Library·Bhagavadgita with Samkara's commentary·2

Bhagavadgita with Samkara's commentary 2

न शोच्या अशोच्याः भीष्म-द्रोणादयः । सद्-वृत्तत्वात् परमार्थ-स्वरूपेण च नित्यत्वात्, तान् अशोच्यान् अन्वशोचो ऽनुशोचितवान् असि ते म्रियन्ते मन्-निमित्तम्, अहं तैर् विनाभूतः किं करिष्यामि राज्य-सुखादिना इति । त्वं प्रज्ञा-वादान् प्रज्ञावतां बुद्धिमतां वादांश् च वचनानि च भाषसे । तद् एतत् मौढ्यं पाण्डित्यं च विरुद्धम् आत्मनि दर्शयसि उन्मत्त इव इत्य् अभिप्रायः । यस्मात् गतासून् गत-प्राणान् मृतान्, अगतासून् अगत-प्राणान् जीवतश् च नानुशोचन्ति पण्डिताः आत्मज्ञाः । पण्डा आत्म-विषया बुद्धिर् येषां ते हि पण्डिताः, पाण्डित्यं निर्विद्य [ब्अउ ३।५।१] इति श्रुतेः । परमार्थतस् तु तान् नित्यान् अशोच्यान् अनुशोचसि, अतो मूढो ऽसि इत्य् अभिप्रायः

na śocyā aśocyāḥ bhīṣma-droṇādayaḥ | sad-vṛttatvāt paramārtha-svarūpeṇa ca nityatvāt, tān aśocyān anvaśoco 'nuśocitavān asi te mriyante man-nimittam, ahaṃ tair vinābhūtaḥ kiṃ kariṣyāmi rājya-sukhādinā iti | tvaṃ prajñā-vādān prajñāvatāṃ buddhimatāṃ vādāṃś ca vacanāni ca bhāṣase | tad etat mauḍhyaṃ pāṇḍityaṃ ca viruddham ātmani darśayasi unmatta iva ity abhiprāyaḥ | yasmāt gatāsūn gata-prāṇān mṛtān, agatāsūn agata-prāṇān jīvataś ca nānuśocanti paṇḍitāḥ ātmajñāḥ | paṇḍā ātma-viṣayā buddhir yeṣāṃ te hi paṇḍitāḥ, pāṇḍityaṃ nirvidya [BAU 3.5.1] iti śruteḥ | paramārthatas tu tān nityān aśocyān anuśocasi, ato mūḍho 'si ity abhiprāyaḥ

Sanskrit only: no published translation is held for this verse.

न त्व् एव जातु कदाचिद् अहं नासम् किन्त्व् आसम् एव । अतीतेषु देहोत्पत्ति-विनाशेषु घटादिषु वियद् इव नित्य एव अहम् आसम् इत्य् अभिप्रायः । तथा न त्वं नासीः, किन्त्व् आसीर् एव । तथा नेमे जनाधिपा आसन् किन्त्व् आसन्न् एव । तथा न चैव न भविष्यामः, किन्तु भविष्याम एव, सर्वे वयम् अतो ऽस्माद् देह-विनाशात् परम् उत्तर-काले ऽपि । त्रिष्व् अपि कालेषु नित्या आत्म-स्वरूपेण इत्य् अर्थः । देहाभेदानुवृत्त्या बहु-वचनम्, नात्म-भेदाभिप्रायेण

na tv eva jātu kadācid ahaṃ nāsam kintv āsam eva | atīteṣu dehotpatti-vināśeṣu ghaṭādiṣu viyad iva nitya eva aham āsam ity abhiprāyaḥ | tathā na tvaṃ nāsīḥ, kintv āsīr eva | tathā neme janādhipā āsan kintv āsann eva | tathā na caiva na bhaviṣyāmaḥ, kintu bhaviṣyāma eva, sarve vayam ato 'smād deha-vināśāt param uttara-kāle 'pi | triṣv api kāleṣu nityā ātma-svarūpeṇa ity arthaḥ | dehābhedānuvṛttyā bahu-vacanam, nātma-bhedābhiprāyeṇa

Sanskrit only: no published translation is held for this verse.

देहो ऽस्य अस्तीति देही, तस्य देहिनो देहवतः आत्मनो ऽस्मिन् वर्तमाने देहा यथा येन प्रकारेण कौमारं कुमार-भावो बाल्यावस्था, यौवनं यूनो भावो मध्यमावस्था, जरा वयो-हानिः जीर्णावस्था, इत्य् एताः तिस्रो ऽवस्थाः अन्योन्य-विलक्षणाः । तासां प्रथमावस्था-नाशे न नाशः, द्वितीयावस्थोपजने न उपजन आत्मनः । किं तर्हि ?अविक्रियस्यैव द्वितीय-तृतीयावस्था-प्राप्तिः आत्मनो दृष्टा । तथा तद्वद् एव देहाद् अन्यो देहो देहान्तरम्, तस्य प्राप्तिः देहान्तर-प्राप्तिः अविक्रियस्यैव आत्मन इत्य् अर्थः । धीरो धीमान् तत्रैवं सति न मुह्यति न मोहम् आपद्यते

deho 'sya astīti dehī, tasya dehino dehavataḥ ātmano 'smin vartamāne dehā yathā yena prakāreṇa kaumāraṃ kumāra-bhāvo bālyāvasthā, yauvanaṃ yūno bhāvo madhyamāvasthā, jarā vayo-hāniḥ jīrṇāvasthā, ity etāḥ tisro 'vasthāḥ anyonya-vilakṣaṇāḥ | tāsāṃ prathamāvasthā-nāśe na nāśaḥ, dvitīyāvasthopajane na upajana ātmanaḥ | kiṃ tarhi ?avikriyasyaiva dvitīya-tṛtīyāvasthā-prāptiḥ ātmano dṛṣṭā | tathā tadvad eva dehād anyo deho dehāntaram, tasya prāptiḥ dehāntara-prāptiḥ avikriyasyaiva ātmana ity arthaḥ | dhīro dhīmān tatraivaṃ sati na muhyati na moham āpadyate

Sanskrit only: no published translation is held for this verse.

मात्रा आभिः मीयन्ते शब्दादय इति श्रोत्रादीनि इन्द्रियाणि । मात्राणां स्पर्शाः शब्दादिभिः संयोगाः । ते शीतोष्णसुख-दुःख-दाः शीतम् उष्णं सुखं दुःखं च प्रयच्छन्तीति । अथवा स्पृश्यन्त इति स्पर्शा विषयाः शब्दादयः । मात्राश् च स्पर्शाश् च शीतोष्ण-सुख-दुःख-दाः । शीतं कदाचित् सुखं कदाचित् दुःखम् । तथा उष्णम् अपि अनियत-स्वरूपम् । सुख-दुःखे पुनः नियत-रूपे यतो न व्यभिचरतः । अतस् ताभ्यां पृथक् शीतोष्णयोः ग्रहणम् । यस्मात् ते मात्रा-स्पर्शादयः आगमापायिनः आगमापायशीलाः तस्मात् अनित्याः । अतः तान् शीतोष्णादीन् तितिक्षस्व प्रसहस्व । तेषु हर्षं विषादं वा मा कार्षीः इत्य् अर्थः

mātrā ābhiḥ mīyante śabdādaya iti śrotrādīni indriyāṇi | mātrāṇāṃ sparśāḥ śabdādibhiḥ saṃyogāḥ | te śītoṣṇasukha-duḥkha-dāḥ śītam uṣṇaṃ sukhaṃ duḥkhaṃ ca prayacchantīti | athavā spṛśyanta iti sparśā viṣayāḥ śabdādayaḥ | mātrāś ca sparśāś ca śītoṣṇa-sukha-duḥkha-dāḥ | śītaṃ kadācit sukhaṃ kadācit duḥkham | tathā uṣṇam api aniyata-svarūpam | sukha-duḥkhe punaḥ niyata-rūpe yato na vyabhicarataḥ | atas tābhyāṃ pṛthak śītoṣṇayoḥ grahaṇam | yasmāt te mātrā-sparśādayaḥ āgamāpāyinaḥ āgamāpāyaśīlāḥ tasmāt anityāḥ | ataḥ tān śītoṣṇādīn titikṣasva prasahasva | teṣu harṣaṃ viṣādaṃ vā mā kārṣīḥ ity arthaḥ

Sanskrit only: no published translation is held for this verse.

यं हि पुरुषं समे दुःख-सुखे यस्य तं सम-दुःख-सुखं सुख-दुःख-प्राप्तौ हर्ष-विषाद-रहितं धीरं धीमन्तं न व्यथयन्ति न चालयन्ति नित्यात्म-दर्शनात् एते यथोक्ताः शीतोष्णादयः, स नित्यात्म-स्वरूप-दर्श-निष्ठो द्वन्द्व-सहिष्णुः अमृतत्वाय अमृत-भावाय मोक्षायेत्य् अर्थः कल्पते समर्थो भवति

yaṃ hi puruṣaṃ same duḥkha-sukhe yasya taṃ sama-duḥkha-sukhaṃ sukha-duḥkha-prāptau harṣa-viṣāda-rahitaṃ dhīraṃ dhīmantaṃ na vyathayanti na cālayanti nityātma-darśanāt ete yathoktāḥ śītoṣṇādayaḥ, sa nityātma-svarūpa-darśa-niṣṭho dvandva-sahiṣṇuḥ amṛtatvāya amṛta-bhāvāya mokṣāyety arthaḥ kalpate samartho bhavati

Sanskrit only: no published translation is held for this verse.

न असतो ऽविद्यमानस्य शीतोष्णादेः स-कारणस्य न विद्यते नास्ति भावो भवनम् अस्तिता ॥ न हि शीतोष्णादि स-कारणं प्रमाणैर् निरूप्यमाणं वस्तु सम्भवति । विकारो हि सः, विकारश् च व्यभिचरति । यथा घटादि-संस्थानं चक्षुषा निरूप्यमाणं मृद्-व्यतिरेकेणानुपलब्धेर् असत् । तथा सर्वो विकारः कारण-व्यतिरेकेणानुपलब्धेर् असत् । जन्म-प्रध्वंसाभ्यां प्राग् ऊर्ध्वं चानुपलब्धेः । कार्यस्य घटादेः मृद्-आदि-कारणस्य च तत्-कारण-व्यतिरेकेणानुपलब्धेर् असत्त्वम् ॥ तद्-असत्त्वे सर्वाभाव-प्रसङ्ग इति चेत्, न । सर्वत्र बुद्धि-द्वयोपलब्धेः, सद्-बुद्धिर् असद्-बुद्धिर् इति । यद्-विषया बुद्धिर् न व्यभिचरति, तत् सत् । यद्-विषया व्यभिचरति, तद् असत् । इति सद्-असद्-विभागे बुद्धि-तन्त्रे स्थिते । सर्वत्र द्वे बुद्धी सर्वैर् उपलभ्येते समानाधिकरणे न नीलोत्पलवत्, सन् घटः सन् पटः, सन् हस्ती इति । एवं सर्वत्र । तयोर् बुद्ध्योः घटादि-बुद्धिर् व्यभिचरति । तथा च दर्शितम् । न तु सद्-बुद्धिः । तस्मात् घटादि-बुद्धि-विषयो ऽसन्, व्यभिचारात् । न तु सद्-बुद्धि-विषयः, अव्यभिचारात् ॥ घटे विनष्टे घट-बुद्धौ व्यभिचरन्त्यां सद्-बुद्धिर् अपि व्यभिचरतीति चेत् न । पटाद् एवपि सद्-बुद्धि-दर्शनात् । विशेषण-विषयैव सा सद्-बुद्धिः । सद्-बुद्धिवत् घट-बुद्धिर् अपि घटान्तरा दृश्यत इति चेत्, न । पटादौ अदर्शनात् ॥ सद्-बुद्धिर् अपि नष्टे घटे न दृश्यत इति चेत्, न । विशेष्याभावात् । सद्-बुद्धिर् विशेषण-विषया सती विशेष्याभावे विशेषणानुपपत्तौ किं-विषया स्यात् ? न तु पुनः सद्-बुद्धेः विषयाभावात् ॥ एकाधिकरणत्वं घटादि-विशेष्याभावे न युक्तम् इति चेत्, न । इदम् उदकम् इति मरीच्य्-आदौ अन्यतराभावे ऽपि सामानाधिकरण्य-दर्शनात् ॥ तस्माद् देहादेर् द्वन्द्वस्य च स-कारणस्य असतो न विद्यते भाव इति । तथा सतश् च आत्मनो ऽभावो ऽविद्यमानता न विद्यते, सर्वत्राव्यभिचारात् इत्य् अवोचाम ॥ एवम् आत्मानात्मनोः सद्-असतोः उभयोर् अपि दृष्टः उपलब्धो ऽन्तो निर्णयः सत् सद् एव, असत् असद् एवेति, त्व् अनयोः यथोक्तयोः तत्त्व-दर्शिभिः । तद् इति सर्व-नाम सर्वं च ब्रह्म, तस्य नाम तद् इति, तद्-भावस् तत्त्वम्, ब्रह्मणो याथात्म्यम् । तद् द्रष्टुं शीलं येषां ते तत्त्व-दर्शिनः, तैस् तत्त्व-दर्शिभिः । त्वम् अपि तत्त्व-दर्शिनां दृष्टिम् आश्रित्य शोकं मोहं च हित्वा शीतोष्णादीनि नियतानियत-रूपाणि द्वन्द्वानि विकारो ऽयम् असन्न् एव मरीचि-जलवन् मिथ्यावभासते इति मनसि निश्चित्य तितिक्षस्व इत्य् अभिप्रायः

na asato 'vidyamānasya śītoṣṇādeḥ sa-kāraṇasya na vidyate nāsti bhāvo bhavanam astitā || na hi śītoṣṇādi sa-kāraṇaṃ pramāṇair nirūpyamāṇaṃ vastu sambhavati | vikāro hi saḥ, vikāraś ca vyabhicarati | yathā ghaṭādi-saṃsthānaṃ cakṣuṣā nirūpyamāṇaṃ mṛd-vyatirekeṇānupalabdher asat | tathā sarvo vikāraḥ kāraṇa-vyatirekeṇānupalabdher asat | janma-pradhvaṃsābhyāṃ prāg ūrdhvaṃ cānupalabdheḥ | kāryasya ghaṭādeḥ mṛd-ādi-kāraṇasya ca tat-kāraṇa-vyatirekeṇānupalabdher asattvam || tad-asattve sarvābhāva-prasaṅga iti cet, na | sarvatra buddhi-dvayopalabdheḥ, sad-buddhir asad-buddhir iti | yad-viṣayā buddhir na vyabhicarati, tat sat | yad-viṣayā vyabhicarati, tad asat | iti sad-asad-vibhāge buddhi-tantre sthite | sarvatra dve buddhī sarvair upalabhyete samānādhikaraṇe na nīlotpalavat, san ghaṭaḥ san paṭaḥ, san hastī iti | evaṃ sarvatra | tayor buddhyoḥ ghaṭādi-buddhir vyabhicarati | tathā ca darśitam | na tu sad-buddhiḥ | tasmāt ghaṭādi-buddhi-viṣayo 'san, vyabhicārāt | na tu sad-buddhi-viṣayaḥ, avyabhicārāt || ghaṭe vinaṣṭe ghaṭa-buddhau vyabhicarantyāṃ sad-buddhir api vyabhicaratīti cet na | paṭād evapi sad-buddhi-darśanāt | viśeṣaṇa-viṣayaiva sā sad-buddhiḥ | sad-buddhivat ghaṭa-buddhir api ghaṭāntarā dṛśyata iti cet, na | paṭādau adarśanāt || sad-buddhir api naṣṭe ghaṭe na dṛśyata iti cet, na | viśeṣyābhāvāt | sad-buddhir viśeṣaṇa-viṣayā satī viśeṣyābhāve viśeṣaṇānupapattau kiṃ-viṣayā syāt ? na tu punaḥ sad-buddheḥ viṣayābhāvāt || ekādhikaraṇatvaṃ ghaṭādi-viśeṣyābhāve na yuktam iti cet, na | idam udakam iti marīcy-ādau anyatarābhāve 'pi sāmānādhikaraṇya-darśanāt || tasmād dehāder dvandvasya ca sa-kāraṇasya asato na vidyate bhāva iti | tathā sataś ca ātmano 'bhāvo 'vidyamānatā na vidyate, sarvatrāvyabhicārāt ity avocāma || evam ātmānātmanoḥ sad-asatoḥ ubhayor api dṛṣṭaḥ upalabdho 'nto nirṇayaḥ sat sad eva, asat asad eveti, tv anayoḥ yathoktayoḥ tattva-darśibhiḥ | tad iti sarva-nāma sarvaṃ ca brahma, tasya nāma tad iti, tad-bhāvas tattvam, brahmaṇo yāthātmyam | tad draṣṭuṃ śīlaṃ yeṣāṃ te tattva-darśinaḥ, tais tattva-darśibhiḥ | tvam api tattva-darśināṃ dṛṣṭim āśritya śokaṃ mohaṃ ca hitvā śītoṣṇādīni niyatāniyata-rūpāṇi dvandvāni vikāro 'yam asann eva marīci-jalavan mithyāvabhāsate iti manasi niścitya titikṣasva ity abhiprāyaḥ

Sanskrit only: no published translation is held for this verse.

