यज्ञो वै विष्णुः [तैत्त्स् १।७।४] इति श्रुतेर् यज्ञ ईश्वरः । तद्-अर्थं यत् क्रियते तत् यज्ञार्थं कर्म । तस्मात् कर्मणो ऽन्यत्रान्येन कर्मणा लोको ऽयम् अधिकृतः कर्म-कृत् कर्म-बन्धनः [तैत्त्भा। ३।१।६] कर्म बन्धनं यस्य सो ऽयं कर्म-बन्धनो लोकः, न तु यज्ञार्थात् । अतस् तद्-अर्थं यज्ञार्थं कर्म कौन्तेय, मुक्त-सङ्गः कर्म-फल-सङ्ग-वर्जितः सन् समाचार निर्वर्तय
yajño vai viṣṇuḥ [TaittS 1.7.4] iti śruter yajña īśvaraḥ | tad-arthaṃ yat kriyate tat yajñārthaṃ karma | tasmāt karmaṇo 'nyatrānyena karmaṇā loko 'yam adhikṛtaḥ karma-kṛt karma-bandhanaḥ [Taitt.Bhā. 3.1.6] karma bandhanaṃ yasya so 'yaṃ karma-bandhano lokaḥ, na tu yajñārthāt | atas tad-arthaṃ yajñārthaṃ karma kaunteya, mukta-saṅgaḥ karma-phala-saṅga-varjitaḥ san samācāra nirvartaya
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.