् अभ्युपगता । तथा नः क्षेत्रज्ञानाम् ईश्वरैकत्वे सति, शास्त्रानर्थक्यं भवतु । अविद्या-विषये चार्थवत्त्वम् - यथा द्वैतिनां सर्वेषां बन्धावस्थायाम् एव शास्त्राद्य्-अर्थवत्त्वम्, न मुक्तावस्थायाम्, एवम् ॥ नन्व् आत्मनो बन्ध-मुक्तावस्थे परमार्थत एव वस्तु-भूते द्वैतिनां सर्वेषाम् । अतो हेयोपादेय-तत्-साधन-सद्-भावे शास्त्राद्य्-अर्थवत्त्वं स्यात् । अद्वैतिनां पुनः, द्वैतस्यापरमार्थत्वात्, अविद्या-कृतत्वाद् बन्धावस्थायाश् चात्मनो ऽपरमार्थत्वे निर्विषयत्वात्, शास्त्राद्यानर्थक्यम् इति चेत्, न । आत्मनो ऽवस्था-भेदानुपपत्तेः । यदि तावत् आत्मनो बन्ध-मुक्तावस्थे, युगपत् स्याताम्, क्रमेण वा । युगपत् तावत् विरोधान् न संभवतः स्थिति-गती इवैकस्मिन् । क्रम-भावित्वे च, निर्निमित्तत्वं स-निमित्तत्वं वा ? निर्निमित्तत्वे ऽनिर्मोक्ष-प्रसङ्गः । स-निमित्तत्वे च स्वतो ऽभावात् अपरमार्थत्व-प्रसङ्गः । तथा च सत्य् अभ्युपगम-हानिः । किं च, बन्ध-मुक्तावस्थयोः पौर्वापर्य-निरूपणायां बन्धावस्था पूर्वं प्रकल्प्या, अनादिमत्य् अन्तवती च । तच् च प्रमाण-विरुद्धम् । तथा मोक्षावस्थादिमत्य् अनन्ता च प्रमाण-विरुद्धैवाभ्युपगम्यते । न चावस्थावतो ऽवस्थान्तरं गच्छतो नित्यत्वम् उपपादयितुं शक्यम् । अथानित्यत्व-दोष-परिहाराय बन्ध-मुक्तावस्था-भेदो न कल्प्यते । अतो द्वैतिनाम् अपि शास्त्रानर्थक्यादि-दोषो ऽपरिहार्य एव । इति समानत्वान् नाद्वैत-वादिना परिहर्तव्यो दोषः ॥ न च शास्त्रानर्थक्यम्, यथा-प्रसिद्धाविद्वत्-पुरुष-विषयत्वाच् छास्त्रस्य । अविदुषां हि फल-हेत्वोर् अनात्मनोर् आत्म-दर्शनम्, न विदुषाम् । विदुषां हि फल-हेतुभ्याम् आत्मनो ऽन्यत्व-दर्शने सति, तयोर् अहम् इत्य् आत्म-दर्शनानुपपत्तेः । न ह्य् अत्यन्त-मूढ उन्मत्तादिर् अपि जलाग्न्योश् छाया-प्रकाशयोर् वैकात्म्यं पश्यति । किम् उत विवेकी । तस्मान् न विधि-प्रतिषेध-शास्त्रं तावत् फल-हेतुभ्याम् आत्मनो ऽन्यत्व-दर्शिनो भवति । न हि "देवदत्त, त्वम् इदं कुरु" इति कस्मिंश्चित् कर्मणि नियुक्ते, "विष्णुमित्रो ऽहं नियुक्तः" इति तत्र-स्थो नियोगं सृण्वन्न् अपि प्रतिपद्यते । वियोग-विषय-विवेकाग्रहणात् तूपपद्यते प्रतिपत्तिः । तथा फल-हेत्वोर् अपि ॥ ननु प्राकृत-संबन्धापेक्षया युक्तैव प्रतिपत्तिः शास्त्रार्थ-विषया - फल-हेतुभ्याम् अन्यात्म-विषय-दर्शने ऽपि सति - इष्ट-फल-हेतौ प्रवर्तितो ऽस्मि, अनिष्ट-फल-हेतोश् च निवर्तितो ऽस्मीति । यथा पितृ-पुत्रादीनाम् इतरेतरात्मान्यत्व-दर्शने सत्य् अप्य् अन्योन्य-नियोग-प्रतिषेधार्थ-प्रतिपत्तिः । न । व्यतिरिक्तात्म-दर्शन-प्रतिपत्तेः प्राग् एव फल-हेत्वोर् आत्माभिमानस्य सिद्धत्वात् । प्रतिपन्न-नियोग-प्रतिषेधार्थो हि फल-हेतुभ्याम् आत्मनो ऽन्यत्वं प्रतिपद्यते, न पूर्वम् । तस्माद् विधि-प्रतिषेध-शास्त्रम् अविद्वद्-विषयम् इति सिद्धम् ॥ ननु स्वर्ग-कामो यजेत [अप्श्र्स्। १०।२।१] न कलञ्जं भक्षयेद् इत्य् आदाव् आत्म-व्यतिरेक-दर्शिनाम् अप्रवृत्तौ, केवल-देहाद्य्-आत्म-दृष्टीनां च । अतः कर्तुर् अभावाच् छास्त्रानर्थक्यम् इति चेत्, न । यथा-प्रसिद्धित एव प्रवृत्ति-निवृत्त्य्-उपपत्तेः । ईश्वर-क्षेत्रज्ञैकत्व-दर्शी ब्रह्म-वित् तावन् न प्रवर्तते । तथा नैरात्म्यवाद्य् अपि नास्ति पर-लोक इति न प्रवर्तते । यथा-प्रसिद्धितस् तु विधि-प्रतिषेध-शास्त्र-श्रवणान्यथानुपपत्त्यानुमितात्मास्तित्व आत्म-विशेषानभिज्ञः कर्म-फल-संजात-तृष्णः श्रद्दधानतया च प्रवर्तते । इति सर्वेषां न प्रत्यक्षम् । अतो न शास्त्रानर्थक्यम् ॥ विवेकिनाम् अप्रवृत्ति-दर्शनात् तद्-अनुगामिनाम् अप्रवृत्तौ शास्त्रानर्थक्यम् इति चेत्, न । कस्यचिद् एव विवेकोपपत्तेः । अनेकेषु हि प्राणिषु कश्चिद् एव विवेकी स्यात्, यथेदानीम् । न च विवेकिनम् अनुवर्तन्ते मूढाः, रागादि-दोष-तन्त्रत्वात् प्रवृत्तेः, अभिचरणादौ च प्रवृत्ति-दर्शनात्, स्वाभाव्याच् च प्रवृत्तेः । स्वभावस् तु प्रवर्तते [गीता ५।१४] इति हि उक्तम् ॥ तस्मात् अविद्या-मात्रं संसारो यथा-दृष्ट-विषय एव । न क्षेत्रज्ञस्य केवलस्याविद्या तत्-कार्यं च । न च मिथ्या-ज्ञानं परमार्थ-वस्तु दूषयितुं समर्थम् । न ह्य् ऊषर-देशं स्नेहेन पङ्की-कर्तुं शक्नोति मरीच्य्-उदकम् । तथाविद्या क्षेत्रज्ञस्य न किंचित् कर्तुं शक्नोति । अतश् चेदम् उक्तम् - क्षेत्रज्ञं चापि मां विद्धि । अज्ञानेनावृतं ज्ञानम् [गीता ५।१५] इति च ॥ अथ किम् इदं संसारिणाम् इवाहम् एवम् ममैवेदम् इति पण्डितानाम् अपि ? सृणु । इदं तत् पाण्डित्यम्, यत् क्षेत्र एवात्म-दर्शनम् । यदि पुनः क्षेत्रज्ञम् अविक्रियं पश्येयुस् ततो न भोगं कर्म वाकाङ्क्षेयुर् मम स्याद् इति । विक्रियैव भोग-कर्मणी । अथैवं सति, फलार्थित्वाद् अविद्वान् प्रवर्तते । विदुषः पुनर् अविक्रियात्म-दर्शिनः फलार्थित्वाभावात् प्रवृत्त्य्-अनुपपत्तौ कार्य-करण-संघात-व्यापारोपरमे निवृत्तिर् उपचर्यते ॥ इदं चान्यत् पाण्डित्यं कस्यचिद् अस्तु - क्षेत्रज्ञ ईश्वर एव । क्षेत्रं चान्यत् क्षेत्रज्ञस्यैव विषयः । अहं तु संसारी सुखी दुःखी च । संसारोपरमश् च मम कर्तव्यः क्षेत्र-क्षेत्रज्ञ-विज्ञानेन, ध्यानेन चेश्वरं क्षेत्रज्ञं साक्षात् कृत्वा तत्-स्वरूपावस्थानेनेति । यश् चैवं बुध्यते, यश् च बोधयति, नासौ क्षेत्रज्ञ इति । एवं मन्वानो यः स पण्डितापशब्दः । संसार-मोक्षयोः शास्त्रस्य चार्थवत्त्वं करोमीति । आत्महा स्वयं मूढो ऽन्यां च व्यामोहयति शास्त्रार्थ-संप्रदाय-रहितत्वात्, श्रुत-हानिम् अश्रुत-कल्पनां च कुर्वन् । तस्मात् असंप्रदाय-वित् सर्व-शास्त्र-विद् अपि मूर्खवद् एव उपेक्षणीयः ॥ यत् तूक्तम् ईश्वरस्य क्षेत्रज्ञैकत्वे संसारित्वं प्राप्नोति । क्षेत्रज्ञानां चेश्वरैकत्वे संसारिणो ऽभावात् संसाराभाव-प्रसङ्ग इति । एतौ दोषौ प्रत्युक्तौ विद्याविद्ययोर् वैलक्षण्याभ्युपगमाद् इति । कथम् ? अविद्या-परिकल्पित-दोषेण तद्-विषयं वस्तु पारमार्थिकं न दुष्यतीति । तथा च दृष्टन्तो दर्शितः - मरीच्य्-अम्भसा ऊषर-देशो न पङ्कीक्रियत इति । संसारिणो ऽभावात् संसाराभाव-प्रसङ्ग-दोषो ऽपि संसार-संसारिणोर् अविद्या-कल्पितत्वोपपत्त्या प्रत्युक्तः ॥ ननु अविद्यावत्त्वम् एव क्षेत्रज्ञस्य संसारित्व-दोषः । तत्-कृतं च सुखित्व-दुःखित्वादि प्रत्यक्षम् उपलभ्यते इति चेत्, न । ज्ञेयस्य क्षेत्र-धर्मत्वात्, ज्ञातुः क्षेत्रज्ञस्य तत्-कृत-दोषानुपपत्तेः । यावत् किंचित् क्षेत्रज्ञस्य दोष-जातम् अविद्यमानम् आसञ्जयसि, तस्य ज्ञेयत्वोपपत्तेः क्षेत्र-धर्मत्वम् एव, न क्षेत्रज्ञ-धर्मत्वम् । न च तेन क्षेत्रज्ञो दुष्यति, ज्ञेयेन ज्ञातुः संसर्गानुपपत्तेः । यदि हि संसर्गः स्यात्, ज्ञेयत्वम् एव नोपपद्येत । यद्य् आत्मनो धर्मो ऽविद्यावत्त्वं दुःखित्वादि च कथं भोः प्रत्यक्षम् उपलभ्यते । कथं वा क्षेत्रज्ञ-धर्मः । ज्ञेयं च सर्वं क्षेत्रं ज्ञातैव क्षेत्रज्ञ इत्य् अवधारिते, अविद्या-दुःखित्वादेः क्षेत्रज्ञ-विशेषणत्वं क्षेत्रज्ञ-धर्मत्वं तस्य च प्रत्यक्षोपलभ्यत्वम् इति विरुद्धम् उच्यते ऽविद्या-मात्रावष्टम्भात् केवलम् ॥ अत्राह - साविद्या कस्य ? इति । यस्य दृश्यते तस्यैव । कस्य दृश्यते ? इति । अत्रोच्यते - अविद्या कस्य दृश्यते इति प्रश्नो निरर्थकः । कथम् ? दृश्यते चेद् अविद्या, तद्वन्तम् अपि पश्यसि । न च तद्वत्य् उपलभ्यमाने सा कस्य ? इति प्रश्नो युक्तः । न हि गोमति उपलभ्यमाने गावः कस्य ? इति प्रश्नो ऽर्थवान् भवति । ननु विषमो दृष्टान्तः । गवां तद्वतश् च प्रत्यक्षत्वात् तत्-संबन्धो ऽपि प्रत्यक्ष इति प्रश्नो निरर्थकः । न तथाविद्या तद्वांश् च प्रत्यक्षौ, यतः प्रश्नो निरर्थकः स्यात् । अप्रत्यक्षेणाविद्यावताविद्या-संबन्धे ज्ञाते, किं तव स्यात् ? अविद्याया अनर्थ-हेतुत्वात् परिहर्तव्या स्यात् । यस्याविद्या, स तां परिहरिष्यति । ननु ममैवाविद्या । जानासि तर्ह्य् अविद्यां तद्वन्तं च आत्मानम् । जानामि, न तु प्रत्यक्षेण । अनुमानेनश् चेज् जानासि, कथं संबन्धग्रहणम् ? न हि तव ज्ञातुः ज्ञेय-भूतयाविद्यया तत्-काले संबन्धो ग्रहीतुं शक्यते, अविद्याया विषयत्वेनैव ज्ञातुर् उपयुक्तत्वात् । न च ज्ञातुर् अविद्याया च संबन्धस्य यो ग्रहीता, ज्ञानं चान्यत् तद्-विषयं संभवति । अनवस्था-प्राप्तेः । यदि ज्ञात्रापि ज्ञेय-संबन्धो ज्ञायते, अन्यो ज्ञाता कल्प्यः स्यात्, तस्याप्य् अन्यः, तस्याप्य् अन्यः इत्य् अनवस्थापरिहार्या । यदि पुनर् अविद्या ज्ञेया, अन्यद् वा ज्ञेयं ज्ञेयम् एव । तथा ज्ञातापि ज्ञातैव, न ज्ञेयं भवति । यदा चैवम्, अविद्या-दुःखित्वाद्यैर् न ज्ञातुः क्षेत्रज्ञस्य किंचित् दुष्यति ॥ ननु अयम् एव दोषः, यत् दोषवत्-क्षेत्र-विज्ञातृत्वम् । न च विज्ञान-स्वरूपस्यैवाविक्रियस्य विज्ञातृत्वोपचारात् । यथोष्णता-मात्रेणाग्नेस् तप्ति-क्रियोपचारः, तद्वत् । यथात्र भगवता क्रियाकारक-फलात्मत्वाभाव आत्मनि स्वत एव दर्शितः - अविद्याध्यारोपित एव क्रिया-कारकादिर् आत्मन्य् उपचर्यते । तथा तत्र तत्र य एनं वेत्ति हन्तारम् [गीता २।१९], प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः [गीता ३।२७], नादत्ते कस्यचित् पापम् [गीता ५।१५] इत्य् आदि-प्रकरणेषु दर्शितः । तथैव च व्याख्यातम् अस्माभिः । उत्तरेषु च प्रकरणेषु दर्शयिष्यामः ॥ हन्त ! तर्ह्य् आत्मनि क्रिया-कारक-फलात्मतायाः स्वतो ऽभावे, अविद्यया चाध्यारोपितत्वे, कर्माण्य् अविद्वत्-कर्तव्यान्य् एव, न विदुषाम् इति प्राप्तम् । सत्यम् एवं प्राप्तम्, एतद् एव च न हि देह-भृता शक्यम् इत्य् अत्र दर्शयिष्यामः । सर्व-शास्त्रार्थोपसंहार-प्रकरणे च समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा इत्य् अत्र विशेषतो दर्शयिष्यामः । अलम् इह बहु-प्रपञ्चनेन, इति उपसंह्रियते

