इहापि चोक्तो यथैधांसि [गीता ४।३७] इत्य् आदिना सर्व-कर्म-दाहः । वक्ष्यति चोपपत्तेश् च । अविद्या-काम-क्लेश-बीज-निमित्तानि हि कर्माणि जन्मान्तराङ्कुरम् आरभन्ते । इहापि च साहंकाराभिसंधीनि कर्माणि फलारम्भकाणि, नेतराणीति तत्र तत्र भगवतोक्तम् । बीजान्य् अग्न्य्-उपदग्धानि न रोहन्ति यथा पुनः । ज्ञान-दग्धैस् तथा क्लेशैर् नात्मा संपद्यते पुनः [म्भ् ३।२००।१०] इति च । अस्तु तावज् ज्ञानोत्पत्त्य्-उत्तर-काल-कृतानां कर्मणां ज्ञानेन दाहः, ज्ञान-सह-भावित्वात् । न त्व् इह जन्मनि ज्ञानोत्पत्तेः प्राक् कृतानां कर्मणाम् अतीत-जन्म-कृतानां च दाहो युक्तः । न । सर्व-कर्माणीति विशेषणात् । ज्ञानोत्तर-काल-भाविनाम् एव सर्व-कर्मणाम् इति चेत्, न । संकोचे कारणानुपपत्तेः । यत् तूक्तम् यथा वर्तमान-जन्मारम्भकाणि कर्माणि न क्षीयन्ते फल-दानाय प्रवृत्तान्य् एव सत्य् अपि ज्ञाने, तथानारब्ध-फलानाम् अपि कर्मणां क्षयो न युक्त इति, तद् असत् । कथम् ? तेषां मुक्तेषुवत् प्रवृत्त-फलत्वात् । यथा पूर्वं लक्ष्य-वेधाय मुक्त इषुः धनुषो लक्ष्य-वेधोत्तर-कालम् अपि आरब्ध-वेग-क्षयात् पतनेनैव निवर्तते, एवं शरीरारम्भकं कर्म शरीर-स्थिति-प्रयोजने निवृत्ते ऽपि, आ संस्कार-वेग-क्षयात् पूर्ववत् वर्तत एव । यथा स एव इषुः प्रवृत्ति-निमित्तानारब्ध-वेगस् त्व् अमुक्तो धनुषि प्रयुक्तो ऽपि उपसंह्रियते, तथानारब्ध-फलानि कर्माणि स्वाश्रय-स्थान्य् एव ज्ञानेन निर्बीजी-क्रियन्त इति । पतिते ऽस्मिन् विद्वच्-छरीरे न स भूयो ऽभिजायते इति युक्तम् एवोक्तम् इति सिद्धम्
ihāpi cokto yathaidhāṃsi [Gītā 4.37] ity ādinā sarva-karma-dāhaḥ | vakṣyati copapatteś ca | avidyā-kāma-kleśa-bīja-nimittāni hi karmāṇi janmāntarāṅkuram ārabhante | ihāpi ca sāhaṃkārābhisaṃdhīni karmāṇi phalārambhakāṇi, netarāṇīti tatra tatra bhagavatoktam | bījāny agny-upadagdhāni na rohanti yathā punaḥ | jñāna-dagdhais tathā kleśair nātmā saṃpadyate punaḥ [Mbh 3.200.10] iti ca | astu tāvaj jñānotpatty-uttara-kāla-kṛtānāṃ karmaṇāṃ jñānena dāhaḥ, jñāna-saha-bhāvitvāt | na tv iha janmani jñānotpatteḥ prāk kṛtānāṃ karmaṇām atīta-janma-kṛtānāṃ ca dāho yuktaḥ | na | sarva-karmāṇīti viśeṣaṇāt | jñānottara-kāla-bhāvinām eva sarva-karmaṇām iti cet, na | saṃkoce kāraṇānupapatteḥ | yat tūktam yathā vartamāna-janmārambhakāṇi karmāṇi na kṣīyante phala-dānāya pravṛttāny eva saty api jñāne, tathānārabdha-phalānām api karmaṇāṃ kṣayo na yukta iti, tad asat | katham ? teṣāṃ mukteṣuvat pravṛtta-phalatvāt | yathā pūrvaṃ lakṣya-vedhāya mukta iṣuḥ dhanuṣo lakṣya-vedhottara-kālam api ārabdha-vega-kṣayāt patanenaiva nivartate, evaṃ śarīrārambhakaṃ karma śarīra-sthiti-prayojane nivṛtte 'pi, ā saṃskāra-vega-kṣayāt pūrvavat vartata eva | yathā sa eva iṣuḥ pravṛtti-nimittānārabdha-vegas tv amukto dhanuṣi prayukto 'pi upasaṃhriyate, tathānārabdha-phalāni karmāṇi svāśraya-sthāny eva jñānena nirbījī-kriyanta iti | patite 'smin vidvac-charīre na sa bhūyo 'bhijāyate iti yuktam evoktam iti siddham
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.