प्रवृत्तिं च प्रवर्तनं यस्मिन् पुरुषार्थ-साधने कर्तव्ये प्रवृत्तिस् ताम्, निवृत्तिं च एतद्-विपरीतां यस्मात् अनर्थ-हेतोः निवर्तितव्यं सा निवृत्तिस् तां च, जना आसुरा न विदुर् न जानन्ति । न केवलं प्रवृत्ति-निवृत्ती एव ते न विदुः, न शौचं नापि चाचारो न सत्यं तेषु विद्यते । अशौचा अनाचारा मायाविनो ऽनृत-वादिनो ह्य् आसुराः
pravṛttiṃ ca pravartanaṃ yasmin puruṣārtha-sādhane kartavye pravṛttis tām, nivṛttiṃ ca etad-viparītāṃ yasmāt anartha-hetoḥ nivartitavyaṃ sā nivṛttis tāṃ ca, janā āsurā na vidur na jānanti | na kevalaṃ pravṛtti-nivṛttī eva te na viduḥ, na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate | aśaucā anācārā māyāvino 'nṛta-vādino hy āsurāḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.