aṃ paśya yathā-viśiṣṭam || [Mbh 12.201.17] iti | tathā ca - dehādiṣu ātma-buddhir avidvān rāga-dveṣādi-prayukto dharmādharmānuṣṭhāna-kṛj jāyate mriyate cety avagamyate | dehādi-vyatiriktātma-darśino rāga-dveṣādi-prahāṇāpekṣa-dharmādharma-pravṛtty-upaśamān mucyanta iti na kenacit pratyākhyātuṃ śakyaṃ nyāyataḥ | tatraivaṃ sati, kṣetrajñasyeśvarasyaiva sato 'vidyā-kṛtopādhi-bhedataḥ saṃsāritvam iva bhavati, yathā dehādy-ātmatvam ātmanaḥ | sarva-jantūnāṃ hi prasiddho dehādiṣv anātmasu ātma-bhāvo niścito 'vidyā-kṛtaḥ, yathā sthāṇau puruṣa-niścayaḥ | na caitāvatā puruṣa-dharmaḥ sthāṇor bhavati, sthāṇu-dharmo vā puruṣasya | tathā na caitanya-dharmo dehasya, deha-dharmo vā cetanasya sukha-duḥkha-mohātmakatvādir ātmano na yuktaḥ | avidyā-kṛtatvāviśeṣāt, jarā-mṛtyuvat | na, atulyatvāt | iti cet - sthāṇu-puruṣau jñeyāv eva santau jñātrānyonyasminn adhyastāv avidyayā | dehātmanos tu jñeya-jñātror eva itaretarādhyāsaḥ, iti na samo dṛṣṭāntaḥ | ato deha-dharmo jñeyo 'pi jñātur ātmano bhavatīti cet, na | acaitanyādi-prasaṅgāt | yadi hi jñeyasya dehādeḥ kṣetrasya dharmāḥ sukha-duḥkha-mohecchādayo jñātur bhavanti, tarhi, jñeyasya kṣetrasya dharmāḥ kecit ātmano bhavanty avidyādhyāropitāḥ, jarā-maraṇādayas tu na bhavantīti viśeṣa-hetur vaktavyaḥ | na bhavantīty asty anumānam - avidyādhyāropitatvāj jarā-maraṇādivad iti, heyatvāt, upādeyatvāc cety ādi | tatraivaṃ sati, kartṛtva-bhoktṛtva-lakṣaṇaḥ saṃsāro jñeya-stho jñātary avidyayādhyāropita iti, na tena jñātuḥ kiṃcid duṣyati | yathā bālair adhyāropitenākāśasya tala-malinatvādinā | evaṃ ca sati, sarva-kṣetreṣv api sato bhagavataḥ kṣetrajñasyeśvarasya saṃsāritva-gandha-mātram api nāśaṅkayam | na hi kvacid api loke 'vidyādhyastena dharmeṇa kasyacid upakāro 'pakāro vā dṛṣṭaḥ | yat tūktam - na samo dṛṣṭānta iti, tad asat | katham ? avidyādhyāsa-mātraṃ hi dṛṣṭānta-dārṣṭāntikayoḥ sādharmyaṃ vivakṣitam | tan na vyabhicarati | yat tu jñātari vyabhicaratīti manyase, tasyāpy anaikāntikatvaṃ darśitaṃ jarādibhiḥ || avidyāvattvāt kṣetrajñasya saṃsāritvam iti cet, na | avidyāyās tāmasatvāt | tāmaso hi pratyayaḥ, āvaraṇātmakatvād avidyā viparīta-grāhakaḥ, saṃśayopasthāpako vā, agrahaṇātmako vā | viveka-prakāśa-bhāve tad-abhāvāt tāmase cāvaraṇātmake timirādi-doṣe saty agrahaṇāder avidyā-trayasya upalabdheḥ || atrāha - evaṃ tarhi jñātṛ-dharmo 'vidyā | na | karaṇe cakṣuṣi taimirikatvādi-doṣopalabdheḥ | yat tu manyase - jñātṛ-dharmo 'vidyā, tad eva cāvidyā-dharmavattvaṃ kṣetrajñasya saṃsāritvam | tatra yad uktam īśvara eva kṣetrajñaḥ, na saṃsārīty etad ayuktam iti, tan na | yathā karaṇe cakṣuṣi viparīta-grāhakādi-doṣasya darśanāt | na viparītādi-grahaṇaṃ tan-nimittaṃ vā taimirikatvādi-doṣo grahītuḥ, cakṣuṣaḥ saṃskāreṇa timire 'panīte grahītur adarśanān na grahītur dharmo yathā | tathā sarvatraivāgrahaṇa-viparīta-saṃśaya-pratyayās tan-nimittāḥ karaṇasyaiva kasyacit bhavitum arhanti, na jñātuḥ kṣetrajñasya | saṃvedyatvāc ca teṣāṃ pradīpa-prakāśavan na jñātṛ-dharmatvam | saṃvedyatvād eva svātma-vyatirikta-saṃvedyatvam | sarva-karaṇa-viyoge ca kaivalye sarva-vādibhir avidyādi-doṣavat-tvānabhyupagamāt | ātmano yadi kṣetrajñasyāgny-uṣṇavat svo dharmaḥ, tato na kadācid api tena viyogaḥ syāt | avikriyasya ca vyomavat sarva-gatasyāmūrtasya ātmanaḥ kenacit saṃyoga-viyogānupapatteḥ, siddhaṃ kṣetrajñasya nityam eveśvaratvam | anāditvān nirguṇatvād [Gītā 13.32] ity ādīśvara-vacanāc ca || nanv evaṃ sati saṃsāra-saṃsāritvābhāve śāstrānarthakyādi-doṣaḥ syād iti cet, na | sarvair abhyupagatatvāt | sarvair hy ātma-vādibhir abhyupagato doṣo naikena parihartavyo bhavati | katham abhyupagata iti ? muktātmanāṃ hi saṃsāra-saṃsāritva-vyavahārābhāvaḥ sarvair eva ātma-vādibhir iṣyate | na ca teṣāṃ śāstrānarthakyādi-doṣa-prāptir abhyupagatā | tathā naḥ kṣetrajñānām īśvaraikatve sati, śāstrānarthakyaṃ bhavatu | avidyā-viṣaye cārthavattvam - yathā dvaitināṃ sarveṣāṃ bandhāvasthāyām eva śāstrādy-arthavattvam, na muktāvasthāyām, evam || nanv ātmano bandha-muktāvasthe paramārthata eva vastu-bhūte dvaitināṃ sarveṣām | ato heyopādeya-tat-sādhana-sad-bhāve śāstrādy-arthavattvaṃ syāt | advaitināṃ punaḥ, dvaitasyāparamārthatvāt, avidyā-kṛtatvād bandhāvasthāyāś cātmano 'paramārthatve nirviṣayatvāt, śāstrādyānarthakyam iti cet, na | ātmano 'vasthā-bhedānupapatteḥ | yadi tāvat ātmano bandha-muktāvasthe, yugapat syātām, krameṇa vā | yugapat tāvat virodhān na saṃbhavataḥ sthiti-gatī ivaikasmin | krama-bhāvitve ca, nirnimittatvaṃ sa-nimittatvaṃ vā ? nirnimittatve 'nirmokṣa-prasaṅgaḥ | sa-nimittatve ca svato 'bhāvāt aparamārthatva-prasaṅgaḥ | tathā ca saty abhyupagama-hāniḥ | kiṃ ca, bandha-muktāvasthayoḥ paurvāparya-nirūpaṇāyāṃ bandhāvasthā pūrvaṃ prakalpyā, anādimaty antavatī ca | tac ca pramāṇa-viruddham | tathā mokṣāvasthādimaty anantā ca pramāṇa-viruddhaivābhyupagamyate | na cāvasthāvato 'vasthāntaraṃ gacchato nityatvam upapādayituṃ śakyam | athānityatva-doṣa-parihārāya bandha-muktāvasthā-bhedo na kalpyate | ato dvaitinām api śāstrānarthakyādi-doṣo 'parihārya eva | iti samānatvān nādvaita-vādinā parihartavyo doṣaḥ || na ca śāstrānarthakyam, yathā-prasiddhāvidvat-puruṣa-viṣayatvāc chāstrasya | aviduṣāṃ hi phala-hetvor anātmanor ātma-darśanam, na viduṣām | viduṣāṃ hi phala-hetubhyām ātmano 'nyatva-darśane sati, tayor aham ity ātma-darśanānupapatteḥ | na hy atyanta-mūḍha unmattādir api jalāgnyoś chāyā-prakāśayor vaikātmyaṃ paśyati | kim uta vivekī | tasmān na vidhi-pratiṣedha-śāstraṃ tāvat phala-hetubhyām ātmano 'nyatva-darśino bhavati | na hi "devadatta, tvam idaṃ kuru" iti kasmiṃścit karmaṇi niyukte, "viṣṇumitro 'haṃ niyuktaḥ" iti tatra-stho niyogaṃ sṛṇvann api pratipadyate | viyoga-viṣaya-vivekāgrahaṇāt tūpapadyate pratipattiḥ | tathā phala-hetvor api || nanu prākṛta-saṃbandhāpekṣayā yuktaiva pratipattiḥ śāstrārtha-viṣayā - phala-hetubhyām anyātma-viṣaya-darśane 'pi sati - iṣṭa-phala-hetau pravartito 'smi, aniṣṭa-phala-hetoś ca nivartito 'smīti | yathā pitṛ-putrādīnām itaretarātmānyatva-darśane saty apy anyonya-niyoga-pratiṣedhārtha-pratipattiḥ | na | vyatiriktātma-darśana-pratipatteḥ prāg eva phala-hetvor ātmābhimānasya siddhatvāt | pratipanna-niyoga-pratiṣedhārtho hi phala-hetubhyām ātmano 'nyatvaṃ pratipadyate, na pūrvam | tasmād vidhi-pratiṣedha-śāstram avidvad-viṣayam iti siddham || nanu svarga-kāmo yajeta [Ap.Śr.S. 10.2.1] na kalañjaṃ bhakṣayed ity ādāv ātma-vyatireka-darśinām apravṛttau, kevala-dehādy-ātma-dṛṣṭīnāṃ ca | ataḥ kartur abhāvāc chāstrānarthakyam iti cet, na | yathā-prasiddhita eva pravṛtti-nivṛtty-upapatteḥ | īśvara-kṣetrajñaikatva-darśī brahma-vit tāvan na pravartate | tathā nairātmyavādy api nāsti para-loka iti na pravartate | yathā-prasiddhitas tu vidhi-pratiṣedha-śāstra-śravaṇānyathānupapattyānumitātmāstitva ātma-viśeṣānabhijñaḥ karma-phala-saṃjāta-tṛṣṇaḥ śraddadhānatayā ca pravartate | iti sarveṣāṃ na pratyakṣam | ato na śāstrānarthakyam || vivekinām apravṛtti-darśanāt tad-anugāminām apravṛttau śāstrānarthakyam iti cet, na | kasyacid eva vivekopapatteḥ | anekeṣu hi prāṇiṣu kaścid eva vivekī syāt, yathedānīm | na ca vivekinam anuvartante mūḍhāḥ, rāgādi-doṣa-tantratvāt pravṛtteḥ, abhicaraṇādau ca pravṛtti-darśanāt, svābhāvyāc ca pravṛtteḥ | svabhāvas tu pravartate [Gītā 5.14] iti hi uktam || tasmāt avidyā-mātraṃ saṃsāro yathā-dṛṣṭa-viṣaya eva | na kṣetrajñasya kevalasyāvidyā tat-kāryaṃ ca | na ca mithyā-jñānaṃ paramārtha-vastu dūṣayituṃ samartham | na hy ūṣara-deśaṃ snehena paṅkī-kartuṃ śaknoti marīcy-udakam | tathāvidyā kṣetrajñasya na kiṃcit kartuṃ śaknoti | ataś cedam uktam - kṣetrajñaṃ cāpi māṃ viddhi | ajñānenāvṛtaṃ jñānam [Gītā 5.15] iti ca || atha kim idaṃ saṃsāriṇām ivāham evam mamaivedam iti paṇḍitānām api ? sṛṇu | idaṃ tat pāṇḍityam, yat kṣetra evātma-darśanam | yadi punaḥ kṣetrajñam avikriyaṃ paśyeyus tato na bhogaṃ karma vākāṅkṣeyur mama syād iti | vikriyaiva bhoga-karmaṇī | athaivaṃ sati, phalārthitvād avidvān pravartate | viduṣaḥ punar avikriyātma-darśinaḥ phalārthitvābhāvāt pravṛtty-anupapattau kārya-karaṇa-saṃghāta-vyāpāroparame nivṛttir upacaryate || idaṃ cānyat pāṇḍityaṃ kasyacid astu - kṣetrajña īśvara eva | kṣetraṃ cānyat kṣetrajñasyaiva viṣayaḥ | ahaṃ tu saṃsārī sukhī duḥkhī ca | saṃsāroparamaś ca mama kartavyaḥ kṣetra-kṣetrajña-vijñānena, dhyānena ceśvaraṃ kṣetrajñaṃ sākṣāt kṛtvā tat-svarūpāvasthāneneti | yaś caivaṃ budhyate, yaś ca bodhayati, nāsau kṣetrajña iti | evaṃ manvāno yaḥ sa paṇḍitāpaśabdaḥ | saṃsāra-mokṣayoḥ śāstrasya cārthavattvaṃ karomīti | ātmahā svayaṃ mūḍho 'nyāṃ ca vyāmohayati śāstrārtha-saṃpradāya-rahitatvāt, śruta-hānim aśruta-kalpanāṃ ca kurvan | tasmāt asaṃpradāya-vit sarva-śāstra-vid api mūrkhavad eva upekṣaṇīyaḥ || yat tūktam īśvarasya kṣetrajñaikatve saṃsāritvaṃ prāpnoti | kṣetrajñānāṃ ceśvaraikatve saṃsāriṇo 'bhāvāt saṃsārābhāva-prasaṅga iti | etau doṣau pratyuktau vidyāvidyayor vailakṣaṇyābhyupagamād iti | katham ? avidyā-parikalpita-doṣeṇa tad-viṣayaṃ vastu pāramārthikaṃ na duṣyatīti | tathā ca dṛṣṭanto darśitaḥ - marīcy-ambhasā ūṣara-deśo na paṅkīkriyata iti | saṃsāriṇo 'bhāvāt saṃsārābhāva-prasaṅga-doṣo 'pi saṃsāra-saṃsāriṇor avidyā-kalpitatvopapattyā pratyuktaḥ || nanu avidyāvattvam eva kṣetrajñasya saṃsāritva-doṣaḥ | tat-kṛtaṃ ca sukhitva-duḥkhitvādi pratyakṣam upalabhyate iti cet, na | jñeyasya kṣetra-dharmatvāt, jñātuḥ kṣetrajñasya tat-kṛta-doṣānupapatteḥ | yāvat kiṃcit kṣetrajñasya doṣa-jātam avidyamānam āsañjayasi, tasya jñeyatvopapatteḥ kṣetra-dharmatvam eva, na kṣetrajña-dharmatvam | na ca tena kṣetrajño duṣyati, jñeyena jñātuḥ saṃsargānupapatteḥ | yadi hi saṃsargaḥ syāt, jñeyatvam eva nopapadyeta | yady ātmano dharmo 'vidyāvattvaṃ duḥkhitvādi ca kathaṃ bhoḥ pratyakṣam upalabhyate | kathaṃ vā kṣetrajña-dharmaḥ | jñeyaṃ ca sarvaṃ kṣetraṃ jñātaiva kṣetrajña ity avadhārite, avidyā-duḥkhitvādeḥ kṣetrajña-viśeṣaṇatvaṃ kṣetrajña-dharmatvaṃ tasya ca pratyakṣopalabhyatvam iti viruddham ucyate 'vidyā-mātrāvaṣṭambhāt kevalam || atrāha - sāvidyā kasya ? iti | yasya dṛśyate tasyaiva | kasya dṛśyate ? iti | atrocyate - avidyā kasya dṛśyate iti praśno nirarthakaḥ | katham ? dṛśyate ced avidyā, tadvantam api paśyasi | na ca tadvaty upalabhyamāne sā kasya ? iti praśno yuktaḥ | na hi gomati upalabhyamāne gāvaḥ kasya ? iti praśno 'rthavān bhavati | nanu viṣamo dṛṣṭāntaḥ | gavāṃ tadvataś ca pratyakṣatvāt tat-saṃbandho 'pi pratyakṣa iti praśno nirarthakaḥ | na tathāvidyā tadvāṃś ca pratyakṣau, yataḥ praśno nirarthakaḥ syāt | apratyakṣeṇāvidyāvatāvidyā-saṃbandhe jñāte, kiṃ tava syāt ? avidyāyā anartha-hetutvāt parihartavyā syāt | yasyāvidyā, sa tāṃ parihariṣyati | nanu mamaivāvidyā | jānāsi tarhy avidyāṃ tadvantaṃ ca ātmānam | jānāmi, na tu pratyakṣeṇa | anumānenaś cej jānāsi, kathaṃ saṃbandhagrahaṇam ? na hi tava jñātuḥ jñeya-bhūtayāvidyayā tat-kāle saṃbandho grahītuṃ śakyate, avidyāyā viṣayatvenaiva jñātur upayuktatvāt | na ca jñātur avidyāyā ca saṃbandhasya yo grahītā, jñānaṃ cānyat tad-viṣayaṃ saṃbhavati | anavasthā-prāpteḥ | yadi jñātrāpi jñeya-saṃbandho jñāyate, anyo jñātā kalpyaḥ syāt, tasyāpy anyaḥ, tasyāpy anyaḥ ity anavasthāparihāryā | yadi punar avidyā jñeyā, anyad vā jñeyaṃ jñeyam eva | tathā jñātāpi jñātaiva, na jñeyaṃ bhavati | yadā caivam, avidyā-duḥkhitvādyair na jñātuḥ kṣetrajñasya kiṃcit duṣyati || nanu ayam eva doṣaḥ, yat doṣavat-kṣetra-vijñātṛtvam | na ca vijñāna-svarūpasyaivāvikriyasya vijñātṛtvopacārāt | yathoṣṇatā-mātreṇāgnes tapti-kriyopacāraḥ, tadvat | yathātra bhagavatā kriyākāraka-phalātmatvābhāva ātmani svata eva darśitaḥ - avidyādhyāropita eva kriyā-kārakādir ātmany upacaryate | tathā tatra tatra ya enaṃ vetti hantāram [Gītā 2.19], prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ [Gītā 3.27], nādatte kasyacit pāpam [Gītā 5.15] ity ādi-prakaraṇeṣu darśitaḥ | tathaiva ca vyākhyātam asmābhiḥ | uttareṣu ca prakaraṇeṣu darśayiṣyāmaḥ || hanta ! tarhy ātmani kriyā-kāraka-phalātmatāyāḥ svato 'bhāve, avidyayā cādhyāropitatve, karmāṇy avidvat-kartavyāny eva, na viduṣām iti prāptam | satyam evaṃ prāptam, etad eva ca na hi deha-bhṛtā śakyam ity atra darśayiṣyāmaḥ | sarva-śāstrārthopasaṃhāra-prakaraṇe ca samāsenaiva kaunteya niṣṭhā jñānasya yā parā ity atra viśeṣato darśayiṣyāmaḥ | alam iha bahu-prapañcanena, iti upasaṃhriyate

Sanskrit only: no published translation is held for this verse.