अविनाशि न विनष्टुं शीलं यस्येति । तु-शब्दो ऽसतो विशेषणार्थः । तत् विद्धि विजानीहि । किम् ? येन सर्वम् इदं जगत् ततं व्याप्तं सद्-आख्येन ब्रह्मणा साकाशम्, आकाशेनैव घटादयः । विनाशम् अदर्शनम् अभावम् । अव्ययस्य न व्येति उपचयापचयौ न याति इति अव्ययं तस्य अव्ययस्य । नैतत् सदाख्यं ब्रह्म स्वेन रूपेण व्येति व्यभिचरति, निरवयवत्वात्, देहादिवत् । नाप्य् आत्मीयेन, आत्मीयाभावात् । यथा देवदत्तो धन-हान्या व्येति, न तु एवं ब्रह्म व्येति । अतो ऽव्ययस्य अस्य ब्रह्मणः विनाशं न कश्चित् कर्तुम् अर्हति, न कश्चित् अत्मानं विनाशयितुं शक्नोति ईश्वरो ऽपि । आत्मा हि ब्रह्म, स्वात्मनि च क्रियाविरोधात्

avināśi na vinaṣṭuṃ śīlaṃ yasyeti | tu-śabdo 'sato viśeṣaṇārthaḥ | tat viddhi vijānīhi | kim ? yena sarvam idaṃ jagat tataṃ vyāptaṃ sad-ākhyena brahmaṇā sākāśam, ākāśenaiva ghaṭādayaḥ | vināśam adarśanam abhāvam | avyayasya na vyeti upacayāpacayau na yāti iti avyayaṃ tasya avyayasya | naitat sadākhyaṃ brahma svena rūpeṇa vyeti vyabhicarati, niravayavatvāt, dehādivat | nāpy ātmīyena, ātmīyābhāvāt | yathā devadatto dhana-hānyā vyeti, na tu evaṃ brahma vyeti | ato 'vyayasya asya brahmaṇaḥ vināśaṃ na kaścit kartum arhati, na kaścit atmānaṃ vināśayituṃ śaknoti īśvaro 'pi | ātmā hi brahma, svātmani ca kriyāvirodhāt

Sanskrit only: no published translation is held for this verse.

अन्तः विनाशः विद्यते येषां ते अन्तवन्तः । यथा मृगतृष्णिकादौ सद्-बुद्धिः अनुवृत्ता प्रमाणनिरूपणान्ते विच्छिद्यते, स तस्य अन्तः । तथा इमे देहाः स्वप्नमायादेहादिवच अन्तवन्तः नित्यस्य शरीरिणः शरीरवतो ऽनाशिनो ऽप्रमेयर्य आत्मनो ऽन्तवन्त इति उक्ताः विवेकिभिरित्य् अर्थः । नित्यस्य अनाशिनः इति न पुनरुक्तम् । नित्यत्वस्य द्विविधत्वात् लोका, नाशस्य च । यथा देहो भस्मीभूतो ऽदर्शनं गतो नष्ट उच्यते । विद्यमानो ऽपि यथा अन्यथा परिणतो व्याध्यादि-युक्तो जातो नष्ट उच्यते । तत्र नित्यस्य ठ् अनाशिनः इति द्विविधेनापि नाशेन असंबन्धो ऽस्येत्य् अर्थः । अन्यथा पृथिव्यादिवद् अपि नित्यत्वं स्यात् आत्मनः । तत् मा भूदिति नित्यस्य अनाशिनः इत्याह । अप्रमेयम्य न प्रमेयस्य प्रत्यक्षादि-प्रमाणैः अपरिच्छाद्यस्येत्य् अर्थः ॥ ननु आगमेन आत्मा परिच्छिद्यते, प्रत्यक्षादिना च पूर्वम् । न । आत्मनः स्वतःसिद्धत्वात् । सिरा हि आत्मनि प्रमातरि प्रमित्सोः प्रमाणान्वेषणा भवति । न हि पूर्वम् इत्थमहम् इति आत्मानमप्रमाय प चात् प्रमेयपरिच्छादाय प्रवर्तते । न हि आत्मा नाम कस्यचित् अप्रसिद्धो भवति । शास्त्रं तु अन्त्यं प्रमाणम् अतद्-धर्माध्यारोपण-मात्र-निवर्तकत्वेन प्रमाणत्वम् आत्मनः प्रतिपद्यते, न ह्य् अज्ञातार्थज्ञापकत्वेन । तथा च श्रुतिः --- यत् साक्षाद् अपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरः [ब्अउ ३।४।१] इति । यस्माद् एवं नित्यो ऽविक्रियश् चात्मा तस्माद् युध्यस्व, युद्धाद् उपरमं मा कार्षीः इत्य् अर्थः । न ह्य् अत्र युद्ध-कर्तव्यता विधीयते, युद्धे प्रवृत्त एव हि असौ शोक-मोह-प्रतिबद्धः तूष्णीम् आस्ते । अतः तस्य प्रतिबन्धापनयन-मात्रं भगवता क्रियते । तस्माद् युध्यस्व इति अनुवाद-मात्रम्, न विधिः

antaḥ vināśaḥ vidyate yeṣāṃ te antavantaḥ | yathā mṛgatṛṣṇikādau sad-buddhiḥ anuvṛttā pramāṇanirūpaṇānte vicchidyate, sa tasya antaḥ | tathā ime dehāḥ svapnamāyādehādivaca antavantaḥ nityasya śarīriṇaḥ śarīravato 'nāśino 'prameyarya ātmano 'ntavanta iti uktāḥ vivekibhirity arthaḥ | nityasya anāśinaḥ iti na punaruktam | nityatvasya dvividhatvāt lokā, nāśasya ca | yathā deho bhasmībhūto 'darśanaṃ gato naṣṭa ucyate | vidyamāno 'pi yathā anyathā pariṇato vyādhyādi-yukto jāto naṣṭa ucyate | tatra nityasya ṭh anāśinaḥ iti dvividhenāpi nāśena asaṃbandho 'syety arthaḥ | anyathā pṛthivyādivad api nityatvaṃ syāt ātmanaḥ | tat mā bhūditi nityasya anāśinaḥ ityāha | aprameyamya na prameyasya pratyakṣādi-pramāṇaiḥ aparicchādyasyety arthaḥ || nanu āgamena ātmā paricchidyate, pratyakṣādinā ca pūrvam | na | ātmanaḥ svataḥsiddhatvāt | sirā hi ātmani pramātari pramitsoḥ pramāṇānveṣaṇā bhavati | na hi pūrvam itthamaham iti ātmānamapramāya pa cāt prameyaparicchādāya pravartate | na hi ātmā nāma kasyacit aprasiddho bhavati | śāstraṃ tu antyaṃ pramāṇam atad-dharmādhyāropaṇa-mātra-nivartakatvena pramāṇatvam ātmanaḥ pratipadyate, na hy ajñātārthajñāpakatvena | tathā ca śrutiḥ --- yat sākṣād aparokṣād brahma ya ātmā sarvāntaraḥ [BAU 3.4.1] iti | yasmād evaṃ nityo 'vikriyaś cātmā tasmād yudhyasva, yuddhād uparamaṃ mā kārṣīḥ ity arthaḥ | na hy atra yuddha-kartavyatā vidhīyate, yuddhe pravṛtta eva hi asau śoka-moha-pratibaddhaḥ tūṣṇīm āste | ataḥ tasya pratibandhāpanayana-mātraṃ bhagavatā kriyate | tasmād yudhyasva iti anuvāda-mātram, na vidhiḥ

Sanskrit only: no published translation is held for this verse.

य एनं प्रकृतं देहिनं वेत्ति विजानाति हन्तारं हनन-क्रियायाः कर्तारं य च एनम् अन्यो मन्यते हतं देह-हननेन हतो ऽहम् इति हनन-क्रियायाः कर्म-भूतम् । तौ उभौ न विजानीतः न ज्ञातवन्तौ अविवेकेन आत्मानम् । हन्ता अहं, हतो ऽस्म्य् अहम् इति देह-हननेन आत्मानम् अहं प्रत्यय-विषयं यौ विजानीतः तौ आत्म-स्वरूपानभिज्ञौ इत्य् अर्थः । यस्मात् न अयम् अत्मा हन्ति न हनन-क्रियायाः कर्ता भवति, न च हन्यते न च कर्म भवतीत्य् अर्थः, अविक्रियत्वात्

ya enaṃ prakṛtaṃ dehinaṃ vetti vijānāti hantāraṃ hanana-kriyāyāḥ kartāraṃ ya ca enam anyo manyate hataṃ deha-hananena hato 'ham iti hanana-kriyāyāḥ karma-bhūtam | tau ubhau na vijānītaḥ na jñātavantau avivekena ātmānam | hantā ahaṃ, hato 'smy aham iti deha-hananena ātmānam ahaṃ pratyaya-viṣayaṃ yau vijānītaḥ tau ātma-svarūpānabhijñau ity arthaḥ | yasmāt na ayam atmā hanti na hanana-kriyāyāḥ kartā bhavati, na ca hanyate na ca karma bhavatīty arthaḥ, avikriyatvāt

Sanskrit only: no published translation is held for this verse.

न जायते नोत्पद्यते, जनि-लक्षणा वस्तु-विक्रिया न आत्मनो विद्यते इत्य् अर्थः । तथा न म्रियते वा । वा-शब्दः चार्थे । न म्रियते च इति अन्त्या विनाश-लक्षणा विक्रिया प्रतिषिध्यते । कदाचिच् छब्दः सर्व-विक्रिया-प्रतिषेधैः संबध्यते -- न कदाचित् जायते, न कदाचित् म्रियते, इत्य् एवम् । यस्मात् अयम् आत्मा भूत्वा भवन-क्रियाम् अनुभूय पश्चात् अभविता अभावं गन्ता न भूयः पुनः, तस्मात् न म्रियते । यो हि भूत्वा न भविता स म्रियत इत्य् उच्यते लोका । वा-शब्दात् न-शब्दाच् च अयम् आत्मा अभूत्वा वा भविता देहवत् न भूयः । तस्मात् न जायते । यो हि अभूत्वा भविता स जायत इत्य् उच्यते । नैवम् आत्मा । अतो न जायते । यस्माद् एवं तस्मात् अजः, यस्मात् न म्रियते तस्मात् नित्यश् च । यद्यपि आद्य्-अन्तयोर् विक्रिययोः प्रतिषेधे सर्वा विक्रियाः प्रतिषिद्धा भवन्ति, तथापि मध्य-भाविनीनां विक्रियाणां स्व-शब्दैर् एव प्रतिषेधः कर्तव्यो ऽनुक्तानाम् अपि यौवनादि-समस्त-विक्रियाणां प्रतिषेधो यथा स्यात् इत्य् आह-- शाश्वत इत्य् आदिना । शाश्वत इति अपक्षय-लक्षणा विक्रिया प्रतिषिध्यते । शश्वद्-भवः शाश्वतः । न अपक्षीयते स्वरूपेण, निरवयवत्वात् । नापि गुण-क्षयेण अपक्षयः, निर्गुणत्वात् । अपक्षय-विपरीतापि वृद्धि-लक्षणा विक्रिया प्रतिषिध्यते --- पुराण इति । यो हि अवयवागमेन उपचीयते स वर्धते अभिनव इति च उच्यते । अयं तु आत्मा निरवयवत्वात् पुरापि नव एवेति पुराणः न वर्धते इत्य् अर्थः । तथा न हन्यते । हन्तिः अत्र विपरिणामार्थे द्रष्टव्यो ऽपुनरुक्ततायै । न विपरिणम्यते इत्य् अर्थः । हन्यमाने विपरिणम्यमाने ऽपि शरीराः । अस्मिन् मन्त्रे षड्-भाव-विकारा लौकिक-वस्तु-विक्रिया आत्मनि प्रतिषिध्यन्ते । सर्व-प्रकार-विक्रिया-रहित आत्मा इति वाक्यार्थः । यस्माद् एवं तस्मात् उभौ तौ न विजानीतः इति पूर्वेण मन्त्रेण अस्य संबन्धः

na jāyate notpadyate, jani-lakṣaṇā vastu-vikriyā na ātmano vidyate ity arthaḥ | tathā na mriyate vā | vā-śabdaḥ cārthe | na mriyate ca iti antyā vināśa-lakṣaṇā vikriyā pratiṣidhyate | kadācic chabdaḥ sarva-vikriyā-pratiṣedhaiḥ saṃbadhyate -- na kadācit jāyate, na kadācit mriyate, ity evam | yasmāt ayam ātmā bhūtvā bhavana-kriyām anubhūya paścāt abhavitā abhāvaṃ gantā na bhūyaḥ punaḥ, tasmāt na mriyate | yo hi bhūtvā na bhavitā sa mriyata ity ucyate lokā | vā-śabdāt na-śabdāc ca ayam ātmā abhūtvā vā bhavitā dehavat na bhūyaḥ | tasmāt na jāyate | yo hi abhūtvā bhavitā sa jāyata ity ucyate | naivam ātmā | ato na jāyate | yasmād evaṃ tasmāt ajaḥ, yasmāt na mriyate tasmāt nityaś ca | yadyapi ādy-antayor vikriyayoḥ pratiṣedhe sarvā vikriyāḥ pratiṣiddhā bhavanti, tathāpi madhya-bhāvinīnāṃ vikriyāṇāṃ sva-śabdair eva pratiṣedhaḥ kartavyo 'nuktānām api yauvanādi-samasta-vikriyāṇāṃ pratiṣedho yathā syāt ity āha-- śāśvata ity ādinā | śāśvata iti apakṣaya-lakṣaṇā vikriyā pratiṣidhyate | śaśvad-bhavaḥ śāśvataḥ | na apakṣīyate svarūpeṇa, niravayavatvāt | nāpi guṇa-kṣayeṇa apakṣayaḥ, nirguṇatvāt | apakṣaya-viparītāpi vṛddhi-lakṣaṇā vikriyā pratiṣidhyate --- purāṇa iti | yo hi avayavāgamena upacīyate sa vardhate abhinava iti ca ucyate | ayaṃ tu ātmā niravayavatvāt purāpi nava eveti purāṇaḥ na vardhate ity arthaḥ | tathā na hanyate | hantiḥ atra vipariṇāmārthe draṣṭavyo 'punaruktatāyai | na vipariṇamyate ity arthaḥ | hanyamāne vipariṇamyamāne 'pi śarīrāḥ | asmin mantre ṣaḍ-bhāva-vikārā laukika-vastu-vikriyā ātmani pratiṣidhyante | sarva-prakāra-vikriyā-rahita ātmā iti vākyārthaḥ | yasmād evaṃ tasmāt ubhau tau na vijānītaḥ iti pūrveṇa mantreṇa asya saṃbandhaḥ

Sanskrit only: no published translation is held for this verse.

