न मां तानि कर्माणि लिम्पन्ति देहाद्य्-आरम्भकत्वेनाहङ्काराभावात् । न च तेषां कर्मणां फले मे मम स्पृहा तृष्णा । येषां तु संसारिणाम् अहं कर्तेत्य् आभिमानः कर्मसु स्पृहा तत्-फलेषु च तान् कर्माणि लिम्पन्तीति युक्तम् । तद्-अभावान् न मां कर्माणि लिम्पन्तीति । एवं यो ऽन्ये ऽपि माम् आत्मत्वेनाभिजानाति नाहं कर्ता न मे कर्म-फले स्पृहेति न कर्मभिर् न बध्यते । तस्यापि न देहाद्य्-आरम्भकानि कर्माणि भवन्तीत्य् अर्थः
na māṃ tāni karmāṇi limpanti dehādy-ārambhakatvenāhaṅkārābhāvāt | na ca teṣāṃ karmaṇāṃ phale me mama spṛhā tṛṣṇā | yeṣāṃ tu saṃsāriṇām ahaṃ kartety ābhimānaḥ karmasu spṛhā tat-phaleṣu ca tān karmāṇi limpantīti yuktam | tad-abhāvān na māṃ karmāṇi limpantīti | evaṃ yo 'nye 'pi mām ātmatvenābhijānāti nāhaṃ kartā na me karma-phale spṛheti na karmabhir na badhyate | tasyāpi na dehādy-ārambhakāni karmāṇi bhavantīty arthaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.