यन् निर्दिष्टम् इदं शरीरम् इति तत् तच्-छब्देन परामृशति । यच् च इदं निर्दिष्टं क्षेत्रं तत् यादृक् यादृशं स्वकीयैर् धर्मैः । च-शब्दः समुच्चयार्थः । यद्-विकारि यो विकारो यस्य तत् यद्-विकारि, यतो यस्माच् च यत्, कार्यम् उत्पद्यते इति वाक्य-शेषः । स च यः क्षेत्रज्ञो निर्दिष्टः स यत्-प्रभावो ये प्रभावा उपाधि-कृताः शक्तयो यस्य स यत्-प्रभावश् च । तत् क्षेत्र-क्षेत्रज्ञयोर् याथात्म्यं यथा-विशेषितं समासेन संक्षेपेण मे मम वाक्यतः शृणु । श्रुत्वावधारय इत्य् अर्थः

yan nirdiṣṭam idaṃ śarīram iti tat tac-chabdena parāmṛśati | yac ca idaṃ nirdiṣṭaṃ kṣetraṃ tat yādṛk yādṛśaṃ svakīyair dharmaiḥ | ca-śabdaḥ samuccayārthaḥ | yad-vikāri yo vikāro yasya tat yad-vikāri, yato yasmāc ca yat, kāryam utpadyate iti vākya-śeṣaḥ | sa ca yaḥ kṣetrajño nirdiṣṭaḥ sa yat-prabhāvo ye prabhāvā upādhi-kṛtāḥ śaktayo yasya sa yat-prabhāvaś ca | tat kṣetra-kṣetrajñayor yāthātmyaṃ yathā-viśeṣitaṃ samāsena saṃkṣepeṇa me mama vākyataḥ śṛṇu | śrutvāvadhāraya ity arthaḥ

Sanskrit only: no published translation is held for this verse.

ऋषिभिर् वसिष्ठादिभिर् बहुधा बहु-प्रकारं गीतं कथितम् । छन्दोभिश् छन्दांसि ऋग्-आदीनि तैश् छन्दोभिर् विविधैर् नाना-भावैर् नाना-प्रकारैः पृथग् विवेकतो गीतम् । किं च, ब्रह्म-सूत्र-पदैश् चैव ब्रह्मणः सूचकानि वाक्यानि ब्रह्म-सूत्राणि तैः पद्यते गम्यते ज्ञायत इति तानि पदान्य् उच्यन्ते तैर् एव च क्षेत्र-क्षेत्रज्ञ-याथात्म्यम् गीतम् इत्य् अनुवर्तते । आत्मेत्य् एवोपासीत इत्य् एवम् आदिभिर् ब्रह्म-सूत्र-पदैर् आत्मा ज्ञायते । हेतुमद्भिर् युक्ति-युक्तैर् विनिश्चितैर् निःसंशय-रूपैर् निश्चित-प्रत्ययोत्पादकैर् इत्य् अर्थः

ṛṣibhir vasiṣṭhādibhir bahudhā bahu-prakāraṃ gītaṃ kathitam | chandobhiś chandāṃsi ṛg-ādīni taiś chandobhir vividhair nānā-bhāvair nānā-prakāraiḥ pṛthag vivekato gītam | kiṃ ca, brahma-sūtra-padaiś caiva brahmaṇaḥ sūcakāni vākyāni brahma-sūtrāṇi taiḥ padyate gamyate jñāyata iti tāni padāny ucyante tair eva ca kṣetra-kṣetrajña-yāthātmyam gītam ity anuvartate | ātmety evopāsīta ity evam ādibhir brahma-sūtra-padair ātmā jñāyate | hetumadbhir yukti-yuktair viniścitair niḥsaṃśaya-rūpair niścita-pratyayotpādakair ity arthaḥ

Sanskrit only: no published translation is held for this verse.

महा-भूतानि महान्ति च तानि सर्व-विकार-व्यापकत्वाद् भूतानि च सूक्ष्माणि । स्थूलानि त्व् इन्द्रिय-गोचर-शब्देनाभिधायिष्यन्ते । अहंकारो महा-भूत-कारणम् अहं-प्रत्यय-लक्षणः । अहंकार-कारणं बुद्धिर् अध्यवसाय-लक्षणा । तत्-कारणम् अव्यक्तम् एव च, न व्यक्तम् अव्यक्तम् अव्याकृतम् ईश्वर-शक्तिर् मम माया दुरत्यया इत्य् उक्तम् । एव-शब्दः प्रकृत्य्-अवधारणार्थ एतावत्य् एवाष्टधा भिन्ना प्रकृतिः । च-शब्दो भेद-समुच्चयार्थः । इन्द्रियाणि दश, श्रोत्रादीनि पञ्च बुद्ध्य्-उत्पादकत्वाद् बुद्धीन्द्रियाणि । वाक्-पाण्य्-आदीनि पञ्च कर्म-निर्वर्तकत्वात् कर्मेन्द्रियाणि । तानि दश । एकं च । किं तत् ? मन एकादशं संकल्पाद्यात्मकम् । पञ्च चेन्द्रिय-गोचराः शब्दादयो विषयाः । तान्य् एतानि सांख्याश् चतुर्-विंशति-तत्त्वान्य् आचक्षते

mahā-bhūtāni mahānti ca tāni sarva-vikāra-vyāpakatvād bhūtāni ca sūkṣmāṇi | sthūlāni tv indriya-gocara-śabdenābhidhāyiṣyante | ahaṃkāro mahā-bhūta-kāraṇam ahaṃ-pratyaya-lakṣaṇaḥ | ahaṃkāra-kāraṇaṃ buddhir adhyavasāya-lakṣaṇā | tat-kāraṇam avyaktam eva ca, na vyaktam avyaktam avyākṛtam īśvara-śaktir mama māyā duratyayā ity uktam | eva-śabdaḥ prakṛty-avadhāraṇārtha etāvaty evāṣṭadhā bhinnā prakṛtiḥ | ca-śabdo bheda-samuccayārthaḥ | indriyāṇi daśa, śrotrādīni pañca buddhy-utpādakatvād buddhīndriyāṇi | vāk-pāṇy-ādīni pañca karma-nirvartakatvāt karmendriyāṇi | tāni daśa | ekaṃ ca | kiṃ tat ? mana ekādaśaṃ saṃkalpādyātmakam | pañca cendriya-gocarāḥ śabdādayo viṣayāḥ | tāny etāni sāṃkhyāś catur-viṃśati-tattvāny ācakṣate

Sanskrit only: no published translation is held for this verse.

इच्छा यज्-जातीयं सुख-हेतुम् अर्थम् उपलब्धवान् पूर्वम्, पुनस् तज्-जातीयम् उपलभमानस् तम् आदातुम् इच्छति सुख-हेतुर् इति । सेयं इच्छान्तः-करण-धर्मो ज्ञेयत्वात् क्षेत्रम् । तथा द्वेषः, यज्-जातीयम् अर्थं दुःख-हेतुत्वेनानुभूतवान्, पुनस् तज्-जातीयम् अर्थम् उपलभमानस् तं द्वेष्टि । सो ऽयं द्वेषो ज्ञेयत्वात् क्षेत्रम् एव । तथा सुखम् अनुकूलं प्रसन्न-सत्त्वात्मकं ज्ञेयत्वात् क्षेत्रम् एव । दुःखं प्रतिकूलात्मकम् । ज्ञेयत्वात् तद् अपि क्षेत्रम् । संघातो देहेन्द्रियाणां संहतिः । तस्याम् अभिव्यक्तान्तःकरण-वृत्तिः, तप्त इव लोह-पिण्डे ऽग्निः । आत्म-चैतन्याभास-रस-विद्धा चेतना । सा च क्षेत्रं ज्ञेयत्वात् । धृतिर् ययावसाद-प्राप्तानि देहेन्द्रियाणि ध्रियन्ते । सा च ज्ञेयत्वात् क्षेत्रम् । सर्वान्तः-करण-धर्मोपलक्षणार्थम् इच्छादि-ग्रहणम् । यत उक्तम् उपसंहरति - एतद् इति । एतत् क्षेत्रं समासेन स-विकारं सह विकारेण महद्-आदिना उदाहृतम् उक्तम्

icchā yaj-jātīyaṃ sukha-hetum artham upalabdhavān pūrvam, punas taj-jātīyam upalabhamānas tam ādātum icchati sukha-hetur iti | seyaṃ icchāntaḥ-karaṇa-dharmo jñeyatvāt kṣetram | tathā dveṣaḥ, yaj-jātīyam arthaṃ duḥkha-hetutvenānubhūtavān, punas taj-jātīyam artham upalabhamānas taṃ dveṣṭi | so 'yaṃ dveṣo jñeyatvāt kṣetram eva | tathā sukham anukūlaṃ prasanna-sattvātmakaṃ jñeyatvāt kṣetram eva | duḥkhaṃ pratikūlātmakam | jñeyatvāt tad api kṣetram | saṃghāto dehendriyāṇāṃ saṃhatiḥ | tasyām abhivyaktāntaḥkaraṇa-vṛttiḥ, tapta iva loha-piṇḍe 'gniḥ | ātma-caitanyābhāsa-rasa-viddhā cetanā | sā ca kṣetraṃ jñeyatvāt | dhṛtir yayāvasāda-prāptāni dehendriyāṇi dhriyante | sā ca jñeyatvāt kṣetram | sarvāntaḥ-karaṇa-dharmopalakṣaṇārtham icchādi-grahaṇam | yata uktam upasaṃharati - etad iti | etat kṣetraṃ samāsena sa-vikāraṃ saha vikāreṇa mahad-ādinā udāhṛtam uktam

Sanskrit only: no published translation is held for this verse.

अमानित्वं मानिनो भावः मानित्वम् आत्मनो श्लाघनम्, तद्-अभावो ऽमानित्वम् । अदम्भित्वं स्व-धर्म-प्रकटीकरणं दम्भित्वम्, तद्-अभावो ऽदम्भित्वम् । अहिंसा हिंसनं प्राणिनाम् अपीडानम् । क्षान्तिः परापराध-प्राप्ताव् अविक्रिया । आर्जवम् ऋजु-भावो ऽवक्रत्वम् । आचार्योपासनं मोक्ष-साधनोपदेष्टुर् आचार्यस्य शुश्रूषादि-प्रयोगेण सेवनम् । शौचं काय-मलानां मृज्-जलाभ्यां प्रक्षालनम् । अन्तश् च मनसः प्रतिपक्ष-भावनया रागादि-मलानाम् अपनयनं शौचम् । स्थैर्यं स्थिर-भावः, मोक्ष-मार्ग एव कृताध्यवसायत्वम् । आत्म-विनिग्रह आत्मनो ऽपकारकस्य आत्म-शब्द-वाच्यस्य कार्य-करण-संघातस्य विनिग्रहः स्वभावेन सर्वतः प्रवृत्तस्य सन्-मार्ग एव निरोध आत्म-विनिग्रहः

amānitvaṃ mānino bhāvaḥ mānitvam ātmano ślāghanam, tad-abhāvo 'mānitvam | adambhitvaṃ sva-dharma-prakaṭīkaraṇaṃ dambhitvam, tad-abhāvo 'dambhitvam | ahiṃsā hiṃsanaṃ prāṇinām apīḍānam | kṣāntiḥ parāparādha-prāptāv avikriyā | ārjavam ṛju-bhāvo 'vakratvam | ācāryopāsanaṃ mokṣa-sādhanopadeṣṭur ācāryasya śuśrūṣādi-prayogeṇa sevanam | śaucaṃ kāya-malānāṃ mṛj-jalābhyāṃ prakṣālanam | antaś ca manasaḥ pratipakṣa-bhāvanayā rāgādi-malānām apanayanaṃ śaucam | sthairyaṃ sthira-bhāvaḥ, mokṣa-mārga eva kṛtādhyavasāyatvam | ātma-vinigraha ātmano 'pakārakasya ātma-śabda-vācyasya kārya-karaṇa-saṃghātasya vinigrahaḥ svabhāvena sarvataḥ pravṛttasya san-mārga eva nirodha ātma-vinigrahaḥ

Sanskrit only: no published translation is held for this verse.

इन्द्रियार्थेषु शब्दादिषु दृष्टादृष्टेषु भोगेषु विराग-भावो वैराग्यम् । अनहंकारो ऽहंकाराभाव एव च । जन्म-मृत्यु-जरा-व्याधि-दुःख-दोषानुदर्शनं जन्म च मृत्युश् च जरा च व्याधयश् च दुःखानि च तेषु जन्मादि-दुःखान्तेषु प्रत्येकं दोषानुदर्शनम् । जन्मनि गर्भ-वास-योनि-द्वार-निःसरणं दोषः, तस्यानुदर्शनम् आलोचनम् । तथा मृत्यौ दोषानुदर्शनम् । तथा जरायां प्रज्ञा-शक्ति-तेजो-निरोध-दोषानुदर्शनं परिभूतता चेति । तथा व्याधिषु शिरो-रोगादिषु दोषानुदर्शनम् । तथा दुःखेषु अध्यात्माधिभूताधिदैव-निमित्तेषु । अथवा दुःखान्य् एव दोषो दुःख-दोषस् तस्य जन्मादिषु पूर्ववद् अनुदर्शनम् । दुःखं जन्म, दुःखं मृत्युः, दुःखं जरा, दुःखं व्याधयः । दुःख-निमित्तत्वाज् जन्मादयो दुःखम्, न पुनः स्वरूपेणैव दुःखम् इति । एवं जन्मादिषु दुःख-दोषानुदर्शनाद् देहेन्द्रियादि-विषय-भोगेषु वैराग्यम् उपजायते । ततः प्रत्यग्-आत्मनि प्रवृत्तिः करणानाम् आत्म-दर्शनाय । एवं ज्ञान-हेतुत्वाज् ज्ञानम् उच्यते जन्मादि-दुःख-दोषानुदर्शनम्

indriyārtheṣu śabdādiṣu dṛṣṭādṛṣṭeṣu bhogeṣu virāga-bhāvo vairāgyam | anahaṃkāro 'haṃkārābhāva eva ca | janma-mṛtyu-jarā-vyādhi-duḥkha-doṣānudarśanaṃ janma ca mṛtyuś ca jarā ca vyādhayaś ca duḥkhāni ca teṣu janmādi-duḥkhānteṣu pratyekaṃ doṣānudarśanam | janmani garbha-vāsa-yoni-dvāra-niḥsaraṇaṃ doṣaḥ, tasyānudarśanam ālocanam | tathā mṛtyau doṣānudarśanam | tathā jarāyāṃ prajñā-śakti-tejo-nirodha-doṣānudarśanaṃ paribhūtatā ceti | tathā vyādhiṣu śiro-rogādiṣu doṣānudarśanam | tathā duḥkheṣu adhyātmādhibhūtādhidaiva-nimitteṣu | athavā duḥkhāny eva doṣo duḥkha-doṣas tasya janmādiṣu pūrvavad anudarśanam | duḥkhaṃ janma, duḥkhaṃ mṛtyuḥ, duḥkhaṃ jarā, duḥkhaṃ vyādhayaḥ | duḥkha-nimittatvāj janmādayo duḥkham, na punaḥ svarūpeṇaiva duḥkham iti | evaṃ janmādiṣu duḥkha-doṣānudarśanād dehendriyādi-viṣaya-bhogeṣu vairāgyam upajāyate | tataḥ pratyag-ātmani pravṛttiḥ karaṇānām ātma-darśanāya | evaṃ jñāna-hetutvāj jñānam ucyate janmādi-duḥkha-doṣānudarśanam

Sanskrit only: no published translation is held for this verse.

असक्तिः सक्तिः सङ्ग-निमित्तेषु विषयेषु प्रीति-मात्रम्, तद्-अभावो ऽसक्तिः । अनभिष्वङ्गो ऽभिष्वङ्गाभावः । अभिष्वङ्गो नाम आसक्ति-विशेष एवानन्यात्म-भावना-लक्षणः । यथान्यस्मिन् सुखिनि दुःखिनि वाहम् एव सुखी, दुःखी च, जीवति मृते वाहम् एव जीवामि मरिष्यामि चेति । क्व ? इत्य् आह - पुत्र-दार-गृहादिषु । पुत्रेषु दारेषु गृहेष्व् आदि-ग्रहणाद् अन्येष्व् अप्य् अत्यन्तेष्टेषु दास-वर्गादिषु । तच् चोभयं ज्ञानार्थत्वाज् ज्ञानम् उच्यते । नित्यं च सम-चित्तत्वं तुल्य-चित्तता । क्व ? इष्टानिष्टोपपत्तिष्व् इष्टानाम् अनिष्टानां चोपपत्तयः संप्राप्तयस् तास्व् इष्टानिष्टोपपत्तिषु नित्यम् एव तुल्य-चित्तता । इष्टोपपत्तिषु न हृष्यति, न कुप्यति चानिष्टोपपत्तिषु । तच् चैतन् नित्यं सम-चित्तत्वं ज्ञानम्

asaktiḥ saktiḥ saṅga-nimitteṣu viṣayeṣu prīti-mātram, tad-abhāvo 'saktiḥ | anabhiṣvaṅgo 'bhiṣvaṅgābhāvaḥ | abhiṣvaṅgo nāma āsakti-viśeṣa evānanyātma-bhāvanā-lakṣaṇaḥ | yathānyasmin sukhini duḥkhini vāham eva sukhī, duḥkhī ca, jīvati mṛte vāham eva jīvāmi mariṣyāmi ceti | kva ? ity āha - putra-dāra-gṛhādiṣu | putreṣu dāreṣu gṛheṣv ādi-grahaṇād anyeṣv apy atyanteṣṭeṣu dāsa-vargādiṣu | tac cobhayaṃ jñānārthatvāj jñānam ucyate | nityaṃ ca sama-cittatvaṃ tulya-cittatā | kva ? iṣṭāniṣṭopapattiṣv iṣṭānām aniṣṭānāṃ copapattayaḥ saṃprāptayas tāsv iṣṭāniṣṭopapattiṣu nityam eva tulya-cittatā | iṣṭopapattiṣu na hṛṣyati, na kupyati cāniṣṭopapattiṣu | tac caitan nityaṃ sama-cittatvaṃ jñānam

Sanskrit only: no published translation is held for this verse.