वेद विजानाति अविनाशिनम् अन्त्य-भाव-विकार-रहितं नित्यं विपरिणाम-रहितं यो वेद इति संबन्धः । एनं पूर्वेण मत्रेणोक्त-लक्षणम् अजं जन्म-रहितम् अव्ययम् अपक्षय-रहितं कथं केन प्रकारेण स विद्वान् पुरुषो ऽधिकृतः हन्ति हनन-क्रियां करोति, कथं वा घातयति हन्तारं प्रयोजयति । न कथंचित् कंचित् हन्ति, न कथंचित् कंचित् घातयति इति उभयत्र आक्षेपः एवार्थः प्रश्नार्थासंभवात् । हेत्व्-अर्थस्य च अविक्रियत्वस्य तुल्यत्वात् विदुषः सर्व-कर्म-प्रतिषेध एव प्रकरणार्थो ऽभिप्रेतो भगवता । हन्तेस् तु आक्षेपः उदाहरणार्थत्वेन कथितः । विदुषः कं कर्मासंभवे हेतु-विशेषं पश्यन् कर्माण्य् आक्षिपति भगवान् कथं स पुरुषः इति । ननु उक्त एवात्मनो ऽविक्रियत्वं सर्व-कर्मासंभव-कारण-विशेषः । सत्यम् उक्तः । न तु स कारण-विशेषः, अन्यत्वात् विदुषो ऽविक्रियाद् आत्मनः । न हि अविक्रियं स्थाणुं विदितवतः कर्म न संभवति इति चेत्, न । विदुषः आत्मत्वात् । न देहादि-संघातस्य विद्वत्ता । अतः पारिशेष्यात् असंहत आत्मा विद्वान् अविक्रियः इति तस्य विदुषः कर्मासंभवात् आक्षेपो युक्तः कथं स पुरुषः इति । यथा बुद्ध्याद्य् आहृतस्य शब्दाद्य्-अर्थस्य अविक्रिय एव सन् बुद्धि-वृत्त्य्-अविवेक-विज्ञानेन अविद्यया उपलब्धा आत्मा कल्प्यते, एवम् एव आत्मानात्म-विवेक-ज्ञानेन बुद्धि-वृत्त्या विद्या असत्य-रूपयैव परमार्थतो ऽविक्रिय एव आत्मा विद्वान् उच्यते । विदुषः कर्मासंभव-वचनात् यानि कर्माणि शास्त्रेण विधीयन्ते तानि अविदुषो विहितानि इति भगवतो निश्चयो ऽवगम्यते ॥ ननु विद्यापि अविदुष एव विधीयते, विदित-विद्यस्य पिष्ट-पेषणवत् विद्या-विधानानर्थक्यात् । तत्र अविदुषः कर्माणि विधीयन्ते न विदुषः इति विशेषो नोपपद्यते इति चेत्, न । अनुष्ठेयस्य भावाभाव-विशेषोपपत्तेः । अग्निहोत्रादि-विध्य्-अर्थ-ज्ञानोत्तर-कालम् अग्निहोत्रादि-कर्म अनेक-साधनोपसंहार-पूर्वकम् अनुष्ठेयं कर्ता अहम्, मम कर्तव्यम् इत्य् एवं प्रकार-विज्ञानवतो ऽविदुषः यथा अनुष्ठेयं भवति, न तु तथा न जायते इत्य् आद्य् आत्म-स्वरुप-विध्य्-अर्थ-ज्ञानोत्तर-काल-भावि किंचिद् अनुष्ठेयं भवति । किन्तु नाहं कर्ता, नाहं भोक्ता इत्य् आद्य् आत्मैकत्वाकर्तृत्वादि-विषय-ज्ञानात् नान्यद् उत्पद्यते इति एष विशेष उपपद्यते । यः पुनः कर्ता अहम् इति वेत्ति आत्मानम्, तस्य मम इदं कर्तव्यम् इति अवश्यंभाविनी बुद्धिः स्यात् । तद्-अपेक्षया सो ऽधिक्रियते इति तं प्रति कर्माणि संभवन्ति । स च अविद्वान् उभौ तौ न विजानीतः इति वचनात् विशेषितस्य च विदुषः कर्माक्षेप-वचनात् कथं स पुरुषः इति । तस्मात् विशेषितस्य अविक्रियात्म-दर्शिनः विदुषः मुमुक्षो च सर्व-कर्म-संन्यासे एव अधिकारः । अत एव भगवान् नारायणः सांख्यान् विदुषो ऽविदुष च कर्मिणः प्रविभज्य द्वे निष्ठे ग्राहयति-ज्ञान-योगेन सांख्यानां कर्म-योगेन योगिनाम् इति । तथा च पुत्राय आह भगवान् व्यासः - द्वाव् इमाव् अथ पन्थानौ [महाशा २४१।६] इत्य् आदि । तथा च क्रिया-पथश् चैव पुरस्तात् पश्चात् संन्यासश् च इति । एतम् एव विभागं पुनः पुनर् दर्शयिष्यति भगवान् --- अतत्त्ववित् अहंकार-विमूढात्मा कर्ताहम् इति मन्यते, तत्त्ववित् तु, नाहं करोमि इति । तथा च सर्व-कर्माणि मनसा संन्यस्यास्ते इत्यादि ॥ तत्र केचित् पण्डितं-मन्या वदन्ति --- जन्मादि-षड्-भाव-विक्रिया-रहितो ऽविक्रियो ऽकर्ता एको ऽहम् आत्मा इति न कस्यचित् ज्ञानम् उत्पद्यते, यस्मिन् सति सर्व-कर्म-संन्यासः उपदिश्यते इति । तन् न । न जायते इत्यादि शास्त्रोपदेशानर्थक्य-प्रसङ्गात् । यथा च शास्त्रोपदेश-सामर्थ्यात् धर्माधर्मास्तित्व-विज्ञानं कर्तुश् च देहान्तर-संबन्ध-विज्ञानम् उत्पद्यते, तथा शास्त्रात् तस्यैव आत्मनो ऽविक्रियत्वाकर्तृत्वैकत्वादि-विज्ञानं कस्मात् नोत्पद्यते इति प्रष्टव्याः ते । करणागोचरत्वात् इति चेत्, न । मनसैवानुद्रष्टव्यम् [ब्अउ ४।४।१९] इति श्रुतेः । शास्त्राचार्योपदेश-शम-दमादि-संस्कृतं मन आत्म-दर्शने करणम् । तथा च तद् अधिगमाय अनुमाने आगमे च सति ज्ञानं नोत्पद्यत इति साहस-मात्रम् एतत् । ज्ञानं च उत्पद्यमानं तद्-विपरीतम् अज्ञानम् अवश्यं बाधते इत्य् अभ्युपगन्तव्यम् । तच् च अज्ञानं दर्शितम् हन्ता अहम्, हतो ऽस्मि इति उभौ तौ न विजानीत इति । अत्र च आत्मनः हनन-क्रियायाः कर्तृत्वं कर्मत्वं हेतु-कर्तृत्वं च अज्ञान-कृतं दर्शितम् । तच् च सर्व-क्रियास्व् अपि समानं कर्तृत्वादेः अविद्या-कृतत्वम् अविक्रियत्वात् आत्मनः । विक्रियावान् हि कर्ता आत्मनः कर्म-भूतम् अन्यं प्रयोजयति कुरु इति । तद् एतत् अविशेषेण विदुषः सर्व-क्रियासु कर्तृत्वं हेतु-कर्तृत्वं च प्रतिषेधति भगवान् वासुदेवो विदुषः कर्माधिकाराभाव-प्रदर्शनार्थं वेदाविनाशिनं, कथं स पुरुषः इत्य् आदिना । क्व पुनः विदुषो ऽधिकार इति एतद् उक्तं पूर्वम् एव ज्ञान-योगेन सांख्यानाम् इति । तथा च सर्व-कर्म-संन्यासं वक्ष्यति सर्व-कर्माणि मनसा इत्य् आदिना ॥ ननु मनसा इति वचनात् न वाचिकानां कायिकाना च संन्यासः इति चेत्, न । सर्व-कर्माणि इति विशेषितत्वात् । मानसानाम् एव सर्व-कर्मणाम् इति चेत्, न । मनो-व्यापार-पूर्वकत्वाद् वाक्-काय-व्यापाराणां मनो-व्यापाराभावे तद्-अनुपपत्तेः । शास्त्रीयाणां वाक्-काय-कर्मणां कारणानि मानसानि कर्माणि वर्जयित्वा अन्यानि सर्व-कर्माणि मनसा संन्यस्येद् इति चेत्, न । नैव कुर्वन् न कारयन् इति विशेषणात् । सर्व-कर्म-संन्यासो ऽयं भगवता उक्तः मरिष्यतो न जीवत इति चेत्, न । नव-द्वारे पुरे देही आस्ते इति विशेणानुपपत्तेः । न हि सर्व-कर्म-संन्यासेन मृतस्य तद्-देहे आसनं संभवति । अकुर्वतो ऽकारयत च देहे संन्यस्य इति संबन्धो न देहे आस्ते इति चेत्, न । सर्वत्र आत्मनो ऽविक्रियत्वावधारणात् । आसन-क्रियायाश् चाधिकरणापेक्षत्वात् । तद्-अनपेक्षत्वाच् च संन्यासस्य । संपूर्वस् तु न्यास-शब्दो ऽत्र त्यागार्थः, न निक्षेपार्थः । तस्मात् गीता-शास्त्रे आत्म-ज्ञानवतः संन्यास एव अधिकारो न कर्मणीति तत्र तत्र उपरिष्टात् आत्म-ज्ञान-प्रकरणे दर्शयिष्यामः

veda vijānāti avināśinam antya-bhāva-vikāra-rahitaṃ nityaṃ vipariṇāma-rahitaṃ yo veda iti saṃbandhaḥ | enaṃ pūrveṇa matreṇokta-lakṣaṇam ajaṃ janma-rahitam avyayam apakṣaya-rahitaṃ kathaṃ kena prakāreṇa sa vidvān puruṣo 'dhikṛtaḥ hanti hanana-kriyāṃ karoti, kathaṃ vā ghātayati hantāraṃ prayojayati | na kathaṃcit kaṃcit hanti, na kathaṃcit kaṃcit ghātayati iti ubhayatra ākṣepaḥ evārthaḥ praśnārthāsaṃbhavāt | hetv-arthasya ca avikriyatvasya tulyatvāt viduṣaḥ sarva-karma-pratiṣedha eva prakaraṇārtho 'bhipreto bhagavatā | hantes tu ākṣepaḥ udāharaṇārthatvena kathitaḥ | viduṣaḥ kaṃ karmāsaṃbhave hetu-viśeṣaṃ paśyan karmāṇy ākṣipati bhagavān kathaṃ sa puruṣaḥ iti | nanu ukta evātmano 'vikriyatvaṃ sarva-karmāsaṃbhava-kāraṇa-viśeṣaḥ | satyam uktaḥ | na tu sa kāraṇa-viśeṣaḥ, anyatvāt viduṣo 'vikriyād ātmanaḥ | na hi avikriyaṃ sthāṇuṃ viditavataḥ karma na saṃbhavati iti cet, na | viduṣaḥ ātmatvāt | na dehādi-saṃghātasya vidvattā | ataḥ pāriśeṣyāt asaṃhata ātmā vidvān avikriyaḥ iti tasya viduṣaḥ karmāsaṃbhavāt ākṣepo yuktaḥ kathaṃ sa puruṣaḥ iti | yathā buddhyādy āhṛtasya śabdādy-arthasya avikriya eva san buddhi-vṛtty-aviveka-vijñānena avidyayā upalabdhā ātmā kalpyate, evam eva ātmānātma-viveka-jñānena buddhi-vṛttyā vidyā asatya-rūpayaiva paramārthato 'vikriya eva ātmā vidvān ucyate | viduṣaḥ karmāsaṃbhava-vacanāt yāni karmāṇi śāstreṇa vidhīyante tāni aviduṣo vihitāni iti bhagavato niścayo 'vagamyate || nanu vidyāpi aviduṣa eva vidhīyate, vidita-vidyasya piṣṭa-peṣaṇavat vidyā-vidhānānarthakyāt | tatra aviduṣaḥ karmāṇi vidhīyante na viduṣaḥ iti viśeṣo nopapadyate iti cet, na | anuṣṭheyasya bhāvābhāva-viśeṣopapatteḥ | agnihotrādi-vidhy-artha-jñānottara-kālam agnihotrādi-karma aneka-sādhanopasaṃhāra-pūrvakam anuṣṭheyaṃ kartā aham, mama kartavyam ity evaṃ prakāra-vijñānavato 'viduṣaḥ yathā anuṣṭheyaṃ bhavati, na tu tathā na jāyate ity ādy ātma-svarupa-vidhy-artha-jñānottara-kāla-bhāvi kiṃcid anuṣṭheyaṃ bhavati | kintu nāhaṃ kartā, nāhaṃ bhoktā ity ādy ātmaikatvākartṛtvādi-viṣaya-jñānāt nānyad utpadyate iti eṣa viśeṣa upapadyate | yaḥ punaḥ kartā aham iti vetti ātmānam, tasya mama idaṃ kartavyam iti avaśyaṃbhāvinī buddhiḥ syāt | tad-apekṣayā so 'dhikriyate iti taṃ prati karmāṇi saṃbhavanti | sa ca avidvān ubhau tau na vijānītaḥ iti vacanāt viśeṣitasya ca viduṣaḥ karmākṣepa-vacanāt kathaṃ sa puruṣaḥ iti | tasmāt viśeṣitasya avikriyātma-darśinaḥ viduṣaḥ mumukṣo ca sarva-karma-saṃnyāse eva adhikāraḥ | ata eva bhagavān nārāyaṇaḥ sāṃkhyān viduṣo 'viduṣa ca karmiṇaḥ pravibhajya dve niṣṭhe grāhayati-jñāna-yogena sāṃkhyānāṃ karma-yogena yoginām iti | tathā ca putrāya āha bhagavān vyāsaḥ - dvāv imāv atha panthānau [MahāŚā 241.6] ity ādi | tathā ca kriyā-pathaś caiva purastāt paścāt saṃnyāsaś ca iti | etam eva vibhāgaṃ punaḥ punar darśayiṣyati bhagavān --- atattvavit ahaṃkāra-vimūḍhātmā kartāham iti manyate, tattvavit tu, nāhaṃ karomi iti | tathā ca sarva-karmāṇi manasā saṃnyasyāste ityādi || tatra kecit paṇḍitaṃ-manyā vadanti --- janmādi-ṣaḍ-bhāva-vikriyā-rahito 'vikriyo 'kartā eko 'ham ātmā iti na kasyacit jñānam utpadyate, yasmin sati sarva-karma-saṃnyāsaḥ upadiśyate iti | tan na | na jāyate ityādi śāstropadeśānarthakya-prasaṅgāt | yathā ca śāstropadeśa-sāmarthyāt dharmādharmāstitva-vijñānaṃ kartuś ca dehāntara-saṃbandha-vijñānam utpadyate, tathā śāstrāt tasyaiva ātmano 'vikriyatvākartṛtvaikatvādi-vijñānaṃ kasmāt notpadyate iti praṣṭavyāḥ te | karaṇāgocaratvāt iti cet, na | manasaivānudraṣṭavyam [BAU 4.4.19] iti śruteḥ | śāstrācāryopadeśa-śama-damādi-saṃskṛtaṃ mana ātma-darśane karaṇam | tathā ca tad adhigamāya anumāne āgame ca sati jñānaṃ notpadyata iti sāhasa-mātram etat | jñānaṃ ca utpadyamānaṃ tad-viparītam ajñānam avaśyaṃ bādhate ity abhyupagantavyam | tac ca ajñānaṃ darśitam hantā aham, hato 'smi iti ubhau tau na vijānīta iti | atra ca ātmanaḥ hanana-kriyāyāḥ kartṛtvaṃ karmatvaṃ hetu-kartṛtvaṃ ca ajñāna-kṛtaṃ darśitam | tac ca sarva-kriyāsv api samānaṃ kartṛtvādeḥ avidyā-kṛtatvam avikriyatvāt ātmanaḥ | vikriyāvān hi kartā ātmanaḥ karma-bhūtam anyaṃ prayojayati kuru iti | tad etat aviśeṣeṇa viduṣaḥ sarva-kriyāsu kartṛtvaṃ hetu-kartṛtvaṃ ca pratiṣedhati bhagavān vāsudevo viduṣaḥ karmādhikārābhāva-pradarśanārthaṃ vedāvināśinaṃ, kathaṃ sa puruṣaḥ ity ādinā | kva punaḥ viduṣo 'dhikāra iti etad uktaṃ pūrvam eva jñāna-yogena sāṃkhyānām iti | tathā ca sarva-karma-saṃnyāsaṃ vakṣyati sarva-karmāṇi manasā ity ādinā || nanu manasā iti vacanāt na vācikānāṃ kāyikānā ca saṃnyāsaḥ iti cet, na | sarva-karmāṇi iti viśeṣitatvāt | mānasānām eva sarva-karmaṇām iti cet, na | mano-vyāpāra-pūrvakatvād vāk-kāya-vyāpārāṇāṃ mano-vyāpārābhāve tad-anupapatteḥ | śāstrīyāṇāṃ vāk-kāya-karmaṇāṃ kāraṇāni mānasāni karmāṇi varjayitvā anyāni sarva-karmāṇi manasā saṃnyasyed iti cet, na | naiva kurvan na kārayan iti viśeṣaṇāt | sarva-karma-saṃnyāso 'yaṃ bhagavatā uktaḥ mariṣyato na jīvata iti cet, na | nava-dvāre pure dehī āste iti viśeṇānupapatteḥ | na hi sarva-karma-saṃnyāsena mṛtasya tad-dehe āsanaṃ saṃbhavati | akurvato 'kārayata ca dehe saṃnyasya iti saṃbandho na dehe āste iti cet, na | sarvatra ātmano 'vikriyatvāvadhāraṇāt | āsana-kriyāyāś cādhikaraṇāpekṣatvāt | tad-anapekṣatvāc ca saṃnyāsasya | saṃpūrvas tu nyāsa-śabdo 'tra tyāgārthaḥ, na nikṣepārthaḥ | tasmāt gītā-śāstre ātma-jñānavataḥ saṃnyāsa eva adhikāro na karmaṇīti tatra tatra upariṣṭāt ātma-jñāna-prakaraṇe darśayiṣyāmaḥ

Sanskrit only: no published translation is held for this verse.

