बलं सामर्थ्यम् ओजो बलवताम् अहम् । तच् च बलं काम-राग-विवर्जितम् । कामश् च रागश् च काम-रागौ । कामस् तृष्णा-संनिकृष्टेषु विषयेषु, रागो रञ्जना प्राप्तेषु विषयेषु - ताभ्यां काम-रागाभ्यां विवर्जितं देहादि-धारण-मात्रार्थं बलं सत्त्वम् अहम् अस्मि । न तु यत् संसारिणां तृष्णा-राग-कारणम् । किं च - धर्माविरुद्धः । धर्मेण शास्त्रार्थेनाविरुद्धो यः प्राणिषु भूतेषु कामः, यथा देह-धारण-मात्राद्य्-अर्थो ऽशन-पानादि-विषयः, स कामो ऽस्मि । हे भरतर्षभ
balaṃ sāmarthyam ojo balavatām aham | tac ca balaṃ kāma-rāga-vivarjitam | kāmaś ca rāgaś ca kāma-rāgau | kāmas tṛṣṇā-saṃnikṛṣṭeṣu viṣayeṣu, rāgo rañjanā prāpteṣu viṣayeṣu - tābhyāṃ kāma-rāgābhyāṃ vivarjitaṃ dehādi-dhāraṇa-mātrārthaṃ balaṃ sattvam aham asmi | na tu yat saṃsāriṇāṃ tṛṣṇā-rāga-kāraṇam | kiṃ ca - dharmāviruddhaḥ | dharmeṇa śāstrārthenāviruddho yaḥ prāṇiṣu bhūteṣu kāmaḥ, yathā deha-dhāraṇa-mātrādy-artho 'śana-pānādi-viṣayaḥ, sa kāmo 'smi | he bharatarṣabha
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.