मयि चेश्वरे ऽनन्य-योगेन अपृथक्-समाधिना नान्यो भगवतो वासुदेवात् परो ऽस्ति, अतः स एव नो गतिर् इत्य् एवं निश्चिताव्यभिचारिणी बुद्धिर् अनन्य-योगः, तेन भजनं भक्तिर् न व्यभिचरण-शीला अव्यभिचारिणी । सा च ज्ञानम् । विविक्त-देश-सेवित्वम् । विविक्तः स्वभावतः संस्कारेण वाशुच्य्-आदिभिः सर्प-व्याघ्रादिभिश् च रहितो ऽरण्य-नदी-पुलिन-देव-गृहादिभिर् विविक्तो देशः, तं सेवितुं शीलम् अस्येति विविक्त-देश-सेवी, तद्-भावो विविक्त-देश-सेवित्वम् । विविक्तेषु हि देशेषु चित्तं प्रसीदति यतस् ततः आत्मादि-भावना विविक्त उपजायते । अतो विवक्त-देश-सेवित्वं ज्ञानम् उच्यते । अरतिर् अरमणं जन-संसदि । जनानां प्राकृतानां संस्कार-शून्यानाम् अविनीतानां संसत् समवायो जन-संसत् । न संस्कारवतां विनीतानां संसत् । तस्या ज्ञानोपकारकत्वात् । अतः प्राकृत-जन-संसद्य् अरतिर् ज्ञानार्थत्वाज् ज्ञानम्

mayi ceśvare 'nanya-yogena apṛthak-samādhinā nānyo bhagavato vāsudevāt paro 'sti, ataḥ sa eva no gatir ity evaṃ niścitāvyabhicāriṇī buddhir ananya-yogaḥ, tena bhajanaṃ bhaktir na vyabhicaraṇa-śīlā avyabhicāriṇī | sā ca jñānam | vivikta-deśa-sevitvam | viviktaḥ svabhāvataḥ saṃskāreṇa vāśucy-ādibhiḥ sarpa-vyāghrādibhiś ca rahito 'raṇya-nadī-pulina-deva-gṛhādibhir vivikto deśaḥ, taṃ sevituṃ śīlam asyeti vivikta-deśa-sevī, tad-bhāvo vivikta-deśa-sevitvam | vivikteṣu hi deśeṣu cittaṃ prasīdati yatas tataḥ ātmādi-bhāvanā vivikta upajāyate | ato vivakta-deśa-sevitvaṃ jñānam ucyate | aratir aramaṇaṃ jana-saṃsadi | janānāṃ prākṛtānāṃ saṃskāra-śūnyānām avinītānāṃ saṃsat samavāyo jana-saṃsat | na saṃskāravatāṃ vinītānāṃ saṃsat | tasyā jñānopakārakatvāt | ataḥ prākṛta-jana-saṃsady aratir jñānārthatvāj jñānam

Sanskrit only: no published translation is held for this verse.

अध्यात्म-ज्ञान-नित्यत्वम् आत्मादि-विषयं ज्ञानम् अध्यात्म-ज्ञानम्, तस्मिन् नित्य-भावो नित्यत्वम् । अमानित्वादीनां ज्ञान-साधनानां भावना-परिपाक-निमित्तं तत्त्व-ज्ञानम्, तस्यार्थो मोक्षः संसारोपरमः । तस्यालोचनं तत्त्व-ज्ञानार्थ-दर्शनम् । तत्त्व-ज्ञान-फलालोचने हि तत्-साधनानुष्ठाने प्रवृत्तिः स्याद् इति । एतद् अमानित्वादि-तत्त्व-ज्ञानार्थ-दर्शनान्तम् उक्तं ज्ञानम् इति प्रोक्तं ज्ञानार्थत्वात् । अज्ञानं यद् अतो ऽस्माद् यथोक्ताद् अन्यथा विपर्ययेण । मानित्वं दम्भित्वं हिंसा क्षान्तिर् अनार्जवम् इत्य् आद्य् अज्ञानं विज्ञेयं परिहरणाय, संसार-प्रवृत्ति-कारणत्वाद् इति

adhyātma-jñāna-nityatvam ātmādi-viṣayaṃ jñānam adhyātma-jñānam, tasmin nitya-bhāvo nityatvam | amānitvādīnāṃ jñāna-sādhanānāṃ bhāvanā-paripāka-nimittaṃ tattva-jñānam, tasyārtho mokṣaḥ saṃsāroparamaḥ | tasyālocanaṃ tattva-jñānārtha-darśanam | tattva-jñāna-phalālocane hi tat-sādhanānuṣṭhāne pravṛttiḥ syād iti | etad amānitvādi-tattva-jñānārtha-darśanāntam uktaṃ jñānam iti proktaṃ jñānārthatvāt | ajñānaṃ yad ato 'smād yathoktād anyathā viparyayeṇa | mānitvaṃ dambhitvaṃ hiṃsā kṣāntir anārjavam ity ādy ajñānaṃ vijñeyaṃ pariharaṇāya, saṃsāra-pravṛtti-kāraṇatvād iti

Sanskrit only: no published translation is held for this verse.

ननु यमाः नियमाश् चामानित्वादयः । न तैर् ज्ञेयं ज्ञायते । न ह्य् अमानित्वादि कस्यचित् वस्तुनः परिच्छेदकं दृष्टम् । सर्वत्रैव च यद्-विषयं ज्ञानं तद् एव तस्य ज्ञेयस्य परिच्छेदकं दृश्यते । न ह्य् अन्य-विषयेण ज्ञानेनान्यद् उपलभ्यते, यथा घट-विषयेण ज्ञानेनाग्निः । नैष दोषः । ज्ञान-निमित्तत्वाज् ज्ञानम् उच्यत इति ह्य् अवोचाम । ज्ञान-सहकारि-कारणत्वाच् च । ज्ञेयं ज्ञातव्यं यत् तत् प्रवक्ष्यामि प्रकर्षेण यथावत् वक्ष्यामि । किं-फलं तत् ? इति प्ररोचनेन श्रोतुर् अभिमुखीकरणायाह - यज् ज्ञेयं ज्ञात्वामृतम् अमृतत्वम् अश्नुते, न पुनर् म्रियत इत्य् अर्थः । अनादिमत् आदिर् अस्यास्तीति आदिमत्, नादिमद् अनादिमत् । किं तत् ? परं निरतिशयं ब्रह्म, ज्ञेयम् इति प्रकृतम् । अत्र केचित् अनादि मत्-परम् इति पदं छिन्दन्ति, बहु-व्रीहिणोक्ते ऽर्थे मतुप आनर्थक्यम् अनिष्टं स्याद् इति । अर्थ-विशेषं च दर्शयन्ति - अहं वासुदेवाख्या परा शक्तिर् यस्य तन् मत्-परम् इति । सत्यम् एवम् अपुनर्-उक्तं स्यात् । अर्थश् चेत् संभवति । न त्व् अर्थः संभवति, ब्रह्मणः सर्व-विशेष-प्रतिषेधेनैव विजिज्ञापयिषित्वान् न सत् तन् नासद् उच्यते इति । विशिष्ट-शक्तिमत्त्व-प्रदर्शनं विशेष-प्रतिषेधश् चेति विप्रतिषिद्धम् । तस्मात् मतुपो बहु-व्रीहिणा समानार्थत्वे ऽपि प्रयोगो श्लोक-पूरणार्थः । अमृतत्व-फलं ज्ञेयं मयोच्यत इति प्ररोचनेनाभिमुखीकृत्याह - न सत् तज् ज्ञेयम् उच्यते इति नाप्य् असत् तद् उच्यते ॥ ननु महता परिकर-बन्धेन कण्ठ-रवेणोद्घुष्य ज्ञेयं प्रवक्ष्यामीति, अननुरूपम् उक्तं न सत् तन् नासद् उच्यत इति । न, अनुरूपम् एवोक्तम् । कथम् ? सर्वासु ह्य् उपनिषत्सु ज्ञेयं ब्रह्म नेति नेति [ब्अउ २।३।६] अस्थूलम् अनणु [ब्अउ ३।८।८] इत्य् आदि-विशेष-प्रतिषेधेनैव निर्दिश्यते, नेदं तद् इति वाचो ऽगोचत्वात् ॥ ननु न तद् अस्ति, यद् वस्त्व् अस्ति-शब्देन नोच्यते । अथास्ति-शब्देन नोच्यते, नास्ति तज् ज्ञेयम् । विप्रतिषिद्धं च - ज्ञेयं तद् अस्ति-शब्देन नोच्यते इति च । न तावन् नास्ति, नास्ति-बुद्ध्य्-अविषयत्वात् ॥ ननु सर्वा बुद्धयो ऽस्ति-नास्ति-बुद्ध्य्-अनुगता एव । तत्रैवं सति ज्ञेयम् अप्य् अस्ति-बुद्ध्य्-अनुगत-प्रत्यय-विषयं वा स्यात्, नास्ति-बुद्ध्य्-अनुगत-प्रत्यय-विषयं वा स्यात् । न, अतीन्द्रियत्वेनोभय-बुद्ध्य्-अनुगत-प्रत्ययाविषयत्वात् । यद् धीन्द्रिय-गम्यं वस्तु घटादिकम्, तद् अस्ति-बुद्ध्य्-अनुगत-प्रत्यय-विषयं वा स्यात्, नास्ति-बुद्ध्य्-अनुगत-प्रत्यय-विषयं वा स्यात् । इदं तु ज्ञेयम् अतीन्द्रियत्वेन शब्दैक-प्रमाण-गम्यत्वान् न घटादिवद् उभय-बुद्ध्य्-अनुगत-प्रत्यय-विषयम् इत्य् अतो न सत् तन् नासद् इत्य् उच्यते ॥ यत् तूक्तम् - विरुद्धम् उच्यते, ज्ञेयं तन् न सत् तन् नासद् उच्यत इति । न विरुद्धम्, अन्यद् एव तद्-विदिताद् अथो अविदिताद् अधि [केनउ १।३] इति श्रुतेः । श्रुतिर् अपि विरुद्धार्था इति चेत् - यथा यज्ञाय शालाम् आरभ्य यज्ञम् को हि तद् वेद यद्य् अमुष्मिन् लोके ऽस्ति वा न वेति [तैत्त्स् ६।१।१] इत्य् एवम् इति चेत्, न । विदिताविदिताभ्याम् अन्यत्व-श्रुतेर् अवश्य-विज्ञेयार्थ-प्रतिपादन-परत्वात् यद्य् अमुष्मिन् इत्य् आदि तु विधि-शेषो ऽर्थ-वादः । उपपत्तेश् च सद्-असद्-आदि-शब्दैर् ब्रह्म नोच्यत इति । सर्वो हि शब्दो ऽर्थ-प्रकाशनाय प्रयुक्तः श्रूयमाणश् च श्रोतृभिर् जाति-क्रिया-गुण-संबन्ध-द्वारेण संकेत-ग्रहण-स-व्यपेक्षार्थं प्रत्याययति । नान्यथा, अदृष्टत्वात् । तद् यथा - गौर् अश्व इति वा जातितः, पचति पठतीति वा क्रियातः, शुक्लः कृष्ण इति वा गुणतः, धनी गोमान् इति वा संबन्धतः । न तु ब्रह्म जातिमत्, अतो न सद्-आदि-शब्द-वाच्यम् । नापि गुणवत्, येन गुण-शब्देनोच्येत, निर्गुणत्वात् । नापि क्रिया-शब्द-वाच्यं निष्क्रियत्वान् निष्कलं निष्क्रियं शान्तम् [श्वेतु ६।१९] इति श्रुतेः । न च संबन्धी, एकत्वात् । अद्वयत्वाद् अविषयत्वाद् आत्मत्वाच् च न केनचित्, शब्देनोच्यत इति युक्तम् । यतो वाचो निवर्तन्ते [तैत्तु २।९] इत्य् आदि-श्रुतिभिश् च

nanu yamāḥ niyamāś cāmānitvādayaḥ | na tair jñeyaṃ jñāyate | na hy amānitvādi kasyacit vastunaḥ paricchedakaṃ dṛṣṭam | sarvatraiva ca yad-viṣayaṃ jñānaṃ tad eva tasya jñeyasya paricchedakaṃ dṛśyate | na hy anya-viṣayeṇa jñānenānyad upalabhyate, yathā ghaṭa-viṣayeṇa jñānenāgniḥ | naiṣa doṣaḥ | jñāna-nimittatvāj jñānam ucyata iti hy avocāma | jñāna-sahakāri-kāraṇatvāc ca | jñeyaṃ jñātavyaṃ yat tat pravakṣyāmi prakarṣeṇa yathāvat vakṣyāmi | kiṃ-phalaṃ tat ? iti prarocanena śrotur abhimukhīkaraṇāyāha - yaj jñeyaṃ jñātvāmṛtam amṛtatvam aśnute, na punar mriyata ity arthaḥ | anādimat ādir asyāstīti ādimat, nādimad anādimat | kiṃ tat ? paraṃ niratiśayaṃ brahma, jñeyam iti prakṛtam | atra kecit anādi mat-param iti padaṃ chindanti, bahu-vrīhiṇokte 'rthe matupa ānarthakyam aniṣṭaṃ syād iti | artha-viśeṣaṃ ca darśayanti - ahaṃ vāsudevākhyā parā śaktir yasya tan mat-param iti | satyam evam apunar-uktaṃ syāt | arthaś cet saṃbhavati | na tv arthaḥ saṃbhavati, brahmaṇaḥ sarva-viśeṣa-pratiṣedhenaiva vijijñāpayiṣitvān na sat tan nāsad ucyate iti | viśiṣṭa-śaktimattva-pradarśanaṃ viśeṣa-pratiṣedhaś ceti vipratiṣiddham | tasmāt matupo bahu-vrīhiṇā samānārthatve 'pi prayogo śloka-pūraṇārthaḥ | amṛtatva-phalaṃ jñeyaṃ mayocyata iti prarocanenābhimukhīkṛtyāha - na sat taj jñeyam ucyate iti nāpy asat tad ucyate || nanu mahatā parikara-bandhena kaṇṭha-raveṇodghuṣya jñeyaṃ pravakṣyāmīti, ananurūpam uktaṃ na sat tan nāsad ucyata iti | na, anurūpam evoktam | katham ? sarvāsu hy upaniṣatsu jñeyaṃ brahma neti neti [BAU 2.3.6] asthūlam anaṇu [BAU 3.8.8] ity ādi-viśeṣa-pratiṣedhenaiva nirdiśyate, nedaṃ tad iti vāco 'gocatvāt || nanu na tad asti, yad vastv asti-śabdena nocyate | athāsti-śabdena nocyate, nāsti taj jñeyam | vipratiṣiddhaṃ ca - jñeyaṃ tad asti-śabdena nocyate iti ca | na tāvan nāsti, nāsti-buddhy-aviṣayatvāt || nanu sarvā buddhayo 'sti-nāsti-buddhy-anugatā eva | tatraivaṃ sati jñeyam apy asti-buddhy-anugata-pratyaya-viṣayaṃ vā syāt, nāsti-buddhy-anugata-pratyaya-viṣayaṃ vā syāt | na, atīndriyatvenobhaya-buddhy-anugata-pratyayāviṣayatvāt | yad dhīndriya-gamyaṃ vastu ghaṭādikam, tad asti-buddhy-anugata-pratyaya-viṣayaṃ vā syāt, nāsti-buddhy-anugata-pratyaya-viṣayaṃ vā syāt | idaṃ tu jñeyam atīndriyatvena śabdaika-pramāṇa-gamyatvān na ghaṭādivad ubhaya-buddhy-anugata-pratyaya-viṣayam ity ato na sat tan nāsad ity ucyate || yat tūktam - viruddham ucyate, jñeyaṃ tan na sat tan nāsad ucyata iti | na viruddham, anyad eva tad-viditād atho aviditād adhi [KenaU 1.3] iti śruteḥ | śrutir api viruddhārthā iti cet - yathā yajñāya śālām ārabhya yajñam ko hi tad veda yady amuṣmin loke 'sti vā na veti [TaittS 6.1.1] ity evam iti cet, na | viditāviditābhyām anyatva-śruter avaśya-vijñeyārtha-pratipādana-paratvāt yady amuṣmin ity ādi tu vidhi-śeṣo 'rtha-vādaḥ | upapatteś ca sad-asad-ādi-śabdair brahma nocyata iti | sarvo hi śabdo 'rtha-prakāśanāya prayuktaḥ śrūyamāṇaś ca śrotṛbhir jāti-kriyā-guṇa-saṃbandha-dvāreṇa saṃketa-grahaṇa-sa-vyapekṣārthaṃ pratyāyayati | nānyathā, adṛṣṭatvāt | tad yathā - gaur aśva iti vā jātitaḥ, pacati paṭhatīti vā kriyātaḥ, śuklaḥ kṛṣṇa iti vā guṇataḥ, dhanī gomān iti vā saṃbandhataḥ | na tu brahma jātimat, ato na sad-ādi-śabda-vācyam | nāpi guṇavat, yena guṇa-śabdenocyeta, nirguṇatvāt | nāpi kriyā-śabda-vācyaṃ niṣkriyatvān niṣkalaṃ niṣkriyaṃ śāntam [ŚvetU 6.19] iti śruteḥ | na ca saṃbandhī, ekatvāt | advayatvād aviṣayatvād ātmatvāc ca na kenacit, śabdenocyata iti yuktam | yato vāco nivartante [TaittU 2.9] ity ādi-śrutibhiś ca

Sanskrit only: no published translation is held for this verse.