वासांसि वस्त्राणि जीर्णानि दुर्बलतां गतानि यथा लोके विहाय परित्यज्य नवानि अभिनवानि गृह्णाति उपादत्ते नरः पुरुषो ऽपराणि अन्यानि, तथा तद्वद् एव शरीराणि विहाय जीर्णानि अन्यानि संयाति संगच्छति नवानि देही आत्मा पुरुषवत् अविक्रिय एवेत्य् अर्थः

vāsāṃsi vastrāṇi jīrṇāni durbalatāṃ gatāni yathā loke vihāya parityajya navāni abhinavāni gṛhṇāti upādatte naraḥ puruṣo 'parāṇi anyāni, tathā tadvad eva śarīrāṇi vihāya jīrṇāni anyāni saṃyāti saṃgacchati navāni dehī ātmā puruṣavat avikriya evety arthaḥ

Sanskrit only: no published translation is held for this verse.

एनं प्रकृतं देहिनं न छिन्दन्ति शस्त्राणि, निरवयवत्वात् नावयव-विभागं कुर्वन्ति । शस्त्राणि अस्य्-आदीनि । तथा नैनं दहति पावकः, अग्निर् अपि न भस्मीकरोति । तथा न चैनं क्लेदयन्ति आपः । अपां हि सावयवस्य वस्तुन आद्रीभाव-करणेन अवयव-विश्लेषापादने सामर्थ्यम् । तन् न निरवयवे आत्मनि संभवति । तथा स्नेहवत् द्रव्यं स्नेह-शोषणेन नाशयति वायुः । एनं त्व् आत्मानं न शोषयति मारुतो ऽपि

enaṃ prakṛtaṃ dehinaṃ na chindanti śastrāṇi, niravayavatvāt nāvayava-vibhāgaṃ kurvanti | śastrāṇi asy-ādīni | tathā nainaṃ dahati pāvakaḥ, agnir api na bhasmīkaroti | tathā na cainaṃ kledayanti āpaḥ | apāṃ hi sāvayavasya vastuna ādrībhāva-karaṇena avayava-viśleṣāpādane sāmarthyam | tan na niravayave ātmani saṃbhavati | tathā snehavat dravyaṃ sneha-śoṣaṇena nāśayati vāyuḥ | enaṃ tv ātmānaṃ na śoṣayati māruto 'pi

Sanskrit only: no published translation is held for this verse.

यस्मात् अन्योन्य-नाश-हेतु-भूतानि एनम् आत्मानं नाशयितुं नोत्सहन्ते अस्यादीनि तस्मात् नित्यः । नित्यत्वात् सर्वगतः । सर्व-गतत्वात् स्थाणुर् इव, स्थिर इत्य् एतत् । स्थिरत्वात् अचलो ऽयम् आत्मा । अतः सनातनश् चिरन्तनः, न कारणात् कुतश्चिन् निष्पन्नः, अभिनव इत्य् अर्थः । नैतेषां लोकानां पौनरुक्त्यं चोदनीयम्, यतः एकेनैव लोकान् आत्मनः नित्यत्वम् अविक्रियत्वं चोक्तम् न जायते म्रियते वा इत्य् आदिना । तत्र यद् एव आत्म-विषयं किंचिद् उच्यते, तद् एतस्मात् लोकार्थान् नातिरिच्यते । किंचिच् छब्दतः पुनरुक्तम्, किंचिद् अर्थतः इति । दुर्बोधत्वात् आत्म-वस्तुनः पुनः पुनः प्रसङ्गम् आपाद्य शब्दान्तरेण तद् एव वस्तु निरूपयति भगवान् वासुदेवः कथं नु नाम संसारिणाम् असंसारित्व-बुद्धि-गोचरताम् आपन्नं सत् अव्यक्तं तत्त्वं संसार-निवृत्तये स्यात् इति

yasmāt anyonya-nāśa-hetu-bhūtāni enam ātmānaṃ nāśayituṃ notsahante asyādīni tasmāt nityaḥ | nityatvāt sarvagataḥ | sarva-gatatvāt sthāṇur iva, sthira ity etat | sthiratvāt acalo 'yam ātmā | ataḥ sanātanaś cirantanaḥ, na kāraṇāt kutaścin niṣpannaḥ, abhinava ity arthaḥ | naiteṣāṃ lokānāṃ paunaruktyaṃ codanīyam, yataḥ ekenaiva lokān ātmanaḥ nityatvam avikriyatvaṃ coktam na jāyate mriyate vā ity ādinā | tatra yad eva ātma-viṣayaṃ kiṃcid ucyate, tad etasmāt lokārthān nātiricyate | kiṃcic chabdataḥ punaruktam, kiṃcid arthataḥ iti | durbodhatvāt ātma-vastunaḥ punaḥ punaḥ prasaṅgam āpādya śabdāntareṇa tad eva vastu nirūpayati bhagavān vāsudevaḥ kathaṃ nu nāma saṃsāriṇām asaṃsāritva-buddhi-gocaratām āpannaṃ sat avyaktaṃ tattvaṃ saṃsāra-nivṛttaye syāt iti

Sanskrit only: no published translation is held for this verse.

अव्यक्तः सर्व-करणाविषयत्वात् न व्यज्यत इति अव्यक्तो ऽयम् आत्मा । अतएव अचिन्त्यो ऽयम् । यद् धि इन्द्रिय-गोचरस् तच् चिन्ता-विषयत्वम् आपद्यते । अयं त्व् आत्मा अनिन्द्रिय-गोचरत्वात् अचिन्त्यः । अतएव अविकार्यः, यथा क्षीरं दध्यातञ्चनादिना विकारि न तथा अयम् आत्मा । निरवयवत्वाच् चाविक्रियः । न हि निरवयवं किंचित् विक्रियात्मकं दृष्टाम् । अविक्रियत्वात् अविकार्यो ऽयम् आत्मा उच्यते । तस्मात् एवं यथोक्त-प्रकारेण एनम् आत्मानं विदित्वा त्वं न अनुशोचितुम् अर्हसि हन्ताहम् एषाम्, मयैते हन्यन्त इति

avyaktaḥ sarva-karaṇāviṣayatvāt na vyajyata iti avyakto 'yam ātmā | ataeva acintyo 'yam | yad dhi indriya-gocaras tac cintā-viṣayatvam āpadyate | ayaṃ tv ātmā anindriya-gocaratvāt acintyaḥ | ataeva avikāryaḥ, yathā kṣīraṃ dadhyātañcanādinā vikāri na tathā ayam ātmā | niravayavatvāc cāvikriyaḥ | na hi niravayavaṃ kiṃcit vikriyātmakaṃ dṛṣṭām | avikriyatvāt avikāryo 'yam ātmā ucyate | tasmāt evaṃ yathokta-prakāreṇa enam ātmānaṃ viditvā tvaṃ na anuśocitum arhasi hantāham eṣām, mayaite hanyanta iti

Sanskrit only: no published translation is held for this verse.

अथ च इति अभ्युपगमार्थः । एनं प्रकृतम् आत्मानं नित्य-जातं लोक-प्रसिद्धया प्रत्य् अनेक-शरीरोत्पत्ति जातो जात इति मन्यसे । तथा प्रति-तत्-तद्-विनाशं नित्यं वा मन्यसे मृतं मृतो मृत इति । तथापि तथाभावे ऽप्य् आत्मनि त्वं महाबाहो, न एवं शोचितुम् अर्हसि, जन्मवतो नाशो नाशवतो जन्म चेत्य् एताव् अवश्यंभाविनाव् इति

atha ca iti abhyupagamārthaḥ | enaṃ prakṛtam ātmānaṃ nitya-jātaṃ loka-prasiddhayā praty aneka-śarīrotpatti jāto jāta iti manyase | tathā prati-tat-tad-vināśaṃ nityaṃ vā manyase mṛtaṃ mṛto mṛta iti | tathāpi tathābhāve 'py ātmani tvaṃ mahābāho, na evaṃ śocitum arhasi, janmavato nāśo nāśavato janma cety etāv avaśyaṃbhāvināv iti

Sanskrit only: no published translation is held for this verse.

जातस्य हि लब्ध-जन्मनः ध्रुवो ऽव्यभिचारी मृत्युर् मरणं ध्रुव जन्म मृतस्य च । तस्माद् अपरिहार्यो ऽयं जन्म-मरण-लक्षणो ऽर्थः । तस्मिन्न् अपरिहार्ये ऽर्थे न त्वं शोचितुम् अर्हसि

jātasya hi labdha-janmanaḥ dhruvo 'vyabhicārī mṛtyur maraṇaṃ dhruva janma mṛtasya ca | tasmād aparihāryo 'yaṃ janma-maraṇa-lakṣaṇo 'rthaḥ | tasminn aparihārye 'rthe na tvaṃ śocitum arhasi

Sanskrit only: no published translation is held for this verse.

अव्यक्तादीन्य् अव्यक्तम् अदर्शनम् अनुपलब्धिः आदिर् येषां भूतानां पुत्र-मित्रादि-कार्य-करण-संघातात्मकानां तानि अव्यक्तदीनि भूतानि प्राग्-उत्पत्तेः, उत्पन्नानि च प्राङ्-मरणात् व्यक्त-मध्यानि । अव्यक्त-निधनान्य् एव पुनर् अव्यक्तम् अदर्शनं निधनं मरणं येषां तानि अव्यक्त-निधनानि । मरणाद् ऊर्ध्वम् अप्य् अव्यक्तताम् एव प्रतिपद्यन्ते इत्य् अर्थः । तथा चोक्तम् --- अदर्शनाद् आपतितः पुनश् चादर्शनं गतः । नासौ तव न तस्य त्वं वृथा का परिदेवना ॥ [महा। स्त्री। २।१३] इति । तत्र का परिदेवना को वा प्रलापो ऽदृष्ट-दृष्ट-प्रनष्ट-भ्रान्ति-भूतेषु भूतेष्व् इत्य् अर्थः

avyaktādīny avyaktam adarśanam anupalabdhiḥ ādir yeṣāṃ bhūtānāṃ putra-mitrādi-kārya-karaṇa-saṃghātātmakānāṃ tāni avyaktadīni bhūtāni prāg-utpatteḥ, utpannāni ca prāṅ-maraṇāt vyakta-madhyāni | avyakta-nidhanāny eva punar avyaktam adarśanaṃ nidhanaṃ maraṇaṃ yeṣāṃ tāni avyakta-nidhanāni | maraṇād ūrdhvam apy avyaktatām eva pratipadyante ity arthaḥ | tathā coktam --- adarśanād āpatitaḥ punaś cādarśanaṃ gataḥ | nāsau tava na tasya tvaṃ vṛthā kā paridevanā || [Mahā. Strī. 2.13] iti | tatra kā paridevanā ko vā pralāpo 'dṛṣṭa-dṛṣṭa-pranaṣṭa-bhrānti-bhūteṣu bhūteṣv ity arthaḥ

Sanskrit only: no published translation is held for this verse.

आश्चर्यवत् आश्चर्यम् अदृष्ट-पूर्वम् अद्भुतम् अकस्माद् दृश्यमानं तेन तुल्यं आश्चर्यवत् आश्चर्यम् इव एनम् आत्मानं पश्यति कश्चित् । आश्चर्यवद् एनं वदति तथैव चान्यः । आश्चर्यवच् च एनम् अन्यः सृणोति । श्रुत्वा दृष्ट्वा उक्त्वापि एनम् आत्मानं वेद न चैव कश्चित् । अथवा यो ऽयम् आत्मानं पश्यति स आश्चर्य-तुल्यः, यो वदति य च सृणोति सो ऽनेक-सहस्रेषु कश्चिद् एव भवति । अतो दुर्बोध आत्मा इत्य् अभिप्रायः

āścaryavat āścaryam adṛṣṭa-pūrvam adbhutam akasmād dṛśyamānaṃ tena tulyaṃ āścaryavat āścaryam iva enam ātmānaṃ paśyati kaścit | āścaryavad enaṃ vadati tathaiva cānyaḥ | āścaryavac ca enam anyaḥ sṛṇoti | śrutvā dṛṣṭvā uktvāpi enam ātmānaṃ veda na caiva kaścit | athavā yo 'yam ātmānaṃ paśyati sa āścarya-tulyaḥ, yo vadati ya ca sṛṇoti so 'neka-sahasreṣu kaścid eva bhavati | ato durbodha ātmā ity abhiprāyaḥ

Sanskrit only: no published translation is held for this verse.

देही शरीरी नित्यं सर्वदा सर्वावस्थासु अवध्यः निरवयवत्वान् नित्यत्वाच् च । तत्र अवध्यो ऽयं देहे शरीरे सर्वस्य सर्व-गतत्वात् स्थावरादिषु स्थितो ऽपि सर्वस्य प्राणि-जातस्य देहे वध्यमाने ऽप्य् अयं देही न वध्यो यस्मात्, तस्माद् भीष्मादीनि सर्वाणि भूतानि उद्दिश्य न त्वं शोचितुम् अर्हसि

dehī śarīrī nityaṃ sarvadā sarvāvasthāsu avadhyaḥ niravayavatvān nityatvāc ca | tatra avadhyo 'yaṃ dehe śarīre sarvasya sarva-gatatvāt sthāvarādiṣu sthito 'pi sarvasya prāṇi-jātasya dehe vadhyamāne 'py ayaṃ dehī na vadhyo yasmāt, tasmād bhīṣmādīni sarvāṇi bhūtāni uddiśya na tvaṃ śocitum arhasi

Sanskrit only: no published translation is held for this verse.

स्वधर्मम् अपि स्वो धर्मः क्षत्रियस्य युद्धं तम् अपि अवेक्ष्य त्वं न विकम्पितुं प्रचलितुम् नार्हसि क्षत्रियस्य स्वाभाविकाद् धर्माद् आत्म-स्वाभाव्याद् इत्य् अभिप्रायः । तच् च युद्धं पृथिवी-जय-द्वारेण धर्मार्थं प्रजा-रक्षणार्थं चेति धर्माद् अनपेतं परं धर्म्यम् । तस्माद् धर्म्याद् युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते हि यस्मात्

svadharmam api svo dharmaḥ kṣatriyasya yuddhaṃ tam api avekṣya tvaṃ na vikampituṃ pracalitum nārhasi kṣatriyasya svābhāvikād dharmād ātma-svābhāvyād ity abhiprāyaḥ | tac ca yuddhaṃ pṛthivī-jaya-dvāreṇa dharmārthaṃ prajā-rakṣaṇārthaṃ ceti dharmād anapetaṃ paraṃ dharmyam | tasmād dharmyād yuddhāc chreyo 'nyat kṣatriyasya na vidyate hi yasmāt

Sanskrit only: no published translation is held for this verse.

यदृच्छया च अप्रार्थिततया उपपन्नम् आगतं स्वर्ग-द्वारम् अपावृतम् उद्घाटितं य एतद् ईदृशं युद्धं लभन्ते क्षत्रियाः हे पार्थ, किं न सुखिनस् ते ?

yadṛcchayā ca aprārthitatayā upapannam āgataṃ svarga-dvāram apāvṛtam udghāṭitaṃ ya etad īdṛśaṃ yuddhaṃ labhante kṣatriyāḥ he pārtha, kiṃ na sukhinas te ?

Sanskrit only: no published translation is held for this verse.

