एवं ज्ञात्वा कृतम् कर्म पूर्वैर् अप्य् अतिक्रान्तैर् मुमुक्षुभिः । कुरु तेन कर्मैव त्वम् । न तुष्णीम् आसनं नापि संन्यासः कर्तव्यः । तस्मात् त्वत्-पूर्वैर् अप्य् अनुष्ठितत्वाद् यद्य् अनात्मज्ञस् त्वं तद् आत्म-शुद्ध्य्-अर्थम् । तत्त्वविच् चेत् लोक-संग्रहार्थम् । पूर्वे जनकादिभिः पूर्वतरं कृतम् । नाधुनातन-कृतं निवर्तितम्
evaṃ jñātvā kṛtam karma pūrvair apy atikrāntair mumukṣubhiḥ | kuru tena karmaiva tvam | na tuṣṇīm āsanaṃ nāpi saṃnyāsaḥ kartavyaḥ | tasmāt tvat-pūrvair apy anuṣṭhitatvād yady anātmajñas tvaṃ tad ātma-śuddhy-artham | tattvavic cet loka-saṃgrahārtham | pūrve janakādibhiḥ pūrvataraṃ kṛtam | nādhunātana-kṛtaṃ nivartitam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.