सर्वतः पाणि-पादं सर्वतः पाणयः पादाश् चास्येति सर्वतः पाणि-पादं तज् ज्ञेयम् । सर्व-प्राणि-करणोपाधिभिः क्षेत्रज्ञस्यास्तित्वं विभाव्यते । क्षेत्रज्ञश् च क्षेत्रोपाधित उच्यते । क्षेत्रं च पाणि-पादादिभिर् अनेकधा भिन्नम् । क्षेत्रोपाधि-भेद-कृतं विशेष-जातं मिथ्यैव क्षेत्रज्ञस्य, इति तद्-अपनयनेन ज्ञेयत्वम् उक्तम् न सत् तन् नासद् उच्यते इति । उपाधि-कृतं मिथ्या-रूपम् अप्य् अस्तित्वाधिगमाय ज्ञेय-धर्मवत् परिकल्प्य उच्यते सर्वतः पाणि-पादम् इत्य् आदि । तथा हि संप्रदाय-विदां वचनम् - अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते इति । सर्वत्र सर्व-देहावयवत्वेन गम्यमानाः पाणि-पादादयो ज्ञेय-शक्ति-सद्-भाव-निमित्त-स्वकार्या इति ज्ञेय-सद्-भावे लिङ्गानि ज्ञेयस्येति उपचारत उच्यन्ते । तथा व्याख्येयम् अन्यत् । सर्वतः पाणि-पादं तज् ज्ञेयम् । सर्वतो ऽक्षि-शिरो-मुखं सर्वतो ऽक्षीणि शिरांसि मुखानि च यस्य तत् सर्वतो ऽक्षि-शिरो-मुखम् । सर्वतः श्रुतिमत् । श्रुतिः श्रवणेन्द्रियम्, तत् यस्य तत् श्रुतिमत् । लोके प्राणि-निकाये । सर्वम् आवृत्य संव्याप्य तिष्ठति स्थितिं लभते

sarvataḥ pāṇi-pādaṃ sarvataḥ pāṇayaḥ pādāś cāsyeti sarvataḥ pāṇi-pādaṃ taj jñeyam | sarva-prāṇi-karaṇopādhibhiḥ kṣetrajñasyāstitvaṃ vibhāvyate | kṣetrajñaś ca kṣetropādhita ucyate | kṣetraṃ ca pāṇi-pādādibhir anekadhā bhinnam | kṣetropādhi-bheda-kṛtaṃ viśeṣa-jātaṃ mithyaiva kṣetrajñasya, iti tad-apanayanena jñeyatvam uktam na sat tan nāsad ucyate iti | upādhi-kṛtaṃ mithyā-rūpam apy astitvādhigamāya jñeya-dharmavat parikalpya ucyate sarvataḥ pāṇi-pādam ity ādi | tathā hi saṃpradāya-vidāṃ vacanam - adhyāropāpavādābhyāṃ niṣprapañcaṃ prapañcyate iti | sarvatra sarva-dehāvayavatvena gamyamānāḥ pāṇi-pādādayo jñeya-śakti-sad-bhāva-nimitta-svakāryā iti jñeya-sad-bhāve liṅgāni jñeyasyeti upacārata ucyante | tathā vyākhyeyam anyat | sarvataḥ pāṇi-pādaṃ taj jñeyam | sarvato 'kṣi-śiro-mukhaṃ sarvato 'kṣīṇi śirāṃsi mukhāni ca yasya tat sarvato 'kṣi-śiro-mukham | sarvataḥ śrutimat | śrutiḥ śravaṇendriyam, tat yasya tat śrutimat | loke prāṇi-nikāye | sarvam āvṛtya saṃvyāpya tiṣṭhati sthitiṃ labhate

Sanskrit only: no published translation is held for this verse.

सर्वेन्द्रिय-गुणाभासं सर्वाणि च तानीन्द्रियाणि श्रोत्रादीनि बुद्धीन्द्रिय-कर्मेन्द्रियाख्यानि, अन्तः-करणे च बुद्धि-मनसी, ज्ञेयोपाधित्वस्य तुल्यत्वात्, सर्वेन्द्रिय-ग्रहणेन गृह्यन्ते । अपि च, अन्तः-करणोपाधि-द्वारेणैव श्रोत्रादीनाम् अपि उपाधित्वम् इत्य् अतो ऽन्तः-करण-बहिष्करणोपाधि-भूतैः सर्वेन्द्रिय-गुणैर् अध्यवसाय-संकल्प-श्रवण-वचनादिभिर् अवभासते इति सर्वेन्द्रिय-गुणाभासं सर्वेन्द्रिय-व्यापारैर् व्यापृतम् इव तज् ज्ञेयम् इत्य् अर्थः । ध्यायतीव लेलायतीव [ब्अउ ४।३।७] इति श्रुतेः । कस्मात् पुनः कारणान् न व्यापृतम् एवेति गृह्यत इत्य् अतः आह - सर्वेन्द्रिय-विवर्जितम्, सर्व-करण-रहितम् इत्य् अर्थः । अतो न करण-व्यापारैः व्यापृतं तज् ज्ञेयम् । यस् त्व् अयं मन्त्रः - अपाणि-पादो जवनो ग्रहीता पश्यत्य् अचक्षुः स सृणोत्य् अकर्णः [श्वेतु ३।१९] इत्य् आदिः । स सर्वेन्द्रियोपाधि-गुणानुगुण्य-भजन-शक्तिमत् तज् ज्ञेयम् इत्य् एवं प्रदर्शनार्थः, न तु साक्षाद् एव जवनादि-क्रियावत्त्व-प्रदर्शनार्थः । अन्धो मणिम् अविन्दद् [तैत्ता १।११] इत्य् आदि-मन्त्रार्थवत् तस्य मन्त्रस्यार्थः । यस्मात् सर्व-करण-वर्जितं ज्ञेयम्, तस्माद् असक्तं सर्व-संश्लेषवर्जितम् । यद्यप्य् एवम्, तथापि सर्व-भृच् चैव । सद्-आस्पदं हि सर्वं सर्वत्र सद्-बुद्ध्य्-अनुगमात् । न हि मृगतृष्णिकादयो ऽपि निरास्पदा भवन्ति । अतः सर्व-भृत् सर्वं बिभर्तीति । स्याद् इदं चान्यज् ज्ञेयस्य सत्त्वाधिगम-द्वारम् - निर्गुणं सत्त्व-रजस्-तमांसि गुणास् तैर् वर्जितं तज् ज्ञेयम्, तथापि गुण-भोक्तृ च गुणानां सत्त्व-रजस्-तमसां शब्दादि-द्वारेण सुख-दुःख-मोहाकार-परिणतानां भोक्तृ चोपलब्धृ च तज् ज्ञेयम् इत्य् अर्थः

sarvendriya-guṇābhāsaṃ sarvāṇi ca tānīndriyāṇi śrotrādīni buddhīndriya-karmendriyākhyāni, antaḥ-karaṇe ca buddhi-manasī, jñeyopādhitvasya tulyatvāt, sarvendriya-grahaṇena gṛhyante | api ca, antaḥ-karaṇopādhi-dvāreṇaiva śrotrādīnām api upādhitvam ity ato 'ntaḥ-karaṇa-bahiṣkaraṇopādhi-bhūtaiḥ sarvendriya-guṇair adhyavasāya-saṃkalpa-śravaṇa-vacanādibhir avabhāsate iti sarvendriya-guṇābhāsaṃ sarvendriya-vyāpārair vyāpṛtam iva taj jñeyam ity arthaḥ | dhyāyatīva lelāyatīva [BAU 4.3.7] iti śruteḥ | kasmāt punaḥ kāraṇān na vyāpṛtam eveti gṛhyata ity ataḥ āha - sarvendriya-vivarjitam, sarva-karaṇa-rahitam ity arthaḥ | ato na karaṇa-vyāpāraiḥ vyāpṛtaṃ taj jñeyam | yas tv ayaṃ mantraḥ - apāṇi-pādo javano grahītā paśyaty acakṣuḥ sa sṛṇoty akarṇaḥ [ŚvetU 3.19] ity ādiḥ | sa sarvendriyopādhi-guṇānuguṇya-bhajana-śaktimat taj jñeyam ity evaṃ pradarśanārthaḥ, na tu sākṣād eva javanādi-kriyāvattva-pradarśanārthaḥ | andho maṇim avindad [TaittĀ 1.11] ity ādi-mantrārthavat tasya mantrasyārthaḥ | yasmāt sarva-karaṇa-varjitaṃ jñeyam, tasmād asaktaṃ sarva-saṃśleṣavarjitam | yadyapy evam, tathāpi sarva-bhṛc caiva | sad-āspadaṃ hi sarvaṃ sarvatra sad-buddhy-anugamāt | na hi mṛgatṛṣṇikādayo 'pi nirāspadā bhavanti | ataḥ sarva-bhṛt sarvaṃ bibhartīti | syād idaṃ cānyaj jñeyasya sattvādhigama-dvāram - nirguṇaṃ sattva-rajas-tamāṃsi guṇās tair varjitaṃ taj jñeyam, tathāpi guṇa-bhoktṛ ca guṇānāṃ sattva-rajas-tamasāṃ śabdādi-dvāreṇa sukha-duḥkha-mohākāra-pariṇatānāṃ bhoktṛ copalabdhṛ ca taj jñeyam ity arthaḥ

Sanskrit only: no published translation is held for this verse.

बहिस् त्वक्-पर्यन्तं देहम् आत्मत्वेनाविद्या-कल्पितम् अपेक्ष्य तम् एवाववधिं कृत्वा बहिर् उच्यते । तथा प्रत्यग्-आत्मानम् अपेक्ष्य देहम् एवावधिं कृत्वा अन्तर् उच्यते । बहिर् अन्तश् चेत्य् उक्ते मध्ये ऽभावे प्राप्ते, इदम् उच्यते - अचरं चरम् एव च, यच् चराचरं देहाभासम् अपि तद् एव ज्ञेयं, यथा रज्जु-सर्पाभासः । यद्य् अचरं चरम् एव च स्यात् व्यवहार-विषयं सर्वं ज्ञेयम्, किम्-अर्थम् इदम् इति सर्वैर् न विज्ञेयम् ? इत्य् उच्यते - सत्यं सर्वाभासं तत् । तथापि व्योमवत् सूक्ष्मम् । अतः सूक्ष्मत्वात् स्वेन रूपेण तज् ज्ञेयम् अप्य् अविज्ञेयम् अविदुषाम् । विदुषां तु, आत्मैवेदं सर्वम् [ब्अउ ७।२५।२] ब्रह्मैवेदं सर्वम् [ब्अउ २।५।१] इत्य् आदि-प्रमाणतो नित्यं विज्ञातम् । अविज्ञाततया दूर-स्थं वर्ष-सहस्र-कोट्याप्य् अविदुषाम् अप्राप्यत्वात् । अन्तिके च तत्, आत्मत्वाद् विदुषाम्

bahis tvak-paryantaṃ deham ātmatvenāvidyā-kalpitam apekṣya tam evāvavadhiṃ kṛtvā bahir ucyate | tathā pratyag-ātmānam apekṣya deham evāvadhiṃ kṛtvā antar ucyate | bahir antaś cety ukte madhye 'bhāve prāpte, idam ucyate - acaraṃ caram eva ca, yac carācaraṃ dehābhāsam api tad eva jñeyaṃ, yathā rajju-sarpābhāsaḥ | yady acaraṃ caram eva ca syāt vyavahāra-viṣayaṃ sarvaṃ jñeyam, kim-artham idam iti sarvair na vijñeyam ? ity ucyate - satyaṃ sarvābhāsaṃ tat | tathāpi vyomavat sūkṣmam | ataḥ sūkṣmatvāt svena rūpeṇa taj jñeyam apy avijñeyam aviduṣām | viduṣāṃ tu, ātmaivedaṃ sarvam [BAU 7.25.2] brahmaivedaṃ sarvam [BAU 2.5.1] ity ādi-pramāṇato nityaṃ vijñātam | avijñātatayā dūra-sthaṃ varṣa-sahasra-koṭyāpy aviduṣām aprāpyatvāt | antike ca tat, ātmatvād viduṣām

Sanskrit only: no published translation is held for this verse.

अविभक्तं च प्रतिदेहं व्योमवत् तद् एकम् । भूतेषु सर्व-प्राणिषु विभक्तम् इव च स्थितं देहेष्व् एव विभाव्यमानत्वात् । भूत-भर्तृ च भूतानि बिभर्ति तज् ज्ञेयं भूत-भर्तृ च स्थिति-काले । प्रलय-काले ग्रसिष्णु ग्रसन-शीलम् । उत्पत्ति-काले प्रभविष्णु च प्रभवन-शीलं यथा रज्ज्वादिः सर्पादेर् मिथ्या-कल्पितस्य

avibhaktaṃ ca pratidehaṃ vyomavat tad ekam | bhūteṣu sarva-prāṇiṣu vibhaktam iva ca sthitaṃ deheṣv eva vibhāvyamānatvāt | bhūta-bhartṛ ca bhūtāni bibharti taj jñeyaṃ bhūta-bhartṛ ca sthiti-kāle | pralaya-kāle grasiṣṇu grasana-śīlam | utpatti-kāle prabhaviṣṇu ca prabhavana-śīlaṃ yathā rajjvādiḥ sarpāder mithyā-kalpitasya

Sanskrit only: no published translation is held for this verse.

ज्योतिषाम् आदित्य्-आदीनाम् अपि तज् ज्ञेयं ज्योतिः । आत्म-चैतन्य-ज्योतिषेद्धानि ह्य् आदित्य्-आदीनि ज्योतींषि दीप्यन्ते, येन सूर्यस् तपति तेजसेद्धः [तैत्त्ब्र् ३।१२।९], तस्य भासा सर्वम् इदं विभाति [श्वेतु ६।१४] ईत्य् आदि-श्रुतिभ्यः । स्मृते च इहैव - यद् आदित्य-गतं तेजः [गीता १५।१२] इत्य् आदेः । तमसो ऽज्ञानात् परम् अस्पृष्टम् उच्यते । ज्ञानादेर् दुःसंपादन-बुद्ध्या प्राप्तावसादस्योत्तम्भनार्थम् आह - ज्ञानम् अमानित्वादि । ज्ञेयम् ज्ञेयं यत् तत् प्रवक्ष्यामीत्य् [गीता १३।१३] आदिनोक्तम् । ज्ञान-गम्यम् ज्ञेयम् एव ज्ञातं सज् ज्ञान-फलम् इति ज्ञान-गम्यम् उच्यते । ज्ञायमानं तु ज्ञेयम् । तद् एतत् त्रयम् अपि हृदि बुद्धौ सर्वस्य प्राणि-जातस्य विष्ठितं विशेषेण स्थितम् । तत्रैव हि त्रयं विभाव्यते

jyotiṣām ādity-ādīnām api taj jñeyaṃ jyotiḥ | ātma-caitanya-jyotiṣeddhāni hy ādity-ādīni jyotīṃṣi dīpyante, yena sūryas tapati tejaseddhaḥ [TaittBr 3.12.9], tasya bhāsā sarvam idaṃ vibhāti [ŚvetU 6.14] īty ādi-śrutibhyaḥ | smṛte ca ihaiva - yad āditya-gataṃ tejaḥ [Gītā 15.12] ity ādeḥ | tamaso 'jñānāt param aspṛṣṭam ucyate | jñānāder duḥsaṃpādana-buddhyā prāptāvasādasyottambhanārtham āha - jñānam amānitvādi | jñeyam jñeyaṃ yat tat pravakṣyāmīty [Gītā 13.13] ādinoktam | jñāna-gamyam jñeyam eva jñātaṃ saj jñāna-phalam iti jñāna-gamyam ucyate | jñāyamānaṃ tu jñeyam | tad etat trayam api hṛdi buddhau sarvasya prāṇi-jātasya viṣṭhitaṃ viśeṣeṇa sthitam | tatraiva hi trayaṃ vibhāvyate

Sanskrit only: no published translation is held for this verse.

इत्य् एवं क्षेत्रं महा-भूतादि-धृत्य्-अन्तं, तथा ज्ञानम् अमानित्वादि तत्त्व-ज्ञानार्थ-दर्शन-पर्यन्तं, ज्ञेयं च ज्ञेयं यत् तत् इत्य् आदि तमसः परम् उच्यते इत्य् एवम् अन्तम् उक्तं समासतः संक्षेपतः । एतावान् सर्वो हि वेदार्थो गीतार्थश् चोपसंहृत्योक्तः । अस्मिन् सम्यग्-दर्शने को ऽधिक्रियते ? इत्य् उच्यते - मद्-भक्तो मयीश्वरे सर्वज्ञे परम-गुरौ वासुदेवे समर्पित-सर्वात्म-भावो यत् पश्यति शृणोति स्पृशति वा सर्वम् एव भगवान् वासुदेवः इत्य् एवं-ग्रहाविष्ट-बुद्धिर् मद्-भक्तः स एतद् यथोक्तं सम्यग् दर्शनं विज्ञाय, मद्-भावाय मम भावो मद्-भावः परमात्म-भावस् तस्मै मद्-भावाय उपपद्यते, मोक्षं गच्छति

ity evaṃ kṣetraṃ mahā-bhūtādi-dhṛty-antaṃ, tathā jñānam amānitvādi tattva-jñānārtha-darśana-paryantaṃ, jñeyaṃ ca jñeyaṃ yat tat ity ādi tamasaḥ param ucyate ity evam antam uktaṃ samāsataḥ saṃkṣepataḥ | etāvān sarvo hi vedārtho gītārthaś copasaṃhṛtyoktaḥ | asmin samyag-darśane ko 'dhikriyate ? ity ucyate - mad-bhakto mayīśvare sarvajñe parama-gurau vāsudeve samarpita-sarvātma-bhāvo yat paśyati śṛṇoti spṛśati vā sarvam eva bhagavān vāsudevaḥ ity evaṃ-grahāviṣṭa-buddhir mad-bhaktaḥ sa etad yathoktaṃ samyag darśanaṃ vijñāya, mad-bhāvāya mama bhāvo mad-bhāvaḥ paramātma-bhāvas tasmai mad-bhāvāya upapadyate, mokṣaṃ gacchati

Sanskrit only: no published translation is held for this verse.