अथ चेत् त्वम् इमं धर्म्यं धर्माद् अनपेतं विहितं संग्रामं युद्धं न करिष्यसि चेत्, ततः तद्-अकरणात् स्वधर्मं कीर्तिं च महा-देवादि-समागम-निमित्तां हित्वा केवलं पापम् अवाप्स्यसि

atha cet tvam imaṃ dharmyaṃ dharmād anapetaṃ vihitaṃ saṃgrāmaṃ yuddhaṃ na kariṣyasi cet, tataḥ tad-akaraṇāt svadharmaṃ kīrtiṃ ca mahā-devādi-samāgama-nimittāṃ hitvā kevalaṃ pāpam avāpsyasi

Sanskrit only: no published translation is held for this verse.

अकीर्तिं चापि युद्धा भूतानि कथयिष्यन्ति ते तव अव्ययां दीर्घ-कालाम् । धर्मात्मा शूर इत्य् एवम् आदिभिः गुणैः संभावितस्य च अकीर्तिः मरणात् अतिरिच्यते, संभावितस्य च अकीर्तेः वरं मरणम् इत्य् अर्थः

akīrtiṃ cāpi yuddhā bhūtāni kathayiṣyanti te tava avyayāṃ dīrgha-kālām | dharmātmā śūra ity evam ādibhiḥ guṇaiḥ saṃbhāvitasya ca akīrtiḥ maraṇāt atiricyate, saṃbhāvitasya ca akīrteḥ varaṃ maraṇam ity arthaḥ

Sanskrit only: no published translation is held for this verse.

भयात् कर्णादिभ्यः रणात् युद्धात् उपरतं निवृत्तं मंस्यन्ते चिन्तयिष्यन्ति न कृपयेति त्वां महारथाः दुर्योधन-प्रभृतयः । येषां च त्वं दुर्योधनादीनां बहु-मतो बहुभिर् गुणैर् युक्तः इत्य् एवं मतः बहुमतो भूत्वा पुनर् यास्यसि लाघवं लघु-भावम्

bhayāt karṇādibhyaḥ raṇāt yuddhāt uparataṃ nivṛttaṃ maṃsyante cintayiṣyanti na kṛpayeti tvāṃ mahārathāḥ duryodhana-prabhṛtayaḥ | yeṣāṃ ca tvaṃ duryodhanādīnāṃ bahu-mato bahubhir guṇair yuktaḥ ity evaṃ mataḥ bahumato bhūtvā punar yāsyasi lāghavaṃ laghu-bhāvam

Sanskrit only: no published translation is held for this verse.

अवाच्य-वादान् अवक्तव्य-वादांश् च बहून् अनेक-प्रकारान् वदिष्यन्ति तवाहिताः शत्रवः निन्दन्तः कुत्सयन्तः तव त्वदीयं सामर्थ्यं निवात-कवचादि-युद्ध-निमित्तम् । ततस् तस्मात् निन्दा-प्राप्तेर् दुःखात् दुःखतरं नु किम् ? ततः कष्टतरं दुःखं नास्तीत्य् अर्थः

avācya-vādān avaktavya-vādāṃś ca bahūn aneka-prakārān vadiṣyanti tavāhitāḥ śatravaḥ nindantaḥ kutsayantaḥ tava tvadīyaṃ sāmarthyaṃ nivāta-kavacādi-yuddha-nimittam | tatas tasmāt nindā-prāpter duḥkhāt duḥkhataraṃ nu kim ? tataḥ kaṣṭataraṃ duḥkhaṃ nāstīty arthaḥ

Sanskrit only: no published translation is held for this verse.

हतो वा प्राप्स्यसि स्वर्गम्, हतः सन् स्वर्गं प्राप्स्यसि । जित्वा वा कर्णादीन् शूरान् भोक्ष्यसे महीम् । उभयथापि तव लाभ एवेत्य् अभिप्रायः । यत एवं तस्मात् उत्तिष्ठ कौन्तेय युद्धाय कृतानि च यः जेष्यामि शत्रून्, मरिष्यामि वा इति निश्चयं कृत्वेत्य् अर्थः

hato vā prāpsyasi svargam, hataḥ san svargaṃ prāpsyasi | jitvā vā karṇādīn śūrān bhokṣyase mahīm | ubhayathāpi tava lābha evety abhiprāyaḥ | yata evaṃ tasmāt uttiṣṭha kaunteya yuddhāya kṛtāni ca yaḥ jeṣyāmi śatrūn, mariṣyāmi vā iti niścayaṃ kṛtvety arthaḥ

Sanskrit only: no published translation is held for this verse.

सुख-दुःखे समे तुल्ये कृत्वा, राग-द्वेषाव् अप्य् अकृत्वेत्य् एतत् । तथा लाभालाभौ जयाजयौ च समौ कृत्वा ततो युद्धाय युज्यस्व घटास्व । न एवं युद्धं कुर्वन् पापम् अवाप्स्यसि । इत्य् एष उपदेशः प्रासङ्गिकः

sukha-duḥkhe same tulye kṛtvā, rāga-dveṣāv apy akṛtvety etat | tathā lābhālābhau jayājayau ca samau kṛtvā tato yuddhāya yujyasva ghaṭāsva | na evaṃ yuddhaṃ kurvan pāpam avāpsyasi | ity eṣa upadeśaḥ prāsaṅgikaḥ

Sanskrit only: no published translation is held for this verse.

एषा ते तुभ्यम् अभिहिता उक्ता सांख्ये परमार्थ-वस्तु-विवेक-विषये बुद्धिर् ज्ञानं साक्षात् शोक-मोहादि-संसार-हेतु-दोष-निवृत्ति-कारणम् । योगे तु तत्-प्राप्त्य्-उपाये निःसङ्गतया द्वन्द्व-प्रहाण-पूर्वकम् ईश्वराराधनार्थे कर्म-योगे कर्मानुष्ठाने समाधि-योगे चेमाम् अनन्तरम् एवोच्यमानां बुद्धिं शृणु । तां च बुद्धिं स्तौति प्ररोचनार्थम् -- बुद्ध्या यया योग-विषयया युक्तः । हे पार्थ, कर्म-बन्धं कर्मैव धर्माधर्माख्यो बन्धः कर्म-बन्धस् तं प्रहास्यसि ईश्वर-प्रसाद-निमित्त-ज्ञान-प्राप्तेर् इत्य् अभिप्रायः

eṣā te tubhyam abhihitā uktā sāṃkhye paramārtha-vastu-viveka-viṣaye buddhir jñānaṃ sākṣāt śoka-mohādi-saṃsāra-hetu-doṣa-nivṛtti-kāraṇam | yoge tu tat-prāpty-upāye niḥsaṅgatayā dvandva-prahāṇa-pūrvakam īśvarārādhanārthe karma-yoge karmānuṣṭhāne samādhi-yoge cemām anantaram evocyamānāṃ buddhiṃ śṛṇu | tāṃ ca buddhiṃ stauti prarocanārtham -- buddhyā yayā yoga-viṣayayā yuktaḥ | he pārtha, karma-bandhaṃ karmaiva dharmādharmākhyo bandhaḥ karma-bandhas taṃ prahāsyasi īśvara-prasāda-nimitta-jñāna-prāpter ity abhiprāyaḥ

Sanskrit only: no published translation is held for this verse.

नेह मोक्ष-मार्गे कर्म-योगे अभिक्रम-नाशो ऽभिक्रमणम् अभिक्रमः प्रारम्भस् तस्य नाशो नास्ति यथा कृष्यादेः । योग-विषये प्रारम्भस्य न अनैकान्तिक-फलत्वम् इत्य् अर्थः । किं च नापि चिकित्सावत् प्रत्यवायो विद्यते भवति । किं तु स्वल्पम् अपि अस्य धर्मस्य योग-धर्मस्य अनुष्ठितं त्रायते रक्षति महतः भयात् संसार-भयात् जन्म-मरणादि-लक्षणात्

neha mokṣa-mārge karma-yoge abhikrama-nāśo 'bhikramaṇam abhikramaḥ prārambhas tasya nāśo nāsti yathā kṛṣyādeḥ | yoga-viṣaye prārambhasya na anaikāntika-phalatvam ity arthaḥ | kiṃ ca nāpi cikitsāvat pratyavāyo vidyate bhavati | kiṃ tu svalpam api asya dharmasya yoga-dharmasya anuṣṭhitaṃ trāyate rakṣati mahataḥ bhayāt saṃsāra-bhayāt janma-maraṇādi-lakṣaṇāt

Sanskrit only: no published translation is held for this verse.

व्यवसायात्मिका निश्चय-स्वभावा एका एव बुद्धिर् इतर-विपरीत-बुद्धि-शाखा-भेदस्य वाधिका, सम्यक्-प्रमाण-जनितत्वात्, इह श्रेयो-मार्गे । हे कुरुनन्दन ! याः पुनर् इतरा विपरीत-बुद्धयः, यासां शाखा-भेद-प्रचार-वशात् अनन्तो ऽपारो ऽनुपरतः संसारो नित्य-प्रततो विस्तीर्णो भवति, प्रमाण-जनित-विवेक-बुद्धि-निमित्त-वशाच् च उपरतास्व् अनन्त-भेद-बुद्धिषु संसारो ऽप्य् उपरमते ता बुद्धयो बहु-शाखाः बह्व्वयः शाखाः यासां ताः बहु-शाखाः, बहु-भेदा इत्य् एतत् । प्रतिशाखा-भेदेन ह्य् अनन्ता च बुद्धयः । केषाम् ? अव्यवसायिनां प्रमाण-जनित-विवेक-बुद्धि-रहितानाम् इत्य् अर्थः

vyavasāyātmikā niścaya-svabhāvā ekā eva buddhir itara-viparīta-buddhi-śākhā-bhedasya vādhikā, samyak-pramāṇa-janitatvāt, iha śreyo-mārge | he kurunandana ! yāḥ punar itarā viparīta-buddhayaḥ, yāsāṃ śākhā-bheda-pracāra-vaśāt ananto 'pāro 'nuparataḥ saṃsāro nitya-pratato vistīrṇo bhavati, pramāṇa-janita-viveka-buddhi-nimitta-vaśāc ca uparatāsv ananta-bheda-buddhiṣu saṃsāro 'py uparamate tā buddhayo bahu-śākhāḥ bahvvayaḥ śākhāḥ yāsāṃ tāḥ bahu-śākhāḥ, bahu-bhedā ity etat | pratiśākhā-bhedena hy anantā ca buddhayaḥ | keṣām ? avyavasāyināṃ pramāṇa-janita-viveka-buddhi-rahitānām ity arthaḥ

Sanskrit only: no published translation is held for this verse.

याम् इमां वक्ष्यमाणां पुष्पितां पुष्पित इव वृक्षः शोभमानां श्रूयमाण-रमणीयां वाचं वाक्य-लक्षणां प्रवदन्ति । के ? अविपश्चितो ऽमेधसो ऽविवेकिन इत्य् अर्थः । वेद-वाद-रताः बह्व्य्-अर्थ-वाद-फल-साधन-प्रकाशकेषु वेद-वाक्येषु रताः हे पार्थ, न अन्यत् स्वर्ग-प्राप्त्य्-आदि-फल-साधनेभ्यः कर्मभ्यो ऽस्ति इत्य् एवं वादिनः वदन-शीलाः

yām imāṃ vakṣyamāṇāṃ puṣpitāṃ puṣpita iva vṛkṣaḥ śobhamānāṃ śrūyamāṇa-ramaṇīyāṃ vācaṃ vākya-lakṣaṇāṃ pravadanti | ke ? avipaścito 'medhaso 'vivekina ity arthaḥ | veda-vāda-ratāḥ bahvy-artha-vāda-phala-sādhana-prakāśakeṣu veda-vākyeṣu ratāḥ he pārtha, na anyat svarga-prāpty-ādi-phala-sādhanebhyaḥ karmabhyo 'sti ity evaṃ vādinaḥ vadana-śīlāḥ

Sanskrit only: no published translation is held for this verse.

कामात्मानः कामस्वभावाः, कामपरा इत्य् अर्थः । स्वर्ग-पराः स्वर्गः परः पुरुषार्थः येषां ते स्वर्ग-पराः स्वर्ग-प्रधानाः । जन्म-कर्म-फल-प्रदां कर्मणः फलं कर्म-फलं जन्मैव कर्म-फलं जन्म-कर्म-फलं तत् प्रददातीति जन्म-कर्म-फल-प्रदा, तां वाचम् । प्रवदन्ति इत्य् अनुषज्यते । क्रिया-विशेष-बहुलां क्रियाणां विशेषाः क्रिया-विशेषाः ते बहुला यस्यां वाचि तां स्वर्ग-पशु-पुत्राद्य्-अर्थाः यया वाचा बाहुल्येन प्रकाश्यन्ते । भोगैश्वर्य-गतिं प्रति भोगश् च ऐश्वर्यं च भोगैश्वर्ये, तयोर् गतिः प्राप्तिः भोगैश्वर्य-गतिः, तां प्रति साधन-भूताः ये क्रिया-विशेषाः तद्-बहुलां तां वाचं प्रवदन्तः मूढाः संसारे परिवर्तन्ते इत्य् अभिप्रायः

kāmātmānaḥ kāmasvabhāvāḥ, kāmaparā ity arthaḥ | svarga-parāḥ svargaḥ paraḥ puruṣārthaḥ yeṣāṃ te svarga-parāḥ svarga-pradhānāḥ | janma-karma-phala-pradāṃ karmaṇaḥ phalaṃ karma-phalaṃ janmaiva karma-phalaṃ janma-karma-phalaṃ tat pradadātīti janma-karma-phala-pradā, tāṃ vācam | pravadanti ity anuṣajyate | kriyā-viśeṣa-bahulāṃ kriyāṇāṃ viśeṣāḥ kriyā-viśeṣāḥ te bahulā yasyāṃ vāci tāṃ svarga-paśu-putrādy-arthāḥ yayā vācā bāhulyena prakāśyante | bhogaiśvarya-gatiṃ prati bhogaś ca aiśvaryaṃ ca bhogaiśvarye, tayor gatiḥ prāptiḥ bhogaiśvarya-gatiḥ, tāṃ prati sādhana-bhūtāḥ ye kriyā-viśeṣāḥ tad-bahulāṃ tāṃ vācaṃ pravadantaḥ mūḍhāḥ saṃsāre parivartante ity abhiprāyaḥ

Sanskrit only: no published translation is held for this verse.

भोगैश्वर्य-प्रसक्तानां भोगः कर्तव्यः चैश्वर्यं च इति भोगैश्वर्ययोर् एव प्रणयवतां तद्-आत्म-भूतानाम् । तया क्रिया-विशेष-बहुलया वाचा अपहृत-चेतसाम् आच्छादित-विवेक-प्रज्ञानां व्यवसायात्मिका सांख्ये योगे वा बुद्धिः समाधौ समाधीयते अस्मिन् पुरुषोपभोगाय सर्वम् इति समाधिः अन्तःकरणं बुद्धिः तस्मिन् समाधौ, न विधीयते न भवति इत्य् अर्थः

bhogaiśvarya-prasaktānāṃ bhogaḥ kartavyaḥ caiśvaryaṃ ca iti bhogaiśvaryayor eva praṇayavatāṃ tad-ātma-bhūtānām | tayā kriyā-viśeṣa-bahulayā vācā apahṛta-cetasām ācchādita-viveka-prajñānāṃ vyavasāyātmikā sāṃkhye yoge vā buddhiḥ samādhau samādhīyate asmin puruṣopabhogāya sarvam iti samādhiḥ antaḥkaraṇaṃ buddhiḥ tasmin samādhau, na vidhīyate na bhavati ity arthaḥ

Sanskrit only: no published translation is held for this verse.

