इदं ज्ञानं यथोक्तम् उपाश्रित्य, ज्ञान-साधनम् अनुष्ठाय इत्य् एतत्, मम परमेश्वरस्य साधर्म्यं मत्-स्वरूपताम् आगताः प्राप्ता इत्य् अर्थः । न तु समान-धर्मता साधर्म्यम्, क्षेत्रज्ञेश्वरयोर् भेदानभ्युपगमाद् गीता-शास्त्रे । फल-वादश् चायं स्तुत्य्-अर्थम् उच्यते । सर्गे ऽपि सृष्टि-काले ऽपि नोपजायन्ते । नोत्पद्यन्ते । प्रलये ब्रह्मणो ऽपि विनाश-काले न व्यथन्ति च व्यथां नापद्यन्ते, न च्यवन्तीत्य् अर्थः
idaṃ jñānaṃ yathoktam upāśritya, jñāna-sādhanam anuṣṭhāya ity etat, mama parameśvarasya sādharmyaṃ mat-svarūpatām āgatāḥ prāptā ity arthaḥ | na tu samāna-dharmatā sādharmyam, kṣetrajñeśvarayor bhedānabhyupagamād gītā-śāstre | phala-vādaś cāyaṃ stuty-artham ucyate | sarge 'pi sṛṣṭi-kāle 'pi nopajāyante | notpadyante | pralaye brahmaṇo 'pi vināśa-kāle na vyathanti ca vyathāṃ nāpadyante, na cyavantīty arthaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.