प्रकृतिं पुरुषं चैव ईश्वरस्य प्रकृती । तौ प्रकृति-पुरुषौ उभाव् अप्य् अनादि विद्धि, न विद्यते आदिर् ययोस् तौ अनादी । नित्येश्वरत्वाद् ईश्वरस्य तत्-प्रकृत्योर् अपि युक्तं नित्यत्वेन भवितुम् । प्रकृति-द्वयवत्त्वम् एव हीश्वरस्येश्वरत्वम् । याभ्यां प्रकृतिभ्याम् ईश्वरो जगद्-उत्पत्ति-स्थिति-प्रलय-हेतुस् ते द्वे ऽनादी सत्यौ संसारस्य कारणम् ॥ नादी अनादी इति तत्-पुरुष-समासं केचित् वर्णयन्ति । तेन हि किलेश्वरस्य कारणत्वं सिध्यति । यदि पुनः प्रकृति-पुरुषाव् एव नित्यौ स्यातां तत्-कृतम् एव जगत्, नेश्वरस्य जगतः कर्तृत्वम् । तद् असत् । प्राक् प्रकृति-पुरुषयोर् उत्पत्तेर् ईशितव्याभावाद् ईश्वरस्यानीश्वरत्व-प्रसङ्गात्, संसारस्य निर्निमित्तत्वे ऽनिर्मोक्ष-प्रसङ्गात् शास्त्रानर्थक्य-प्रसङ्गाद् बन्ध-मोक्षाभाव-प्रसङ्गाच् च । नित्यत्वे पुनर् ईश्वरस्य प्रकृत्योः सर्वम् एतद् उपपन्नं भवेत् । कथम् ? विकारांश् च गुणांश् चैव । वक्ष्यमाणान् विकारान् बुद्ध्य्-आदि-देहेन्द्रियान्तान् गुणांश् च सुख-दुःख-मोह-प्रत्ययाकार-परिणतान् विद्धि जानीहि प्रकृति-संभवान् । प्रकृतिर् ईश्वरस्य विकार-कारण-शक्तिस् त्रिगुणात्मिका माया । सा संभवो येषां विकाराणां गुणानां च तान् विकारान् गुणांश् च विद्धि प्रकृति-संभवान् प्रकृति-परिणामान्

prakṛtiṃ puruṣaṃ caiva īśvarasya prakṛtī | tau prakṛti-puruṣau ubhāv apy anādi viddhi, na vidyate ādir yayos tau anādī | nityeśvaratvād īśvarasya tat-prakṛtyor api yuktaṃ nityatvena bhavitum | prakṛti-dvayavattvam eva hīśvarasyeśvaratvam | yābhyāṃ prakṛtibhyām īśvaro jagad-utpatti-sthiti-pralaya-hetus te dve 'nādī satyau saṃsārasya kāraṇam || nādī anādī iti tat-puruṣa-samāsaṃ kecit varṇayanti | tena hi kileśvarasya kāraṇatvaṃ sidhyati | yadi punaḥ prakṛti-puruṣāv eva nityau syātāṃ tat-kṛtam eva jagat, neśvarasya jagataḥ kartṛtvam | tad asat | prāk prakṛti-puruṣayor utpatter īśitavyābhāvād īśvarasyānīśvaratva-prasaṅgāt, saṃsārasya nirnimittatve 'nirmokṣa-prasaṅgāt śāstrānarthakya-prasaṅgād bandha-mokṣābhāva-prasaṅgāc ca | nityatve punar īśvarasya prakṛtyoḥ sarvam etad upapannaṃ bhavet | katham ? vikārāṃś ca guṇāṃś caiva | vakṣyamāṇān vikārān buddhy-ādi-dehendriyāntān guṇāṃś ca sukha-duḥkha-moha-pratyayākāra-pariṇatān viddhi jānīhi prakṛti-saṃbhavān | prakṛtir īśvarasya vikāra-kāraṇa-śaktis triguṇātmikā māyā | sā saṃbhavo yeṣāṃ vikārāṇāṃ guṇānāṃ ca tān vikārān guṇāṃś ca viddhi prakṛti-saṃbhavān prakṛti-pariṇāmān

Sanskrit only: no published translation is held for this verse.

कार्य-करण-कर्तृत्वे - कार्यं शरीरं करणानि तत्-स्थानि त्रयोदश । देहस्यारम्भकाणि भूतानि पञ्च विषयाश् च प्रकृति-संभवाः विकाराः पूर्वोक्ता इह कार्य-ग्रहणेन गृह्यन्ते । गुणाश् च प्रकृति-संभवाः सुख-दुःख-मोहात्मकाः करणाश्रयत्वात् करण-ग्रहणेन गृह्यन्ते । तेषां कार्य-करणानां कर्तृत्वम् उत्पादकत्वं यत् तत् कार्य-करण-कर्तृत्वं तस्मिन् कार्य-करण-कर्तृत्वे हेतुः कारणम् आरम्भकत्वेन प्रकृतिर् उच्यते । एवं कार्य-करण-कर्तृत्वेन संसारस्य कारणं प्रकृतिः । कार्य-कारण-कर्तृत्वे इत्य् अस्मिन्न् अपि पाठे, कार्यं यत् यस्य परिणामस् तत् तस्य कार्यं विकारो विकारि कारणं तयोर् विकार-विकारिणोः कार्य-कारणयोः कर्तृत्वे इति । अथवा, षोडाश विकाराः कार्यं सप्त प्रकृति-विकृतयः कारणम् तान्य् एव कार्य-कारणान्य् उच्यन्ते तेषां कर्तृत्वे हेतुः प्रकृतिर् उच्यते, आरम्भकत्वेनैव । पुरुषश् च संसारस्य कारणं यथा स्यात् तद् उच्यते - पुरुषो जीवः क्षेत्रज्ञो भोक्ता इति पर्यायः, सुख-दुःखानां भोग्यानां भोक्तृत्वे उपलब्धृत्वे हेतुर् उच्यते । कथं पुनर् अनेन कार्य-करण-कर्तृत्वेन सुख-दुःख-भोक्तृत्वेन च प्रकृति-पुरुषयोः संसार-कारणत्वम् उच्यते ? इत्य् अत्रोच्यते - कार्य-करण-सुख-दुःख-रूपेण हेतु-फलात्मना प्रकृतेः परिणामाभावे, पुरुषस्य च चेतनस्यासति तद्-उपलब्धृत्वे, कुतः संसारः स्यात् ? यदा पुनः कार्य-करण-सुख-दुःख-स्वरूपेण हेतु-फलात्मना परिणतया प्रकृत्या भोग्यया पुरुषस्य तद्-विपरीतस्य भोक्तृत्वेनाविद्या-रूपः संयोगः स्यात्, तदा संसारः स्याद् इति । अतो यत् प्रकृति-पुरुषयोः कार्य-करण-कर्तृत्वेन सुख-दुःख-भोक्तृत्वेन च संसार-कारणत्वम् उक्तम्, तद् युक्तम् । कः पुनर् अयं संसारो नाम ? सुख-दुःख-संभोगः संसारः । पुरुषस्य च सुख-दुःखानां संभोक्तृत्वं संसारित्वम् इति

kārya-karaṇa-kartṛtve - kāryaṃ śarīraṃ karaṇāni tat-sthāni trayodaśa | dehasyārambhakāṇi bhūtāni pañca viṣayāś ca prakṛti-saṃbhavāḥ vikārāḥ pūrvoktā iha kārya-grahaṇena gṛhyante | guṇāś ca prakṛti-saṃbhavāḥ sukha-duḥkha-mohātmakāḥ karaṇāśrayatvāt karaṇa-grahaṇena gṛhyante | teṣāṃ kārya-karaṇānāṃ kartṛtvam utpādakatvaṃ yat tat kārya-karaṇa-kartṛtvaṃ tasmin kārya-karaṇa-kartṛtve hetuḥ kāraṇam ārambhakatvena prakṛtir ucyate | evaṃ kārya-karaṇa-kartṛtvena saṃsārasya kāraṇaṃ prakṛtiḥ | kārya-kāraṇa-kartṛtve ity asminn api pāṭhe, kāryaṃ yat yasya pariṇāmas tat tasya kāryaṃ vikāro vikāri kāraṇaṃ tayor vikāra-vikāriṇoḥ kārya-kāraṇayoḥ kartṛtve iti | athavā, ṣoḍāśa vikārāḥ kāryaṃ sapta prakṛti-vikṛtayaḥ kāraṇam tāny eva kārya-kāraṇāny ucyante teṣāṃ kartṛtve hetuḥ prakṛtir ucyate, ārambhakatvenaiva | puruṣaś ca saṃsārasya kāraṇaṃ yathā syāt tad ucyate - puruṣo jīvaḥ kṣetrajño bhoktā iti paryāyaḥ, sukha-duḥkhānāṃ bhogyānāṃ bhoktṛtve upalabdhṛtve hetur ucyate | kathaṃ punar anena kārya-karaṇa-kartṛtvena sukha-duḥkha-bhoktṛtvena ca prakṛti-puruṣayoḥ saṃsāra-kāraṇatvam ucyate ? ity atrocyate - kārya-karaṇa-sukha-duḥkha-rūpeṇa hetu-phalātmanā prakṛteḥ pariṇāmābhāve, puruṣasya ca cetanasyāsati tad-upalabdhṛtve, kutaḥ saṃsāraḥ syāt ? yadā punaḥ kārya-karaṇa-sukha-duḥkha-svarūpeṇa hetu-phalātmanā pariṇatayā prakṛtyā bhogyayā puruṣasya tad-viparītasya bhoktṛtvenāvidyā-rūpaḥ saṃyogaḥ syāt, tadā saṃsāraḥ syād iti | ato yat prakṛti-puruṣayoḥ kārya-karaṇa-kartṛtvena sukha-duḥkha-bhoktṛtvena ca saṃsāra-kāraṇatvam uktam, tad yuktam | kaḥ punar ayaṃ saṃsāro nāma ? sukha-duḥkha-saṃbhogaḥ saṃsāraḥ | puruṣasya ca sukha-duḥkhānāṃ saṃbhoktṛtvaṃ saṃsāritvam iti

Sanskrit only: no published translation is held for this verse.

पुरुषो भोक्ता प्रकृति-स्थः । प्रकृताव् अविद्या-लक्षणायां कार्य-करण-रूपेण परिणतायां स्थितः प्रकृति-स्थः । प्रकृतिम् आत्मत्वेन गतः इत्य् एतत् । हि यस्मात् । तस्माद् भुङ्क्ते उपलभत इत्य् अर्थः । प्रकृतिजान् प्रकृतितो जातान् सुख-दुःख-मोहाकाराभिव्यक्तान् गुणान् सुखी, दुःखी, मूढः, पण्डितो ऽहम् इत्य् एवम् । सत्याम् अप्य् अविद्यायां सुख-दुःख-मोहेषु गुणेषु भुज्यमानेषु यः सङ्ग आत्म-भावः संसारस्य स प्रधानं कारणं यस्य पुरुषस्य जन्मनः । स यथा-कामो भवति तत् क्रतुर् भवति [ब्अउ ४।४।५] इत्य् आदि श्रुतेः । तद् एतद् आह - कारणं हेतुर् गुण-सङ्गो गुणेषु सङ्गो ऽस्य पुरुषस्य भोक्तुः सद्-असद्-योनि-जन्मसु । सत्यश् चासत्यश् च योनयः सद्-असद्-योनयस् तासु सद्-असद्-योनुषु जन्मानि सद्-असद्-योनि-जन्मानि, तेषु सद्-असद्-योनि-जन्मषु विषय-भूतेषु कारणं गुण-सङ्गः । अथवा, सद्-असद्-योनि-जन्मसु अस्य संसारस्य कारणं गुण-सङ्ग इति संसार-पद-मध्याहार्यम् । सद्-योनयो देवादि-योनयः । असद्-योनयः पश्वादि-योनयः । सामर्थ्यात् सद्-असद्-योनयः मनुष्य-योनयो ऽप्य् अविरुद्धाः द्रष्टाव्याः ॥ एतद् उक्तं भवति - प्रकृति-स्थत्वाख्याविद्या गुणेषु च सङ्गः कामः संसारस्य कारणम् इति । तच् च परिवर्जनाय उच्यते । अस्य च निवृत्ति-कारणं ज्ञान-वैराग्ये स-संन्यासे गीता-शास्त्रे प्रसिद्धम् । तच् च ज्ञानं पुरस्ताद् उपन्यस्तं क्षेत्र-क्षेत्रज्ञ-विषयम् यज् ज्ञात्वामृतम् अश्नुते [गीता १२।१३] इति । उक्तं चान्यापोहेनातद्-धर्माध्यारोपेण च

puruṣo bhoktā prakṛti-sthaḥ | prakṛtāv avidyā-lakṣaṇāyāṃ kārya-karaṇa-rūpeṇa pariṇatāyāṃ sthitaḥ prakṛti-sthaḥ | prakṛtim ātmatvena gataḥ ity etat | hi yasmāt | tasmād bhuṅkte upalabhata ity arthaḥ | prakṛtijān prakṛtito jātān sukha-duḥkha-mohākārābhivyaktān guṇān sukhī, duḥkhī, mūḍhaḥ, paṇḍito 'ham ity evam | satyām apy avidyāyāṃ sukha-duḥkha-moheṣu guṇeṣu bhujyamāneṣu yaḥ saṅga ātma-bhāvaḥ saṃsārasya sa pradhānaṃ kāraṇaṃ yasya puruṣasya janmanaḥ | sa yathā-kāmo bhavati tat kratur bhavati [BAU 4.4.5] ity ādi śruteḥ | tad etad āha - kāraṇaṃ hetur guṇa-saṅgo guṇeṣu saṅgo 'sya puruṣasya bhoktuḥ sad-asad-yoni-janmasu | satyaś cāsatyaś ca yonayaḥ sad-asad-yonayas tāsu sad-asad-yonuṣu janmāni sad-asad-yoni-janmāni, teṣu sad-asad-yoni-janmaṣu viṣaya-bhūteṣu kāraṇaṃ guṇa-saṅgaḥ | athavā, sad-asad-yoni-janmasu asya saṃsārasya kāraṇaṃ guṇa-saṅga iti saṃsāra-pada-madhyāhāryam | sad-yonayo devādi-yonayaḥ | asad-yonayaḥ paśvādi-yonayaḥ | sāmarthyāt sad-asad-yonayaḥ manuṣya-yonayo 'py aviruddhāḥ draṣṭāvyāḥ || etad uktaṃ bhavati - prakṛti-sthatvākhyāvidyā guṇeṣu ca saṅgaḥ kāmaḥ saṃsārasya kāraṇam iti | tac ca parivarjanāya ucyate | asya ca nivṛtti-kāraṇaṃ jñāna-vairāgye sa-saṃnyāse gītā-śāstre prasiddham | tac ca jñānaṃ purastād upanyastaṃ kṣetra-kṣetrajña-viṣayam yaj jñātvāmṛtam aśnute [Gītā 12.13] iti | uktaṃ cānyāpohenātad-dharmādhyāropeṇa ca

Sanskrit only: no published translation is held for this verse.

उपद्रष्टा समीप-स्थः सन् द्रष्टा स्वयम् अव्यापृतः । यथा ऋत्विग्-यजमानेषु यज्ञ-कर्म-व्यापृतेषु तटस्थो ऽन्यो ऽव्यापृतो यज्ञ-विद्या-कुशलः ऋत्विग्-यजमान-व्यापार-गुण-दोषाणाम् ईक्षिता, तद्वच् च कार्य-करण-व्यापारेषु स-व्यापाराणां सामीप्येन द्रष्टा उपद्रष्टा । अथवा, देह-चक्षुर्-मनो-बुद्ध्य्-आत्मानो द्रष्टारः । तेषां बाह्यो द्रष्टा देहः । तत आरभ्यान्तरतमश् च प्रत्यक् समीपे आत्मा द्रष्टा, यतः परो ऽन्तरतमो नास्ति द्रष्टा । सो ऽतिशय-सामीप्येन द्रष्टृत्वाद् उपद्रष्टा स्यात् । यज्ञोपद्रष्टृअवद् वा सर्व-विषयी-करणाद् उपद्रष्टा । अनुमन्ता च । अनुमोदनम् अनुमननं कुर्वत्सु तत्-क्रियासु परितोषस् तत्-कर्तानुमन्ता च । अथवा, अनुमन्ता कार्य-करण-प्रवृत्तिषु स्वयम् अप्रवृत्तो ऽपि प्रवृत्त इव तद्-अनुकूलो विभाव्यते, तेनानुमन्ता । अथवा, प्रवृत्तान् स्व-व्यापारेषु तत्-साक्षि-भूतः कदाचिद् अपि न निवारयतीत्य् अनुमन्ता । भर्ता। भरणं नाम देहेन्द्रिय-मनो-बुद्धीनां संहतानां चैतन्यात्म-पारार्थ्येन निमित्त-भूतेन चैतन्याभासानां यत् स्वरूप-धारणम्, तच् चैतन्यात्म-कृतम् एवेति भर्ता आत्मेत्य् उच्यते । भोक्ता । अग्न्य्-उष्णवन् नित्य-चैतन्य-स्वरूपेण बुद्धेः सुख-दुःख-मोहात्मकाः प्रत्ययाः सर्व-विषय-विषयाश् चैतन्यात्म-ग्रस्ता इव जायमाना विभक्ता विभाव्यन्ते इति भोक्ता आत्मोच्यते । महेश्वरः । सर्वात्मत्वात् स्वतन्त्रत्वाच् च महान् ईश्वरश् चेति महेश्वरः । परमात्मा । देहादीनां बुद्ध्य्-अन्तानां प्रत्यग्-आत्मत्वेन कल्पितानाम् अविद्यया परम उपद्रष्टृत्वादि-लक्षण आत्मेति परमात्मा । सो ऽन्तः परमात्मा इत्य् अनेन शब्देन चाप्य् उक्तः कथितः श्रुतौ । क्वासौ ? अस्मिन् देहे पुरुषः परो ऽव्यक्तात् । उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः [गीता १३।३] इति यो वक्ष्यमाणः क्षेत्रज्ञं चापि मां विद्धि [गीता १३।२] इति उपन्यस्तो व्याख्यायोपसंहृतश् च

upadraṣṭā samīpa-sthaḥ san draṣṭā svayam avyāpṛtaḥ | yathā ṛtvig-yajamāneṣu yajña-karma-vyāpṛteṣu taṭastho 'nyo 'vyāpṛto yajña-vidyā-kuśalaḥ ṛtvig-yajamāna-vyāpāra-guṇa-doṣāṇām īkṣitā, tadvac ca kārya-karaṇa-vyāpāreṣu sa-vyāpārāṇāṃ sāmīpyena draṣṭā upadraṣṭā | athavā, deha-cakṣur-mano-buddhy-ātmāno draṣṭāraḥ | teṣāṃ bāhyo draṣṭā dehaḥ | tata ārabhyāntaratamaś ca pratyak samīpe ātmā draṣṭā, yataḥ paro 'ntaratamo nāsti draṣṭā | so 'tiśaya-sāmīpyena draṣṭṛtvād upadraṣṭā syāt | yajñopadraṣṭṛavad vā sarva-viṣayī-karaṇād upadraṣṭā | anumantā ca | anumodanam anumananaṃ kurvatsu tat-kriyāsu paritoṣas tat-kartānumantā ca | athavā, anumantā kārya-karaṇa-pravṛttiṣu svayam apravṛtto 'pi pravṛtta iva tad-anukūlo vibhāvyate, tenānumantā | athavā, pravṛttān sva-vyāpāreṣu tat-sākṣi-bhūtaḥ kadācid api na nivārayatīty anumantā | bhartā| bharaṇaṃ nāma dehendriya-mano-buddhīnāṃ saṃhatānāṃ caitanyātma-pārārthyena nimitta-bhūtena caitanyābhāsānāṃ yat svarūpa-dhāraṇam, tac caitanyātma-kṛtam eveti bhartā ātmety ucyate | bhoktā | agny-uṣṇavan nitya-caitanya-svarūpeṇa buddheḥ sukha-duḥkha-mohātmakāḥ pratyayāḥ sarva-viṣaya-viṣayāś caitanyātma-grastā iva jāyamānā vibhaktā vibhāvyante iti bhoktā ātmocyate | maheśvaraḥ | sarvātmatvāt svatantratvāc ca mahān īśvaraś ceti maheśvaraḥ | paramātmā | dehādīnāṃ buddhy-antānāṃ pratyag-ātmatvena kalpitānām avidyayā parama upadraṣṭṛtvādi-lakṣaṇa ātmeti paramātmā | so 'ntaḥ paramātmā ity anena śabdena cāpy uktaḥ kathitaḥ śrutau | kvāsau ? asmin dehe puruṣaḥ paro 'vyaktāt | uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ [Gītā 13.3] iti yo vakṣyamāṇaḥ kṣetrajñaṃ cāpi māṃ viddhi [Gītā 13.2] iti upanyasto vyākhyāyopasaṃhṛtaś ca

Sanskrit only: no published translation is held for this verse.