त्रैगुण्य-विषयाः त्रैगुण्यं संसारो विषयः प्रकाशयितव्यः येषां ते वेदाः त्रैगुण्य-विषयाः । त्वं तु निस्त्रैगुण्यो भव अर्जुन, निष्कामो भव इत्य् अर्थः । निर्द्वन्द्वः सुख-दुःख-हेतू स-प्रतिपक्षौ पदार्थौ द्वन्द्व-शब्द-वाच्यौ । ततः निर्गतः निर्द्वन्द्वो भव । नित्य-सत्त्व-स्थः सदा सत्त्व-गुणाश्रितो भव । तथा निर्योग-क्षेमो ऽनुपात्तस्य उपादानं योगः, उपात्तस्य रक्षणं क्षेमः, योग-क्षेम-प्रधानस्य श्रेयसि प्रवृत्तिर् दुष्करा इत्य् अतः निर्योग-क्षेमो भव । आत्मवान् अप्रमत्तश् च भव । एष तव उपदेशः स्व-धर्मम् अनुतिष्ठतः

traiguṇya-viṣayāḥ traiguṇyaṃ saṃsāro viṣayaḥ prakāśayitavyaḥ yeṣāṃ te vedāḥ traiguṇya-viṣayāḥ | tvaṃ tu nistraiguṇyo bhava arjuna, niṣkāmo bhava ity arthaḥ | nirdvandvaḥ sukha-duḥkha-hetū sa-pratipakṣau padārthau dvandva-śabda-vācyau | tataḥ nirgataḥ nirdvandvo bhava | nitya-sattva-sthaḥ sadā sattva-guṇāśrito bhava | tathā niryoga-kṣemo 'nupāttasya upādānaṃ yogaḥ, upāttasya rakṣaṇaṃ kṣemaḥ, yoga-kṣema-pradhānasya śreyasi pravṛttir duṣkarā ity ataḥ niryoga-kṣemo bhava | ātmavān apramattaś ca bhava | eṣa tava upadeśaḥ sva-dharmam anutiṣṭhataḥ

Sanskrit only: no published translation is held for this verse.

यथा लोके कूप-तडागाद्य्-अनेकस्मिन् उदपाने परिच्छिन्नोदके यावान् यावत्-परिमाणः स्नान-पानादिर् अर्थः फलं प्रयोजनं स सर्वो ऽर्थः सर्वतः संप्लुतोदके ऽपि यो ऽर्थः तावान् एव संपद्यते, तत्र अन्तर्भवतीत्य् अर्थः । एवं तावान् तावत्-परिमाण एव संपद्यते सर्वेषु वेदेषु वेदोक्तेषु कर्मसु यो ऽर्थः यत् कर्म-फलं सो ऽर्थः ब्राह्मणस्य संन्यासिनः परमार्थ-तत्त्वं विजानतः यो ऽर्थः यत् विज्ञान-फलं सर्वतः संप्लुतोदक-स्थानीयं तस्मिन् तावान् एव संपद्यते तत्रैवान्तर्भवतीत्य् अर्थः । यथा कृताय विजितायाधरेयाः संयन्त्य् एवम् एनं सर्वं तद् अभिसमेति यत् किंचित् प्रजाः साधु कुर्वन्ति यस् तद् वेद यत् स वेद [छाउ ४।१।२] इति श्रुतेः । सर्वं कर्माखिलम् इति च वक्ष्यति । तस्मात् प्राक् ज्ञान-निष्ठाधिकार-प्राप्तेः कर्मण्य् अधिकृतेन कूप-तडागाद्य्-अर्थ-स्थानीयम् अपि कर्म कर्तव्यम्

yathā loke kūpa-taḍāgādy-anekasmin udapāne paricchinnodake yāvān yāvat-parimāṇaḥ snāna-pānādir arthaḥ phalaṃ prayojanaṃ sa sarvo 'rthaḥ sarvataḥ saṃplutodake 'pi yo 'rthaḥ tāvān eva saṃpadyate, tatra antarbhavatīty arthaḥ | evaṃ tāvān tāvat-parimāṇa eva saṃpadyate sarveṣu vedeṣu vedokteṣu karmasu yo 'rthaḥ yat karma-phalaṃ so 'rthaḥ brāhmaṇasya saṃnyāsinaḥ paramārtha-tattvaṃ vijānataḥ yo 'rthaḥ yat vijñāna-phalaṃ sarvataḥ saṃplutodaka-sthānīyaṃ tasmin tāvān eva saṃpadyate tatraivāntarbhavatīty arthaḥ | yathā kṛtāya vijitāyādhareyāḥ saṃyanty evam enaṃ sarvaṃ tad abhisameti yat kiṃcit prajāḥ sādhu kurvanti yas tad veda yat sa veda [ChāU 4.1.2] iti śruteḥ | sarvaṃ karmākhilam iti ca vakṣyati | tasmāt prāk jñāna-niṣṭhādhikāra-prāpteḥ karmaṇy adhikṛtena kūpa-taḍāgādy-artha-sthānīyam api karma kartavyam

Sanskrit only: no published translation is held for this verse.

कर्मण्य् एवाधिकारो न ज्ञान-निष्ठायां ते तव । तत्र च कर्म कुर्वतः मा फलेषु अधिकारो ऽस्तु, कर्म-फल-तृष्णा मा भूत् कदाचन कस्यांचिद् अप्य् अवस्थायाम् इत्य् अर्थः । यदा कर्म-फले तृष्णा ते स्यात् तदा कर्म-फल-प्राप्तेर् हेतुः स्याः, एवं मा कर्म-फल-हेतुः भूः । यदा हि कर्म-फल-तृष्णा-प्रयुक्तः कर्मणि प्रवर्तते तदा कर्म-फलस्यैव जन्मनो हेतुर् भवेत् । यदि कर्म-फलं नेष्यते, किं कर्मणा दुःख-रूपेण ? इति मा ते तव सङ्गो ऽस्त्व् अकर्मणि अकरणे प्रीतिर् मा भूत्

karmaṇy evādhikāro na jñāna-niṣṭhāyāṃ te tava | tatra ca karma kurvataḥ mā phaleṣu adhikāro 'stu, karma-phala-tṛṣṇā mā bhūt kadācana kasyāṃcid apy avasthāyām ity arthaḥ | yadā karma-phale tṛṣṇā te syāt tadā karma-phala-prāpter hetuḥ syāḥ, evaṃ mā karma-phala-hetuḥ bhūḥ | yadā hi karma-phala-tṛṣṇā-prayuktaḥ karmaṇi pravartate tadā karma-phalasyaiva janmano hetur bhavet | yadi karma-phalaṃ neṣyate, kiṃ karmaṇā duḥkha-rūpeṇa ? iti mā te tava saṅgo 'stv akarmaṇi akaraṇe prītir mā bhūt

Sanskrit only: no published translation is held for this verse.

योग-स्थः सन् कुरु कर्माणि केवलम् ईश्वरार्थम् । तत्रापीश्वरो मे तुष्यतु इति सङ्गं त्यक्त्वा धनंजय । फल-तृष्णा-शून्येन क्रियमाणे कर्मणि सत्त्व-शुद्धिजा ज्ञान-प्राप्ति-लक्षणा सिद्धिः, तद्-विपर्ययजा असिद्धिः, तयोः सिद्ध्य्-असिद्ध्योर् अपि समः तुल्यो भूत्वा कुरु कर्माणि । को ऽसौ योगो यत्र-स्थः कुरु इत्य् उक्तम् ? इदम् एव तत् --- सिद्ध्य्-असिद्ध्योः समत्वं योग उच्यते

yoga-sthaḥ san kuru karmāṇi kevalam īśvarārtham | tatrāpīśvaro me tuṣyatu iti saṅgaṃ tyaktvā dhanaṃjaya | phala-tṛṣṇā-śūnyena kriyamāṇe karmaṇi sattva-śuddhijā jñāna-prāpti-lakṣaṇā siddhiḥ, tad-viparyayajā asiddhiḥ, tayoḥ siddhy-asiddhyor api samaḥ tulyo bhūtvā kuru karmāṇi | ko 'sau yogo yatra-sthaḥ kuru ity uktam ? idam eva tat --- siddhy-asiddhyoḥ samatvaṃ yoga ucyate

Sanskrit only: no published translation is held for this verse.

दूरेण अतिविप्रकर्षेण अत्यन्तम् एव ह्य् अवरम् अधमं निकृष्टं कर्म फलार्थिना क्रियमाणं बुद्धि-योगात् समत्व-बुद्धि-युक्तात् कर्मणः, जन्म-मरणादि-हेतुत्वात् । हे धनंजय, यत एवं ततः योग-विषयायां बुद्धौ तत्-परिपाक-जायां वा सांख्य-बुद्धौ शरणम् आश्रयम् अभय-प्राप्ति-कारणम् अन्विच्छ प्रार्थयस्व, परमार्थ-ज्ञान-शरणो भवेत्य् अर्थः । यतो ऽवरं कर्म कुर्वाणाः कृपणाः दीनाः फल-हेतवः फल-तृष्णा-प्रयुक्ताः सन्तः, यो वा एतद् अक्षरं गार्ग्य् अविदित्वास्माल् लोकात् प्रैति स कृपणः [ब्अउ ३।८।१०] इति श्रुतेः

dūreṇa ativiprakarṣeṇa atyantam eva hy avaram adhamaṃ nikṛṣṭaṃ karma phalārthinā kriyamāṇaṃ buddhi-yogāt samatva-buddhi-yuktāt karmaṇaḥ, janma-maraṇādi-hetutvāt | he dhanaṃjaya, yata evaṃ tataḥ yoga-viṣayāyāṃ buddhau tat-paripāka-jāyāṃ vā sāṃkhya-buddhau śaraṇam āśrayam abhaya-prāpti-kāraṇam anviccha prārthayasva, paramārtha-jñāna-śaraṇo bhavety arthaḥ | yato 'varaṃ karma kurvāṇāḥ kṛpaṇāḥ dīnāḥ phala-hetavaḥ phala-tṛṣṇā-prayuktāḥ santaḥ, yo vā etad akṣaraṃ gārgy aviditvāsmāl lokāt praiti sa kṛpaṇaḥ [BAU 3.8.10] iti śruteḥ

Sanskrit only: no published translation is held for this verse.

बुद्धि-युक्तः कर्म-समत्व-विषयया बुद्ध्या युक्तो बुद्धि-युक्तः सः जहाति परित्यजति इह अस्मिन् लोके उभे सुकृत-दुष्कृते पुण्य-पापे सत्त्व-शुद्धि-ज्ञान-प्राप्ति-द्वारेण यतः, तस्मात् समत्व-बुद्धि-योगाय युज्यस्व घटास्व । योगो हि कर्मसु कौशलम् स्व-धर्माख्येषु कर्मसु वर्तमानस्य या सिद्ध्य्-असिद्ध्योः समत्व-बुद्धिर् ईश्वरार्पित-चेतस्तया तत् कौशलं कुशल-भावः । तद् धि कौशलं यद् बन्धन-स्वभावान्य् अपि कर्माणि समत्व-बुद्ध्या स्वभावान् निवर्तन्ते । तस्मात् समत्व-बुद्धि-युक्तो भव त्वम्

buddhi-yuktaḥ karma-samatva-viṣayayā buddhyā yukto buddhi-yuktaḥ saḥ jahāti parityajati iha asmin loke ubhe sukṛta-duṣkṛte puṇya-pāpe sattva-śuddhi-jñāna-prāpti-dvāreṇa yataḥ, tasmāt samatva-buddhi-yogāya yujyasva ghaṭāsva | yogo hi karmasu kauśalam sva-dharmākhyeṣu karmasu vartamānasya yā siddhy-asiddhyoḥ samatva-buddhir īśvarārpita-cetastayā tat kauśalaṃ kuśala-bhāvaḥ | tad dhi kauśalaṃ yad bandhana-svabhāvāny api karmāṇi samatva-buddhyā svabhāvān nivartante | tasmāt samatva-buddhi-yukto bhava tvam

Sanskrit only: no published translation is held for this verse.

कर्मजं फलं त्यक्त्वा इति व्यवहितेन सम्बन्धः । इष्टानिष्ट-देह-प्राप्तिः कर्मजं फलं कर्मभ्यो जातं बुद्धि-युक्ताः समत्व-बुद्धि-युक्ताः सन्तः हि यस्मात् फलं त्यक्त्वा परित्यज्य मनीषिणः ज्ञानिनो भूत्वा, जन्म-बन्ध-विनिर्मुक्ताः जन्मैव बन्धः जन्म-बन्धः तेन विनिर्मुक्ताः जीवन्त एव जन्म-बन्धात् विनिर्मुक्ताः सन्तः, पदं परमं विष्णोः मोक्षाख्यं गच्छन्ति अनामयं सर्वोपद्रव-रहितम् इत्य् अर्थः । अथवा बुद्धि-योगाद् धनंजय इत्य् आरभ्य परमार्थ-दर्शन-लक्षणैव सर्वतः संप्लुतोदक-स्थानीया कर्म-योगज-सत्त्व-शुद्ध-जनिता बुद्धिर् दर्शिता, साक्षात्-सुकृत-दुष्कृत-प्रहाणादि-हेतुत्व-श्रवणात्

karmajaṃ phalaṃ tyaktvā iti vyavahitena sambandhaḥ | iṣṭāniṣṭa-deha-prāptiḥ karmajaṃ phalaṃ karmabhyo jātaṃ buddhi-yuktāḥ samatva-buddhi-yuktāḥ santaḥ hi yasmāt phalaṃ tyaktvā parityajya manīṣiṇaḥ jñānino bhūtvā, janma-bandha-vinirmuktāḥ janmaiva bandhaḥ janma-bandhaḥ tena vinirmuktāḥ jīvanta eva janma-bandhāt vinirmuktāḥ santaḥ, padaṃ paramaṃ viṣṇoḥ mokṣākhyaṃ gacchanti anāmayaṃ sarvopadrava-rahitam ity arthaḥ | athavā buddhi-yogād dhanaṃjaya ity ārabhya paramārtha-darśana-lakṣaṇaiva sarvataḥ saṃplutodaka-sthānīyā karma-yogaja-sattva-śuddha-janitā buddhir darśitā, sākṣāt-sukṛta-duṣkṛta-prahāṇādi-hetutva-śravaṇāt

Sanskrit only: no published translation is held for this verse.

यदा यस्मिन् काले ते तव मोह-कलिलं मोहात्मकम् अविवेक-रूपं कालुष्यं येन आत्मानात्म-विवेक-बोधं कलुषीकृत्य विषयं प्रत्यन्तः-करणं प्रवर्तते, तत् तव बुद्धिः व्यतितरिष्यति व्यतिक्रमिष्यति, अतिशुद्ध-भावम् आपात्र्यते इत्य् अर्थः । तदा तस्मिन् काले गन्तासि प्राप्स्यसि निर्वेदं वैराग्यं श्रोतव्यस्य श्रुतस्य च, तदा श्रोतव्यं श्रुतं च ते निष्फलं प्रतिभातीत्य् अभिप्रायः

yadā yasmin kāle te tava moha-kalilaṃ mohātmakam aviveka-rūpaṃ kāluṣyaṃ yena ātmānātma-viveka-bodhaṃ kaluṣīkṛtya viṣayaṃ pratyantaḥ-karaṇaṃ pravartate, tat tava buddhiḥ vyatitariṣyati vyatikramiṣyati, atiśuddha-bhāvam āpātryate ity arthaḥ | tadā tasmin kāle gantāsi prāpsyasi nirvedaṃ vairāgyaṃ śrotavyasya śrutasya ca, tadā śrotavyaṃ śrutaṃ ca te niṣphalaṃ pratibhātīty abhiprāyaḥ

Sanskrit only: no published translation is held for this verse.

श्रुति-विप्रतिन्ना अनेक-साध्य-साधन-संबन्ध-प्रकाशन-श्रुतिभिः श्रवणैः प्रवृत्ति-निवृत्ति-लक्षणैः विप्रतिपन्ना नाना-प्रतिन्ना विक्षिप्ता सती ते तव बुद्धिर् यदा यस्मिन् काले स्थास्यति स्थिरीभूता भविष्यति निश्चला विक्षेप-चलन-वर्जिता सती समाधौ, समाधीयते चित्तम् अस्मिन्न् इति समाधिर् आत्मा, तस्मिन् आत्मनि इत्य् एतत् । अचला तत्रापि विकल्प-वर्जिता इत्य् एतत् । बुद्धिर् अन्तःकरणम् । तदा तस्मिन् काले योगम् अवाप्स्यसि विवेक-प्रज्ञां समाधिं प्राप्स्यसि

śruti-vipratinnā aneka-sādhya-sādhana-saṃbandha-prakāśana-śrutibhiḥ śravaṇaiḥ pravṛtti-nivṛtti-lakṣaṇaiḥ vipratipannā nānā-pratinnā vikṣiptā satī te tava buddhir yadā yasmin kāle sthāsyati sthirībhūtā bhaviṣyati niścalā vikṣepa-calana-varjitā satī samādhau, samādhīyate cittam asminn iti samādhir ātmā, tasmin ātmani ity etat | acalā tatrāpi vikalpa-varjitā ity etat | buddhir antaḥkaraṇam | tadā tasmin kāle yogam avāpsyasi viveka-prajñāṃ samādhiṃ prāpsyasi

Sanskrit only: no published translation is held for this verse.

स्थिता प्रतिष्ठिता अहम् अस्मि परं ब्रह्म इति प्रज्ञा यस्य सः स्थित-प्रज्ञस् तस्य स्थित-प्रज्ञस्य का भाषा किं भाषणं वचनं कथम् असौ परैर् भाष्यते समाधि-स्थस्य समाधौ स्थितस्य हे केशव । स्थित-धीः स्थित-प्रज्ञः स्वयं वा किं प्रभाषेत । किम् आसीत व्रजेत किम् आसनं व्रजनं वा तस्य कथम् इत्य् अर्थः । स्थित-प्रज्ञस्य लक्षणम् अनेन लोकेन पृच्छयते

sthitā pratiṣṭhitā aham asmi paraṃ brahma iti prajñā yasya saḥ sthita-prajñas tasya sthita-prajñasya kā bhāṣā kiṃ bhāṣaṇaṃ vacanaṃ katham asau parair bhāṣyate samādhi-sthasya samādhau sthitasya he keśava | sthita-dhīḥ sthita-prajñaḥ svayaṃ vā kiṃ prabhāṣeta | kim āsīta vrajeta kim āsanaṃ vrajanaṃ vā tasya katham ity arthaḥ | sthita-prajñasya lakṣaṇam anena lokena pṛcchayate

Sanskrit only: no published translation is held for this verse.

प्रजहाति प्रकर्षेण जहाति परित्यजति यदा यस्मिन् काले सर्वान् समस्तान् कामान् इच्छा-भेदान् हे पार्थ, मनो-गतान् मनसि प्रविष्टाअन् हृदि प्रविष्टान् । सर्व-काम-परित्यागे तुष्टि-कारणाभावात् शरीर-धारण-निमित्त-शेषे च सति उन्मत्त-प्रमत्तस्येव प्रवृत्तिः प्राप्ता, इत्य् अत उच्यते --- आत्मन्य् एव प्रत्यग्-आत्म-स्वरूपे एव आत्मना स्वेनैव बाह्य-लाभ-निरपेक्षस् तुष्टाः परमार्थ-दर्शनामृत-रस-लाभेन अन्यस्माद् अलं-प्रत्ययवान् स्थित-प्रज्ञः स्थिता प्रतिष्ठिता आत्मानात्म-विवेकजा प्रज्ञा यस्य सः स्थित-प्रज्ञः विद्वान् तदा उच्यते । त्यक्त-पुत्र-वित्त-लोकैषणः संन्यासी आत्माराम आत्म-क्रीडाः स्थित-प्रज्ञ इत्य् अर्थः

prajahāti prakarṣeṇa jahāti parityajati yadā yasmin kāle sarvān samastān kāmān icchā-bhedān he pārtha, mano-gatān manasi praviṣṭāan hṛdi praviṣṭān | sarva-kāma-parityāge tuṣṭi-kāraṇābhāvāt śarīra-dhāraṇa-nimitta-śeṣe ca sati unmatta-pramattasyeva pravṛttiḥ prāptā, ity ata ucyate --- ātmany eva pratyag-ātma-svarūpe eva ātmanā svenaiva bāhya-lābha-nirapekṣas tuṣṭāḥ paramārtha-darśanāmṛta-rasa-lābhena anyasmād alaṃ-pratyayavān sthita-prajñaḥ sthitā pratiṣṭhitā ātmānātma-vivekajā prajñā yasya saḥ sthita-prajñaḥ vidvān tadā ucyate | tyakta-putra-vitta-lokaiṣaṇaḥ saṃnyāsī ātmārāma ātma-krīḍāḥ sthita-prajña ity arthaḥ

Sanskrit only: no published translation is held for this verse.

दुःखेष्व् आध्यात्मिकादिषु प्राप्तेषु न उद्विग्नं न प्रक्षुभितं दुःख-प्राप्तौ मनो यस्य सो ऽयम् अनुद्विग्न-मनाः । तथा सुखेषु प्राप्तेषु विगता स्पृहा तृष्णा यस्य, न अग्निर् इव इन्धनाद्य्-आधाने सुखान्य् अनु विवर्धते स विगत-स्पृहः । वीत-राग-भय-क्रोधः राग च भयं च क्रोध च वीता विगता यस्मात् स वीत-राग-भय-क्रोधः । स्थित-धीः स्थित-प्रज्ञो मुनिः संन्यासी तदा उच्यते

duḥkheṣv ādhyātmikādiṣu prāpteṣu na udvignaṃ na prakṣubhitaṃ duḥkha-prāptau mano yasya so 'yam anudvigna-manāḥ | tathā sukheṣu prāpteṣu vigatā spṛhā tṛṣṇā yasya, na agnir iva indhanādy-ādhāne sukhāny anu vivardhate sa vigata-spṛhaḥ | vīta-rāga-bhaya-krodhaḥ rāga ca bhayaṃ ca krodha ca vītā vigatā yasmāt sa vīta-rāga-bhaya-krodhaḥ | sthita-dhīḥ sthita-prajño muniḥ saṃnyāsī tadā ucyate

Sanskrit only: no published translation is held for this verse.

यः मुनिः सर्वत्र देह-जीवितादिष्व् अपि अनभिस्नेहो ऽभिस्नेह-वर्जितस् तत् तत् प्राप्य शुभाशुभं तत् तत् शुभं अशुभं वा लब्ध्वा नाभिनन्दति न द्वेष्टि शुभं प्राप्य न तुष्यति न हृष्यति, अशुभं च प्राप्य न द्वेष्टि इत्य् अर्थः । तस्य एवं हर्ष-विषाद-वर्जितस्य विवेकजा प्रज्ञा प्रतिष्ठिता भवति

yaḥ muniḥ sarvatra deha-jīvitādiṣv api anabhisneho 'bhisneha-varjitas tat tat prāpya śubhāśubhaṃ tat tat śubhaṃ aśubhaṃ vā labdhvā nābhinandati na dveṣṭi śubhaṃ prāpya na tuṣyati na hṛṣyati, aśubhaṃ ca prāpya na dveṣṭi ity arthaḥ | tasya evaṃ harṣa-viṣāda-varjitasya vivekajā prajñā pratiṣṭhitā bhavati

Sanskrit only: no published translation is held for this verse.

यदा संहरते सम्यग् उपसंहरते चायं ज्ञान-निष्ठायां प्रवृत्तो यतिः कूर्मो ऽङ्गानि इव यथा कूर्मो भयात् स्वान्य् अङ्गानि उपसंहरति सर्वशः सर्वतः, एवं ज्ञान-निष्ठः इन्द्रियाणि इन्द्रियार्थेभ्यः सर्व-विषयेभ्य उपसंहरते । तस्य प्रज्ञा प्रतिष्ठिता इत्य् उक्तार्थं वाक्यम्

yadā saṃharate samyag upasaṃharate cāyaṃ jñāna-niṣṭhāyāṃ pravṛtto yatiḥ kūrmo 'ṅgāni iva yathā kūrmo bhayāt svāny aṅgāni upasaṃharati sarvaśaḥ sarvataḥ, evaṃ jñāna-niṣṭhaḥ indriyāṇi indriyārthebhyaḥ sarva-viṣayebhya upasaṃharate | tasya prajñā pratiṣṭhitā ity uktārthaṃ vākyam

Sanskrit only: no published translation is held for this verse.

यद्यपि विषयाः विषयोपलक्षितानि विषय-शब्द-वाच्यानि इन्द्रियाणि निराहारस्य अनाह्रियमाण-विषयस्य कष्टे तपसि स्थितस्य मूर्खस्यापि विनिवर्तन्ते देहिनो देहवतः रस-वर्जं रसो रागो विषयेषु यस् तं वर्जयित्वा । रस-शब्दो रागे प्रसिद्धः, स्व-रसेन प्रवृत्तः रसिकः रसज्ञः, इत्य् आदि-दर्शनात् । सो ऽपि रसो रञ्जन-रूपः सूक्ष्मो ऽस्य यतेः परं परमार्थ-तत्त्वं ब्रह्म दृष्ट्वा उपलभ्य अहम् एव तत् इति वर्तमानस्य निवर्तते निर्बीजं विषय-विज्ञानं संपद्यते इत्य् अर्थः । नासति सम्यग्-दर्शने रसस्य उच्छेदः । तस्मात् सम्यग्-दर्शनात्मिकायाः प्रज्ञायाः स्थैर्यं कर्तव्यम् इत्य् अभिप्रायः

yadyapi viṣayāḥ viṣayopalakṣitāni viṣaya-śabda-vācyāni indriyāṇi nirāhārasya anāhriyamāṇa-viṣayasya kaṣṭe tapasi sthitasya mūrkhasyāpi vinivartante dehino dehavataḥ rasa-varjaṃ raso rāgo viṣayeṣu yas taṃ varjayitvā | rasa-śabdo rāge prasiddhaḥ, sva-rasena pravṛttaḥ rasikaḥ rasajñaḥ, ity ādi-darśanāt | so 'pi raso rañjana-rūpaḥ sūkṣmo 'sya yateḥ paraṃ paramārtha-tattvaṃ brahma dṛṣṭvā upalabhya aham eva tat iti vartamānasya nivartate nirbījaṃ viṣaya-vijñānaṃ saṃpadyate ity arthaḥ | nāsati samyag-darśane rasasya ucchedaḥ | tasmāt samyag-darśanātmikāyāḥ prajñāyāḥ sthairyaṃ kartavyam ity abhiprāyaḥ

Sanskrit only: no published translation is held for this verse.

यततः प्रयत्नं कुर्वतः हि यस्मात् कौन्तेय पुरुषस्य विपश्चितः मेधाविनो ऽपि इति व्यवहितेन संबन्धः । इन्द्रियाणि प्रमाथीनि प्रमथन-शीलानि विषयाभिमुखं हि पुरुषं विक्षोभयन्ति आकुलीकुर्वन्ति, आकुलीकृत्य च हरन्ति प्रसभं प्रसह्य प्रकाशम् एव पश्यतो विवेक-विज्ञान-युक्तं मनः

yatataḥ prayatnaṃ kurvataḥ hi yasmāt kaunteya puruṣasya vipaścitaḥ medhāvino 'pi iti vyavahitena saṃbandhaḥ | indriyāṇi pramāthīni pramathana-śīlāni viṣayābhimukhaṃ hi puruṣaṃ vikṣobhayanti ākulīkurvanti, ākulīkṛtya ca haranti prasabhaṃ prasahya prakāśam eva paśyato viveka-vijñāna-yuktaṃ manaḥ

Sanskrit only: no published translation is held for this verse.

तानि सर्वाणि संयम्य संयमनं वशीकरणं कृत्वा युक्तः समाहितः सन् आसीत मत्-परो ऽहं वासुदेवः सर्व-प्रत्यग्-आत्मा परो यस्य स मत्-परः, नान्यो ऽहं तस्मात् इत्य् आसीत इत्य् अर्थः । एवम् आसीनस्य यतेर् वशे हि यस्येन्द्रियाणि वर्तन्ते अभ्यास-बलात् तस्य प्रज्ञा प्रतिष्ठिता

tāni sarvāṇi saṃyamya saṃyamanaṃ vaśīkaraṇaṃ kṛtvā yuktaḥ samāhitaḥ san āsīta mat-paro 'haṃ vāsudevaḥ sarva-pratyag-ātmā paro yasya sa mat-paraḥ, nānyo 'haṃ tasmāt ity āsīta ity arthaḥ | evam āsīnasya yater vaśe hi yasyendriyāṇi vartante abhyāsa-balāt tasya prajñā pratiṣṭhitā

Sanskrit only: no published translation is held for this verse.

ध्यायतश् चिन्तयतो विषयात् शब्दादीन् विषय-विशेषान् आलोचयतः पुंसः पुरुषस्य सङ्गः आसक्तिः प्रीतिस् तेषु विषयेषु उपजायते उत्पद्यते । सङ्गात् प्रीतेः संजायते समुत्पद्यते कामस् तृष्णा । कामात् कुतश्चित् प्रतिहतात् क्रोधो ऽभिजायते । क्रोधाद् भवति संमोहो ऽविवेकः कार्याकार्य-विषयः । क्रुद्धो हि संमूढः सन् गुरुम् अप्य् आक्रोशति । संमोहात् स्मृति-विभ्रमः शास्त्राचार्योपदेशाहित-संस्कार-जनितायाः स्मृते स्यात् विभ्रमो भ्रंशः स्मृत्य्-उत्पत्ति-निमित्त-प्राप्तौ अनुत्पत्तिः । ततः स्मृति-भ्रंशात् बुद्धि-नाशः बुद्धि-नाशः । कार्याकार्य-विषय-विवेकायोग्यता अन्तः-करणस्य बुद्धेर् नाश उच्यते । बुद्धेर् नाशात् प्रणश्यति । तावद् एव हि पुरुषः यावद् अन्तःकरणं तदीयं कार्याकार्य-विषय-विवेक-योग्यम् । तद्-अयोग्यत्वे नष्ट एव पुरुषो भवति । अतः तस्यान्तः-करणस्य बुद्धेर् नाशात् प्रणश्यति पुरुषार्थायोग्यो भवतीत्य् अर्थः

dhyāyataś cintayato viṣayāt śabdādīn viṣaya-viśeṣān ālocayataḥ puṃsaḥ puruṣasya saṅgaḥ āsaktiḥ prītis teṣu viṣayeṣu upajāyate utpadyate | saṅgāt prīteḥ saṃjāyate samutpadyate kāmas tṛṣṇā | kāmāt kutaścit pratihatāt krodho 'bhijāyate | krodhād bhavati saṃmoho 'vivekaḥ kāryākārya-viṣayaḥ | kruddho hi saṃmūḍhaḥ san gurum apy ākrośati | saṃmohāt smṛti-vibhramaḥ śāstrācāryopadeśāhita-saṃskāra-janitāyāḥ smṛte syāt vibhramo bhraṃśaḥ smṛty-utpatti-nimitta-prāptau anutpattiḥ | tataḥ smṛti-bhraṃśāt buddhi-nāśaḥ buddhi-nāśaḥ | kāryākārya-viṣaya-vivekāyogyatā antaḥ-karaṇasya buddher nāśa ucyate | buddher nāśāt praṇaśyati | tāvad eva hi puruṣaḥ yāvad antaḥkaraṇaṃ tadīyaṃ kāryākārya-viṣaya-viveka-yogyam | tad-ayogyatve naṣṭa eva puruṣo bhavati | ataḥ tasyāntaḥ-karaṇasya buddher nāśāt praṇaśyati puruṣārthāyogyo bhavatīty arthaḥ

Sanskrit only: no published translation is held for this verse.

राग-द्वेष-वियुक्तै रागश् च द्वेषश् च राग-द्वेषौ, तत्-पुरःसरा हि इन्द्रियाणां प्रवृत्तिः स्वाभाविकी, तत्र यो मुमुक्षुः भवति सः ताभ्यां वियुक्तैः श्रोत्रादिभिर् इन्द्रियैर् विषयान् अवर्जनीयान् चरन् उपलभमानः आत्म-वश्यैर् आत्मनो वश्यानि वशीभूतानि इन्द्रियाणि तैर् आत्म-वश्यैर् विधेयात्मा इच्छातः विधेय आत्मा अन्तः-करणं यस्य सो ऽयं प्रसादम् अधिगच्छति । प्रसादः प्रसन्नता स्वास्थ्यम्

rāga-dveṣa-viyuktai rāgaś ca dveṣaś ca rāga-dveṣau, tat-puraḥsarā hi indriyāṇāṃ pravṛttiḥ svābhāvikī, tatra yo mumukṣuḥ bhavati saḥ tābhyāṃ viyuktaiḥ śrotrādibhir indriyair viṣayān avarjanīyān caran upalabhamānaḥ ātma-vaśyair ātmano vaśyāni vaśībhūtāni indriyāṇi tair ātma-vaśyair vidheyātmā icchātaḥ vidheya ātmā antaḥ-karaṇaṃ yasya so 'yaṃ prasādam adhigacchati | prasādaḥ prasannatā svāsthyam

Sanskrit only: no published translation is held for this verse.