इहापि चोक्तो यथैधांसि [गीता ४।३७] इत्य् आदिना सर्व-कर्म-दाहः । वक्ष्यति चोपपत्तेश् च । अविद्या-काम-क्लेश-बीज-निमित्तानि हि कर्माणि जन्मान्तराङ्कुरम् आरभन्ते । इहापि च साहंकाराभिसंधीनि कर्माणि फलारम्भकाणि, नेतराणीति तत्र तत्र भगवतोक्तम् । बीजान्य् अग्न्य्-उपदग्धानि न रोहन्ति यथा पुनः । ज्ञान-दग्धैस् तथा क्लेशैर् नात्मा संपद्यते पुनः [म्भ् ३।२००।१०] इति च । अस्तु तावज् ज्ञानोत्पत्त्य्-उत्तर-काल-कृतानां कर्मणां ज्ञानेन दाहः, ज्ञान-सह-भावित्वात् । न त्व् इह जन्मनि ज्ञानोत्पत्तेः प्राक् कृतानां कर्मणाम् अतीत-जन्म-कृतानां च दाहो युक्तः । न । सर्व-कर्माणीति विशेषणात् । ज्ञानोत्तर-काल-भाविनाम् एव सर्व-कर्मणाम् इति चेत्, न । संकोचे कारणानुपपत्तेः । यत् तूक्तम् यथा वर्तमान-जन्मारम्भकाणि कर्माणि न क्षीयन्ते फल-दानाय प्रवृत्तान्य् एव सत्य् अपि ज्ञाने, तथानारब्ध-फलानाम् अपि कर्मणां क्षयो न युक्त इति, तद् असत् । कथम् ? तेषां मुक्तेषुवत् प्रवृत्त-फलत्वात् । यथा पूर्वं लक्ष्य-वेधाय मुक्त इषुः धनुषो लक्ष्य-वेधोत्तर-कालम् अपि आरब्ध-वेग-क्षयात् पतनेनैव निवर्तते, एवं शरीरारम्भकं कर्म शरीर-स्थिति-प्रयोजने निवृत्ते ऽपि, आ संस्कार-वेग-क्षयात् पूर्ववत् वर्तत एव । यथा स एव इषुः प्रवृत्ति-निमित्तानारब्ध-वेगस् त्व् अमुक्तो धनुषि प्रयुक्तो ऽपि उपसंह्रियते, तथानारब्ध-फलानि कर्माणि स्वाश्रय-स्थान्य् एव ज्ञानेन निर्बीजी-क्रियन्त इति । पतिते ऽस्मिन् विद्वच्-छरीरे न स भूयो ऽभिजायते इति युक्तम् एवोक्तम् इति सिद्धम्

ihāpi cokto yathaidhāṃsi [Gītā 4.37] ity ādinā sarva-karma-dāhaḥ | vakṣyati copapatteś ca | avidyā-kāma-kleśa-bīja-nimittāni hi karmāṇi janmāntarāṅkuram ārabhante | ihāpi ca sāhaṃkārābhisaṃdhīni karmāṇi phalārambhakāṇi, netarāṇīti tatra tatra bhagavatoktam | bījāny agny-upadagdhāni na rohanti yathā punaḥ | jñāna-dagdhais tathā kleśair nātmā saṃpadyate punaḥ [Mbh 3.200.10] iti ca | astu tāvaj jñānotpatty-uttara-kāla-kṛtānāṃ karmaṇāṃ jñānena dāhaḥ, jñāna-saha-bhāvitvāt | na tv iha janmani jñānotpatteḥ prāk kṛtānāṃ karmaṇām atīta-janma-kṛtānāṃ ca dāho yuktaḥ | na | sarva-karmāṇīti viśeṣaṇāt | jñānottara-kāla-bhāvinām eva sarva-karmaṇām iti cet, na | saṃkoce kāraṇānupapatteḥ | yat tūktam yathā vartamāna-janmārambhakāṇi karmāṇi na kṣīyante phala-dānāya pravṛttāny eva saty api jñāne, tathānārabdha-phalānām api karmaṇāṃ kṣayo na yukta iti, tad asat | katham ? teṣāṃ mukteṣuvat pravṛtta-phalatvāt | yathā pūrvaṃ lakṣya-vedhāya mukta iṣuḥ dhanuṣo lakṣya-vedhottara-kālam api ārabdha-vega-kṣayāt patanenaiva nivartate, evaṃ śarīrārambhakaṃ karma śarīra-sthiti-prayojane nivṛtte 'pi, ā saṃskāra-vega-kṣayāt pūrvavat vartata eva | yathā sa eva iṣuḥ pravṛtti-nimittānārabdha-vegas tv amukto dhanuṣi prayukto 'pi upasaṃhriyate, tathānārabdha-phalāni karmāṇi svāśraya-sthāny eva jñānena nirbījī-kriyanta iti | patite 'smin vidvac-charīre na sa bhūyo 'bhijāyate iti yuktam evoktam iti siddham

Sanskrit only: no published translation is held for this verse.

ध्यानेन । ध्यानं नाम शब्दादिभ्यो विषयेभ्यः श्रोत्रादीनि करणानि मनस्य् उपसंहृत्य, मनश् च प्रत्यक्-चेतनयितरि, एकाग्रतया यच् चिन्तनं तद् ध्यानम् । तथा, ध्यायतीव बकः, ध्यायतीव पृथिवी, ध्यायन्तीव पर्वताः [छाउ ७।६।१] इति उपमोपादानात् । तैल-धारावत् संततो ऽविच्छिन्न-प्रत्ययो ध्यानम् । तेन ध्यानेन आत्मनि बुद्धौ पश्यन्त्य् आत्मानं प्रत्यक्-चेतनम् आत्मना स्वेनैव प्रत्यक्-चेतनेन ध्यान-संस्कृतेनान्तः-करणेन केचिद् योगिनः । अन्ये सांख्येन योगेन । सांख्यं नाम इमे सत्त्व-रजस्-तमांसि गुणा मया दृश्या अहं तेभ्यो ऽन्यस् तद्-व्यापार-साक्षि-भूतो नित्यो गुण-विलक्षण आत्मेति चिन्तनम् एष सांख्यो योगः । तेन पश्यन्ति आत्मानम् आत्मनेत्य् अनुवर्तते । कर्म-योगेन । कर्मैव योगः । ईश्वरार्पण-बुद्ध्यानुष्ठीयमानं घटन-रूपं योगार्थत्वाद् योग उच्यते गुणतः । तेन सत्त्व-शुद्धि-ज्ञानोत्पत्ति-द्वारेण चापरे

dhyānena | dhyānaṃ nāma śabdādibhyo viṣayebhyaḥ śrotrādīni karaṇāni manasy upasaṃhṛtya, manaś ca pratyak-cetanayitari, ekāgratayā yac cintanaṃ tad dhyānam | tathā, dhyāyatīva bakaḥ, dhyāyatīva pṛthivī, dhyāyantīva parvatāḥ [ChāU 7.6.1] iti upamopādānāt | taila-dhārāvat saṃtato 'vicchinna-pratyayo dhyānam | tena dhyānena ātmani buddhau paśyanty ātmānaṃ pratyak-cetanam ātmanā svenaiva pratyak-cetanena dhyāna-saṃskṛtenāntaḥ-karaṇena kecid yoginaḥ | anye sāṃkhyena yogena | sāṃkhyaṃ nāma ime sattva-rajas-tamāṃsi guṇā mayā dṛśyā ahaṃ tebhyo 'nyas tad-vyāpāra-sākṣi-bhūto nityo guṇa-vilakṣaṇa ātmeti cintanam eṣa sāṃkhyo yogaḥ | tena paśyanti ātmānam ātmanety anuvartate | karma-yogena | karmaiva yogaḥ | īśvarārpaṇa-buddhyānuṣṭhīyamānaṃ ghaṭana-rūpaṃ yogārthatvād yoga ucyate guṇataḥ | tena sattva-śuddhi-jñānotpatti-dvāreṇa cāpare

Sanskrit only: no published translation is held for this verse.

अन्ये त्व् एषु विकल्पेषु अन्यतमेनाप्य् एवं यथोक्तम् आत्मानम् अजानन्तो ऽन्येभ्यः आचार्येभ्यः श्रुत्वा "इदम् एव चिन्तयत" इत्य् उक्ता उपासते श्रद्दधानाः सन्तश् चिन्तयन्ति । ते ऽपि चातितरन्त्य् एव अतिक्रामन्त्य् एव मृत्युम् मृत्यु-युक्तं संसारम् इत्य् एतत् । श्रुति-परायणाः श्रुतिः श्रवणं परम् अयनं गमनं मोक्ष-मार्ग-प्रवृत्तौ परं साधनं येषां ते श्रुति-परायणाः । केवल-परोपदेश-प्रमाणाः स्वयं विवेक-रहिता इत्य् अभिप्रायः । किम् उ वक्तव्यम् प्रमाणं प्रति स्वतन्त्रा विवेकिनो मृत्युम् अतितरन्तीत्य् अभिप्रायः

anye tv eṣu vikalpeṣu anyatamenāpy evaṃ yathoktam ātmānam ajānanto 'nyebhyaḥ ācāryebhyaḥ śrutvā "idam eva cintayata" ity uktā upāsate śraddadhānāḥ santaś cintayanti | te 'pi cātitaranty eva atikrāmanty eva mṛtyum mṛtyu-yuktaṃ saṃsāram ity etat | śruti-parāyaṇāḥ śrutiḥ śravaṇaṃ param ayanaṃ gamanaṃ mokṣa-mārga-pravṛttau paraṃ sādhanaṃ yeṣāṃ te śruti-parāyaṇāḥ | kevala-paropadeśa-pramāṇāḥ svayaṃ viveka-rahitā ity abhiprāyaḥ | kim u vaktavyam pramāṇaṃ prati svatantrā vivekino mṛtyum atitarantīty abhiprāyaḥ

Sanskrit only: no published translation is held for this verse.

यावत् यत् किंचित् संजायते समुत्पद्यते सत्त्वं वस्तु । किम् अविशेषेण ? नेत्य् आह - स्थावर-जङ्गमं स्थावरं जङ्गमं च क्षेत्र-क्षेत्रज्ञ-संयोगात् तज् जायते इत्य् एवं विद्धि जानीहि भरतर्षभ । कः पुनर् अयं क्षेत्र-क्षेत्रज्ञयोः संयोगो ऽभिप्रेतः ? न तावत् रज्ज्वेव घटस्यावयव-संश्लेष-द्वारकः संबन्ध-विशेषः संयोगः क्षेत्रेण क्षेत्रज्ञस्य संभवति, आकाशवत् निरवयवत्वात् । नापि समवाय-लक्षणस् तन्तु-पटयोर् इव क्षेत्र-क्षेत्रज्ञयोर् इतरेतर-कार्य-कारण-भावानभ्युपगमात् । इत्य् उच्यते - क्षेत्र-क्षेत्रज्ञयोर् विषय-विषयिणोर् भिन्न-स्वभावयोर् इतरेतर-तद्-धर्माध्यास-लक्षणः संयोगः क्षेत्र-क्षेत्रज्ञ-स्वरूप-विवेका-भाव-निबन्धनः, रज्जु-शुक्तिकादीनां तद्-विवेक-ज्ञानाभावाद् अध्यारोपित-सर्प-रजतादि-संयोगवत् । सो ऽयम् अध्यास-स्वरूपः क्षेत्र-क्षेत्रज्ञ-संयोगो मिथ्या-ज्ञान-लक्षणः । यथा-शास्त्रं क्षेत्र-क्षेत्रज्ञ-लक्षण-भेद-परिज्ञान-पूर्वकं प्राक् दर्शित-रूपात् क्षेत्रान् मुञ्जाद् इवेषीकां यथोक्त-लक्षणं क्षेत्रज्ञं प्रविभज्य न सत् तन् नासद् उच्यते [गीता १३।१३] इत्य् अनेन निरस्त-सर्वोपाधि-विशेषं ज्ञेयं ब्रह्म-स्वरूपेण यः पश्यति, क्षेत्रं च माया-निर्मित-हस्ति-स्वप्न-दृष्ट-वस्तुवद् गन्धर्व-नगरादिवद् असद् एव सद् इवावभासते । इत्य् एवं निश्चित-विज्ञानो यः, तस्य यथोक्त-सम्यग्-दर्शन-विरोधाद् अपगच्छति मिथ्या-ज्ञानम् । तस्य जन्म-हेतोर् अपगमाद् य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह [गीता १३।२५] इत्य् अनेन विद्वान् भूयो नाभिजायते इति यद् उक्तम्, तद् उपपन्नम् उक्तम्

yāvat yat kiṃcit saṃjāyate samutpadyate sattvaṃ vastu | kim aviśeṣeṇa ? nety āha - sthāvara-jaṅgamaṃ sthāvaraṃ jaṅgamaṃ ca kṣetra-kṣetrajña-saṃyogāt taj jāyate ity evaṃ viddhi jānīhi bharatarṣabha | kaḥ punar ayaṃ kṣetra-kṣetrajñayoḥ saṃyogo 'bhipretaḥ ? na tāvat rajjveva ghaṭasyāvayava-saṃśleṣa-dvārakaḥ saṃbandha-viśeṣaḥ saṃyogaḥ kṣetreṇa kṣetrajñasya saṃbhavati, ākāśavat niravayavatvāt | nāpi samavāya-lakṣaṇas tantu-paṭayor iva kṣetra-kṣetrajñayor itaretara-kārya-kāraṇa-bhāvānabhyupagamāt | ity ucyate - kṣetra-kṣetrajñayor viṣaya-viṣayiṇor bhinna-svabhāvayor itaretara-tad-dharmādhyāsa-lakṣaṇaḥ saṃyogaḥ kṣetra-kṣetrajña-svarūpa-vivekā-bhāva-nibandhanaḥ, rajju-śuktikādīnāṃ tad-viveka-jñānābhāvād adhyāropita-sarpa-rajatādi-saṃyogavat | so 'yam adhyāsa-svarūpaḥ kṣetra-kṣetrajña-saṃyogo mithyā-jñāna-lakṣaṇaḥ | yathā-śāstraṃ kṣetra-kṣetrajña-lakṣaṇa-bheda-parijñāna-pūrvakaṃ prāk darśita-rūpāt kṣetrān muñjād iveṣīkāṃ yathokta-lakṣaṇaṃ kṣetrajñaṃ pravibhajya na sat tan nāsad ucyate [Gītā 13.13] ity anena nirasta-sarvopādhi-viśeṣaṃ jñeyaṃ brahma-svarūpeṇa yaḥ paśyati, kṣetraṃ ca māyā-nirmita-hasti-svapna-dṛṣṭa-vastuvad gandharva-nagarādivad asad eva sad ivāvabhāsate | ity evaṃ niścita-vijñāno yaḥ, tasya yathokta-samyag-darśana-virodhād apagacchati mithyā-jñānam | tasya janma-hetor apagamād ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha [Gītā 13.25] ity anena vidvān bhūyo nābhijāyate iti yad uktam, tad upapannam uktam

Sanskrit only: no published translation is held for this verse.