प्रसादे सर्व-दुःखानाम् आध्यात्मिकादीनां हानिर् विनाशो ऽस्य यतेर् उपजायते । किं च - प्रसन्न-चेतसः स्वस्थान्तः-करणस्य हि यस्मात् आशु शीघ्रं बुद्धिः पर्यवतिष्ठते आकाशम् इव परि समन्तात् अवतिष्ठते, आत्म-स्वरूपेणैव निश्चलीभवतीत्य् अर्थः । एवं प्रसन्न-चेतसो ऽवस्थित-बुद्धिः कृत-कृत्यता यतः, तस्मात् राग-द्वेष-वियुक्तैर् इन्द्रियैः शास्त्रा-विरुद्धेषु अवर्जनीयेषु युक्तः समाचरेत् इति वाक्यार्थः

prasāde sarva-duḥkhānām ādhyātmikādīnāṃ hānir vināśo 'sya yater upajāyate | kiṃ ca - prasanna-cetasaḥ svasthāntaḥ-karaṇasya hi yasmāt āśu śīghraṃ buddhiḥ paryavatiṣṭhate ākāśam iva pari samantāt avatiṣṭhate, ātma-svarūpeṇaiva niścalībhavatīty arthaḥ | evaṃ prasanna-cetaso 'vasthita-buddhiḥ kṛta-kṛtyatā yataḥ, tasmāt rāga-dveṣa-viyuktair indriyaiḥ śāstrā-viruddheṣu avarjanīyeṣu yuktaḥ samācaret iti vākyārthaḥ

Sanskrit only: no published translation is held for this verse.

नास्ति न विद्यते न भवतीत्य् अर्थः, बुद्धिः आत्म-स्वरूप-विषया अयुक्तस्य असमाहितान्तः-करणस्य । न च अस्ति अयुक्तस्य भावना आत्म-ज्ञानाभिनिवेशः । तथा -- न चास्त्य् अभावयत आत्म-ज्ञानाभिनिवेशम् अकुर्वतः शान्तिर् उपशमः । अशान्तस्य कुतः सुखम् ? इन्द्रियाणां हि विषय-सेवा-तृष्णातः निवृत्तिर् या तत्-सुखम्, न विषय-विषया तृष्णा । दुःखम् एव हि सा । न तृष्णायां सत्यां सुखस्य गन्ध-मात्रम् अप्य् उपपद्यते इत्य् अर्थः

nāsti na vidyate na bhavatīty arthaḥ, buddhiḥ ātma-svarūpa-viṣayā ayuktasya asamāhitāntaḥ-karaṇasya | na ca asti ayuktasya bhāvanā ātma-jñānābhiniveśaḥ | tathā -- na cāsty abhāvayata ātma-jñānābhiniveśam akurvataḥ śāntir upaśamaḥ | aśāntasya kutaḥ sukham ? indriyāṇāṃ hi viṣaya-sevā-tṛṣṇātaḥ nivṛttir yā tat-sukham, na viṣaya-viṣayā tṛṣṇā | duḥkham eva hi sā | na tṛṣṇāyāṃ satyāṃ sukhasya gandha-mātram apy upapadyate ity arthaḥ

Sanskrit only: no published translation is held for this verse.

इन्द्रियाणां हि यस्मात् चरतां स्व-स्व-विषयेषु प्रवर्तमानानां यत् मनो ऽनुविधीयते अनुप्रवर्तते तत् इन्द्रिय-विषय-विकल्पनेन प्रवृत्तं मनो ऽस्य यतेः हरति प्रज्ञाम् आत्मानात्म-विवेकजां नाशयति । कथम् ? वायुः नावम् इव अम्भसि उदके जिगमिषतां मार्गादुद्धृत्य उन्मार्गे यथा वायुः नावं प्रवर्तयति, एवम् आत्म-विषयां प्रज्ञां हृत्वा मनो विषय-विषयां करोति

indriyāṇāṃ hi yasmāt caratāṃ sva-sva-viṣayeṣu pravartamānānāṃ yat mano 'nuvidhīyate anupravartate tat indriya-viṣaya-vikalpanena pravṛttaṃ mano 'sya yateḥ harati prajñām ātmānātma-vivekajāṃ nāśayati | katham ? vāyuḥ nāvam iva ambhasi udake jigamiṣatāṃ mārgāduddhṛtya unmārge yathā vāyuḥ nāvaṃ pravartayati, evam ātma-viṣayāṃ prajñāṃ hṛtvā mano viṣaya-viṣayāṃ karoti

Sanskrit only: no published translation is held for this verse.

इन्द्रियाणां प्रवृत्तौ दोष उपपादितो यस्मात् तस्मात् यस्य यतेः हे महाबाहो, निगृहीतानि सर्वशः सर्व-प्रकारैः मानसादि-भेदैः इन्द्रियाणि इन्द्रियार्थेभ्यः शब्दादिभ्यस् तस्य प्रज्ञा प्रतिष्ठिता

indriyāṇāṃ pravṛttau doṣa upapādito yasmāt tasmāt yasya yateḥ he mahābāho, nigṛhītāni sarvaśaḥ sarva-prakāraiḥ mānasādi-bhedaiḥ indriyāṇi indriyārthebhyaḥ śabdādibhyas tasya prajñā pratiṣṭhitā

Sanskrit only: no published translation is held for this verse.

या निशा रात्रिः सर्व-पदार्थानाम् अविवेक-करी तमः-स्वभावत्वात् सर्व-भूतानां सर्वेषां भूतानाम् । किं तत् परमार्थ-तत्त्वं स्थित-प्रज्ञस्य विषयः । यथा नक्तं-चराणाम् अहर् एव सद् अन्येषां निशा भवति, तद्वत् नक्तं-चर-स्थानीयानाम् अज्ञानां सर्व-भूतानां निशेव निशा परमार्थ-तत्त्वम्, अगोचरत्वाद् अतद्-बुद्धीनाम् । तस्यां परमार्थ-तत्त्व-लक्षणायाम् अज्ञान-निद्रायाः प्रबुद्धो जागर्ति संयमी संयमवान्, जितेन्द्रियो योगीत्य् अर्थः । यस्यां ग्राह्य-ग्राहक-भेद-लक्षणायाम् अविद्या-निशायां प्रसुप्तान्य् एव भूतानि जाग्रति इति उच्यन्ते, यस्यां निशायां प्रसुप्ता इव स्वप्न-दृशः, सा निशा अविद्या-रूपत्वात् परमार्थ-तत्त्वं पश्यतो मुनेः । अतः कर्माणि अविद्यावस्थायाम् एव चोद्यन्ते, न विद्यावस्थायाम् । विद्यायां हि सत्याम् उदिते सवितरि शार्वरम् इव तमः प्रणाशम् उपगच्छति अविद्या । प्राक् विद्योत्पत्तेः अविद्या प्रमाण-बुद्ध्या गृह्यमाणा क्रिया-कारक-फल-भेद-रूपा सती सर्व-कर्म-हेतुत्वं प्रतिपद्यते । न अप्रमाण-बुद्ध्या गृह्यमाणायाः कर्म-हेतुत्वोपपत्तिः, प्रमाण-भूतेन वेदेन मम चोदितं कर्तव्यं कर्म इति हि कर्मणि कर्ता प्रवर्तते, न अविद्या-मात्रम् इदं सर्वं भेद-जातम् इति ज्ञानं तस्य आत्मज्ञस्य सर्व-कर्म-संन्यासे एव अधिकारो न प्रवृत्तौ । तथा च दर्शयिष्यति --- तद्-बुद्धयस् तद्-आत्मानः इत्य् आदिना ज्ञान-निष्ठायाम् एव तस्य अधिकारम् । तत्रापि प्रवर्तक-प्रमाणाभावे प्रवृत्त्य्-अनुपपत्तिः इति चेत्, न । स्वात्म-विषयत्वाद् आत्म-विज्ञानस्य । न ह्य् आत्मनः स्वात्मनि प्रवर्तक-प्रमाणापेक्षता, आत्मत्वाद् एव । तद्-अन्तत्वाच् च सर्व-प्रमाणानां प्रमाणत्वस्य । न ह्य् आत्म-स्वरूपाधिगमे सति पुनः प्रमाण-प्रमेय-व्यवहारः संभवति । प्रमातृत्वं ह्य् आत्मनः निवर्तयति अन्त्यं प्रमाणम् । निवर्तयद् एव चाप्रमाणीभवति, स्वप्न-काल-प्रमाणम् इव प्रबोधे । लोके च वस्त्व्-अधिगमे प्रवृत्ति-हेतुत्वादर्शनात् प्रमाणस्य । तस्मान् नात्म-विदः कर्मण्य् अधिकार इति सिद्धम्

yā niśā rātriḥ sarva-padārthānām aviveka-karī tamaḥ-svabhāvatvāt sarva-bhūtānāṃ sarveṣāṃ bhūtānām | kiṃ tat paramārtha-tattvaṃ sthita-prajñasya viṣayaḥ | yathā naktaṃ-carāṇām ahar eva sad anyeṣāṃ niśā bhavati, tadvat naktaṃ-cara-sthānīyānām ajñānāṃ sarva-bhūtānāṃ niśeva niśā paramārtha-tattvam, agocaratvād atad-buddhīnām | tasyāṃ paramārtha-tattva-lakṣaṇāyām ajñāna-nidrāyāḥ prabuddho jāgarti saṃyamī saṃyamavān, jitendriyo yogīty arthaḥ | yasyāṃ grāhya-grāhaka-bheda-lakṣaṇāyām avidyā-niśāyāṃ prasuptāny eva bhūtāni jāgrati iti ucyante, yasyāṃ niśāyāṃ prasuptā iva svapna-dṛśaḥ, sā niśā avidyā-rūpatvāt paramārtha-tattvaṃ paśyato muneḥ | ataḥ karmāṇi avidyāvasthāyām eva codyante, na vidyāvasthāyām | vidyāyāṃ hi satyām udite savitari śārvaram iva tamaḥ praṇāśam upagacchati avidyā | prāk vidyotpatteḥ avidyā pramāṇa-buddhyā gṛhyamāṇā kriyā-kāraka-phala-bheda-rūpā satī sarva-karma-hetutvaṃ pratipadyate | na apramāṇa-buddhyā gṛhyamāṇāyāḥ karma-hetutvopapattiḥ, pramāṇa-bhūtena vedena mama coditaṃ kartavyaṃ karma iti hi karmaṇi kartā pravartate, na avidyā-mātram idaṃ sarvaṃ bheda-jātam iti jñānaṃ tasya ātmajñasya sarva-karma-saṃnyāse eva adhikāro na pravṛttau | tathā ca darśayiṣyati --- tad-buddhayas tad-ātmānaḥ ity ādinā jñāna-niṣṭhāyām eva tasya adhikāram | tatrāpi pravartaka-pramāṇābhāve pravṛtty-anupapattiḥ iti cet, na | svātma-viṣayatvād ātma-vijñānasya | na hy ātmanaḥ svātmani pravartaka-pramāṇāpekṣatā, ātmatvād eva | tad-antatvāc ca sarva-pramāṇānāṃ pramāṇatvasya | na hy ātma-svarūpādhigame sati punaḥ pramāṇa-prameya-vyavahāraḥ saṃbhavati | pramātṛtvaṃ hy ātmanaḥ nivartayati antyaṃ pramāṇam | nivartayad eva cāpramāṇībhavati, svapna-kāla-pramāṇam iva prabodhe | loke ca vastv-adhigame pravṛtti-hetutvādarśanāt pramāṇasya | tasmān nātma-vidaḥ karmaṇy adhikāra iti siddham

Sanskrit only: no published translation is held for this verse.

आपूर्यमाणम् अद्भिर् अचल-प्रतिष्ठम् अचलतया प्रतिष्ठा अवस्थितिः यस्य तम् अचल-प्रतिष्ठं समुद्रम् आपः सर्वतो गताः प्रविशन्ति स्वात्मस्थम् अविक्रियम् एव सन्तं यद्वत्, तद्वत् कामाः विषय-संनिधाव् अपि सर्वतः इच्छा-विशेषाः यं पुरुषम् --- समुद्रम् इव आपः -- अविकुर्वन्तः प्रविशन्ति सर्वे आत्मन्य् एव प्रलीयन्ते न स्वात्म-वशं कुर्वन्ति, स शान्तिर् मोक्षम् आप्नोति, नेतरः काम-कामी, काम्यन्त इति कामाः विषयाः तान् कामयितुं शीलं यस्य सः काम-कामी, नैव प्राप्नोतीत्य् अर्थः

āpūryamāṇam adbhir acala-pratiṣṭham acalatayā pratiṣṭhā avasthitiḥ yasya tam acala-pratiṣṭhaṃ samudram āpaḥ sarvato gatāḥ praviśanti svātmastham avikriyam eva santaṃ yadvat, tadvat kāmāḥ viṣaya-saṃnidhāv api sarvataḥ icchā-viśeṣāḥ yaṃ puruṣam --- samudram iva āpaḥ -- avikurvantaḥ praviśanti sarve ātmany eva pralīyante na svātma-vaśaṃ kurvanti, sa śāntir mokṣam āpnoti, netaraḥ kāma-kāmī, kāmyanta iti kāmāḥ viṣayāḥ tān kāmayituṃ śīlaṃ yasya saḥ kāma-kāmī, naiva prāpnotīty arthaḥ

Sanskrit only: no published translation is held for this verse.

विहाय परित्यज्य कामान् यः संन्यासी पुमान् सर्वान् अशेषतः कार्त्स्न्येन चरति, जीवन-मात्र-चेष्टाशेषः पर्यटतीत्य् अर्थः । निःस्पृहः शरीर-जीवन-मात्रे ऽपि निर्गता स्पृहा यस्य सः निःस्पृहः सन् निर्ममः शरीर-जीवन-मात्राक्षिप्त-परिग्रहे ऽपि ममेदम् इत्य् अभिनिवेश-वर्जितः, निरहंकारः विद्यावत्त्वादि-निमित्तात्म-संभावना-रहितः इत्य् एतत् । स एवंभूतः स्थित-प्रज्ञः ब्रह्मवित् शान्तिं सर्व-संसार-दुःखोपरम-लक्षणां निर्वाणाख्याम् अधिगच्छति प्राप्नोति ब्रह्म-भूतो भवति इत्य् अर्थः

vihāya parityajya kāmān yaḥ saṃnyāsī pumān sarvān aśeṣataḥ kārtsnyena carati, jīvana-mātra-ceṣṭāśeṣaḥ paryaṭatīty arthaḥ | niḥspṛhaḥ śarīra-jīvana-mātre 'pi nirgatā spṛhā yasya saḥ niḥspṛhaḥ san nirmamaḥ śarīra-jīvana-mātrākṣipta-parigrahe 'pi mamedam ity abhiniveśa-varjitaḥ, nirahaṃkāraḥ vidyāvattvādi-nimittātma-saṃbhāvanā-rahitaḥ ity etat | sa evaṃbhūtaḥ sthita-prajñaḥ brahmavit śāntiṃ sarva-saṃsāra-duḥkhoparama-lakṣaṇāṃ nirvāṇākhyām adhigacchati prāpnoti brahma-bhūto bhavati ity arthaḥ

Sanskrit only: no published translation is held for this verse.

एषा यथोक्ता ब्राह्मी ब्रह्मणि भवा इयं स्थितिः सर्वं कर्म संन्यस्य ब्रह्म-रूपेणैव अवस्थानम् इत्य् एतत् । हे पार्थ, नैनां स्थितिं प्राप्य लब्ध्वा न विमुह्यति न मोहं प्राप्नोति । स्थित्वास्यां स्थितौ ब्राह्म्यां यथोक्तायां अन्त-काले ऽपि अन्त्ये वयस्य् अपि ब्रह्म-निर्वाणं ब्रह्म-निर्वृतिं मोक्षम् ऋच्छति गच्छति । किम् उ वक्तव्यं ब्रह्मचर्याद् एव संन्यस्य यावज् जीवं यो ब्रह्मण्य् एव अवतिष्ठते स ब्रह्म-निर्वाणम् ऋच्छति इति

eṣā yathoktā brāhmī brahmaṇi bhavā iyaṃ sthitiḥ sarvaṃ karma saṃnyasya brahma-rūpeṇaiva avasthānam ity etat | he pārtha, naināṃ sthitiṃ prāpya labdhvā na vimuhyati na mohaṃ prāpnoti | sthitvāsyāṃ sthitau brāhmyāṃ yathoktāyāṃ anta-kāle 'pi antye vayasy api brahma-nirvāṇaṃ brahma-nirvṛtiṃ mokṣam ṛcchati gacchati | kim u vaktavyaṃ brahmacaryād eva saṃnyasya yāvaj jīvaṃ yo brahmaṇy eva avatiṣṭhate sa brahma-nirvāṇam ṛcchati iti

Sanskrit only: no published translation is held for this verse.