समं निर्विशेषं तिष्ठन्तं स्थितिं कुर्वन्तम् । क्व ? सर्वेषु समस्तेषु भूतेषु ब्रह्मादि-स्थावरान्तेषु प्राणिषु । कम् ? परमेश्वरं देहेन्द्रिय-मनो-बुद्ध्य्-अव्यक्तात्मनो ऽपेक्ष्य परमेश्वरः, तं सर्वेषु भूतेषु समं तिष्ठन्तम् । तानि विशिनष्टि विनश्यत्स्व् इति । तं च परमेश्वरम् अविनश्यन्तम् इति, भूतानां परमेश्वरस्य चात्यन्त-वैलक्षण्य-प्रदर्शनार्थम् । कथम् ? सर्वेषां हि भाव-विकाराणां जनि-लक्षणो भाव-विकारो मूलम् । जन्मोत्तर-काल-भाविनो ऽन्ये सर्वे भाव-विकारा विनाशान्ताः । विनाशात् परो न कश्चिद् अस्ति भाव-विकारः, भावाभावात् । सति हि धर्मिणि धर्मा भवन्ति । अतो ऽन्त्य-भाव-विकाराभावानुवादेन पूर्व-भाविनः सर्वे भाव-विकाराः प्रतिषिद्धा भवन्ति सह कार्यैः । तस्मात् सर्व-भूतैः वैलक्षण्यम् अत्यन्तम् एव परमेश्वरस्य सिद्धम्, निर्विशेषत्वम् एकत्वं च । य एवं यथोक्तं परमेश्वरं पश्यति, स पश्यति । ननु सर्वो ऽपि लोकः पश्यति, किं विशेषणेनेति । सत्यं पश्यति । किं तु विपरीतं पश्यति । अतो विशिनष्टि - स एव पश्यतीति । यथा तिमिर-दृष्टिर् अनेकं चन्द्रं पश्यति, तम् अपेक्ष्य एक-चन्द्र-दर्शी विशिष्यते - स एव पश्यतीति । तथैवेहाप्य् एकम् अविभक्तं यथोक्तं आत्मानं यः पश्यति, स विभक्तान् एकात्म-विपरीत-दर्शिभ्यो विशिष्यते - स एव पश्यतीति । इतरे पश्यन्तो ऽपि न पश्यन्ति । विपरीत-दर्शित्वात् अनेक-चन्द्र-दर्शिवद् इत्य् अर्थः

samaṃ nirviśeṣaṃ tiṣṭhantaṃ sthitiṃ kurvantam | kva ? sarveṣu samasteṣu bhūteṣu brahmādi-sthāvarānteṣu prāṇiṣu | kam ? parameśvaraṃ dehendriya-mano-buddhy-avyaktātmano 'pekṣya parameśvaraḥ, taṃ sarveṣu bhūteṣu samaṃ tiṣṭhantam | tāni viśinaṣṭi vinaśyatsv iti | taṃ ca parameśvaram avinaśyantam iti, bhūtānāṃ parameśvarasya cātyanta-vailakṣaṇya-pradarśanārtham | katham ? sarveṣāṃ hi bhāva-vikārāṇāṃ jani-lakṣaṇo bhāva-vikāro mūlam | janmottara-kāla-bhāvino 'nye sarve bhāva-vikārā vināśāntāḥ | vināśāt paro na kaścid asti bhāva-vikāraḥ, bhāvābhāvāt | sati hi dharmiṇi dharmā bhavanti | ato 'ntya-bhāva-vikārābhāvānuvādena pūrva-bhāvinaḥ sarve bhāva-vikārāḥ pratiṣiddhā bhavanti saha kāryaiḥ | tasmāt sarva-bhūtaiḥ vailakṣaṇyam atyantam eva parameśvarasya siddham, nirviśeṣatvam ekatvaṃ ca | ya evaṃ yathoktaṃ parameśvaraṃ paśyati, sa paśyati | nanu sarvo 'pi lokaḥ paśyati, kiṃ viśeṣaṇeneti | satyaṃ paśyati | kiṃ tu viparītaṃ paśyati | ato viśinaṣṭi - sa eva paśyatīti | yathā timira-dṛṣṭir anekaṃ candraṃ paśyati, tam apekṣya eka-candra-darśī viśiṣyate - sa eva paśyatīti | tathaivehāpy ekam avibhaktaṃ yathoktaṃ ātmānaṃ yaḥ paśyati, sa vibhaktān ekātma-viparīta-darśibhyo viśiṣyate - sa eva paśyatīti | itare paśyanto 'pi na paśyanti | viparīta-darśitvāt aneka-candra-darśivad ity arthaḥ

Sanskrit only: no published translation is held for this verse.

समं पश्यन्न् उपलभमानो हि यस्मात् सर्वत्र सर्व-भूतेषु समवस्थितं तुल्यतयावस्थितम् ईश्वरम् अतीतानन्तर-श्लोकोक्त-लक्षणम् इत्य् अर्थः । समं पश्यन् किम् ? न हिनस्ति हिंसां न करोति आत्मना स्वेनैव स्वम् आत्मानम् । तत्-तद्-अहिंसनाद् याति परां प्रकृष्टां गतिं मोक्षाख्याम् ॥ ननु नैव कश्चित् प्राणी स्वयं स्वम् आत्मानं हिनस्ति । कथम् उच्यते ऽप्राप्तम् न हिनस्तीति ? यथा न पृथिव्याम् नान्तरिक्षे न दिव्य् अग्निश् चेतव्यः [तैत्त्स् ५।२।७।१] इत्य् आदि । नैष दोषः, अज्ञानाम् आत्म-तिरस्करणोपपत्तेः । सर्वो ह्य् अज्ञो ऽत्यन्त-प्रसिद्धं साक्षाद् अपरोक्षाद् आत्मानं तिरस्कृत्यानात्मानम् आत्मत्वेन परिगृह्य, तम् अपि धर्माधर्मौ कृत्वोपात्तम् आत्मानं हत्वान्यम् आत्मानम् उपादत्ते नवं, तं चैवं हत्वान्यम् । एवं तम् अपि हत्वान्यम् इत्य् एवम् उपात्तम् उपात्तम् आत्मानं हन्तीत्य् आत्महा सर्वो ऽज्ञः । यस् तु परमार्थात्मासाव् अपि सर्वदाविद्यया हत इव विद्यमान-फलाभावाद् इति सर्वे आत्म-हन एवाविद्वांसः । यस् त्व् इतरो यथोक्तात्म-दर्शी, स उभयथापि आत्मनात्मानं न हिनस्ति न हन्ति । ततो याति परां गतिम् यथोक्तं फलं तस्य भवतीत्य् अर्थः

samaṃ paśyann upalabhamāno hi yasmāt sarvatra sarva-bhūteṣu samavasthitaṃ tulyatayāvasthitam īśvaram atītānantara-ślokokta-lakṣaṇam ity arthaḥ | samaṃ paśyan kim ? na hinasti hiṃsāṃ na karoti ātmanā svenaiva svam ātmānam | tat-tad-ahiṃsanād yāti parāṃ prakṛṣṭāṃ gatiṃ mokṣākhyām || nanu naiva kaścit prāṇī svayaṃ svam ātmānaṃ hinasti | katham ucyate 'prāptam na hinastīti ? yathā na pṛthivyām nāntarikṣe na divy agniś cetavyaḥ [TaittS 5.2.7.1] ity ādi | naiṣa doṣaḥ, ajñānām ātma-tiraskaraṇopapatteḥ | sarvo hy ajño 'tyanta-prasiddhaṃ sākṣād aparokṣād ātmānaṃ tiraskṛtyānātmānam ātmatvena parigṛhya, tam api dharmādharmau kṛtvopāttam ātmānaṃ hatvānyam ātmānam upādatte navaṃ, taṃ caivaṃ hatvānyam | evaṃ tam api hatvānyam ity evam upāttam upāttam ātmānaṃ hantīty ātmahā sarvo 'jñaḥ | yas tu paramārthātmāsāv api sarvadāvidyayā hata iva vidyamāna-phalābhāvād iti sarve ātma-hana evāvidvāṃsaḥ | yas tv itaro yathoktātma-darśī, sa ubhayathāpi ātmanātmānaṃ na hinasti na hanti | tato yāti parāṃ gatim yathoktaṃ phalaṃ tasya bhavatīty arthaḥ

Sanskrit only: no published translation is held for this verse.

प्रकृत्या प्रकृतिर् भगवतो माया त्रिगुणात्मिका । मायां तु प्रकृतिं विद्याद् [श्वेतु ४।१०] इति मन्त्र-वर्णात् । तया प्रकृत्यैव च नान्येन महद्-आदि-कार्य-कारणाकार-परिणतया कर्माणि वाङ्-मनः-कायारभ्याणि क्रियमाणानि निर्वर्त्यमानानि सर्वशः सर्व-प्रकारैर् यः पश्यत्य् उपलभते, तथात्मानं क्षेत्रज्ञम् अकर्तारं सर्वोपाधि-विवर्जितं स पश्यति, स परमार्थ-दर्शीत्य् अभिप्रायः । निर्गुणस्याकर्तुर् निर्विशेषस्याकाशस्येव भेदे प्रमाणानुपपत्तिर् इत्य् अर्थः

prakṛtyā prakṛtir bhagavato māyā triguṇātmikā | māyāṃ tu prakṛtiṃ vidyād [ŚvetU 4.10] iti mantra-varṇāt | tayā prakṛtyaiva ca nānyena mahad-ādi-kārya-kāraṇākāra-pariṇatayā karmāṇi vāṅ-manaḥ-kāyārabhyāṇi kriyamāṇāni nirvartyamānāni sarvaśaḥ sarva-prakārair yaḥ paśyaty upalabhate, tathātmānaṃ kṣetrajñam akartāraṃ sarvopādhi-vivarjitaṃ sa paśyati, sa paramārtha-darśīty abhiprāyaḥ | nirguṇasyākartur nirviśeṣasyākāśasyeva bhede pramāṇānupapattir ity arthaḥ

Sanskrit only: no published translation is held for this verse.

यदा यस्मिन् काले भूत-पृथग्-भावं भूतानां पृथग्-भावं पृथक्त्वम् एकस्मिन्न् आत्मनि स्थितं एक-स्थम् अनुपश्यति शास्त्राचार्योपदेशम् अनु आत्मानं प्रत्यक्षत्वेन पश्यत्य् आत्मैवेदं सर्वम् [छाउ ७।२५।२] इति । तत एव च तस्माद् एव च विस्तारं उत्पत्तिं विकासम् आत्मतः प्राण आत्मत आशा आत्मतः स्मर आत्मत आकाश आत्मतस् तेज आत्मत आप आत्मत आविर्भाव-तिरोभावाव् आत्मतो ऽन्नम् [छाउ ७।२६।१] इत्य् एवम् आदि-प्रकारैर् विस्तारं यदा पश्यति ब्रह्म संपद्यते भवति तदा तस्मिन् काल इत्य् अर्थः

yadā yasmin kāle bhūta-pṛthag-bhāvaṃ bhūtānāṃ pṛthag-bhāvaṃ pṛthaktvam ekasminn ātmani sthitaṃ eka-stham anupaśyati śāstrācāryopadeśam anu ātmānaṃ pratyakṣatvena paśyaty ātmaivedaṃ sarvam [ChāU 7.25.2] iti | tata eva ca tasmād eva ca vistāraṃ utpattiṃ vikāsam ātmataḥ prāṇa ātmata āśā ātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāva-tirobhāvāv ātmato 'nnam [ChāU 7.26.1] ity evam ādi-prakārair vistāraṃ yadā paśyati brahma saṃpadyate bhavati tadā tasmin kāla ity arthaḥ

Sanskrit only: no published translation is held for this verse.

अनादित्वात् । अनादेर् भावो ऽनादित्वम्, आदिः कारणम्, तद् यस्य नास्ति तद् अनादि । यद् ध्य् आदिमत् तत् स्वेनात्मना व्येति । अयं त्व् अनादित्वान् निरवयव इति कृत्वा न व्येति । तथा निर्गुणत्वात् । सगुणो हि गुण-व्ययात् व्येति । अयं तु निर्गुणत्वाच् च न व्येति । इति परमात्मायम् अव्ययः । नास्य व्ययो विद्यत इत्य् अव्ययः । यत एवम् अतः शरीर-स्थो ऽपि, शरीरेषु आत्मन उपलब्धिर् भवतीति शरीर-स्थ उच्यते । तथापि न करोति । तद्-अकरणाद् एव तत्-फलेन न लिप्यते । यो हि कर्ता, स कर्म-फलेन लिप्यते । अयं त्व् अकर्ता, अतो न फलेन लिप्यते इत्य् अर्थः । कः पुनर् देहेषु करोति लिप्यते च ? यदि तावत् अन्यः परमात्मनो देही करोति लिप्यते च, ततः इदम् अनुपपन्नम् उक्तं क्षेत्रज्ञेश्वरैकत्वम् क्षेत्रज्ञं चापि मां विद्धि [गीता १३।२] इत्य् आदि । अथ नास्ति ईश्वराद् अन्यो देही । कः करोति लिप्यते च ? इति वाच्यम् । परो वा नास्तीति सर्वथा दुर्विज्ञेयं दुर्वाच्यं चेति भगवत्-प्रोक्तम् औपनिषदं दर्शनं परित्यक्तं वैशेषिकैः सांख्यार्हत-बौद्धैश् च । तत्रायं परिहारो भगवता स्वेनैव उक्तः स्वभावस् तु प्रवर्तते [गीता ५।१४] इति । अविद्या-मात्र-स्वभावो हि करोति लिप्यते इति व्यवहारो भवति, न तु परमार्थत एकस्मिन् परमात्मनि तद् अस्ति । अत एवैतस्मिन् परमार्थ-सांख्य-दर्शने स्थितानां ज्ञान-निष्ठानां परमहंस-परिव्राजकानां तिरस्कृताविद्या-व्यवहाराणां कर्माधिकारो नास्तीति तत्र तत्र दर्शितं भगवता

anāditvāt | anāder bhāvo 'nāditvam, ādiḥ kāraṇam, tad yasya nāsti tad anādi | yad dhy ādimat tat svenātmanā vyeti | ayaṃ tv anāditvān niravayava iti kṛtvā na vyeti | tathā nirguṇatvāt | saguṇo hi guṇa-vyayāt vyeti | ayaṃ tu nirguṇatvāc ca na vyeti | iti paramātmāyam avyayaḥ | nāsya vyayo vidyata ity avyayaḥ | yata evam ataḥ śarīra-stho 'pi, śarīreṣu ātmana upalabdhir bhavatīti śarīra-stha ucyate | tathāpi na karoti | tad-akaraṇād eva tat-phalena na lipyate | yo hi kartā, sa karma-phalena lipyate | ayaṃ tv akartā, ato na phalena lipyate ity arthaḥ | kaḥ punar deheṣu karoti lipyate ca ? yadi tāvat anyaḥ paramātmano dehī karoti lipyate ca, tataḥ idam anupapannam uktaṃ kṣetrajñeśvaraikatvam kṣetrajñaṃ cāpi māṃ viddhi [Gītā 13.2] ity ādi | atha nāsti īśvarād anyo dehī | kaḥ karoti lipyate ca ? iti vācyam | paro vā nāstīti sarvathā durvijñeyaṃ durvācyaṃ ceti bhagavat-proktam aupaniṣadaṃ darśanaṃ parityaktaṃ vaiśeṣikaiḥ sāṃkhyārhata-bauddhaiś ca | tatrāyaṃ parihāro bhagavatā svenaiva uktaḥ svabhāvas tu pravartate [Gītā 5.14] iti | avidyā-mātra-svabhāvo hi karoti lipyate iti vyavahāro bhavati, na tu paramārthata ekasmin paramātmani tad asti | ata evaitasmin paramārtha-sāṃkhya-darśane sthitānāṃ jñāna-niṣṭhānāṃ paramahaṃsa-parivrājakānāṃ tiraskṛtāvidyā-vyavahārāṇāṃ karmādhikāro nāstīti tatra tatra darśitaṃ bhagavatā

Sanskrit only: no published translation is held for this verse.

यथा सर्व-गतं व्याप्य् अपि सत् सौक्ष्म्यात् सूक्ष्म-भावाद् आकाशं खं नोपलिप्यते न संबध्यते, सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते

yathā sarva-gataṃ vyāpy api sat saukṣmyāt sūkṣma-bhāvād ākāśaṃ khaṃ nopalipyate na saṃbadhyate, sarvatrāvasthito dehe tathātmā nopalipyate

Sanskrit only: no published translation is held for this verse.

यथा प्रकाशयत्य् अवभासयति एकः कृत्स्नं लोकम् इमं रविः सविता आदित्यः, तथा तद्वत् महा-भूतादि-धृत्य्-अन्तं क्षेत्रम् एकः सन् प्रकाशयति । कः ? क्षेत्री परमात्मा इत्य् अर्थः । रवि-दृष्टन्तो ऽत्र आत्मन उभयार्थो ऽपि भवति । रविवत् सर्व-क्षेत्रेष्व् एक एवात्मा, अलेपकश् चेति

yathā prakāśayaty avabhāsayati ekaḥ kṛtsnaṃ lokam imaṃ raviḥ savitā ādityaḥ, tathā tadvat mahā-bhūtādi-dhṛty-antaṃ kṣetram ekaḥ san prakāśayati | kaḥ ? kṣetrī paramātmā ity arthaḥ | ravi-dṛṣṭanto 'tra ātmana ubhayārtho 'pi bhavati | ravivat sarva-kṣetreṣv eka evātmā, alepakaś ceti

Sanskrit only: no published translation is held for this verse.

क्षेत्र-क्षेत्रज्ञयोर् यथा-व्याख्यातयोर् एवं यथा-प्रदर्शित-प्रकारेणान्तरम् इतरेतर-वैलक्षण्य-विशेषं ज्ञान-चक्षुषा शास्त्राचार्य-प्रसादोपदेश-जनितम् आत्म-प्रत्ययिकं ज्ञानं चक्षुः, तेन ज्ञान-चक्षुषा, भूत-प्रकृति-मोक्षं च, भूतानां प्रकृतिर् अविद्या-लक्षणाव्यक्ताख्या, तस्या भूत-प्रकृतेर् मोक्षणम् अभाव-गमनं च ये विदुर् विजानन्ति, यान्ति गच्छन्ति ते परं परमात्म-तत्त्वं ब्रह्म, न पुनर् देहं आददते इत्य् अर्थः

kṣetra-kṣetrajñayor yathā-vyākhyātayor evaṃ yathā-pradarśita-prakāreṇāntaram itaretara-vailakṣaṇya-viśeṣaṃ jñāna-cakṣuṣā śāstrācārya-prasādopadeśa-janitam ātma-pratyayikaṃ jñānaṃ cakṣuḥ, tena jñāna-cakṣuṣā, bhūta-prakṛti-mokṣaṃ ca, bhūtānāṃ prakṛtir avidyā-lakṣaṇāvyaktākhyā, tasyā bhūta-prakṛter mokṣaṇam abhāva-gamanaṃ ca ye vidur vijānanti, yānti gacchanti te paraṃ paramātma-tattvaṃ brahma, na punar dehaṃ ādadate ity arthaḥ

Sanskrit only: no published translation is held for this verse.